सामग्री पर जाएँ

श्रीसिद्धान्तसुधानिधिः/अध्यायः १-पादः १/आह्निकम् २

विकिस्रोतः तः
← आह्निकम् १ श्रीसिद्धान्तसुधानिधिः
आह्निकम् २
[[लेखकः :|]]
आह्निकम् ३ →

अइउण्‌ 1
आदिरन्त्येनेतिवक्ष्यमाणसूत्रसङ्केतवशादणादिसंज्ञासंग्राह्यवर्णानुपूर्वीपराणि चतुर्दश सूत्राणि । स्पष्टप्रतिपत्त्यर्थं गुणादीनामभावः ।
यत्तु अ इत्यत्र विभक्तेरुत्वयत्वयलोपेषु लोपस्यासिद्धत्वात् इकारे इकोऽसवर्णइति ऋकारे ऋत्यक इति प्रकृतिभावाञ्च समाधानाद् एदैतोरयायौ दुर्वाराविति । तन्न । प्रकृतिभावे पदान्ताधिकारात् । छान्दसत्वाद्विभक्तिलोपकल्पनमपेक्ष्यासन्धिकल्पनस्यैव युक्तत्वात् ।
कैयटस्तु वर्णोपदेशकालेऽजादिसंज्ञानामनिष्पादान्न सन्धिरिति । तस्यायमाशयः । अनिष्पादात् स्वनिमित्तकविधेरत्र प्रवृत्त्यौपयिकरूपवैकल्यात्, वर्णोपदेशव्यावृत्तं यदुद्देश्यतावच्छेदकं तदवच्छिन्नत्वादिति यावत् । साधुशब्दानामेव व्युत्पाद्यत्वात् । एषां च लौकिकवैदिकशब्दानन्तर्भावात् । संज्ञाशूब्दत्वे "अइउण्‌" इत्यादीनां मानाभावात् । एतेन पाठपौर्वापर्यं न शास्त्रप्रवृत्तौ तन्त्रम् । उत्तरसूत्रप्रयुक्तकार्यनिर्द्देशस्य पूर्वसूत्रेषु बहुलमुपलभ्यमानस्यानुपपत्तेः । "तुल्यास्यप्रयत्नम्" इत्यादौ तद्विधेयसवर्णादिसंज्ञोपजीवकसवर्णदीर्घाद्यप्रवृत्त्यापत्तेः । विधिसूत्रे उद्देश्यतावच्छेदकतया गृह्यमाणो यो धर्मस्तदवच्छिन्ने कार्यप्रवृत्तेरावश्यकत्वात् । अत एव नेह नानाऽस्ति किंचनेत्यादीनां निषेध्यतावच्छेदकीभूतदृश्यत्वादिधर्मावच्छिन्नतया स्वस्यापि मिथ्यात्वबोधकत्वं सङ्गच्छते । न चैवं ग्रहणकशास्त्रस्यापि स्वस्मिन् प्रवृत्त्यापत्तौ दीर्घाणामनण्त्वेन सवर्णग्राहकत्वं नास्तीतिसिद्धान्तभङ्गापत्तिः इति वाच्यम् । तत्र तच्छास्त्रात् पूर्वमकारादीनां दीर्घानुपस्थापकत्वात् दीर्घाणआमुद्देश्यत्वग्राहाभावात् इति दूषणमलग्नकं वेदितव्यम् । तुल्यास्यादिपदानां साधुत्वेन तत्र शास्त्रप्रवृत्तेः । तद्वाक्यार्थबोधे तुल्यास्यादिपदार्थोपस्थितेरेव तन्त्रतया सवर्णदीर्घत्वप्रकारकबोधस्यानपेक्षितत्वाच्च ।
यत्तु संहिताविरहान्न तत्कार्यम्---
संहितैकपदे नित्या नित्या धातूपसर्गयोः ।
नित्या समासे वाक्ये तु सा विवक्षामपेक्षते ।।
इति वाक्ये संहिताया अनित्यत्वादिति । तच्चिन्त्यम् । अकारेकारादीनां परस्परार्थान्वयप्रतियोग्यर्थानुपस्थापकत्वेन वाक्यत्वाभावात् । न चैतत्सूत्रोक्तानामकारादीनाम् "अणुदित्सवर्णस्य च" इत्यादावन्वयप्रतियोगित्वात्तदिति वाच्यम् । तस्य वाक्यत्वेऽप्यस्य तदनुपपत्तेः । अन्यथाऽतिप्रसङ्‌गात् ।
केचित्तु चादिषु पाठान्निपातत्वे "निपात एकाज्‌" इति प्रगृह्यसंज्ञया प्रकृतिभावः । नचैवं दाक्षिरित्यादौ "अतइञ्‌" इत्यादीनां प्रवृत्तिर्न स्यात्, तपरत्वसामर्थ्यादाक्षरसमाम्नायिकस्यैवाकारस्य तत्र ग्रहणाद् अन्यस्य सर्वणग्राहकत्वाप्रसक्त्या तन्निवृत्त्यर्थं तपरत्वानुपयोगादिति वाच्यम् । सर्वव्यक्तीनां निर्देशानर्हतया यत्किंचिद्‌व्यक्तिनिर्द्देशध्रौव्ये संहिताकार्यविरहेण स्फुटप्रतिपत्त्यर्थं निपातव्यक्तीनामेव निर्द्देशेऽपि सादृश्येन सर्वाकारव्यक्तीनामुपस्थित्या तत्सिद्धेरित्याहुः । तदप्यसत् । स्ववृत्तिवर्णत्वव्याप्यधर्मेण सादृश्यविवक्षायां दीर्घाणामपि ग्रहापत्तेः । न च निपातान्यव्यक्तिनिर्द्देशेऽप्ययं दोषः । अविवक्षितवान्तरधर्मकव्यक्तिमात्रस्य निर्देशोपगमात् । न च निपातत्वतद्भिन्नत्वोभयाभाववदवर्णव्यक्तिमात्रमलीकमिति वाच्यम् । तद्धर्मयोरविवक्षामात्रस्योक्तत्वात् । निपातत्वस्य च प्रगृह्यसंज्ञार्थमवश्यं विवक्षणीयत्वात् ।
कारप्रत्ययस्तु न भवति । "रोगाख्यायां ण्वुल्बहुलम्" इत्यत्र तदुपसंख्यानात् तद्विधौ बहुलग्रहणान्वयात् ।
स्यादेतत् । अकारः संवृत इति शिक्षावाक्यात् संवृतप्रयत्नस्य ह्वस्वाकारस्य विवृतप्रयत्नैर्दीर्घप्लुताकारैः सह सावर्ण्याभावात् कथम् "अस्य च्चौ" इत्यादौ दीर्घग्रहः । "अणुदित्सवर्णस्य चाप्रत्यय" इति सवर्णानामेव ग्रहणोक्तेः । भिन्नप्रयत्नानां च सावर्ण्याभावात् । एवमिहाग्निदत्तेत्यत्र "गुरोरनृत" इति प्लुताकारेण सह सवर्णदीर्घो न स्यात् इतिचेत् सत्यम् । अत एवात्राकारो विवृत एवोपदिष्टः । यद्वार्त्तिकम्---
अकारस्य विवृतोपदेश आकारग्रहणार्थ इति ।
अत्र च शास्त्रान्ते " अ अ" इति प्रत्यापत्तिसूत्रं ज्ञापकम् । तत्र हि अ इति विवृतत्वविशिष्टम् अ इति च संवृतत्वविशिष्टम् अकारमुच्चार्य विवृतोद्देशेन संवृताकारो विधीयते । सविशेषणे हीति न्यायेन संवृतत्वस्यैव विधेयत्वपर्यवसानम् । अकारस्य च संवृतत्वे शास्त्रीयप्रक्रियादशायामाश्रीयमाणे संवृतत्वविधिवैयर्थ्यापत्तेः । ततः पूर्वमकारो विवृतः प्रतिज्ञायतइति प्रक्रियादशायां प्रयोगदशायां वा न दोषः । शास्त्रान्ते विहितस्य संवृतत्वस्य संपूर्णशास्त्रं प्रत्यसिद्धत्वात् । आकारस्य विवृतत्वं च पाणिनीयशिक्षायामुक्तम्---
स्वराणामूष्मणां चैव विवृतं करणं स्मृतम् ।
तेभ्योऽपि विवृतावेङौ ताभ्यामैचौ तथैव च ।। इति ।
स्वरपदमेज्भिन्नपरम् ह्वस्वाकारान्यपरं च । संवृतोऽकार इति शिक्षान्तरोक्तेः । एवं च ह्वस्वान्याकारस्य इउऋलृवर्णानां च विवृतत्वम् । ततोऽप्येकारे ओकारे च तदुत्कर्षः । ततोऽप्यैकारे औकारे चेत्यर्थः ।
के चित्तु उक्तवार्त्तिकस्थं विवृतपदं विवृततरपरम् । दीर्घाद्यकारस्य विवृततरत्वेन तत्सावर्ण्यस्य विवृतत्वमात्रेणासिद्धेः । तथा च शिक्षान्तरे---
विवृतकरणाः स्वरास्तेभ्य एओ विवृततरौ ताभ्यामैऔ ताभ्यामप्याकार इति ।
न च व्याप्यधर्मावच्छिन्नस्य व्यापकधर्मावच्छिन्नत्वनियमात् विवृततरस्यापि विवृतत्वानपायात् तत एव सावर्ण्यनिर्वाहे वार्त्तिकस्थं विवृतपदं यथाश्रुतमेवास्त्विति वाच्यम् । व्याप्यधर्मपुरस्कारेणैव सावर्ण्यस्य वाच्यत्वात् । अत एवोष्मणामीषद्विवृतत्वमाश्रित्य विवृतप्रयत्नैरिकारादिभिः सावर्ण्यं नास्तीति "नाज्ज्ञलौ" इति सूत्रं भाष्यकृद्भिः प्रत्यादेक्ष्यते । अथ वा सामार्थ्याद्विवृततरस्यापि विवृतत्वमात्रेण सावर्ण्यम् । अन्यथा विवृतत्वप्रतिज्ञानवैयर्थ्यादित्याहुः ।
अन्ये तु विवृततरेणापि विवृतत्वमात्रेण सावर्ण्यं, सूत्रकृता "नाज्झलौ" इत्यस्यारम्भात् । अतएव---
"चत्वार आभ्यन्तराः प्रयत्नाः सवर्णसंज्ञायामाश्रीयन्ते" इति वृत्तिः ।
नन्वेवमेकारौकाराभ्यां सह ऐदौतोः सावर्ण्यं स्यात् । तयोर्विवृततरत्वेऽपि विवृतत्वानपायात् । न चेष्टापत्तिः । नावं नाव इत्यादौ "औतोऽम्शसोः" इत्यात्वस्य करवावहै अत्रेत्यत्रेदूदेदिति प्रगृह्यत्वस्य कस्मै अदात् विष्णौ अस्तीत्यादौ पूर्वरूपस्य चापत्तेः । मैवम् । अत्र पृथङ्‌निर्द्देशसामर्थ्यादनुबन्धद्वयसामर्थ्याद्वा तत्र सावर्ण्याप्रवृत्तेः । अन्यथा ह्येकानुबन्धेनैव व्यवहरेत्, ऐदौतौ वा न निर्दिशेत् । ग्रहणकशास्त्रेणैव सिद्धेरित्याहुः । अत्रेदं चिन्त्यम् । "एचोऽयवायावः" इत्यत्रादेशनियमार्थमैकारौकारयोः पृथगुपदेशः । अन्यथाऽऽदेशसङ्कारापत्तेः ।
अथान्तरतमपरिभाषयैव तत्र निर्वाहः । एचां सन्ध्यक्षरतया संवृताकारतालव्यस्य एकारस्य तादृशोऽय्‌, संवृताकारौष्ठ्यस्य ओकारस्य तादृशोऽव्‌, ऐचोश्चोत्तरभूयस्त्वस्य वक्ष्यमाणतया अकारस्यार्द्धमात्रत्वादिकारोकारयोश्चाध्यर्द्धमात्रत्वाद्विवृताकारतालव्यस्य ऐकारस्य तादृश आय्, विवृताकारौष्ठ्यस्य औकारस्य तादृश आव्, इति व्यवस्थासम्भवात् । मैवम् । प्रक्रियादशायामकारस्य विवृतत्वप्रतिज्ञानात् ।
यत्तु पृथगनुबन्धादिति । तन्न । गुणवृद्धिसंज्ञयोरुद्देश्यसंज्ञिनियमार्थमनुबन्धद्वयस्याप्यावश्यकत्वात् । न च तत्र स्वरूपेणैव संज्ञिनिर्देशान्निर्वाहः । तथा सति तत्राष्टमात्रागौरवात् । यथान्यासे तु सार्द्धमात्राद्वयं प्रत्येकं गुणवृद्धिसंज्ञयोः, अर्द्धमात्रा च वर्णसमाम्नाये इति सार्द्धाः पञ्चैव मात्रा इति लाघवात् । न च गुणसंज्ञायामेव स्वरूपेण संज्ञिनिर्देशः, वृद्धिसंज्ञायां त्वनुबन्धेनैवेति वाच्यम् । तथाऽपि गुणसंज्ञायां मात्राचतुष्टयम्, वृद्धिसंज्ञायां सार्धमात्राद्वयमिति मिलित्वा सार्द्धषण्मात्रासंपत्त्या एकमात्रादिक्यात् । ननु "एङः पदान्ताद्‌" इत्यादौ एच इत्यपहाय पङ्ग्रहणसामर्थ्यादेव ऐचोर्नातिप्रसङ्गः । सावर्ण्याप्रवृत्तिरित्यस्य तत्प्रयुक्तकार्याप्रवृत्तिरित्यर्थ इति चेन्न । तथा ऽपि "औतोऽमूशसोः" इत्यादौ अतिप्रसङ्गात् । न हि तपरत्वादिस्थलेऽणः सवर्णग्राहकत्वं नास्तीति स्थलान्तरेऽपि तथैव स्यादिति दिक् ।
अत्र चैकशेषेण षण्णां ह्रस्वव्यक्तीनामुपादानम् । सौत्रत्वाद्विभक्तिलोपः । एवमुत्तरसूत्रेऽपि । अत एव दीर्घाणामनण्त्वमित्यपि संगच्छते । एवम् "अस्यच्वौ" इत्यादावनुवादे "त्यदादीनामः" इत्यादिविधौ च ह्वस्वनिर्देशे सर्वत्र ह्रस्वानामण्त्वमस्त्येव । ततश्चानुवादे दीर्घादिग्रहो विधौ तु नेति इष्टसिद्ध्यर्थं ग्रहणकशास्त्रारम्भः । तेन विना सद्व्यवस्थानुपपत्तेः । एवं च विरुद्धधर्मसमसंख्याका नित्या एकाकारादिव्यक्तयः इति मते नैवात्र सूत्रप्रवृत्तिः । षण्णामेव ह्वस्वाकारव्यक्तीनां जगति सत्त्वेन तासां विवृतत्वप्रतिज्ञाने धातुप्रातिपदिकप्रत्ययनिपातस्थानामकाराणां प्रत्याहारनिर्दिष्टषडकारव्यक्तिभेदकूटानाश्रयतया सर्वेषामनायासेन तत्तदच्‌कार्यसिद्धेः । नचैवं सर्वे वर्णाः सकृदुपदिष्टा इति हयवरट्‌सूत्रस्थभाष्यविरोधापत्तिः, अकारषट्‌कनिर्देशस्य त्वयाऽभ्युपगमादिति वाच्यम् । एव प्रयत्नोच्चार्यत्वस्यैव तदर्थत्वात् । उच्चार्यवर्णानाह उपदिष्टा इमे वर्णा इति भाष्यदर्शनात् ।
नन्वष्टादशैव भिन्ना नित्याश्चाकारा इति न कस्यचित् तान्त्रिकस्य मतम् इति चेत् सत्यम् । युक्तिसहत्वेनास्याप्यभ्युपगम्यत्वात् । तथा हि---
भट्टमते तावदेकैका एव अकारादिव्यक्तयो नित्याः । स एवायमकार इति प्रत्यभिज्ञानात् । नचेदं तज्जातीयत्वावगाहि वक्तुं शक्यम् । बाधकबलादेव ज्वालादिप्रत्यभिज्ञानस्य तज्जातीयविषयकत्वोक्तेः । प्रकृते च तदभावात् । न च गकार उत्पन्नो विनष्ट इत्यादिरुत्पत्तिविनाशप्रत्ययः तथा । व्यञ्जकध्वनिगतस्योत्पत्त्यादेस्तत्रारोपात् । न च स्वाधिकरणक्षणध्वंसानधिकरणसमयसम्बन्धरूपाया उत्पत्तेः स्वत्वघटितत्वेन धर्मिभेदभिन्नत्वात् कथम् अन्योत्पत्तेरन्यत्रारोप इति वाच्यम् । उत्पत्तिघटकपदार्थानां प्रत्येकमुपनये अकारादेरधिकरणे तस्य क्षणे तस्य ध्वंसे तस्याधिकरणे इत्यादिरीत्या सखण्डोत्पत्तिभ्रमसंभवात् । अत एव इन्धनसमानाधिकरणात्यन्ताभावप्रतियोगितानवच्छेदकवह्नित्वावच्छिन्नवह्निसमानाधिकरणरूपाया अखण्डव्याप्तेर्वन्हित्वे इन्धनसमानाधिकरणात्यन्ताभावप्रतियोगितानवच्छेदकत्वाभावादप्रसिद्धावपि तद्धटकपदार्थानां परस्परोपश्लेषविषयत्वेनैव व्याप्तिभ्रमः । न च प्रत्यभिज्ञाया एव भ्रमत्वम् प्रत्ययानुरोधादिति वाच्यम् । तथाऽपि विनिगमकाभावात् । अनन्तशब्दतद्ध्वंसप्रागभावादिकल्पनागौरवस्य नित्यत्वपक्षपातित्वाच्च । न चैकस्मिन् धर्मिणि एककालावच्छेदेन विरुद्धधर्मानुपपत्त्या तारत्वमन्दत्वादिभेदात् तद्भेद इति वाच्यम् । तारत्वादीनां वायुधर्मत्वात् । मुखमालिन्यादेर्दर्पणधर्मत्ववत् । अन्यथा वर्णगतत्वाभिमतगत्वादिजातिभिर्व्याप्यव्यापकभावानुपपत्तेः । न हि तारत्वव्याप्यं गत्वम् । मन्दगकारेऽपि तत्सत्त्वात् । नापि गत्वव्यायं तारत्वम् । ककारादावपि तत्सत्त्वात् । तारगकारे च तयोः सांकर्यात् ।
नचैवं तारत्वादेः श्रोत्रग्राह्यत्वं न स्यात् । तस्य वायुग्राहकत्वाभावेनैव वायुधर्मग्राहकत्वाभावादिति वाच्यम् । केषांचिद् वायुधर्माणां तेन ग्रहेऽपि बाधकाभावात् । पृथिवीजलाकाशानां घ्राणरसनश्रोत्राग्राह्यत्वेऽपि गन्धरसशब्दानां तद्ग्राह्यत्वोपगमात् । तारमन्दवर्णजनकवायूनामुत्कर्षापकर्षोद्‌भूतस्पर्शानां नैयायिकाभ्युपगतत्वेन स्पर्शपुरस्कारेण कर्णशष्कुल्यवच्छिन्नत्वगिन्द्रियगृहीतानां तारत्वादीनां श्रोत्रेण ग्रहसंभवाद्वा । अत एव घज्ञानानन्तरग्रहविषयत्वादिरूपानुपूर्व्याः मानसोपनीतायाः टकारादौ श्रोत्रेणैव ग्रह इति सिद्धान्तः । अत एव तशकृत्वो गकारमुच्चारयतीत्यावृत्तिविषयक एव प्रत्यय; न तु व्यक्तिभेदावगाही दश गकारानुत्पादयतीति । तदुक्तम्---
तेन यत् प्रार्थ्यते जातेस्तद्वर्णादेव लप्स्यते ।
व्यक्तिलभ्यं तु नादेभ्य इति गत्वादिधीर्वृथा ।।
इति । प्रत्यभिज्ञानस्य वर्णैक्याद्विरुद्धधर्मवत्तायाश्च ध्वनिगतत्वादुपपत्तिरित्यर्थः । अत्र चैवं सूत्रोपपत्तिः । धात्वादिस्थानामकाराणामैक्येन सर्वेषामप्यण्त्वात् "अस्यच्वौ" इत्यादिस्थे अकारे ग्रहणकशास्त्रप्रवृत्तिः । शाम्यतीत्यादौ "शमामष्टानाम्" इति दीर्घः । दृषदित्यत्र फिट्‌सूत्रेण प्रातिपदिकान्त्यस्याकारस्य उदात्तत्वम् । अणादिस्थस्य प्रत्ययस्वरेणाद्युदात्तत्वम् । अवनमतीत्यादौ "उपसर्गाश्चाभिवर्जम्" इत्याद्युदात्तत्वम् । अन्यथा अकाराणां भिन्नत्वे वर्णोपदेशस्थाकारस्य विवृतत्वप्रतिज्ञानेऽप्यन्यत्र गतानां विवृतत्वाभावादुक्तानामच्कार्याणामप्रवृत्तिप्रसङ्गात् । ह्वस्वत्वादीनाम् उदात्तत्वादीनां चाजेकधर्मत्वात् । वर्णसमाम्नायान्तर्गतस्यैवाच्त्वात् । ततश्च वर्णसमाम्नायोपदिष्टावर्णमात्रोद्देशेन कस्यचित् कार्यस्याविधानादुक्तवचनसामर्थ्यमात्रेण तत्कार्यप्रवृत्तिरित्यादि कल्प्यं स्यात् ।
न चैवं कप्रत्ययेऽप्यण्प्रत्ययकार्याणाम् अण्प्रत्यये च कप्रत्ययकार्याणां प्रवृत्तिः स्यात्, अनुबन्धसङ्करापत्तेरिति वाच्यम् । नियतानुबन्धकरणसामर्थ्येन तत्तद्देशपुरस्कारेणैव तत्तदनुबन्धकार्यनियमोपपत्तेः लोकेऽपि इह मुण्डो भव, इह जटिलो भव, इह नग्नो भव, इत्यादिरीत्याऽस्यानेकधर्मोपदेशेऽपि यद्धर्मावच्छिन्नो यत्रोपदिश्यते तत्रैव तद्धर्मव्यवस्थादर्शनात् । एवं " कर्मण्यण्‌" इत्यादावेवणित्त्वम् । "चरेष्टः" इतियादावेव टित्त्वम् । "गापोष्टक्" इत्यत्र कित्त्वटित्त्वे । अत एव "प्राग्दीव्यतोऽण्‌" ठसिवादिभ्योऽण्‌" इत्यादौ पुनर्णित्करणसार्थक्यम् ।
ननु तथाऽपि घटेन तरतीति घटिक इत्यत्र "नौद्व्यचष्ठन्‌" इति ठन्प्रत्ययः, धनस्य निमित्तं संयोग उत्पातो वा धन्य इत्यत्र "तस्य निमित्तं संयोगोत्पातौ" इत्याधिकृत्य विहितो "गोद्व्यचोऽसंख्यापरिमाणाश्वादेर्यत्" इति यत्प्रत्ययश्च न स्यात्, अकारस्यैकत्वेन द्व्यच्‌त्वाभावात्, सूत्रं तु बाहुभ्यां तरति बाहुक इत्यादौ यत्र विजातीयमज्द्वयं तत्र सावकाशम् इति चेन्न । आवृत्त्या घटादिपदस्यापि द्व्यच्त्वात् । न च गौणमुख्ययोरितिन्यायावतारः । "गोद्व्यच" इत्यत्र असंख्यापरिमाणाश्वादेर्यदित्यश्वादिपर्युदासेन तदभावस्यापि ज्ञापितत्वात् । अन्यथा अश्वशब्दे मुख्यद्व्यच्त्वाभावेन यत्प्रत्ययाप्राप्तौ पर्युदासवैयर्थ्यात् । अत एव किरिणा गिरिणेत्यादौ "सावेकाच" इति विभक्तेरुदातत्वं नास्ति । गौणेनापि द्व्यज्‌व्यपदेशेन एकाज्‌व्यपदेशस्य बाधितत्वात् । एतद्रीत्यैव सृष्टिसमयोत्पन्ना तत्प्रलयपर्यन्तस्थायिनी एकैवाकारादिव्यक्तिरिति वेदान्तमतेऽपि प्रकृतेरुपपत्तिरवधेयेति । एतच्चायुक्तम् । तारत्वादीनां वायुधर्मत्वे कत्वादीनामपि तथात्वापत्तेः । उक्तं हि तात्पर्यशुद्धावुदयनाचार्यैः---
वर्णात्मकोऽपि नित्यः कल्प्यमान एकः कल्पनीयः । प्रत्यभिज्ञानात् । भेदे प्रमाणाभावाच्च । तारत्वादयस्त्वौपाधिकास्तत्राव भासन्ते । तथा च तीव्रत्वादिवत् कत्वादयोऽपि तस्यौपाधिकाः सन्तु, कृतम् अप्रामाणिकबहुतरकल्पनाजालेन । उपाधयश्च बहव इति तद्गतमेकत्वसामान्यं कल्पनीयमिति घट्टकुठ्यां प्रभातम् । अथोक्तदोषभिया स्वाभाविका एव तीव्रत्वादय इत्यभ्युपगमः तथा सति तावन्त एव ध्वनिवत् कादयोऽपीति कत्वसामान्यमावर्ततइति ।
न चोत्पत्तिविनाशप्रतीत्योर्भ्रमत्वं कल्प्यम् । विनिगमकाभावात् । ध्वंसप्रागभावादिकल्पनस्य च फलमुखत्वात् । तन्मते कण्ठताल्वाद्यभिघातस्य कसाक्षात्कारत्वं जन्यतावच्छेदकम् मन्मते तु कत्वमेवेति लाघवाच्च । न च तन्मतेऽपि लौकिकविषयितासम्बन्धेन कत्वमेव कार्यतावच्छेदकमिति वाच्यम् । लौकिकत्वस्याननुगतत्वात् । कोलाहल प्रत्यक्षानुपपत्तेश्च । तत्र कत्वादीनामनवबोधात् । तेष्वेतत्प्रत्यक्षे कत्वादिलौकिकविषयकत्वाभावात् । अगृह्यमाणकशब्दत्वादिव्याप्यजातिकनानाशब्दानां कोलाहलपदार्थत्वात् । न च तत्र कत्वादिकमेव नास्तीति वाच्यम् । बुभुत्सायां कत्वादिश्रावणस्य सर्वानुभवसिद्धत्वात् । न च प्रत्यभिज्ञानमात्रेणैक्यसिद्धिः । सैवेयं गुर्जरीत्यादिप्रत्यभिज्ञानेन ध्वनीनामपि नित्यत्वापत्तेः । स एवायं गकार इति प्रत्यभिज्ञायाश्च व्यक्त्यभेदविषयकत्वएव भ्रमत्वम् । गत्वाद्यवछिन्नप्रतियोगिताकभेदाभावपरत्वे तु प्रमात्वमेव ।
न च जातिप्रत्यभिज्ञायास्तज्जातीयोऽयमित्येवाकार इति वाच्यम् । तदेवेदम् औषधं बहुभिर्भुक्तं मयाऽपि भुज्यते इत्यादौ तज्जातीयाभेदप्रत्यभिज्ञाया अपि तदाकारत्वादर्शनात् ।
अयं तु विशेषः । यदा गत्वे जातित्वमपि भासते तदा तज्जातीयोऽयमिति । तदभावे तु सोऽयमितिप्रत्यभिज्ञास्वरूपमिति । तस्मात्तत्तत्स्वरूपजन्या अनन्ता एव वर्णाः । नन्वेवं शब्दस्यार्थबोधकत्वं न स्यात्, यस्मिन्पदे शक्तिग्रहस्तस्य नष्टत्वादिति चेत् । मैवम् । यथा शक्तिग्रहविषयस्य घटादेर्नाशेऽपि घटपदाद् घटान्तरस्य बोधः तथा शक्तिमत्त्वेन ज्ञातपदनाशेऽपि तज्जातीयपदान्तराद् बोधोपपत्तेः ।
यत्तु व्यक्त्यैक्ये सामान्यमेव नास्ति तत् कथं पदान्तराद् बोध इति । तन्न । व्यक्तिभेदस्यापि साधितत्वात् । इति नैयायिकाः ।
अत्रापि व्यक्त्यभेदप्रत्यभिज्ञाया भ्रमत्वमस्त्येव । एवम् एतन्मतस्यात्रानुसारे प्रत्युच्चारणं वर्णानां भेदात् "अस्य च्वौ" इत्यादावकारस्य अण्‌त्वाभावात् सवर्णग्राहकत्वं न स्यात् । अतस्तत्र कण्‌ठादिजन्यतावच्छेदकजातिव्याप्या ह्रस्वमात्रवृत्तिरपि जातिरस्ति । सैव वर्णसमाम्नाये विवृतत्वेनोपदिष्टा । अत एव सर्वेषामपि ह्रस्वानामण्‌त्वमस्त्येबेति न कुत्राप्यनुपपत्तिः ।
अत्रापीदं चिन्त्यम् । ह्रस्वाकारमात्रवृत्तिजातौ मानाभावः । न च ह्रस्वेषु दीर्घादिव्यावृत्तानुगतप्रत्ययादेव तत्सिद्धिः । तस्य ह्रस्वत्वेनैवोपपत्तेः । न च ह्रस्वत्वमेव सा जातिः न त्वतिरिक्तेति वाच्यम् । तस्या अत्वादिव्याप्यत्वानुपपत्तेः । अत्वह्रस्वत्वयोर्दीर्घाकारे सङ्करापत्तेः । न चात्वादिव्याप्यत्वं ह्रस्वत्वं नानैवेति वाच्यम् । ह्रस्वाकारेकारादिष्वनुगतप्रत्ययानुपपत्तेः । "ऊकालोऽज्‌ झ्रस्वदीर्घप्लुतः" इति ह्रस्वत्वस्य जातित्वाभावाच्च । उच्चारणगर्भस्य ह्रस्वत्वस्योपाधेरनुगतत्वाच्च । तस्मादष्टादशैव अकारव्यक्तयो नित्याः । एवं ह्रि प्रत्यभिज्ञानस्य प्रमात्वम् विरुद्धधर्माणां च नारोपस्वीकार इति मतद्वयाद्विशेषः । तदनुगतस्य अत्वादिसामान्यस्य स्वीकाराच्च कोलाहलप्रत्यक्षोपपत्तिः ।
न च लौकिकविषयतासम्बन्धेन कत्वादीनां कार्यतावच्छेदकत्वे कथं कोलाहलप्रत्यक्षम्, तत्र कत्वादीनामग्रहादिति वाच्यम् । तथाऽपि स्वाश्रयविषयताया एव कार्यतावच्छेदकसम्बन्धत्वात् । कत्वाद्याश्रयककारादीनां कोलाहलप्रत्यक्षे विषयताया निर्विवादत्वात् । विजातीयपवनसंयोगस्य यथा तन्मते अवच्छेदकतासम्बन्धेन अकारादौ हेतुत्वं, समवायश्च कारणतावच्छेदकः, तथैवात्र तत्साक्षात्कारे समवायेन पवनसंयोगवति श्रवणे अवच्छेदकतया शब्दश्रावणोत्पत्तेः अत्वादिप्रत्यक्षे च श्रावणसमवायो नियामकः । श्रावणे अकारे अत्वस्य समवायात् । अकारनिष्ठकत्वाभावश्रावणे च श्रावणविशेषणता नियामिका । श्रोत्रसमवायादेरेतत्पक्षेऽनभ्युपगमात् ।
ननु श्रावणसमवायसन्निकर्षे श्रावणं विशेषणमुपलक्षणं वा । नाद्यः । अनभिव्यक्तदशायामप्यकारस्य श्रावणोपलक्षितत्वेन तदाऽप्यत्वप्रत्यक्षापत्तेः । नान्त्यः । अकारस्य तत्काले श्रावणोत्पत्तिं विना श्रावणविशिष्टत्वासम्भवात् । अत्वप्रत्यक्षोत्पत्तिपूर्वं केवलावर्णप्रत्यक्षस्वीकारापत्तेः । न चेष्टापत्तिः । स्वाश्रयलौकिकविषयितासम्बन्धस्य कार्यतावच्छेदकतया केवलशब्दप्रत्यक्षासम्भवात्, निर्विकल्पकेलौकिकविषयताऽनभ्युपगमात् इतिचेत् । मैवम् । शब्दत्वादिप्रकारकप्रत्यक्षस्यैव पूर्वं स्वीकारात् ।
नन्वत्राप्युदात्ताकारादनुदत्ताकाराभेदावगाहिप्रत्यभिज्ञाया भ्रमत्वमेवेति चेत्, सत्यम् । तथाऽपि बह्वीनां तासां प्रमात्वरक्षणादित्यादिकमूहनीयम् ।
अयं च पक्षः तारमन्दादिधर्मभेदभिन्ना गकारादिव्यक्तयो नित्या एव सन्त्विति वर्णानित्यतावादे भट्टमतैकदेशतया न्यायग्रन्थेषु शङ्कितप्राय एव अष्टादशावर्णव्यक्तय इति शब्दकौस्तुभेऽप्यत्रोपन्यस्तः । अनुसृतश्च भगवद्भ्यां वार्त्तिकभाष्यकाराभ्याम्---
तथा हि । "अअ" इति सूत्रे अनुवाद्यपरेण पूर्वाकारेण ग्रहणकशास्त्रवशाद् दीर्घदीनामप्युपस्थापने तेषामपिप्रयोगदशायां संवृतत्वविधानं स्यादित्यासङ्क्य द्वेधा समाहितम्---
सिद्धन्तु तपरनिर्देशात्, एकशेषनिर्देशआद्वा स्वरानुनासिकभिन्नानां भगवतः पाणिनेः सिद्धमिति । अत् इति पाठः कर्तव्यः "ततश्च तपरस्तत्कालस्य" इति दीर्घादिग्रहणं नेत्याद्यं समाधानम् । सूत्रस्वारस्याभावादत्रापरितुष्य षण्णां ह्रस्वानामेकशेषेण अ इति निर्देशः, तत्सामर्थ्याच्च न ग्रहणकशास्त्रप्रवृत्तिरिति द्वितीयम् । अतश्च षडेव ह्रस्वाकारव्यक्तय इति तात्पर्यात् अर्थात्तावतां दीर्घाणां प्लुतानां च लाभेनित्यत्वम् । विना च षण्णामेकशेषेण सर्वह्रस्वाकारसंग्रहाभावाद्‌ ह्रस्वमात्रवृत्त्यत्वाव्याप्यजातिसत्त्वे च तत्परत्वेनैवोपपत्तौ एकशेषानुवादानुपपत्तेस्तन्नित्यत्वपर्यवसानात् ।
नन्वेवं सर्वत्र सवर्णग्रहणाभावस्थले एकशेषेणैव निर्वाहे "तपरस्तत्कालस्य" इति सूत्रं व्यर्थं स्यादिति चेत् । मैवम् । सूत्रनिर्देशस्वारस्येन अत्रैकशेषस्वीकारेऽपि तपरत्वापेक्षया तत्र गौरवात् । "उपसर्गादृति धातौ" इत्यादौ ऋवर्णेन लृवर्णग्रहणस्यैकशेषेण साधयितुमशक्यत्वाच्च । तत्र दीर्घग्रहणवारणार्थं तपरत्वस्यावश्यकतयाऽन्यत्रापि तस्यैव युक्तत्वाच्च । एतेन घटेन तरतीत्यादौ गौणेऽपि कार्यनिर्वाहार्थं ज्ञापकानुसरणं परास्तम् । सुख्यतयैव निर्वाहात् । द्व्यच्‌स्थलेऽन्यतरस्योदात्तत्वे शेषनिघातेनान्यतरस्यानुदात्तत्वध्रौव्येण भेदसत्त्वात् ।
एवं भट्टमते किरिणेत्यादौ सप्तमीबहुवचने सौ य एकाच् ततः परा तृतीयादिर्विभक्तिरुदात्ता स्यादित्यर्थकेन "सावेकाचस्तृतीयादिर्विभक्तिः" इति सूत्रेणोदात्तत्वं स्यात् । किरिषु इत्यत्रैकाच्कसत्त्वात् ।
यत्त्वावृत्तिकृतेन द्व्यज्व्यपदेशेन स्वाश्रयस्यैकाच्कत्वस्य निवृत्तिरिति । तन्न । गौणेनाग्नित्वेन माणवकत्वस्य निवृत्त्य भावात् । त्रिपुत्रे द्विपुत्रव्यपदेशाभावस्तु त्रिपुत्रत्वस्याप्यनारोपितत्वात् । द्वित्वान्यव्यासज्यवृत्तिसंख्यापर्याप्त्यनाश्रयपुरुषनिष्ठजन्यत्वनिरूप्यजनकत्वाभाववत्पुरुषतात्पर्यकस्यैव द्विपुत्र इति प्रयोगस्य तस्मिन्नप्रमाणत्वात् । संभावभिप्राये तु प्रमाणत्वात् । द्विपुत्रत्वव्यतिरेकेण त्रिपुत्रत्वस्याप्यनुपपत्तेः । अत एव "न वान्यसंख्याव्यवच्छेदो नवैव द्रव्याणीत्यस्य नार्थः तत्पूर्वसंख्योत्पत्तिं विना नवत्वायोगाद्" इति द्रव्योपायादावुक्तम् । अत एवाद्यानां त्रयाणां पदार्थानां सामान्यवत्त्वमित्यादयः प्रयोगाः । अश्वादिपर्युदासस्य सामान्यापेक्षज्ञापकत्वोक्तावपि गौणे कार्यप्रवृत्तेरेव निर्वाहो न तु मुख्यव्यावृत्तेः । तन्मात्रेण सामर्थ्यस्योपक्षीणत्वात् ।
ननु राज्ञेत्यादौ विभक्तेरुदात्तत्ववारणार्थं सावित्युक्तम् । स्वाश्रयैकाच्‌त्वाभ्युपगमे तु राजस्वित्यत्राप्येकाच्‌त्वसत्त्वात् तद्वारणं न स्यात्, अतोऽत्र स्वाश्रयैकाच्‌त्वनिवृत्तौ सावित्येव ज्ञापकम् इति चेत् । न । बाहुनेत्यादिवारणेन तस्य सार्थक्यसंभवात् । न चैकाच इत्यनेन तद्व्यावृत्तिः । सप्तम्येकवचने तस्याप्येकाच्‌तवात् । "औकारादेशो डित्कर्तव्य" इति सप्तमे भाष्यकृतोक्तत्वात् । न च विभक्तिमात्रे एकाच्‌त्वं विवक्षणीयम् । सावित्यस्य वैयर्थ्यात् ।
किं च "ऊडिदम्पदाद्यप्पुंरैद्युभ्यः" इति सूत्रे एकाज्‌ग्रहणानुवृत्त्या "पद्दन्नोमास्‌" इति सूत्रे निर्दिष्टाः पदादयो निश्‌शब्दपर्यन्ता गृह्यन्ते, ततः परेषामसन्नादीनामनेकाच्‌त्वात् इति स्थितम् पदादिषु निशन्तानि प्रयोजयन्तीति वार्त्तिके भाष्ये च । गौणेन द्व्यच्त्वेन स्वाश्रयैकाच्‌त्वानिवृत्तौ च असन् यकन् शकन् आसन् इत्येतेषामप्यनेकाच्‌त्वेन ग्रहणं स्यादिति तद्विरोधो दुर्वारः । अतो वार्त्तिकादिकमेव तन्निवृत्तिज्ञापकम् इति चेत्, सत्यम् । एवंविधकष्टसृष्टिमपेक्ष्योक्तरीतेरेव युक्तत्वात् । उक्तसर्वग्रन्थानामकारव्यक्तिभेदपक्षाभिप्रायेणैवोपपन्नत्वाच्चेति दिक् ।
वार्त्तिकमते तु अत्वादिजातिपरो निर्देशः । न चैवं दीर्घाणामपि सवर्णग्राहकत्वापत्तिः । दीर्घोच्चारणसामर्थ्यात् । सर्वेषां सञ्जिघृक्षितत्वे लाघवार्थं ह्रस्वस्यैव निर्देशप्रसङ्गात् । न चैवमपि दीर्घस्य प्लुतग्राहकत्वं स्यादेव, प्लुतनिर्देशे गौरवापत्त्या तन्निवृत्तौ दीर्घोच्चारणस्य सामर्थ्याभावादिति वाच्यम् । ह्रस्वव्यावृत्ततत्साधारणधर्माभावात् । ग्रहणकशास्त्रेऽणग्रहणं च न कार्यम् । तदुक्तम्---
सवर्णेऽण्ग्रहणमपरिभाष्यमाकृतिग्रहणात् ।
तपरसूत्रं तु स्थलविशेषे जातिपरत्वव्यावर्त्तनायैव । नचैवं विधेयस्थलेऽपि सवर्णग्राहकत्वापत्तौ "त्यदादीनामः" "सनाशंसभिक्ष उः" इत्यादौ दीर्घादीनामपि विधानं स्यादिति वाच्यम् । तत्र विधेयविशेषणतया एकत्वस्यापि पश्वेकत्ववत् विवक्षितत्वात् । न च तथाऽप्यत्वावच्छिन्नविधानस्य दीर्घेणापि चरितार्थतया दीर्घ एवैकोऽस्त्विति वाच्यम् । अनुपस्थितदीर्घकल्पनापेक्षया उपस्थितह्रस्वस्यैव विधेयत्वात् । न च ह्रस्वत्वं न पदार्थतयोपस्थितमिति वाच्यम् । स्वरूपेणैव ह्रस्वस्योच्चारणात् । "अस्य च्वौ" इत्यादौ त्वनुवाद्यविशेषणत्वाद्ग्रहैकत्ववन्न तद्विवक्षेति सर्वपरत्वम् ।
यत्तु वैयाकरणमते विधेयानुवाद्यविशेषणानां विवक्षिताविक्षितत्वनियमाभावः । "उपेयिवाननाश्वाननूचानश्च" इत्यादौ उपेत्यादेः नञादेश्च विधेयविशेषणत्वाविशेषेऽपि विवक्षावैषम्यदर्शनात् । "आर्द्धधातुकस्येड्‌ वलादेः" इत्यत्र वलादित्वस्यानुवाद्यविशेषणस्यापि विवक्षितत्वाच्च । अत एव "एकः पूर्वपरयोः" इतिसूत्रे एकग्रहणमम् । अन्यथा आद्‌गुण इत्येकत्वविवक्षयैवोपपत्तेरिति । तत् तुच्छम् । मीमांसकादीनामप्यविवक्षादेः कुलधर्मत्वाभावात् । शब्दोपात्तार्थे विवक्षाया ध्रौव्येऽपि विध्यन्वयानुपपत्त्या न्यायबलात् तत्परित्यागात् । न्यायस्य वचनविरोधे सत्यकिञ्चित्करतयाऽनुवाद्यविशेषणस्यापि क्वचित् विवक्षितत्वात् । अत एव---
पर्वण्यौदयिके कुर्युः श्रावणीं तैत्तिरीयकाः ।
इत्यत्र औदयिकत्वविशिष्टपर्वविशिष्टोपाकर्मोद्देशेन तैत्तिरीयका एवेति कर्तृनियमविधाने उद्देश्यविशेषणविवक्षाधीनवाक्यभेदापत्या तैत्तिरीयपदं याजुषमात्रोपलक्षणीकृत्य पर्वविशिष्टोपाकर्मोद्देशेन औदयिकत्वमात्रविधिः । पर्वणोऽप्यविवक्षायाम् "बह्‌वृचाः श्रवणे कुर्युः" इति वाक्यवैयर्थ्यापत्तेरिति स्वीकारात् । अत एव च " यस्योभयं हविरार्त्तिमार्छेद्" इत्यत्र आर्तिमात्रस्य प्रतियोगिविशेषानवच्छिन्नस्य सार्वदिकत्वान्निमित्तत्वापर्यवसानात् तद्विशेषणमपि हविर्विवक्षितमेव । तदुक्तम्---
मृष्यामहे हविषा विशेषणं पर्यवसितस्य हि विशेषणं वाक्यभेदमावक्ष्यतीति ।
तद्विशेषणमुभयत्वं त्वविवक्षितमिति सिद्धान्तः ।
वस्तुतः षष्ठ्याः शैषिकत्वात् क्रियान्वयानावश्यकत्वात् पूर्वमेवार्द्धधातुके विशेषणसंभवान्न वाक्यभेदः, अश्वाभिधानीमित्यादिवत् । "ईयिवांसमतिस्त्रिधः" इत्यादेः केवलस्योपसर्गान्तरपूर्वकस्य च प्रयोगदर्शनाद् उपेत्यस्याविवक्षितत्वात् । उरित्येकत्वविवक्षया उद्वयस्थाने एकस्योकारादेशस्य मनोरमाकौस्तुभयोरुक्तत्वाच्च एकग्रहणस्य भाष्यकृता प्रत्याख्यातत्वात् । तथा च तत्र कैयटेनोक्तम्---
"तदेवमेकग्रहणं प्रत्याख्यातम् । "आद्‌ गुणः" इत्यादौ संख्यायाः शब्दोपात्ताया विवक्षणात् । यत्र तु संख्या न विवक्ष्यते तत्र लक्ष्यसिद्धिरविवक्षितत्वे हेतुः" इति ।
संख्येति प्रकृताभिप्रायम्, विधेयविशेषणान्तराणामप्युपलक्षणम् । अभ्युपेत्यापि ब्रूमः । तपरप्रत्ययौ तत्कालस्य इति सूत्रयित्वाऽपि "त्यदादीनामः" इत्यादौ अतिप्रसङ्गवारणस्य स्पष्टप्रकारेणैव संभवाद् ग्रहणकसूत्रेऽण्‌ग्रहणमनावश्यकमेव । अवश्यं चाण्‌भिन्नस्थले वर्णनिर्देशस्य जातिपरत्वं वक्तव्यम् । अन्यथा अवात् स् तामित्यत्र सिचः पूर्वोत्तरयोस्तकारयोर्मध्ये एकस्यैव झल्‌त्वं स्यान्न तु द्वयोः । अक्षरसमाम्नाये द्वयोरनिर्द्देशात् । ततश्च "झलो झालि" इति सिचो लोपो न स्यात् । न च वचनसामर्थ्यं गतिः । अभित्था इत्यादौ विजातीयवर्णपरत्वे सावकाशत्वात् । एवं "नाज्‌झलौ" इतिसूत्रं प्रयत्नसाम्यपक्षेऽप्यनारभ्यमिति लाघवम् । उभयसाधारणैकजात्यभावेनैवाकारादिभिर्हकारादीनामग्रहणसिद्धेः । न च दण्डहस्त इत्यादौ सवर्णदीर्घवारणं सावर्ण्यनिषेधं विना दुरुपपादमिति वाच्यम् । तद्विधावचीत्यनुवृत्त्यैव तत्सम्भवात् । सूत्रारम्भपक्षेऽपि तदनुवृत्तेः कुमारी शेते इत्यादौ दोषवारणायावश्यकत्वात् । अगृहीतसवर्णानामेव "नाज्‌झलौ" इतिनिषेध इति सिद्धान्तादिति दिक् ।
यत्तु प्रत्याहारसूत्रोपदिष्टोऽकारादिः सादृश्यसम्बन्धेन स्वसदृशीः षट्‌ व्यक्तीरुपस्थापयति । न च वृत्त्याऽनुपस्थितानां शाब्दान्वयानुपपत्तिः । गुरुमतेन तत्संभवादिति । तच्चिन्त्यम् । ह्रस्वत्वेन सादृश्यविवक्षायामिकारादेरप्युपस्थापनापत्तेः । अत्वह्रस्वत्वाभ्यां तथात्वे तु अत्वमात्रेण सादृश्यं विवक्षित्वाऽष्टादशव्यक्तीनामेवोपस्थितिसम्भवात् । अकारोपरि प्रकारीभूय भासमानायामत्वजातौ तात्पर्यमुपेक्ष्य तद्धटितगुरुतरधर्मेणाकारान्तरोपस्थितिकल्पनस्यानुक्तिसम्भवग्रस्तत्वाच्च ।

ऋलृक् 2 ।

ननु विधिप्रदेशेषु ऋकारेणाष्टादशस्वभेदानामिव द्वादशलृवर्णभेदानामपि ग्रहसम्भवाद् इह लृकारोपदेशो व्यर्थः । न च मूर्द्धदन्तरूपस्थानभेदेन सावर्ण्याभावात् कथं ग्रहणकशास्त्रप्रवृत्तिरिति वाच्यम् । "ऋलृवर्णयोर्मिथः सावर्ण्यं वाच्यम्" इति वाचनिकसावर्ण्येन तत्सिद्धेः । न च तदेव नारभ्यमिति वाच्यम् । "उपसर्गादृति धातौ" इतिसूत्रात् "वा सुप्यापिशलेः" इत्यत्र ऋतीत्यनुवृच्या प्राल्कारीयतीत्यत्र वृद्धिविकल्पप्रवृत्त्यर्थं तदावश्यकत्वात् ।
यद्वा वाच्यं व्याख्येयम् । "ऋकारलृकारावथ षष्ठ ऊष्मा जिह्वामूलीया" इति बह्‌वृचप्रातिशाख्योक्तरीत्या तुल्यस्थानत्वात् सूत्रेणैव सावर्ण्यं सिद्धमित्यर्थः । अत एव "ऋदुषधाच्चाक्लृपिचृतेः" इत्यत्र क्लृपिपर्युदासः सङ्गच्छते । किं च क्लृपिस्थलृकारस्यैव लृकारमात्रमनुकरणम् । स्वातन्त्र्येण तद्भिन्नलृकारस्य लोकवेदयोरभावात् । क्लृपेर्लृकारश्च लत्वस्यासिद्धत्वात् स्वरकार्येषु ऋकाररूप एवेति वृद्ध्यादीनां सिद्धिरिति लृकारोपदेशः सावर्ण्यवार्त्तिकं च व्यर्थमेव ।
न च "कृपो रो लः" इति विहितस्य लृकारस्यैवासिद्धत्वम्, न तु लृकारीयतीत्यादिस्थतदनुकरणस्येति वाच्यम् । प्रकृतिवदनुकरणम् इत्यतिदेशेन तस्याप्यसिद्धत्वात् । अन्यथा द्विः पचन्त्वित्याहेत्यत्र पचन्तुशब्दस्य "तिङ्‌ङतिङः" इति निघातो न स्यात् । तिङन्तशब्दानुकरणत्वेन स्वरूपतिस्तिङन्तत्वाभावात् । न च तैत्तिरीयवाक्ये आद्युदात्तपाठात् तत्र निघातो नेष्यतएवेति वाच्यम् । भाष्योदाहरणसामर्थ्येन शाखान्तरे निघातपाठस्याप्यनुमानात् । एवम् अग्नीइत्याहेत्यादौ "ईदूदेद्‌ द्विवचनं" इति प्रगृह्यसंज्ञा न स्यात् । न चैवम् ऋकारबुद्ध्या कार्यप्रवृत्तौ तत्स्थानीयगुणादे रपरत्वमेव स्यात्, न तु लपरत्वमिति वाच्यम् । "उरण्‌ रपरः" इत्यत्र प्रत्याहारग्रहणवैयर्थ्यापत्तेः, प्रकृतौ कुत्राप्यनुपयोगात् ।
न च चल्कृपे इत्यादौ अभ्यासस्य अत्वे प्रकृतावेव लपरत्वसार्थक्यम् । तत्र हलादिशेषस्यावश्यकतया रपरत्वेऽपि दोषाभावात् । न च क्लृप्तस्यायं काल्‌प्त इत्यादौ तस्योपयोगः । "तद्धितेष्वचामादेः" इति वृद्धौ लत्वस्यासिद्धतया ऋकारएव वृद्धिप्रवृत्तौ रपरत्वे च "कृपो रो लः" इत्यनेनैव सिद्धेः । न च तद्रेफस्य स्वतन्त्रतया ऋकारानन्तर्गतत्वात् कथं लत्वमिति वाच्यम् । कृपेर्यो रेफस्तस्यापि लत्वमित्युत्तरसूत्रयोर्व्यवस्थापनीयत्वात् । न च तथाऽपि गम्लृ गतावित्यादिस्थस्य लृकारस्यानुकरणे कथं निर्वाहः, तत्रासिद्धत्वातिदेशयोरप्रवृत्तेरिति वाच्यम् । पुषादिद्युताद्य्‌लृदितः" इति सूत्रे लृकारे परतो यणादेशप्रयोगेण इत्संज्ञानुवादेन च ज्ञापकेन तस्याप्यच्‌कार्यसिद्धेः ।
वस्तुत इत्संज्ञानुवादस्य हल्‌कार्यसिद्धं ज्ञापयित्वाऽपि पर्यवसानसम्भवाद्यण्‌निर्देश एव ज्ञापकः ।
यत्त्वेवम् "इदितो नुम्" इत्याद्यनुवादानाम् "ऋत्यकः" इत्यादिज्ञापकानां च सत्त्वात् इकारादयोऽपि न निर्दिश्येरन्निति । तन्न । तन्निर्देशं विना अच्‌कार्यत्वादेरेव दुर्ग्रहत्वात् । लृकारस्यात्यल्पविषयकत्वेनोक्तस्थलानुपपत्तिपरिहारमात्रार्थमनुवादानुसारात् । तत् किमर्थं लृकारोपदेश इति प्राप्ते अभिधीयते---
लृकारोपदेशो यदृच्छाऽशक्तिजानुकरणप्लुत्याद्यर्थ इति ।
दध्य्‌लृतकाय देहीति यदृच्छाशब्दः । ऋकारोच्चारणप्रवृत्तौ करणापाटवात् लृजुइत्युक्तस्य कुमारीलृजुइत्याहेत्यशक्तिजानुकरणम् । प्लुतद्विर्वचनस्वरिताश्च प्लुत्यादयः । क्लृप्तशिखेत्यत्र "गुरोरनृतोऽनन्त्यस्याप्येकैकस्य प्राचाम्" इति प्लुतः । अन्यथा अनृत इति निषेधः स्यात् । क्लृप्तेत्यत्र "अनचि च" इति द्वित्वम् । अनतर्भावितण्यर्थात् कर्मणि क्तप्रत्ययान्ते प्रक्लृप्त इत्यत्र कर्मार्थकक्तप्रत्ययान्ते परेऽव्यवहितगतिः प्रकृत्या स्यादित्यर्थकेन "गतिरनन्तरः" इति सूत्रेण पूर्वपदे प्रकृतिस्वरविधानात् प्रशब्द उदात्तः । शेषनिघातेन लृकारप्रत्ययाकारयोरनुदात्तत्वम् । तत "उदात्तादनुदात्तस्य" इति लृकारस्य स्वरितत्वम् । न ह्येतद् असिद्धत्वेन साधयितुं शक्यम् । "कृपो रो लः" इत्यस्यैतदपेक्षया पूर्वत्वात् । पूर्वस्य च परं प्रत्यसिद्धत्वाभावात् । न च स्वरितपूर्वभाविनोऽनुदात्तत्वस्यापि अज्मात्रधर्मत्वात् तदपि प्रयोजनं शङ्क्यम् । शेषनिघातस्य षाष्ठत्वेन तं प्रत्यसिद्धतया ऋकारत्वेनैव तत्प्रवृत्तेः । तत्राद्यप्रयोजननिरासपरं वार्त्तिकम्---
न्याय्यभावात् कल्पनं संज्ञादिषु इति ।
अयमर्थः । ऋतेरीयाङिति निर्द्दिष्टात्सौत्रादृतिधातोः "क्वुन् शिल्पिसंज्ञयोरपूर्वस्यापि" इत्यनेन शिल्पिन्यभिधेये संज्ञायां च सोपपदान्निरुपपदाच्च धातोः क्वुन् स्यादित्यर्थकेन उणादिसूत्रेण क्वुन्‌प्रत्यये संज्ञायां व्युत्पन्नतया शास्त्रानुगतत्वात् "कृतं कुर्यान्न तद्धितम्" इति गृह्यस्मृत्यानुगुण्याच्च ऋतकशब्द एव संज्ञा न तु लृतकः । यदृच्छाशब्दानां साधुत्वानभ्युपगमात् । एतेन देशभाषानुसारेण क्रियमाणानां शास्त्राननुगतानां कूची मञ्चीत्यादिनाम्नामप्यसाधुत्वं व्याख्यातम् । आदिशब्दादनुकरणेष्वपि शिष्टानुरोधदर्शनात् । लृवर्णस्य दीर्घा न सन्तीति मर्यादामतिक्रम्य क्रियमाणस्य दीर्घलृवर्णानुकरणस्याप्यसाधुत्वमेव । मातृकान्यासादौ दीर्घलृवर्णस्य मन्त्रशास्त्रादौ प्रसिद्धत्वेऽप्यन्यत्र तदभावात् । अत एव दधि लृतकाय देहीत्याहेत्यनुकरणमप्यसाध्वेवेति ।
न च ऋतकशब्दस्य शास्त्रानुगतत्वेन लृतकशब्दस्यासंज्ञात्वेऽपि लृफिडलृफिड्डेति यदृच्छाशब्दौ दुर्वाराविति वाच्यम् । तत्रापि ऋधातोरोणादिकफिडफिड्डप्रत्ययान्तयोः ऋफिड ऋफिड्ड इत्येतयोर्निवर्तकत्वात् ।
भाष्ये तु "पक्षान्तरैरपि परिहारा भवन्ति" इत्युक्तम् । तेन यदृच्छाशब्दानामपि साधुत्वमेव । न च गृह्यस्मृतिविरोधः । औपगवादिवदस्यापि साधुत्वोपपत्तेः । तत्र नामकर्तुः प्रत्यवायस्तु उक्तशास्त्रोल्लङ्घनादेव । न त्वसाधुप्रयोगात् । अत एव कात्यायनादिशब्दानां संज्ञात्वं निर्बाधम् ।
यत्तु द्वितीयप्रयोजननिरासाय वार्तिकम्-
अनुकरणं शिष्टाशिष्टाप्रतिषिद्धेषु इति ।
तस्यार्थः । शिष्टस्य विहितस्य अशिष्टाप्रतिषिद्धस्य विहितनिषिद्धान्यस्य वाऽनुकरणं साधु । ततश्चापशब्दप्रयोगस्य निषिद्धत्वात्तदनुकरणमप्यसाध्वेवेति ।
भाष्यकृतस्तु तत्प्रयोजनं समर्थयन्ते । न ह्यपशब्दवाचकत्वमात्रेणासाधुत्वम् । अपशब्दपदस्यापि गाव्याद्यपभ्रंशवाचकत्वेनासाधुत्वापत्तेः । अत एव "तेऽसुरा हेलयो हेलय इति कुर्वन्तः" इत्यादीनामनुकरणानां साधुत्वं सर्वसिद्धम् ।
न च प्रकृतिवदनुकरणम् इत्यसाधुत्वातिदेशः । अपशब्दस्यानुपदिष्टत्वेन शास्त्रीयप्रकृतित्वाभावात् । असाधुत्वस्य शास्त्रीयकार्यत्वाभावाच्च ।
यदपि तृतीयप्रयोजननिरासाय वार्त्तिकम्---
एकदेशविकृतस्यानन्यत्वात्प्लुत्यादय इति ।
तस्याप्ययमर्थः । वक्ष्यमाणरीत्या ऋकारैकदेशस्य रेफस्य लत्वे एकदेशविकृतस्यानन्यत्वात्प्लुत्यादयः । न च अनृत इति प्लुतनिषेधापत्तिः । अनृत इत्यपहाय अरवत इति पठनीयत्वात् । छिन्नपुच्छस्य श्वत्वाद्यनपायेऽपि पुच्छवात्त्वप्रयुक्तकार्याणामप्रवृत्तिवत् ऋकारेऽपि रेफापगमदशायां रेफवत्त्वप्रयुक्तनिषेधाप्रवृत्तेः । न चैवं होतृ3कारेत्यादेर्दीर्घस्यापि प्लुतनिषेधापत्तिः, रेफवत्त्वादिति वाच्यम् । ह्रस्वस्य रवतो नेति वक्तव्यत्वात् । अत्र भाष्यम्---
स एष सूत्रभेदेन लृकारोपदेशः प्लुत्याद्यर्थः सन्मत्याख्यायते सैषा महतो वंशस्तम्बाल्लट्‌वा अनुकृष्यतइति ।
अस्यार्थः । एकस्य लृवर्णस्य प्रत्याख्यानाय अनृत इत्यस्य लघोः स्थाने हस्वस्य रवतो नेतिगुरुतरन्यासाश्रयेण विपरीतमेव गौरवमिति ।
लट्‌वा करञ्जभेदे स्यात्फलेऽवद्ये खगान्तरे ।
इति विश्वः ।
स्यादेतत् । "कृपो रो लः" इतिसूत्रम् "अअ" इत्यस्मात्पूर्वमस्तु । ततश्चासिद्धत्वादेव प्लुत्यादयः सेत्स्यन्तीति "अनृत" इति यथान्यासमेवास्त्विति । अत्राहुः । तथा सति रोल इत्यस्यानुवृत्त्यर्थं "ग्रो यङि" इत्यस्यापि तत्रैव पाठापत्तौ निजेगिल्यतइत्यत्र लत्वस्यासिद्धतया धातोरेफान्तत्वात् "हलिच" इति दीर्घः स्यादिति ।
इदं पुनरिहावधेयम् । "गुरोरनॄत" इति दीर्घपाठ एवास्तु अनृलृत इतिच्छेदः । तकारस्य द्वन्द्वोत्तरवर्तित्वेन सामर्थ्येन ऋकारेऽप्यन्वयः । दीर्घलृकारस्याप्रसिद्ध्या व्यावृत्त्यनर्हत्वात् । प्लुतविधौ च प्लुतस्यानुवादानुपपत्तेस्तपरत्वस्य ऋकारएवोपयुक्तत्वात् । अतो न दीर्घऋकारस्य प्लुतनिषेधापत्तिः । ऋकारलृकारयोः सवर्णदीर्घे दीर्घऋकारः । अनृत इत्येतच्च गुरोरित्यस्य विशेषणम् । ह्रस्वऋकारभिन्नस्य लृकारस्य च गुरोः प्लुतो भवतीति सूत्रार्थः । न च लृकारस्यैव प्लुतः स्यान्न तु वर्णान्तरस्य, लृकारसामानाधिकरण्यादिति वाच्यम् । ह्रस्वऋकारभिन्नस्येति विशेषणवैयर्थ्यापत्तेः । नचात्राप्यनृत इति लृकारस्यापि पर्युदासापत्तिः । विशिष्य लृकारग्रहणसामर्थ्यात् । नच दीर्घर्कारमात्रस्य पर्युदासापत्तिः । ऋकारलृकारयोर्व्याख्यानवशेन सवर्णदीर्घनिर्णयात् । न च तथाऽप्येकमात्रावृद्ध्या वर्णोपदेशे लृकारपाठापेक्षया लाघवाभावा इति वाच्यम् । प्लुतमात्रसिद्ध्यर्थस्य यत्नस्य तद्विधावेव युक्तत्वात् ।
किं च "र्वोरुपधाया दीर्घ" इत्यत्र रेफद्वयप्रश्लेषाद्रेफ एव यो रेफस्तस्मिन्नेवोपधाभूते दीर्घो न त्वसिद्धत्वप्रयुक्तरेफेऽपीति व्याख्याय निजेगिल्यते इत्यत्र "हलि च" इति दीर्घस्य वारणसम्भवात् "कृपो रो ल" इत्यस्य शास्त्रोपान्तपाठेनापि प्लुत्यादिसिद्धिः । न चैवं पिपठीरित्यादावपि दीर्घो न स्यात्, षत्वस्यासिद्धतया सस्य रुत्वप्रवृत्तेरिति वाच्यम् । तत्रासिद्धत्वस्य तत्वमात्रोपजीव्यत्वात्तदुत्तरं रुत्वप्रवृत्तेरिति दिक् ।

एओङ्‌ 3 ऐऔच्‌ 4 ।

नन्वत्र तपरत्वं वक्तव्यम् एत् ओत् ङ्‌ इत्यादि । अन्यथा एचो ह्रस्वविधौ स्थानत आन्तरतम्येन ह्रस्वयोरेव एदोतोः प्रसङ्गात् । तपरत्वे तु "अचश्च" इत्यत्र द्विमात्राणामेवोपस्थित्वा एकमात्रयोर्ह्रस्वसंज्ञाविरहेण तदप्रसङ्गात् । न च ह्रस्वो नास्तीति सिद्धान्तादापाद्याप्रसिद्धिः । छान्दोग्ये सात्यमुग्रिराणायनीयानाम्---
"सुजातेएश्वसूनृतेअध्वर्योओद्रिभिः सुतम् ।
शुक्रं तेएन्यद्‌" इति एकमात्रयोरेदोतोः प्रसिद्धेः । अन्तः पादस्थस्य अव्यपरस्य तत्प्रातिशाख्ये ह्रस्वयोरेदोतोर्विधानाच्च । न चैतदर्थम् " एच इग्घ्रस्वादेशे " इति सूत्रारम्भात् तत एव तन्निवृत्तिः । तत्सूत्रारम्भप्रयुक्तस्यैव गौरवस्यापत्तेः ।
अथ गीतिवशात्तत्र तथात्वेऽपि तदन्यत्र वेदे लोके च ह्रस्वयोरेदोतोर्न प्रसिद्धिः । प्रयोजनाभावेन तदुक्तयोरप्यत्रानभिमतत्वात् । अन्यथा अकारादिवत् लाघवात् तयोरेवात्रोपदेशः स्यात् । ग्रहणकशास्त्रेणैव दीर्घप्लुतसंग्रहसिद्धेः । न च गुणसंज्ञायां द्विमात्रसंज्ञिलाभार्थमत्र द्विमात्रोपदेशः । तत्र स्वरूपेणैव दीर्घनिर्देशसम्भवात् "अदेओ गुणः" इति । यथान्यासे हि वर्णोपदेशे मात्राचतुष्टयम् गुणसंज्ञायामेङिति सार्द्धमात्रआद्वयमित्युभयत्र सार्द्धषण्मात्राः । उक्तरीत्या तु वर्णोपदेशे द्वे मात्रे गुणसंज्ञायां चतस्र इति षडेव । वर्णोपदेशे ङकारानुबन्धस्तु पक्षद्वयेऽपि समानः । "एच इग्घ्रस्वादेशे" इति सूत्रं तु न ह्रस्वयोरेदोतोर्व्यावृत्त्यर्थम्, किं त्वेदैतोः कण्ठ्यतालव्ययोरोदौतोश्च कण्ठ्यौष्ठ्ययोरुभयान्तरतमस्य ह्रस्वस्याभावात् कण्ठस्थानतया पूर्वभागसादृश्येन चतुर्णां स्थानेऽकारस्य, ओष्ठस्थानतया च ओदौतोः स्थाने उकारस्यच, प्राप्त्या अकारस्यापि पाक्षिकप्राप्तिप्रसङ्गात् तन्निवृत्त्यर्थमेव । अत एव सन्धीयमानवर्णद्वयसदृशावयवत्वेन सन्ध्यक्षरेति एचाम् पूर्वाचार्यसंज्ञा । तदभिप्रायेणैव---
अकारेकारयोर्योगादेकारो वर्ण उच्यते ।
इति मन्त्रशास्त्रे व्यवहारः । एचां शुद्धतालव्यशुद्धौष्ठ्यत्वमाश्रित्य तत्सूत्रं प्रत्याख्यास्यत इति त्वन्यदेतत् । अतस्तपरत्वं किमर्थम् इतिचेत् । मैवम् । तथाऽपि गङ्गोदकम्, रमेशः, खट्‌वैलका, खट्‌वौदनः, इत्यादौ पूर्वोत्तरवर्णयोर्मिलित्वा त्रिमात्रचतुर्मात्रत्वात् प्रमाणत आन्तरतम्येन तादृशानामेवादेशानां प्रसङ्गात् । न च चतुर्मात्रमप्रसिद्धम् । छान्दोग्ये प्रसिद्धेः । "इष्यते एव चतुर्मात्रः प्लुतः" इतिभाष्याच्च । तपरत्वे तु "तपरस्तत्कालस्य" इति एज्भिस्त्रिमात्रादीनामग्रहणे तेषां गुणादिसंज्ञाविरहेण दोषाभावात् । "प्लुतश्च विषये स्मृतः" इति तु प्लुताप्लुतप्रसङ्गे एव प्रवर्ततइति सिद्धान्तः ।
न च "अकः सवर्णे दीर्घः" इत्यत्र दीर्घ इतियोगं विभज्य "एकः पूर्वपरयोः" इत्यधिकारे यो विहितः स दीर्घो भवतीति व्याख्यानान्न दोष इति वाच्यम् । "अमि पूर्वः" "सम्प्रसारणाच्च" इति पूर्वरूपस्य "अतो गुणे" इति पररूपस्य च दीर्घत्वप्रसङ्गात् ।
अथ "प्रथमयोः" इतिसूत्रात् पूर्वसवर्णदीर्घस्याधिकाराच्च पूर्वपरयोरित्यस्योपस्थित्या अमीत्येव निर्वाहे पूर्वग्रहणं यादृशः पूर्वः तथैव न तु तद्विलक्षण इति व्याख्यानात् गौरीमित्यादौ दीर्घः, पथुमित्यादौ च ह्रस्वः । "सम्प्रसारणाच्च" इत्यत्रापि तस्यैव पूर्वशब्दस्यानुवृत्तेः "हल" इति हलुत्तरसम्प्रसारणस्य दीर्घत्वविधानात् ज्ञापकाच्च विद्धमित्यत्र न दीर्घः । "अतो गुणे" इत्यत्रापि परग्रहणादेव सिद्धेः रूपग्रहणसामर्थ्यात् परसजातीय एवादेशः ।
वस्तुतस्तु अकारपरत्वे सवर्णदीर्घेण एङ्‌परत्वे च वृद्ध्यैव दीर्घसिद्धौ "अतो गुणे" इतिसूत्रमेव व्यर्थं स्यात् । न च वृद्धिं विनाऽप्यकारस्य एङ्‌रूपविधानेन दीर्घविधिनिर्वाहाद्‌ वृद्धिप्रतिषेधार्थमेव तदिति वाच्यम् । तथाऽप्यकारपरत्वे फलाभावेन "अत एङि" इत्येव सूत्रापत्तेः । एवं सत्येकमात्रालाघवाच्च । अतश्च ह्रस्वाकारपरे पररूपविधानसामर्थ्यादेव पचन्तीत्यत्र न दोषः । अतो योगविभागो निर्दोष एवेति कल्प्यते । तथाऽपि कृष्णर्द्धिः तवल्कारः इत्यादौ गुणो न स्यात् । अकारस्य दीर्घविधानात् एङश्चान्तरतम्याभावादेव निवृत्तेः । गुणविधानस्य इकारोकारयोः परतः सावकाशत्वात् । "उरण् रपरः" इत्यस्य च वृद्धिविषये चारितार्थ्यात् । एवं च विगृहीतस्यैव श्रवणं स्यात् ।
ननु "ऋत्यकः" इति प्रकृतिभावविधानसामर्थ्यान्न तथा । न च यणादिनिवृत्त्यर्थतया तत्सार्थक्यम् । इक इत्येव निर्वाहे अक इत्यकारसङ्‌ग्रहस्य वैयर्थ्यापत्तेः । सत्यम् । तथाऽप्यकारस्यांशतः स्थानसाम्यमादाय एदोतोरेव प्रसङ्गात् । "कर्त्तरि चर्षिदेवतयोः" इत्यादिनिर्द्देशानुसरणे च गौरवात् । तस्माद्योगविभागोदुष्ट एवेति त्रिमात्रादिवारणार्थं तपरत्वमावश्यकमिति प्राप्ते---
उच्यते गुणवृद्धिसंज्ञयोरेचां तात्परत्वेन दीर्घाणामेव तत्र संज्ञित्वान्न दोषः । प्लुतस्य गुणवृद्धिसज्ज्ञाविरहात् । "सहिवहोरोदवर्णस्य" इति वर्णग्रहणेन तात्परस्यापि तत्कालग्राहकत्वज्ञापनात् ।
न चैङैच्छब्दयोस्तात्परतया दीर्घमात्रोपस्थापकत्वेऽपि तदुपस्थितानां दीर्घाणामनुच्चारितत्वेन तपरत्वाभावात् सवर्णोपस्थापकत्वं स्यादेवेति वाच्यम् । तात्परत्वस्य संज्ञायामनु पयुज्यमानत्वेन सामर्थ्यात्तदुपस्थाप्यसञ्ज्ञिषु तत्कालावधारणार्थत्वात् । न च आकारस्य सवर्णग्राहकत्वाभावेन तत्रत्यतकारस्य ऐचां तत्कालग्राहकत्वसामर्थ्येऽपि गुणसञ्ज्ञायां न तथा, अकारस्य ग्राहकतानिषेधार्थमेव तत्र तदुपयोगेन वैयर्थ्याभावादिति वाच्यम् । "अणुदित् सवर्णस्य" इति सूत्रे "स्वं रूपम्" इतिसूत्राद् अशब्दसञ्ज्ञेत्यनुवृत्त्या सञ्ज्ञाविधौ अण्‌ सवर्णान्न गृह्णातीति व्याख्यानादेव उभयत्र निर्वाहात् । तपरत्वस्य सञ्ज्ञिस्वरूपस्फुटतरप्रतिपत्तिमात्रार्थत्वात् । ऐङ्‌ गुण इत्युक्ते ऐकारोत्तरङकाराभावादवर्णप्रश्लेषनिर्णयेऽपि ह्रस्वदीर्घसन्देहः, एजित्यत्र त्वाकारप्रश्लेषाभावसन्देहश्च स्यात् । माला प्रस्थ इत्यत्र "मालादीनां च" इति पुनराद्युदात्तविधानगम्यायाः "प्रस्थेऽवृद्धमकर्क्यादीनाम्" इत्यत्र भेदप्रतियोगितावच्छेदकवृद्धत्वघटकवृद्धिसञ्ज्ञाया आकारेऽनुपपत्तिबलादाकारप्रश्लेषनिर्णयकल्पने च गौरवात् ।
वस्तुतस्तु "एङद्‌ गुणः" इति पाठेनाप्यकारमात्रस्य तत्कालग्राहकत्वसम्भवाद् "अदेङ्‌ गुण" इति मध्ये तकारनिर्द्देशस्य सामर्थ्यमक्षतमेव । न चैकमात्राधिक्यम् । गुण एङद् इति पाठसम्भवात् । "वृद्धिरादैच्‌" इत्यादाविव सञ्ज्ञासञ्ज्ञिनिर्णयस्य व्याख्यानत उपपत्तेः । ऊकालसूत्रे अच्‌पदोपस्थितस्य ह्रस्वस्य वर्णग्राहकत्वेऽकारस्य सञ्ज्ञात्रयं स्यात् । अतः शब्दसज्ज्ञायामण्‌ सवर्णग्राहको नेतिपक्षस्य भाष्ये उक्तत्वेऽपि तस्याभ्युच्चयमात्रत्वात् ।
ननु तात्परस्यापि तत्कालग्राहकत्वे "ऋदोः" इत्यप्प्रत्ययो यवः, स्तवः, इत्यादावेव स्यान्न तु लवः, पवः, इत्यादावपि इतिचेत् । अत्र भाष्यम्---
नायं तकारः किं त्वसन्देहार्थः मुखसुखार्थो वा दकार इति ।
अथ "दिव उद्‌" इत्युकारादेशस्य द्युभ्यां द्युभिरित्यादौ "तित्स्वरितम्" इति स्वरितत्ववारणाय चर्त्वेन दकार एवायं न तु तकार इति व्यवस्थाप्य "अदसोऽसेर्दादु दो मः" इत्यत्रेव भाव्यमानस्याप्युकारस्य सवर्णग्राहकत्वं स्यादित्याशङ्क्य संहितया पाठे तपरसूत्रे चर्त्वेन दकारस्यापि निर्देशाद्दकारोऽपि तत्कालग्राहक इति समाहितं षाष्ठभाष्ये, तत्कथमत्र "ऋदोरप्‌" इत्यत्र दकारनिर्देशात् तत्कालग्राहकत्वं नास्तीत्युच्यतइति चेत् । अत्राहुः । थकारस्य धकारस्य वा स्थाने जश्त्वेन निष्पन्नो दकारोऽत्र विवक्षितः । स्वाभाविकदकारस्तु तत्कालग्राहकत्वेन तत्रोपन्यस्त इति न विरोधः ।
केचित्तु "तिति प्रत्ययग्रहणं कर्त्तव्यम्" इति वदता वार्तिककारेण दकारस्य तत्कालग्राहकत्वानङ्गीकारात् तन्मतेनात्रत्यं भाष्यमित्याहुः ।
अन्ये तु "प्रत्ययाप्रत्यययोः प्रत्ययस्यैव ग्रहणम्" इति परिभाषयैव द्युभिरित्यादाविष्टसिद्ध्या न कोऽपि क्लेशो ऽनुसरणीयः ।
यत्तु तस्यास्तु परिभाषाया भाष्यवार्त्तिकयोरिहादर्शनाद् अयं यत्नो महानस्प्राभिरादृत इति हरदत्तेनोक्तम् । तच्चिन्त्यम् । "अङ्गस्य" इतिसूत्रं प्रत्याख्यातुं भाष्ये कण्ठत एवैतत्परिभाषोपन्यासात् ।
न च तत्र श्र्यर्थं भ्वर्थम् इत्यादौ इयङ्‌ङुवङादीनां प्रत्यग्रहणार्थवद्‌ग्रहणपरिभाषाभ्यां वारणेऽपि निरुतं दुरुतमित्यादौ हल उत्तरस्य संप्रसारणस्य दीर्घप्रसक्तेस्ताभ्यां दुर्वारत्वात् तद्वारणायाङ्गाधिकारस्यावश्यकत्वात् प्रत्ययग्रहणपरिभाषावैयर्थ्यमेव भाष्यसम्मतम्, अत एव "तित्स्वरितम्" इति सूत्रे प्रत्ययग्रहणपरिभाषा भाष्यवार्तिककाराभ्यां न क्व चिदाश्रितेति कैयटेनाप्युक्तमिति हरदत्ताभिप्रायमिति वाच्यम् । तथाऽपि "दिव उत्‌" इत्यादौ स्वरितत्वप्रसक्तेरेवाभावात् । यथोक्तकुसृष्टिमात्रस्यानुपादेयत्वात् । उदित्यस्य विधेयोकारानुकरणतयाऽस्य तित्त्वेऽपि विधेयस्योकारस्य तदभावात् । संज्ञायास्तान्तत्वेऽपि तित्त्वाभावाच्च । "तपरस्तत्कालस्य" इति सूत्रापेक्षिततपरत्वस्येत्सज्ञां विनाऽपि निष्पत्तेस्तकारस्येत्संज्ञायामेव मानाभावात् ।
न च यथा "अचो यत्" इत्यत्र संज्ञाधर्मेण तित्त्वेन विधेयस्य यप्रत्ययस्य तित्कार्यम्, तथा संज्ञाद्वारा अत्रापि संज्ञिनस्तित्कार्यं स्यादिति कैयटोक्तं युक्तमिति वाच्यम् । तत्र तकारस्यानन्यार्थत्वात् । अत्र च विधीयमानस्याप्युकारस्य ग्राहकत्वदर्शनेन तन्निवृत्त्यर्थत्वेन सामर्थ्याभावात् । न चानुबन्धानामनेकार्थत्वदर्शनात् तदपि स्यादिति वाच्यम् । इष्टस्थले तथात्वेऽप्यत्रोभयार्थत्वं स्वीकृत्य तन्निवृत्त्यर्थकष्टकल्पनाऽयोगात् । तस्मात्तत्रत्यं भाष्यादिकमभ्युपेत्यवाद एव । अत्रत्यभाष्यं तु यथाश्रुतमेव साधु । दकारस्य तत्कालग्राहकत्वकल्पने प्रयोजनाभावादिति वदन्ति ।
अत्रेहं चिन्त्यम् । यद्युच्चार्यमाणात्तकारान्तादन्य एव तपरत्वाभाववान्‌ संज्ञी विधेयः, तर्हि कथं "त्यदादीनामः" इत्यादौ अप्रत्यय इति पर्युदासप्रवृत्तिः । अस्य विधेयत्वाभावेन विधेयबेदसत्त्वात्सवर्णग्राहकत्वापत्तेः ।
अथ सामर्थ्याद्विधेयसमर्पकस्यैव तत्र भेदप्रतियोगिकत्वेनान्वय इति कल्प्यते, तर्हि यस्य सवर्णग्राहकत्वं प्रसक्तं तस्यैव तपरत्वे सति ग्राहकत्वाभावस्य तपरसूत्रार्थत्वात् किमायातम् । विधेयस्य तपरत्वाभावेन विधेयसमर्पकनिष्ठतित्त्वेनैव स्वरितस्यापत्तेः ।
न च अनुबन्धस्यानन्यार्थतायामेव तत्प्रयुक्तकार्यस्य विधेये प्रवृत्तिरिति वाच्यम् । "दिव उद्‌" इत्यत्रापि तुल्यत्वात् । वर्णसंज्ञापक्षे द्युभ्यामित्यादौ "हलः" इत्यनेन द्युलोक इत्यादौ "संप्रसारणस्य च" इत्यनेन प्राप्तस्य दीर्घस्य व्यावृत्त्यातपरत्वस्य चरितार्थतया भाष्यादौ स्पष्टत्वाच्च । "अदसोऽसेः" इत्यत्र ह्रस्वदीर्घयोरुकारयोः समाहारद्वन्द्वं कृत्वा उ इत्युभयोर्निर्देशसंभवेन भाव्यमानस्याप्युकारस्य सवर्णग्राहकत्वमिति ज्ञापनस्याप्यनावश्यकत्वात् । एतेन सामर्थ्याभावात् संज्ञागततित्त्वस्य न संज्ञिनि कार्यप्रवर्तकत्वमित्यपास्तम् । अनुपपत्तिमूलकत्वाभावेन सामर्थ्योपक्षयेऽपि क्षतिविरहात् । सामर्थ्यस्याप्युक्तरीत्या रक्षणाच्च ।
न च तस्य स्वरार्थकत्वे किमर्थं प्रकारान्तरेण तन्निषेधः क्रियतइति वाच्यम् । असत्युक्तप्रकारेण तन्निषेधे तित्त्वस्य स्वरार्थत्वं विज्ञायेतेति तत्तात्पर्यस्यैवोक्तरीत्या विघटितत्वात् । अन्यथा स्वरितस्य दुर्वारत्वात् । एवं च दपरत्वमाश्रित्य स्वरितापत्तौ समाहितायां दित्त्वस्य तत्कालग्राहकत्वे च प्रयोजनाभावे सिद्धे प्रकृतभाष्यं यथाश्रुतमेव रम्यम् ।
किं तु अन्यार्थत्वेऽपि तत्प्रयुक्तस्वरस्य दुर्वारतया तदर्थस्य प्रकारान्तरेण समाधानाय प्रवृत्ते षाष्ठभाष्ये अत्रत्यभाष्ये च विहोधपरिहारोऽन्यस्थानीयदकारनिर्देशाभिप्रायेणैव परिहार्य इति चोक्तक्लेशवैयर्थ्यम् ।
अथैवम् "औत्" "इटोऽत्" इत्यादावपि स्वरितापत्तिः । न चेष्टापत्तिः । "स्तीर्णे बर्हिषि समिधाने अग्नौ" इत्यादावदर्शनात् । लविषीयेत्यत्रान्तोदात्तत्वस्य "आद्युदात्तश्च" इति सूत्रे भाष्यएवोक्तत्वाच्च इतिचेत् । मैवम् । "न विभक्तो तुस्माः" इति तत्र इत्संज्ञानिषेधाद् इति दिक् ।
स्यादेतत् । वर्णग्रहणेषु तद्वर्णान्तर्गता वर्णान्तरसदृशाभागाः कार्यं प्रवर्तयन्ति न वा । नाद्यः । अग्ने इन्द्र, वायो उदकमित्यत्र सवर्णदीर्घस्य, अग्ने एहीत्यत्र "एङः पदान्ताद्‌" इति पूर्वरूपस्य, आलूयेत्यत्र "ह्रस्वस्य पिति कृति" इति तुगागमस्य, मालाभिरित्यत्र "अतो भिस ऐस्" इत्यस्य च प्रवृत्त्यापत्तेः । एचामुत्तरभागस्य इउवर्णसादृश्यात् । आकारादीनां चोत्तरभागस्य ह्रस्वतद्वर्णसाम्यात् । नान्त्यः । ऋधेर्ऋकारान्तर्गतरेफसदृशभागस्य स्वातन्त्र्येणानुपादाने "तस्मान्नुड्‌ द्विहलः" इति नुडा गमानुपपत्तेः । "कृपो रो लः" इत्यस्यानुपपत्तेश्च । ऋकारान्तर्गतरेफातिरिक्तरेफस्य तत्राभावात् । गृणातीत्यादौ रेफनिमित्तकणत्वानुपपत्तेश्च इतिचेत् । मैवम् । पक्षद्वयस्यादोषत्वात् ।
तत्र नेत्येकः पक्षः । नृसिंहवद् वर्णान्तरत्वेन तत्र तद्वर्णप्रयुक्तकार्यप्रवृत्तौ मानाभावात् । "गोद्व्यच" इत्यत्र "नौद्व्यच" इत्यत्र च गोनौशब्दयोः पृथगुपादानसामर्थ्याच्च । अन्यथा पूर्वोत्तरभागावादाय द्वयोरपि द्व्यच्त्वेन तद्वैयर्थ्यापत्तेः । नुड्‌विधिलादेशविनामेषु तु प्रतिविधेयम् । "नतिर्दन्त्यमूर्द्धन्यभाव" इति प्रातिशाख्योक्त्या दन्त्यस्थाने मूर्द्धन्यादेशस्य नतिसंज्ञत्वाद् विनामपदं प्रकृते नस्य णत्वपरम् । नुड्‌विधौ तावत् द्विहल इति विहाय "तस्मान्नुड्‌" इत्येव सूत्रं कार्यम् । दीर्घादभ्यासात्परस्य नुट्‌स्यादिति तदर्थः । न च आट आटतुः इत्यादावतिप्रसङ्गः । "अश्नोतेश्च" इत्यस्य यथान्यासे विध्यर्थस्यात्र नियमार्थत्वात् । अकारोपधानां मध्ये अश्नोतेरेव नुडागम इति नियमार्थः । तन्मात्रनिषेधस्य नाश्न इत्यतोऽपि सिद्धेः । "कृपो रो लः" इत्यत्रापि कृप उः रः लः इतिच्छेदः । कृप इत्यविभक्तिकोनिर्देशः । उच्चारणार्थश्चाकारः । कृपेर्यो रेफस्तस्य लः कृपेर्ऋकारस्यावयवो यो रेफो रेफसदृश इति यावत् तस्य च लादेश इति तेन चलीक्लृप्यतइत्यादौ "रीगृत्वतः" इति रीगागमस्य रेफस्यापि लत्वसिद्धिः । अत एव "कृपे रो लः" इति पाठो भाष्यविरोदादुपेक्ष्यः ।
वस्तुतः संबन्धसामान्ये षष्ठीमाश्रित्य कृपेः साक्षादवयवस्य परम्परावयवस्य च रेफस्योपादानात्तत्रापि न दोषः । भाष्यस्य समाधानोपलक्षणमात्रत्वात् । स्वतन्त्रास्वतन्त्रवृत्तिजातिर्नेति स्वयं वक्ष्यमाणत्वाद्रेफस्य विधीयमानं लत्वं लृकारैकदेशस्य कथं स्यादिति वस्तुत इति चिन्त्यम् ।
यत्तु "रो लः" इत्यत्र अनुवाद्ये विधेये च स्वतन्त्रास्वतन्त्रवर्णसाधारणजातिर्ग्राह्या, तेन ऋकारस्य लृकारादेश एवात्र विधेयः, एकदेशस्य पृथक्कर्तुमशक्यत्वात् । तन्न । तादृशैकजातौ प्रमाणाभावात् । "लुटि च क्लृपः" इत्यादिनिर्देशश्च इह लिङ्गम् । गृणातीत्यादौ णत्वसिद्ध्यर्थं च "छन्दस्यृदवग्रहाद्" इत्यत्र ऋदितियोगं विभज्य ऋतः परस्य नस्य णत्वं विधीयते । ततः "छन्दस्यवग्रहाद्" इति सूत्रान्तरम् । ऋत इत्यनुवृत्त्या "पितृयाणं द्युमद्" इत्यत्र पदपाठे णत्वम् । न चैवं तपरत्वान्मातॄणामित्यादौ णत्वं न स्यादिति वाच्यम् । "रषाभ्याम्" इत्यत्रापि रेफतत्सदृशभागयोः साधारण्येन ग्रहात्तत एव सिद्धेः । न च तत्र रेफसदृशभागोपादाने प्रमाणाभावः । "क्षुभ्नादिषु" तृप्नोतिशब्दस्य नृनमनशब्दस्य च पाठस्यैव तथात्वात् । न च नृनमनस्यापत्यं नार्नमनिरित्यत्र स्वतन्त्ररेफप्रयुक्तणत्ववारकतया सार्थक्यात्कथं नृनमनशब्दपाठस्य ज्ञापकत्वमिति वाच्यम् । "असिद्धं बहिरङ्गमन्तरङ्गे" इत्यत एव सिद्धेः । एवं च योगविभागपक्षस्य पश्चादुपन्यासेऽपि न तत्र भाष्यतात्पर्यम् । किं त्वत्रैव लाघवादित्यवधेयम् ।
न च ऋकारे रेफोत्तरवर्त्तिनाऽज्भागेन व्यवधानात् कथं "रषाभ्याम्" इत्यस्य प्रवृत्तिरिति वाच्यम् । "व्यवायेऽपि" इति योगविभागात् । न च कृतेनेत्यादावतिप्रसङ्गः । "अट्‌कुप्वाङ्‌नुंभिः" इति नियमात् । आक्षरसमाम्नायिकैः तत्संगृहीतैर्वा व्यवधाने यदि भवति तदा एतैरेवेति तस्यार्थः ।
वस्तुतस्त्वस्मिन्पक्षे उक्तज्ञापकात् प्रशास्तॄणामित्यादिनिर्देशाच्च ऋकारात्परस्य णत्वमेव लाघवात् ज्ञाप्यम् । योगविभागस्य वर्णैकदेशा वर्णग्रहणेन गृह्यन्ते इतिपक्षं प्रक्रम्यैव भाष्ये लिखितत्वात् ।
ननु तत्पक्षे पूर्वोक्तदोषाः कथं परिहार्या इति चेत्, उच्यते---एचां भागद्वयस्य विवृततरत्वेन अग्ने इन्द्र इत्यादौ सवर्णदीर्घाभावः । स्वतन्त्रयोरिदुतोर्विवृतत्वेन प्रयत्नभेदात् सावर्ण्याभावात् । अत एवाग्ने एहीत्यत्र न पूर्वरूपापत्तिः । "एङः पदान्तादति" इत्यकारेण सावर्ण्याभावादेचः पूर्ववर्त्यकारभागानुपस्थापनात् । "दीर्घात् पदान्ताद्वा" इति एकयोगेनैव सिद्धौ दीर्घात् पृथक् तुगागमं विधाय "पदान्ताद्वा" इति विकल्पविधानेन दीर्घे ह्रस्वाश्रयो विधिर्न भवतीति ज्ञाप्यते । दीर्घस्यापदान्ते नित्यं पदान्ते च विकल्पेन तुक् इतिव्यवस्थार्थं हि तत्र पृथक् सूत्रम् । यदि तु "छे च" इति ह्रस्वस्य विधीयमानस्तुग्दीर्घेऽपि प्रवर्तेत, तदाऽपदान्ते दीर्घेऽपि तेनैव सिद्धत्वात् पदान्ते दीर्घस्य विकल्पमात्रं विदध्यात् । अत एवालूय प्रमायेत्यत्र "ह्रस्वस्य पिति कृति" इति तुगभावः । खट्‌वाभिः मालाभिरित्यादौ ऐसादेशोऽपि न भवति । तपरत्वसामर्थ्यात् । अन्यथा अस्येत्येव ब्रूयात् । याता वातेत्यादौ अतो लोपोऽपि न भवति । "गापोष्टक्" इत्यत्र कित्त्वेन दीर्घाकारे अतो लोपो न प्रवर्त्ततइति ज्ञापनात् । अन्यथा ह्याकारोत्तरभागवर्त्तिनोऽकारस्य लोपे पूर्वभागवर्त्तिनश्च प्रत्ययाकारेण सह पररूपे सामगः सुराप इति सिद्धौ "आतो लोप इटि च" इत्यालोपप्रवृत्त्यर्थं कित्त्वं व्यर्थं स्यादिति दिक् ।
ननु सय्यँन्ता सव्वँत्सरः सल्लोँक इत्यादौ एकवर्णात्मकस्यापि यकारद्वयादेरण्सूपदिष्टैरनेकवर्णात्मकैः सावर्ण्येन ग्रहणादस्तु हल्संज्ञा, कुक्कुटः पिप्पली पित्तमित्यादिस्थानां तु कथम्, कक् प्प् त्त् इत्यस्याखण्डतया एकवर्णत्वात् । अन्यथाव्यञ्जनस्यार्द्धमात्रतया कक् इत्यादेः मात्राकालत्वानुपपत्तेः । ततश्च तस्य तदवयवयोश्च प्रत्याहारमध्ये पाठाभावात् पठितैश्चागृहीतत्वात् हल्संज्ञाविरहात्संयोगसंज्ञकत्वाभावे "संयोगे गुरु" इत्यस्याप्रवृत्त्या तत्पूर्वस्योकारादेर्गुरुत्वाभावे "गुरोरनृतः" इति प्लुतो न स्याद् इतिचेत् । अत्राहुः---द्वावेवात्र ककारौ पकारौ तकारौ च मात्राकालौ, तुल्यव्यापारोच्चार्यतया द्रागेवोच्चारणात्तु द्वयोरैक्यभ्रम इति शिष्टसंप्रदाय इति परमार्थतो वर्णानां निरवयवतया प्रक्रियादशायामेवायं विचार इति ।।

हयवरट्‌ 5 ।

अत्र हकारोपदेशोऽटि अशि हशि इणि च ग्रहणार्थः । तेन महान् हि इत्यत्र "दीर्घादटि समानपादे" इति हकाररूपमटमाश्रित्य नस्य रुत्वम्, "आतोऽटि नित्यम्" इत्यनुनासिकश्च, "भोभगो" इत्यादिना रुस्थानिययकारस्य "हलि सर्वेषाम्" इति लोपश्च । तत्राप्यशीत्यनुवृत्तेः । ब्राह्मणो हसतीत्यत्र "हशि च" इत्युत्वम् । लिलिहिढ्वे लिलिहिध्वे इत्यत्र "विभाषेटः" इति ढत्वविकल्पः । "इणः षीध्वम्" इतिसूत्रादिण इत्यस्यानुवृत्त्या इणः परो य इट् ततः परस्य विभाषां मूर्द्धन्यादेशस्य तेन विधानात् ।
अन्त्यसूत्रे तदुपदेशस्तु वल्‌रल्‌झल्‌शल्‌प्रत्याहारेषु ग्रहणार्थः । तेन रुदिहि स्वपिहीत्यत्र "रुदादिभ्यः सार्वदातुके" इति वलादिसार्वधातुकलक्षण इट्‌ । स्निहित्वा स्नेहित्वा सिस्निहिषति सिस्नेहिषतीत्यत्र "रलो व्युपधाद्धलादेः संश्च" इति इकारोकारान्यतरोपधात् रलन्तात् परौ क्त्वासन्प्रत्ययौ वा कितौ स्तः इति कित्त्वविकल्पः । अदाग्धाम् अदाग्धम् इत्यंत्र "दादेर्धातोर्घः" इति घत्वस्यासिद्धतया हकाररूपात् झलः परस्य सिचः सकारस्य "झलो झलि" इति लोपः । अरुक्षत् अलिक्षदित्यत्र "शल इगुपधादनिटः क्सः" इति शलन्तत्वप्रयुक्तः सिचः क्सादेशः । तस्मादुभयत्र निर्देशः प्रत्येकं प्रत्याहारचतुष्टये ग्रहणार्थ इति दीक्षिताः ।
नव्यास्तु प्रथमोपदेशस्य अम्‌प्रत्याहारे ग्रहणमपि प्रयोजनमस्ति । प्रयोजनचतुष्टयनियमस्य भाष्येऽनुक्तत्वात् । ककारहकाररूपव्यञ्जनानुकरणे पुंसः क्‌हौ इति समासे " पुमः खय्यम्परे" इति रुत्वं प्रयोजनम् ।
यत्तु कारप्रत्ययस्यावश्यकतया नैतयोरानन्तर्यं सम्भवतीति । तन्न । "बहुलमेव तद्विधानम्" इति कौस्तुभादावुक्तत्वात् । एतेन "स्कोः संयोगाद्योः" इत्यादौ छान्दस एव तदभावः । "उच्चैस्तरां वा वषट्‌कारः " इत्यादौ पदादपि कारप्रत्ययोत्पत्तिवदिति निरस्तम् । छान्दसत्वापेक्षया वैकल्पिकप्रवृत्तिरूपबाहुलकस्यैव युक्तत्वात् । सवर्णसंज्ञासूत्रे चशयोः कङयोः शषसविसर्जनीयेत्यादिकौस्तुभप्रयोगाणां तत्तत्सूत्रव्याख्याने प्राचीनार्वाचीनानेकप्रयोगाणां च छान्दसत्वेन साधयितुमशक्यत्वाच्च । केवलव्यञ्जनोत्तरमभियुक्तानां कारप्रयोगस्य कुत्राप्यदशर्नाच्च ।
यदपि "झलां जशोऽन्ते" इति जश्भावस्य दुर्वारत्वात् हकारस्य खय्‌परत्वं नास्ति । न च मुख्यपदान्तएव तत्प्रवृत्त्या व्यपदेशिवद्भावेन पदान्तेऽत्र न तत्प्रवृत्तिः, अन्यथा "स्कोः संयोगाद्योरन्ते च" इत्यत एवान्तपदानुवृत्तौ पुनरन्तग्रहणवैयर्थ्यादिति वाच्यम् । झलीत्यादिनिवृत्त्या पदस्येत्यनुवृत्त्या चान्तग्रहणस्य चरितार्थत्वादिति । तदप्यसत् । स्थानिसमर्प्पकझल्शब्दस्य पृथगुपादानसामर्थ्यादेव झलि इत्यस्य निवृत्तिसिद्धेः । अन्यथा "झलो झलि" इत्यनन्तरं "जशन्ते" इत्येव सूत्रं स्यात् "स्कोः" इति सूत्रे पृथगन्तग्रहणसामर्थ्यादेव मध्यस्थसूत्रद्वये तदनुवृत्त्यभावोपपत्तेः ।
न चैवमपि तत्सूत्रद्वये लोपपदानुवृत्तिर्न स्यादिति वाच्यम् । जशः स्वरितत्वाभावादननुवृत्तौ विधेयतया लोपस्य लाभोपपत्तेः । न च झलः परस्य सस्य लोपविधायके "झलो झलि" इति सूत्रे झल इत्यस्य पञ्चम्यन्ततया "जशन्ते" इति सूत्रे षष्ठ्यन्तत्वं न स्यादिति वाच्यम् । शब्दाधिकाराश्रयणात् । न च सस्येत्यस्याप्यनुवृत्त्यापत्तिः । स हि झल इत्यस्यानुवृत्तस्य पञ्चम्यन्तत्वे षष्ठ्यन्तत्वे वा । नाद्यः । झलः परस्य सस्य जश्‌ स्यादित्यर्थे झलीत्यस्यान्तइत्यस्य च नैरपेक्ष्येण निमित्तत्वे झलीत्यंशे "झलो झलि" इति लोपविधानविरोधाच्च । न च समुच्चयः । चकारादेरभावात् । भावाभावयोस्तद्विरोधाच्च । एतेन विकल्पोऽप्यपास्तः । क्लृप्तकल्प्ययोस्तदयोगान्निरनुयोगत्वाच्च । नान्त्यः । स्थान्याकाङ्‌क्षाविरहात् । न च झलीत्यभेदेन सकारे विशेषणम् । अव्यभिचारात् । नापि वैपरीत्येन विशेषणविशेष्यभावः । विशेष्यभागवैयर्थ्यात् ।
वस्तुतस्तु "इट ईटि" इत्यनन्तरं "झलो झलि" इति सूत्रं कृत्वा "जशन्ते" इति सूत्रं कर्त्तव्यम् । इत्थं च "ह्रस्वादङ्गात्" "इट ईटि" इति सूत्रद्वये सकारस्य लोपप्रतियोगिकत्वलाभो निर्बाधः । सकाराननुवृत्त्यादिकं पूर्ववत् । "स्कोः संयोगाद्योश्च" इति सूत्रं पाठ्यम् । "जशन्ते" इतिसूत्रादन्तग्रहणस्य चकाराच्च झलीत्यस्य लाभोपपत्तेः ।
यदि त्वेवमपि चकारेण जश्त्वसमुच्चयः स्यादिति दुराग्रहः, तर्हि "स्कोः" इति सूत्रं यथाश्रुतमेवास्तु । पुनरन्तग्रहणसामर्थ्याच्च जशन्त इति सूत्रनिर्द्दिष्टस्य कस्यापि नानुवृत्तिरिति । एवं सिद्धे सति "झलां जशोऽन्ते" इति सूत्रं व्यवधानेन कृत्वा झलाम् इत्यस्य पुर्नग्रहणसामर्थ्यादेव झलीत्यस्य निवृत्तिसिद्धौ अन्तग्रहणस्य मुख्यान्तग्रहणार्थत्वस्यावश्यकत्वात् नात्र जश्त्वेन समाधानं साधीयः । अत एव चित्पित्कित्तिदित्यादिप्रयोगाः । आदैजित्यत्र तपरस्योत्तरार्थ त्वे पदान्तत्वाभावाज्जश्‌भावानापत्तिशङ्‌का असन्देहार्थतया पूर्वशेषत्वात् समाधानं चेतिद्वयं कौस्तुभोक्तं च सङ्गच्छते ।
यदप्युक्तम् "ञमङणनम्" सूत्रे मकारानुबन्धप्रत्याख्यानाय झकारभकारौ पदान्तौ न स्त इति भाष्ये वक्ष्यते । उक्तरीत्या च पुम्‌क्‌झ्‌ इत्याह पुम्‌क्‌भ्‌ इत्याहेत्यादौ अञ्‌ङञ्‌प्रत्याहारयोः क्‌झ्‌भ्‌ इति क्‌भ्‌झ्‌ इति चानुकरणे यञ्प्रत्याहारस्याप्यतिप्रसङ्गः स्यादिति तद्भाष्यविरोधः ।
मन्मते तु जश्त्वेन नातिप्रसङ्गः । न च तस्यासिद्धत्वम् । त्रितयाषेक्षयाऽपि पूर्वत्वात् ।
तस्मात्पदान्तगतज्ञकारभकाराभावप्रतिपादकभाष्यबलादीदृशस्थले जश्त्वादिकमनभिदानं वाऽवश्यमाश्रयणीयम् । अन्यथा क्‌श्‌ह्‌ इत्याहेत्यादौ संयोगादिलोपस्य प्रसक्त्या "सङि" इति वचनावश्यकत्वे "परेश्च घाङ्कयोः" इति सूत्रगततत्खण्डनपरभाष्यविरोधाच्चेति । तदप्यसत् । अतिप्रसङ्गस्थले तद्बलादनभिधानेऽपि प्रकृते बाधकाभावात् । न ह्यत्र संयोगादिलोपप्रसक्तिः । संयोगस्य झल्परत्वाभावात् । पदान्तत्वाभावाच्च । न चान्तर्वर्त्तिविभक्त्या प्रकृते ह्‌ इत्यस्य पदान्तत्वम् । उत्तरपदत्वे चापदादिविधाविति प्रत्ययलक्षणनिषेधात् । पुम् त्‌ह्‌ इत्याद्यनुकरणेऽमि प्रयोजनसम्भवाच्च ।
तत् श्‌हौ इत्यत्र "छत्वममि" इति प्रयोजनमस्तीति केचित् । तच्चिन्त्यम् । यथाश्रुते अट्‌प्रयोजनोक्त्यैव क्रोडीकृतत्वात् । तस्मादमि प्रयोजनं दुर्वारमिति दिक् ।
स्यादेतत् । रेफस्य यरन्तर्भावात् तत्कार्याणि प्रसज्यन्ते । तथा हि । मद्रह्रदः भद्रह्रद इत्यत्र "अचो रहाभ्याम्" इति अचः पराभ्यां रेफहकाराभ्यां परस्य यरो विधीयमानं द्वित्वं स्यात् । न च "रो रि" इति लोपान्नेर्वाहः । तं प्रति द्वित्वस्यासिद्धत्वात् । "हलो यमां यमि" इतिलोपस्य तु वैकल्पिकतया पक्षे रेफद्वयश्रवणापत्तेः । कुण्डं रथेन वनं रथेनेत्यत्र "अनुस्वारस्य ययि परसवर्णः" स्यात् । न च रेफोष्मणां सवर्णाभावान्न दोषः । विजातीयतदभावेऽपि रेफस्यैवापत्तेः । प्रातर्नयतीत्यादौ "यरोऽनुनासिकेऽनुनासिको वा" इति स्थानसाम्येन पक्षे णकारः स्यात् ।
न च "हरयवट्‌" इति यकारवकाराभ्यां पूर्वं रेफो निर्देश्य इति वाच्यम् । देवित्वा दिदेविषतीत्यत्र "रलो व्युपधाद्‌" इति पक्षे कित्त्वप्रसङ्गात् । वकारस्याप्युक्तरीत्या रलन्तर्भावात् । न च तत्र अव्युपधाद् इतिच्छित्वा वकारद्वयं च प्रश्लिष्य अवकारान्ताद् इउवर्णोपधात् इतिव्याख्यानाद्वकारान्ते न दोष इति वाच्यम् । तथा ऽपि गौधेर इत्यादौ "गोधाया ढ्रक्‌" इति ढ्रक्‌प्रत्यये ढस्य एयित्यादेशे आदिवृद्धौ "यस्येति च" इत्याकारलोपे च "लोपो व्योर्वलि" इति यकारलोपानुपपत्तेः । पचेरन्नित्यत्र सीयुटि सलोपे पच ईय्‌ रन् इत्यत्र तदसिद्धेश्च । रेफस्य वल्यनन्तर्भावात् ।
न च "रलि" इत्येव तत्र वक्तव्यमिति वाच्यम् । हय गतौ हय्यादित्यत्र यकारस्यापि लोपापत्तेः । न च यथान्यासएव र्वलि इति सरेफं पदं छित्त्वा रेफे वलि च परतो लोपविधानान्न दोष इति वाच्यम् । तथाऽपि यण्‌स्थले सर्वत्र रणिति न्यासापत्तेः । यथासंख्यपरिभाषया इकारोकारऋकाराणां स्थाने रेफयकारवकारादेशापत्तेश्च । न च "स्थानेऽन्तरतम" परिभाषया निर्वाहः । परत्वाद्यथासंख्यस्यैवापत्तेरिति वदन्ति ।
वस्तुतस्तु "व्युपधात् " इत्यत्र इकारोकारयोः स्थाने यकारवकारयोः "अर्वणस्त्रसौ" इत्यत्र ऋकारस्थाने रेफादेशस्य च दर्शनादन्तरतमपरिभाषैवात्र प्रवर्त्तते ।
यद्वा "अऋइण्‌" "उलृक्" इति पूर्वत्रापि न्यासः कर्त्तव्यः । इक्‌स्थाने ऋक् इति इण्‌स्थाने च ऋण्‌ इति प्रदेशेषु व्यवहर्तव्यम् । इण्‌ग्रहणानां सर्वेषां सिद्धान्तेऽपि द्वितीयणकारेणैव वाच्यत्वात् । इच्‌प्रत्याहारस्थलेऽपि ऋच्‌पदमेव वक्तव्यम् । "इसुसुक्तान्तात् " इत्यत्रापि उक्‌स्थाने ऋक्‌पदमेव देयम् । न च इकारस्याधिकस्य संग्रहापत्तिः । इष्टापत्तेः । "यस्येति च" इकारलोपमिकादेशं च कृत्वा सिद्धान्ते यथारूपं तथैव कादेशेऽपि । "यस्येति च" इत्यस्याप्रवृत्तिमात्रं तु न दोषाय । "श्र्युक" इत्यत्रापि ऋक्‌पदोपादाने इकारस्याधिकस्य संग्रहेऽपि श्रिग्रहणस्य नियमार्थत्वात् ।
वस्तुत ऋक्‌प्रत्याहारे इकारस्य कुत्रापि ग्रहणं नेति ज्ञापनार्थत्वात् । तेन "उगिदचां सर्वनामस्थाने" "उगितश्च" इत्यादौ न दोषः । एवं च हस्तिनीनां समूहो हास्तिकमिति ठक्‌प्रत्यये इकादेशाभावे भसंज्ञाविरहे "भस्याढे तद्धिते" इति पुंवद्भावो न स्याद् इतिदोषविरहोऽपि निर्बाधः । "अणुदित् सवर्णस्य" इत्यत्र तु न कोऽपि विशेषः । परेणैव तत्र प्रत्याहारात् । तदन्यत्र तु अण्‌प्रत्याहारस्य पूर्वेणैव ग्राह्यत्वात् उकारस्य तद्बहिर्भाव ऋकारस्य तदन्तर्भावच्च स्यादिति दोषः । परं तु व्य इति तत्स्थले सर्वत्र निर्देश्यम् । उ इ अ इत्येषां तेन संग्रहात् । व्याख्यानवशाच्च वकारादीनां न ग्रहणम् । सिद्धान्तेऽपि पूर्वेण परेण वा णकारेण प्रत्याहार इति निर्णयार्थं व्याख्यानस्यैवादरणीयत्वात् । पूर्वत्र णकारनुबन्धश्च परित्याज्यः । न चैवं व्याख्यानतो विशेषप्रतिपत्तिरिति परिभाषायां लिङ्गाभावः । लिङ्गान्तरस्य संभवात् ।
बस्तुतस्तु "अऋइउण्‌" "लृक्‌" इति न्यासः कार्यः । अत उकारस्य न बहिर्भावः । परिशिष्यते तु ऋकारस्याधिकस्यान्तर्भावापत्तिः । साऽप्येवं परिहार्या । तृतीयेतिनिर्देशेन अण्‌ग्रहणेषु ऋकारो न गृह्यते इति ज्ञाप्यते । तथा हि । "हलः" इतिसूत्रे अण इत्यस्य नानुवृत्तिरिति लण्‌=सूत्रे स्थापयिष्यते । तथाऽपि तत् सिद्धान्तदृष्ट्यैव । एतत्पक्षे तु तत्राप्यण इत्यनुवर्त्यमेव । "इकः काशे" इत्यत्रापि तदनुवृत्तौ इग्रूपस्याण इत्यभेदान्वयेन समाधानस्य भाष्यएव स्पष्टत्वात् । यदि च "ढ्रलोपे" इतिसूत्रे अण्‌ग्रहणेन ऋकारोऽपि गृह्येत, तदा "हलः" इत्यत्रापि तथात्वप्रसक्त्या तृतीयेत्यत्र त्रेस्तीयप्रत्यये रेफस्य संप्रसारणे ऋकारे च कृते ऋकारस्यापि दीर्घापत्त्या तृतीयेति निर्देशोऽसंगत एव स्यात् । अत इष्टानुरोधात्पूर्वेणाण्‌ग्रहणस्थले ऋकारस्तन्मध्ये न गृह्यते इतिज्ञापनेन सकलेष्टसिद्धेः ।
स्यादेतत् । ऋकारस्य यथान्यासपक्षे पूर्वेण अण्प्रत्याहारे गृह्यमाणे तद्बहिर्भूततया तद्व्यावृत्तयर्थं तत्र पूर्वेणाण्‌ग्रहणं स्वीक्रियते । उक्तन्यासे तु पूर्वेणाण्‌ग्रहणेऽपि तद्ब्रहिर्भावानुपपत्त्या उक्तातिप्रसङ्गस्य च तृतीयेति निर्देशेनैव वारणसम्भवात् तत्र अण्‌ग्रहणं पूर्वेणैवेत्यत्र मानाभावः । परेणाण्‌ग्रहणेऽपि ऋकारस्याण्‌बहिर्भाव इति स्वीकारे तु "अणुदित् सर्वणस्य" इत्यत्रापि तद्‌ग्रहणानुपपत्तिः इतिचेत् । सत्यम् । ऋलृवर्णयोर्मिथः सावर्ण्यारम्भसामर्थ्यात् तस्य ग्राहकत्वसिद्धेः । न च सवर्णदीर्घादिविधाने चारितार्थ्यमिति वाच्यम् । तथाऽपि "ऋदुपधाच्चाल्कृपिचृतेः" इत्यत्र भेदप्रतियोगित्वेन ल्कृपिनिवेशेन पर्युदासव्यतिरेके ऋदुपधत्वप्रयुक्तकार्यापत्तेरपेक्षितत्वात् । ऋकारस्य लृकारग्राहकत्वाभावे च सामान्यशास्त्रस्य तद्विषयकत्वप्रसक्त्यभावे तद्व्यावृत्तितात्पर्यकस्य ल्कृपिपर्युदासस्य वैयर्थ्यापातात् ।
वस्तुतो हलां दीर्घत्वबाधाद् एचां च विशेषाभावात्तत्र परेणाण्‌ग्रहणवैयर्थ्यात् । तथा च यथासङ्ख्यपरिभाषयैव निर्वाह इति भागवतो भाष्यकारस्य भावः । र्वलीति व्याख्यानेन च पचेरन् गौधेरादिसिद्ध्यनन्तरं दोषान्तरानुपन्यासेन तद्दोषपरिहारे तत्सम्मतिनिर्णयात् । अत एव "अथ वा पुनरस्तु परोपदेश" इति रेफापकर्षसमकक्षतयैव यथान्यासे दोषोद्धाराभिधानात् । तद्यथा ब्राह्मणा भोज्यन्तां माठरकौण्डिन्यौ परिवेविष्टामित्यत्र सामान्यतः प्राप्तं भोजनं विशेषशिष्टेन परिवेषणेनेव कार्यप्रतियोगियर्निष्ठपरत्वनिरूप्यपूर्वत्वरूपेण द्वित्वनिमित्तत्वश्रुत्या कार्यप्रतियोगित्वं बाध्यतइति मद्रह्रद इत्यादौ न द्वित्वम् । सामान्यस्य विशेषपर्यवसानपर्यन्तं साक्षाच्‌श्रुतकार्यान्तरस्यैव प्रथमोपस्थित्या तद्विशेषेऽन्वयात् । तदेतदुक्तम्---
नेमौ रहौ कार्यिणौ द्विर्वचनस्य, किं तर्हि निमित्तमिति ।
हकारस्य यर्बहिर्भूतस्य यथा न द्वित्वं, तथा तदन्तर्भूतस्यापि रेफस्य । कार्योपधायकसामग्रीवैकल्यसाम्ये तदन्तर्भावमात्रस्याकिंचित्करत्वात् । तच्च दृष्टान्ते यर्त्वाभावात् दार्ष्टान्तिके चोद्देश्यतावच्छेदकघटकभेदप्रतियोगित्वात् । रेफ भिन्नयर्त्वस्यैव न्यायवशाद्द्वित्वविधावुद्देश्यतावच्छेदकत्वात् । एवम् "अनचि च" इत्यनेन हर्यनुभव इत्यादावपि रेफस्य न द्वित्वम् । अर्थाधिकारेण तत्रापि यर इत्यस्य रेफभिन्नपरत्वात् ।
अथैवम् "इको यणचि" इत्यादिकं दध्युदकमित्यादौ न प्रवर्त्तेत । विशेषतः श्रुतेन स्थानित्वेन इको निमित्तत्वबाधापत्तेः इतिचेत्, अत्र कैयटः---
तस्मादित्युत्तरस्य इत्यादिनिर्देशान्न तत्रोक्तन्यायप्रवृत्तिरिति ।
यत्तु कौस्तुभे व्यक्तिपक्षे प्रतिलक्ष्यमसकृल्लक्षणप्रवृत्तेः स एव तत्राश्रयणीयः । यद्वा प्रतिलक्ष्यं भिन्नानां सर्वेषां लक्षणानां तन्त्रेणोच्चारणम् "इको यणचि" इति । तथा च सर्वासामिकारव्यक्तीनां यण्‌विधानेऽर्थादिक्‌परत्वेऽपि यण्‌सिद्धिः । अन्यथा सर्वेषामिकाराणामिग्भिन्नच्परत्वान्नियमाभावेन विध्यर्थानिष्पत्तेः । न चातिप्रसङ्गः, अपवादविधिपर्यालोचनया तद्व्यक्तावेतत्तात्पर्याकल्पनादिति । तच्चिन्त्यम् । व्यक्तिपक्षेऽपि निमित्तसमर्पकस्याच्‌पदस्य न्यायवशादिग्भिन्नपरत्वे सिद्धे इग्रूपाच्पूर्ववर्त्तिन्या इग्व्यक्तेरुद्देश्यत्वएव मानाभावाद् दध्युदकादौ तत्प्रवृत्तेर्दुर्घटत्वात् । श्रूयमाणवाक्ये उद्देश्यताविधेयतावच्छेदकत्वाभ्यां निश्चिता ये धर्माः तदवच्छिन्नव्यक्तिष्वेव न्यायसाम्येन तत्समानाकारकवाक्यान्तराणां प्रवृत्तेः । अन्यथा हल्परत्वेऽपि यणादिप्रवृत्त्यापत्तेः । न च अचुपदोपादानसामर्थ्यम् । इग्भिन्नमात्रसंग्राहकप्रकारान्तराभावात् । एचीत्युक्ते एवमात्राधिक्यादकारानुपग्रहाच्च इति दिक् ।
अत्र वार्त्तिकम्---
अयोगवाहानामट्‌सु णत्वम्, शर्षु जश्भावषत्वे, अविशेषेण संयोगोपधासंज्ञाऽलोऽन्त्यद्विर्वचनस्थानिवत्त्वप्रतिषेधा इति ।
प्रयोजनविशेषपुरस्कारेणैव येषां प्रत्याहारविशेषान्तर्भाव इष्टः तेषां प्रत्याहारान्तरेषु प्रवेशापत्त्या वर्णसमाम्नायेऽनुपदेशादनेन सप्रयोजनः प्रत्याहारविशेषान्तर्भावः प्रतिपाद्यते ।
अयोगाः स्वरूपतो द्वारतो वा प्रत्याहारानन्तर्भूताः वाहाः प्रयोगे श्रूयमाणाः ते च विसर्जनीयजिह्वामूलीयोपध्मानीयानुस्वारयमा इति भाष्यम् ।
यद्यप्यत्र "ऋति ऋ वा" "लृति लृ वा" इति षष्ठे वक्ष्यमाणौ ईषत्स्पृष्टौ नोक्तौ । तथाऽपि तयोरच्‌त्वं वक्ष्यामीति तुल्यास्यसूत्रभाष्ये दर्शनात्तावप्यत्रोपलक्षणीयौ । एषामट्‌सु पाठः कार्यः । उरः कायति उरः पातीति कप्रत्ययः । उरः केण उरः---पेण इत्यत्र णत्वं यथा स्यात् । अन्यथा अट्‌त्वाभावेऽड्‌व्यवायेऽपीति न प्रवर्त्तेत ।
शर्षु चोपदेशः कार्यः । उब्ज आर्जवे इत्युपध्मानीयोपधस्य धातोरुपध्मानीयस्थाने "झलां जश्‌ झशि" इति जश्त्वेनान्तरतम्याद्‌ बकारादेशे उब्जितेत्यादि यथा स्यात् । शर्त्वसिद्धौ तन्नान्तरीयकतया झल्त्वस्यापि सिद्धेः । सर्पिः षु धनुः षु इत्यादौ "नुम् विसर्जनीयशर्व्यवायेऽपि" इति षत्वं च यथा स्यात् । न च तत्र विसर्जनीयस्य पृथगुपादानादेवेष्टसिद्धिः । तस्यैवोक्तरीत्या प्रत्याख्येयत्वात् ।
अविशेषेण प्रयोजनपञ्चकोपयुक्तप्रत्याहारपुरुस्कारेण इत्यर्थः । तेन उ3ब्जकेत्यत्र उकारस्य प्लुतोपयुक्तगुरुसंज्ञाप्रयोजकसंयोगसंज्ञाप्रयोजकं हल्त्वम्, निष्कृतं दुष्कृतमित्यत्र "इदुदुपधस्य" इति षत्वोपयुक्तोपधासञ्ज्ञाया विशेष्यभूतवर्णनिष्ठाव्यवहितपूर्वत्वनिरूपकान्त्यत्वप्रतियोगितावच्छेदकत्वं, वृक्षस्तरतीत्यत्र विसर्जनीयान्तस्य पदस्य स इति पक्षे सर्वादेशत्ववारणाय अलोऽन्त्यसूत्रविहितान्तादेशस्थानितावच्छेदकम्, व्यूढोरस्केनेत्यत्र सकारस्य स्थानिवद्भावेनाड्‌व्यवाय इति णत्वप्राप्तौ "अनल्विधौ" इति पर्युदासघटकभेदप्रतियोगितावच्छेदकं चाल्त्वम्, उरःक उरःप इत्यादौ "अनचि च" इति द्वित्वप्रतियोगितावच्छेदकं यर्त्वं च विसर्गादीनां सिध्यतीति वार्त्तिकार्थः ।
अत्रायं विवेकः । जश्भावो न प्रयोजनम् । उब्जधातोरुपध्मानीयोपधत्वे प्रमाणाभावात् । उब्जिजिषतीत्यसिद्ध्यापत्तेश्च । तथा हि । बकारसहितस्यैव द्वित्वे "हलादिः शेषः" इति जकारनिवृत्तावभ्यासे बकारमात्रं श्रूयते । न च जश्त्वासिद्धतया बकारसहितस्य न द्वित्वमिति वाच्यम् । पूर्वत्रासिद्धीयमद्वित्वे इत्युक्तेः ।
अथ प्राणिणिषतीत्यत्र "उभौ साभ्यासस्य" इति नकारद्वयस्य णत्वविधानादुक्तपरिभाषाऽनित्या । अन्यथा णकारविशिष्टस्यैव द्वित्वे अभ्यासे स्वत एव णकारसिद्धौ तद्वैयर्थ्यात् । अत एव औजढदित्यत्राभ्यासे जकारसिद्धिरित्याश्रीयते । तथाऽपि नेष्टसिद्धिः । अभ्यासस्योपध्मानीयमात्रशेषतापत्तौ "अभ्यासे चर्च" इति जश्त्वेन बकारस्यैव श्रवणापत्तेः । उबिब्जिषतीति रूपसाम्येन दोषाविशेषादिति कैयटादयः ।
यत्तु "प्रकृतिचरां प्रकृतिचरः" इति सिद्धान्ताद् उपध्मानीयमात्रस्याभ्यासे श्रवणापत्तिरिति स्थापितम् । तच्चिन्त्यम् । प्रतिनियतविषयपुरस्कारेण प्रत्याहारविशेषान्तर्भाववचनसामर्थ्येन चर्त्वासिद्धेः । न चैवं झल्संज्ञाऽपि न स्यादिति वाच्यम् । जश्त्वस्य प्रयोजनत्वोक्त्या तदेकवाक्यतापन्नसंज्ञाया अप्याक्षेपेण वैषम्यात् । न हि "झलाञ्जशः" इति जश्त्वमेव तत्रोपात्तमिति वक्तुं शक्यम् । बीजाभावादिति वृद्धाभिप्रायात् । तस्मादुब्जिजिषतीति रूपासिद्धिस्तदवस्थेति । एवमस्मादेव घञि "चजोः कु घिण्ण्यतोः" इति कुत्वेन जकारस्य गकारादेशे उपध्मानीयस्य जश्त्वेन बत्वे कृते अभ्युब्ग समुब्गः इति रूपापत्तौ "सोऽपदादौ" इत्यधिकारे "उपध्मानीयस्य च" इति वार्त्तिकान्तरेण कवर्गे परत उपध्मानीयस्य सकारादेशं तत्स्थाने जश्त्वेन दन्तस्थानसाम्याद्दकारादेशं कृत्वा अभ्युद्गः समुद्गः इति रूपं साधनीयमिति सत्वविधायकवचनान्तरारम्भेऽपि गौरवम् ।
यदि तु बकारोपधोऽयमिति वृत्तिमतमाश्रीयते तथाऽपि सनिबकारस्य द्वित्वनिषेधोऽभ्युद्ग इत्यत्र बस्य दत्वं च साधयितुं वचनद्वयानुमाने गौरवमेव स्यात् । तस्माद्दकारोपध एवायम् । अभ्युद्‌ग इत्यादेः स्वरसतः सिद्धेः । न चैवमुब्जितेत्यादि कथमिति वाच्यम् । "भुजन्युब्जौ" इति कुत्वाभावनिपातनार्थे सूत्रे बकारोच्चारणेन "भ उद्‌जेः" इति "ब उद्‌जेः" इति वा वचनस्यानुमानात् । अकुत्वविषये उद्‌जेर्दकारस्य भकारो बकारो वा स्यात् । "स्तोश्चुना श्चुः" इत्येतदुत्तरं तत्कल्पनाच्च तवर्गापस्थितदकारस्य स्थानित्वलाभः । एवं च " न्द्राः संयोगादयः" इति दकारस्य द्वित्वनिषेधाज्जिशब्दस्यैव द्वित्वे दकारस्य चोक्तवचनेन बत्वे कृते उब्जिजिषतीत्यपि सिद्धम् । न च द्वित्वात्पूर्वं परत्वाद्‌बत्वापत्तिः । "पूर्वत्रासिद्धे नास्ति विप्रतिषेधः" इति सिद्धान्तात् । नाप्यन्तरङ्गत्वात् । असिद्धत्वादेव । नापि "पूर्वत्रासिद्धीयमद्विर्वचने"इति तन्निषेधः । द्वित्वविधावेव तत्प्रवृत्तेः । अत्र च द्वित्वनिषेधेन वैषम्यात् ।
अत्रेदमवधेयम् । "न न्द्राः संयोगादयः " इत्यत्र "लोपो व्योर्वलि" इति लोपेन दकाराद्रेफाद्वा पूर्वं बकारोऽपि प्रश्लिष्यते । तेन वार्त्तिकमते वृत्तिमते च उब्जेर्बकारस्य द्वित्वनि षेधार्थं न वचनान्तरानुसारः । वार्त्तिकमतेऽपि पूर्वत्रासिद्धीयमद्विर्वचन इत्याश्रित्य बकारस्य द्वित्वनिषेधसिद्धेः । अतो भाष्यमते न लाघवावकाशः । अतिरिक्तैकवचनकल्पनं तु त्रयाणामपि समानम् । एतावान्परं विशेषः । वार्त्तिकमते उपध्मानीयस्य सकारादेशविधायकं वचनं कल्प्यम् । भाष्यमते दकारस्य बत्वविधायकम् । वृत्तिमते तु बकारस्य दकारविधायकमिति । यदि तु "भुजन्युब्जौ" इति निपातनादेव दस्य बादेशो न तूक्तवचनमनुमेयमिति भाष्यमते लाघवमिति कल्प्यते, तदा बकारस्यैव द्वित्वापत्तिः । असिद्धत्वाभावात् । दकारोपधनिर्देशसामर्थ्याज्जिशब्दस्य द्वित्वानन्तरमेव दकारस्य द्वित्वमिति कल्पनेऽपि अभ्युद्‌ग इत्यादावपि तदापत्तेः । अकुत्वविषये एव बत्वं निपात्यत इतिकल्पनेऽपि कुत्वविषये श्रवणार्थतया दकारोपदेशस्य चरितार्थत्वात् द्वित्वानन्तरमेव बत्वमिति न स्यात् ।
अथाविशेषेण बत्वनिपातमभ्युपेत्य उपसर्गान्तरपूर्वकात्केवलाद्वा उब्जेर्न घञादिः अनभिधानात् । अभ्युद्गः समुद्ग इति तूपसर्गद्वयपूर्वकाद्गमेर्डप्रत्यये रूपमिति कल्प्यते । ततो वार्त्तिकवृत्त्योर्मतेऽपि अभ्युद्ग इत्यादेरुक्तगत्यैव साधयितुं शक्यतया उपध्मानीयस्य सत्वविधायकं बकारस्य दत्वविधायकं च वचनं न कल्प्यमिति कुतस्तत्रापि गौरवम् ।
परं तूपध्मानीयस्य शर्षूपदेश एवातिरिक्तः कल्प्य इति गौरवम् । वृत्तिमते तूक्तरीत्या बकारप्रश्लेषकृतं गौरवम् वार्त्तिकसाधारणं बोध्यम् । किं च भाष्यवृत्त्योर्मते संयोगसंज्ञार्थं यत्नान्तरं नास्थेयम् । वार्त्तिकमते तु पूर्वोक्तरीत्या तदावश्यकमिति गौरवम् ।
ननु षत्वसिद्ध्यर्थं शर्षूपदेशस्यावश्यकतया तद्‌गौरवमपि नेति चेत् । मैवम् । तदर्थं विसर्गस्यैव तदन्तर्भावानपेक्षणात् । वस्तुतस्तस्याप्यप्रयोजनत्वात् । "नुम्‌विसर्जनीय" इति सूत्रे विसर्जनीयपदस्य सत्त्वेन तद्व्यवाये षत्वसिद्धेरप्रत्यूहत्वात् । न च तत्र तन्न कर्त्तव्यमेवेति वाच्यम् । सिद्धं प्रत्याख्याय यत्नान्तरकल्पनस्यैव वैयर्थ्यात् ।
यत्तु शर्षूपदेशेन झल्त्वमिव हल्त्वयर्त्वखर्त्वान्यपि सिध्यन्ति । खर्त्वस्य फलं तु "कुप्वोः ःकःपौ च" इति विसर्गः । अतः शर्षूपदेशावश्यकत्वे तत एव निर्वाहे सूत्रे विसर्जनीयग्रहणं न कार्यमेवेति । तच्चिन्त्यम् । जश्त्वस्य प्रयोजनत्वोक्त्या तद्ब्रलाज्झल्‌त्वसिद्धावपि हल्त्वादीनां तेनानाक्षेपात् । हल्त्वयर्त्वाल्त्वानां प्रातिस्विकरूपेणैव विधानात् । विसर्गस्य च सौत्रत्वादेव सिद्धेः । लोकेऽपि तस्येष्टत्वे तु अविशेषेणेत्यत्र तस्यापि प्रक्षेप्तुमुचितत्वात् । अस्तु वा तत एव ज्ञापकादतिरिक्तखर्त्त्वस्यापि स्वातन्त्र्येण सिद्धिः । न तु तावता हल्त्वयर्त्वादेः शर्त्वाक्षेप्यत्वं मानाभावात् ।
अस्तु वा शर्त्वाक्षिप्तानामप्येषां कार्यविशेषपुरस्कारेण नियमार्थम् । अविशेषेणेत्यादिवार्त्तिकं सर्वथाऽप्युक्तकार्यातिरिक्ते नैषां कुत्रापि प्रत्याहारउपादानम् । अत एव "कुप्वोः ःकःपौ" इत्यत्र "खर्परे शरि" इति विसर्ग एव । यद्वा "वा शरि" इति विकल्प इति निरस्तम् । अत एवाट्‌शरोरुपदेशेन संज्ञान्तराणां सिद्धिसम्भवेऽपि उपायस्योपायान्तरादूषकत्वादित्याशयेन प्रत्याहारविशेषान् पृथक् पुरुस्कृत्य वार्त्तिकाक्षरविन्यास इत्यप्यपास्तम् । नियमार्थमुक्तप्रकारेणैव वार्त्तिकाक्षरविन्यास इत्यप्यपास्तम् । नियमार्थमुक्तप्रकारेणैव वार्त्तिकरचनाया उचितत्वात् । एतेन हरिः करोति हरिं पश्य इत्यत्र यण्वारणाय विसर्गानुस्वारयोरसिद्धत्वानुसरणक्लेशोऽप्यपास्तः । एतेनैव अट्‌सु क्रियमाण उपदेशोऽकाराव्यवहितोत्तरमेव कर्त्तव्यः, अन्यथा इण्‌प्रत्याहारान्तर्भावे संस्कर्त्तेत्यत्रानुस्वारात्परस्य सस्य षत्वापत्तेरित्यप्यपास्तम् । ध्वनितं चेदं संस्कर्त्तेत्यत्रानुस्वारादचः परस्य सस्य द्वित्वं वदता, उक्तरीत्या उबिब्जिषतीत्यभ्यासे बकारं चापादयता कैयटेनैवेति दिक् । तस्माज्जश्त्वषत्वे नात्र प्रयोजने इति सिद्धम् ।
आवश्यकं चेदं भाष्यकृतोऽपि । अन्यथा षत्वार्थं शर्षूपदेशस्यावश्यकत्वे तत एव जश्त्वस्यापि तत एव झल्त्वेन सिद्धौ वार्त्तिकमतेऽपि तत एव झल्त्वेन सिद्धौ वार्त्तिकमतेऽपि शर्षूपदेशरूपगौरवानापत्तेः । "भुजन्युब्जौ" इति निपातनस्य बत्वांशेऽपि तात्पर्यस्य भाष्यकृतोऽप्यधिकस्य कल्प्यत्वात् । गौरवान्तरस्य च परिहृतत्वात् ।
न च बार्त्तिकमते संयोगसंज्ञासिद्ध्यर्थयत्ननिबन्धनं गौरवम् । "भुजन्युब्जौ" इत्यत्र गुरूच्चारणसामर्थ्येन जश्त्वस्यासिद्धत्वाभावं कल्पयित्वा बकारमादायैव तत्सिद्धः । संयोगसंज्ञायाः प्रयोजनत्वाभिधानस्य च यथाश्रुतपरत्वात् । तस्माज्जश्त्वरूपप्रयोजनप्रत्याख्यानपरभाष्यप्रामाण्यात् षत्वस्यापि प्रकृतप्रयोजनत्वप्रत्याख्याने तत्सम्मतिरून्नीयते । जिह्वामूली यपरत्वे विसर्गसिद्धिस्तु "कुप्वोः ःकःपौ च" इति निपातसामर्थ्यादेव । तेन "खयां यमाः खयः ःकःपौ" इत्यादौ नानुपपत्तिरिति सूक्ष्ममवधेयम् ।
उपधासंज्ञाऽपि न प्रयोजनम् । इदुदुपधस्थानिको यो विसर्ग इतिव्याख्यानात् । इदुद्‌भ्यां परस्य विसर्गस्येत्यत एव सिद्धावुपधाग्रहणप्रत्याख्यानाद्वा ।
अलोऽन्त्यविधिरपि न प्रयोजनम् । पदस्य यो विसर्जनीयस्तस्य सकार इतिव्याख्यानादेव सिद्धेः ।
स्थानिवत्त्वप्रतिषेधोऽपि न प्रयोजनम् । पूर्वत्रासिद्धीये न स्थानिवदिति सिद्धेः । न च तस्य "अचः परस्मिन्" इत्येतन्मात्रविषयकत्वम् । स्थानिकद्भावं प्रति त्रिपादीस्थस्यासिद्धतया न्यायमूलकत्वात् स्थानिवद्भावमात्रविषयकत्वात् । तस्मादट्‌सु णत्वम् "अनचि च" इति द्वित्वं चेति प्रयोजनद्वयमेव सिद्धम् ।

लण्‌ 6 ।

हकारादावकारस्य सुखोच्चारणमात्रार्थत्वेऽप्यत्रानुनासिकत्वादित्संज्ञा । प्रतिज्ञाऽऽनुनासिक्याः पाणिनीया इतिसिद्धान्तात् । तेन रेफेण सहाकारोच्चारणे "उरण्‌ रपरः" इत्यत्र रप्रत्याहारेण रेफलकारयोरुपादानम् । ऋकारलृकारयोः सावर्ण्यमिति वार्त्तिकनिर्देशश्चात्र मानम् ।
ननु "ढ्रलोपे पूर्वस्य दीर्घोऽणः" इत्यादावण्‌ग्रहणं पूर्वेण परेण वा णकारेणेतिसंदेहः प्राप्नोति इतिचेन्न । ग्रहणकशास्त्रे परेणैव तदन्यत्र पूर्वेणैवेतिव्याख्यानवशात्तन्निवृत्तेः । तथा हि । अच इत्येव सिद्धत्वाद् एचां दीर्घत्वे विशेषाभावाद् अक इत्येव वा सिद्धत्वाद् दीर्घत्वस्याज्‌मात्रधर्मतया हकारादीनां तदसम्भवाद्विनाऽप्यज्‌ग्रहणं सिद्धत्वाच्चाण्‌ग्रहणसामर्थ्यादेव "ढ्रलोपे" इत्यत्र पूर्वेणाण्‌ग्रहणम् । न च वृहू उद्यमानइत्यस्मात्तृचि ऊदित्त्वात् "स्वरतिसूति" इति इडभावऋकारस्य गुणे "होढः" इति ढत्वे "झषस्तथोः" इति प्रत्ययतकारस्य धत्वे ष्टुत्वेन धस्य ढत्वे "ढो ढे लोपः" इति पूर्वढकारलोपे रेफस्य स्थानसाम्येन ऋकारे दीर्घे ढलोपस्यासिद्धतया तत्पूर्वऋकारस्योपधासंज्ञायाम् "उपधायाश्च" इति इत्वे रपरत्वे इकारस्य लघूपधगुणे च वेर्ढेतिरूपार्थं परेणाण्‌ग्रहणं स्यादिति वाच्यम् । "अचश्च" इतिपरिभाषाविरोधात् रेफस्य दीर्घासम्भवात् । न च परेणाण्‌ग्रहणसामर्थ्याम् । अन्योऽन्याश्रयात् । अण्‌ग्रहणसामर्थ्यप्रदर्शकभाष्यविरोधाद् अटिति टकारेण सह प्रत्याहारपाठेनापि तदुपपत्तेश्च ।
यत्तु तृतीयेति निर्देशात्पूर्वेणैवात्राण्‌ । अन्यथा "हलः" इत्यत्राप्यत्रत्यस्यैवाणोऽनुवृत्त्या त्रेः संप्रसारणे रेफस्थानीयऋकाररूपस्याणोऽपि दीर्घप्रसङ्गादिति । तच्चिन्त्यम् । अङ्गावयवाद्धलः परं यत् संप्रसारणं तदन्ताङ्गस्य दीर्घः स्यादित्येव तदर्थात् । "इकः काशे" इत्यादौ विच्छिन्नस्याण्‌ग्रहणस्यानुवृत्तौ मानाभावात् । तथा च तत्र भाष्ये उक्तसूत्रादण्‌ग्रहणानुवृत्त्या पूर्वं समाधानं कृत्वा सिद्धान्तितम्---
अथ वा उभयं निवृत्तं, कस्मान्न भवति तृतीय इति, द्वितीयतृतीयनिपातनादेतत्सिद्धमिति ।
तस्मादण्‌ग्रहणमेव ज्ञापकमिति भाष्यसम्मतम् ।
यत्तु प्राचाम् अणः किं दृढ इति प्रत्युदाहरणम्, तच्चिन्त्यम् । "दृढः स्थूलबलयोः" इत्यत्र इडभावो नकारहकारयोर्लोपो निष्ठातकारस्य ढत्वं च निपात्यते । न त्वसिद्धकाण्डस्थढत्वादेः प्रवृत्तिः । परिद्रढय्येत्यत्र "ल्यपि लघुपूर्वाद्‌" इत्ययादेशस्य पारिदृढीकन्येत्यादौ गुरूपोत्तमत्वाभावप्रयुक्तष्यङभावस्य चासिद्ध्यापत्तेः इति भाष्यादावुक्तत्वादिति बहवः ।
प्रासादकारस्तु नकारलोपनिपातनोक्त्या दृंहेरेवेदं निपातनमिति वृह वृद्धावित्यस्य प्रत्युदाहरणत्वं युक्तमेवेत्याह । युक्तं चैतत् । आदृढः आवृढः इत्यत्र भाष्यस्वारस्यात् । अत एव "दादेर्धातोर्घः" इत्यस्य प्रवृत्त्यभाव इडभावश्चेत्यादिकल्पनमपि न दोषावहम् । बलवत्‌प्रमाणानुगृहीतत्वात् । एतेन दृहेरपीदं निपातनमिति काशिकोक्तं परास्तम् । उक्तिलिङ्गविरोधेन कल्पनोच्छेदाच्च । एतेनास्मात्परिद्रढय्य पारिदृढीत्यत्रायादेशाभावष्यङ्‌प्रत्यययोरापादनमपीष्टापादनमेव । रूपभेदस्वीकारे बाधकाभावात् । प्रमाणस्य च दर्शितत्वात् । एतेन प्रक्रियायां तृढ इति पाठकल्पनमप्यपास्तम् । "केऽणः" इत्यपि पूर्वेणैव । गोका नौका इत्यादौ उपानत्का चतुष्कमित्यादौ च धत्वविसर्जनीययोरसिद्धत्वात्परेषामचां हलां च संभवेऽपि ह्रस्वविध्युपस्थितस्य "अचः" इत्यस्यानुरोधादिति कौस्तुभे ।
कैयटे तु "न मु ने" इत्यत्र नेतियोगविभागाद्धत्वादीनामसिद्धत्वं नास्तीति हकारादीनां कप्रत्यये परेऽसम्भव एवेति व्याख्यातम् । न च गोका इत्यादावतिप्रसङ्गः । अच इत्येव वक्तव्यत्वापत्तेः । "अणोऽप्रगृह्यस्यानुनासिकः" इत्यत्र परेण प्रत्याहारे यद्यपि ऋकारादीनां स्वरूपतः संभवोऽस्त्येव, कर्त्तृ, अग्ने, वायो, पचै, मालामाचक्षाणो माल, वृक्षवयतेरप्रत्यये वृक्षव्, इत्यादौ सानुनासिकाननुनासिकभेदेन यवलानां द्वैविध्यात्, तथाऽप्यप्रगृह्यस्येति पर्युदासेन भेदप्रतियोगिवृत्तिभेदप्रतियोगितावच्छेदकसाक्षाद्व्यापकधर्मावच्छिन्नस्यैवानुयोगिनो व्युत्पत्तिबलात्प्रतीत्या प्रगृह्यभिन्नत्वेनाच एवोपस्थितिसिद्धौ अण्‌ग्रहणसामर्थ्यात्पूर्वेणैव प्रत्याहारः ।
वृक्षव्‌शब्दस्तु कैयटेन व्याख्यातः । वृक्षं वृश्चतीति क्विवन्ताद् वृक्षवृश्चमाचष्टइति णिचि णाविष्टवत्प्रातिपदिकस्येति टिलोपेन ऋकारशकारचकाराणां निवृत्तौ वृक्षवयतीति सिद्धे ततो विच् । न तु क्विप् । कित्त्वेन सम्प्रसारणापत्तेः । वकारलोपापवादस्य "च्छ्वोः शूड्‌" इत्यूठः प्रसङ्गाच्च । न च णिलोपस्य स्थानिवद्भावः । क्वौ लुप्तं न स्थानिवदिति क्वौ विधिं प्रति न स्थानिवद् इति च निषेधात् । विचि तु स्थानिवत्त्वेन वलोपाभावादिनिर्वाहः । न च तथाऽपि "हलि सर्वेषाम्" इति लोपापत्तिः, पूर्वत्रासिद्धीये स्थानिवत्त्वाभावादिति वाच्यम् । तत्र "भोभगो" इत्यतोऽशीत्यनुवर्त्तनात् । न च णिच्‌प्राग्भाविनं क्विपमेवाश्रित्य ऊठ्‌प्रसङ्गः । अन्तर्भूतक्विबाश्रयतयाऽन्तरङ्गे तत्र कर्त्तव्ये बहिर्भूतणिजपेक्षया बहिरङ्गस्य टिलोपस्यासिद्धत्वादिति ।
यत्तु कौस्तुभे एकदेशविकृतस्यानन्यतया "व्रश्च" इति षत्वं दुर्वारम् । न च णिलोपस्य स्थानिवद्भावः । पदान्तविधौ नेति निषेधात् । पूर्वत्रासिद्धे तदभावाच्च । तस्माद्‌ वृक्षं वेतीति वृक्षवीः वातीति वृक्षवाः । वृक्षव्यं वृक्षवां वाऽऽचष्टे इति ण्यन्ताद्विच् । न च "लोपो व्योः" इति वलोपापत्तिः । णिलोपस्य स्थानिवत्त्वात्। लोपस्यानवयवत्वेन पदान्तश्चेद्विधीयत इत्यर्थकस्य "न पदान्त" इति निषेधस्याप्रवृत्तेरिति । तच्चिन्त्यम् । व्रश्चादिसूत्रेच्छशामित्यत्र छकारात्पूर्वं चकारद्वयप्रश्लेषेण एकेन स्वाभाविकस्यापरेण जकारस्थाने वर्त्वेन प्रयुक्तस्य चकारस्य निर्देशाद्व्रश्चादीनां चकारजकारयोरेव षत्वविधानात् । उपायस्य चोपायान्तरादूषकत्वात् ।
स्यादेतत् । "च्छ्वोः" इतिसूत्रे किद्‌ग्रहणमनुवर्त्तते न वेति विचार्य भाष्ये उक्तम्---
अनुवर्त्तमाने किद्ग्रहणे छः षत्वं वक्तव्यमिति ।
अस्यार्थः । तदनुवृत्त्यभावे "च्छ्वोः" इति छस्य शत्वे शकारस्य च षत्वविधानादेव सिद्धौ व्रश्चादिसूत्रे छग्रहणंन कार्यमिति । एवं च लाघवादत्रैव भाष्यतात्पर्ये छकारपरित्यागे कथमुक्तः प्रश्लेष इति । सत्यम् । तथाऽपि अलोऽन्त्यपरिभाषया चकारजकारयोरेव षत्वविधानाद्वकारस्य तदनापत्तेः । व्रश्चाद्यंशे षत्वस्य कुत्वापवादत्वात् ।
हरदत्तस्तु वृक्षव् करोति इत्येवंरूपः प्रयोगो नास्त्येव । "न पदान्ता हलोऽणः सन्ति" इति भाष्योक्त्याऽनभिधाननिश्चयादिति " हलि सर्वेषाम्" इतिसूत्रे व्यवस्थापितवान् ।
अत्र कौस्तुभकृतः । लण्‌सूत्रभाष्ये "न पदान्ताः परेऽणः सन्ति" इत्येव पाठः । अन्यथा अप्रगृह्यस्येतिपर्युदासेनाचामेव कार्यभाक्त्वादितरे कार्यिणो न सन्तीति कैयटविरोधादिति । तच्चिन्त्यम् । कर्त्तृ इत्यादीनां सत्त्वप्रदर्शनपरेण भाष्येणाचाम्प्रदर्शनेऽपि हलां सत्त्वे मानाभावात् । यथाश्रुतकैयटोक्तेश्च युक्तिविरुद्धत्वात् । स्वरूपेण ऋकारादीनामणां सत्त्वेन तन्निषेधे बाधाभावात् । विशिष्टाभाव ऋकारादिषु विशेषणाभावेनैव हल्साधारण्येन वर्त्तिष्यतइत्यभिप्रायेण त्वदुक्तरीत्या कार्यिणो न सन्तीति व्याख्यानावतारात् । न चैतद् युक्तम् । अण्‌ग्रहणस्य पूर्वेण सह व्यवस्थापनात्प्राक् ऋकारादीनां विशेषणाभावप्रयुक्तविशिष्टाभावाश्रयत्वासिद्धेः । अन्यथा पूर्वपक्षस्यैवानुपस्थानात् । "ननु चायमस्ति कर्तृ " इत्यादिभाष्यानुपपत्तेश्च । ऋकारादेः कार्यभाक्त्वाभावशङ्कायां स्वरूपमात्रसत्तोक्तेरप्रयोजकत्वात् । अतः स्वरूपेण पदान्तानामृकारादीनामसत्त्वशङ्कायामृकारस्य तदुत्तराज्मात्रोपलक्षणतया तत्सत्त्वे उक्ते पदान्तऋकाराद्यभावावबोधकस्य "न पदान्ताः परेऽणः सन्ति" इतिवाक्यस्य अजंशे अप्रामाण्यव्यवस्थित्या हकाराद्यभावबोधकत्वांशे बाधकाभावात्प्रामाण्यं पर्यवस्यतीति फलितार्थमादाय न हलोऽणः सन्तीतिवाक्यस्य मिश्रैः समुल्लिखितत्वात् ।
न च ऋकारप्रदर्शनस्योपलक्षणत्वे हलोऽप्युपलक्ष्यन्तामिति वाच्यम् । प्रमाणाभावात् । "ह्रस्वस्य गुणः" "एत ऐ" "आत औ णलः" इत्यादीनामजंशे उपलक्षणतायां तात्पर्यग्राहकत्वात् । न च हलंशे "हलि सर्वेषाम्" इतिसूत्रेहलि अशि यथा स्यात्, इह मा भूत्, वृक्षवयतेरप्रत्ययः वृक्षव् करोति इति भाष्यं तात्पर्यग्राहकमस्त्येवेति वाच्यम् । तस्यैतद्भाष्यविरोधेन प्रौढिवादत्वात् । न च वैपरीत्यम् । प्राथम्यस्यैव तावद्विनिगमकत्वात् । विकल्पस्य च वस्तुन्यसम्भवात् । तदाहुः प्रामाणिकाः---
अनुष्ठानं हि विकल्प्यते न वस्त्विति ।
न च वृक्षव् करोतीति स्पष्टार्थकभाष्यविरोधेन पूर्वभाष्यस्य तथातात्पर्यं न कल्प्यमिति वाच्यम् । तस्याप्यन्यथाऽनुपपन्नत्वात् ।
न च तस्य पूर्वपक्षगतत्वेन सर्वांशाप्रामाण्येऽपि न क्षतिः, अजभावबोधकत्वांशवदुक्तबाधकस्य हलभावबोधकत्वांशेऽप्यप्रामाण्यकल्पकस्य सत्त्वादिति वाच्यम् । ननु चायमस्तीति निषेधात्यन्तायोगव्यबच्छेदपरोत्तरभाष्यादप्येतदर्थस्य प्रतीतेः । हकारादेः कस्यचिद् उभयाभ्युपगतपदान्तत्वाभावकत्वात् । विप्रतिपन्ननिषेधस्यांशतो भाष्यसंमतत्वात् । अन्यथा पूर्वेणाण्‌ग्रहणासिद्धेश्च । तथा हि । अप्रगृह्यस्येत्युक्तव्युत्पत्तिवशादचां लाभेन हयादीनां कार्यित्वासम्भवादेवाज्विषयकत्वसिद्धौ अण्‌पदसामर्थ्यात्पूर्वेणेति न शक्यते वक्तुम् । अण्‌पदसामर्थ्येन वादीनां कार्यित्वे सिद्धे न्यायस्याकिञ्चित्करत्वात् । "अर्थवदधातुरप्रत्ययः" इत्यर्थवद्‌ग्रहणेन "ओषधेश्च विभक्तावप्रथमायाम्" इत्यादौ बिभक्त्याद्युपादानेन च तन्न्यायस्याप्यसार्वत्रिकंत्वात् । "अवर्णस्त्रसावनञः" इतिसूत्रे भेदप्रतियोगिवृत्तितत्त्वावच्छेदकधर्मसाक्षाद्व्यापकधर्मावच्छिन्नानुयोगिताकभेदभाने विभक्तित्वस्यैव तथात्वात् तदनवच्छिन्ने अणादौ तदप्रवृत्तौ आर्वतमित्याद्यसिद्ध्यापत्तेश्च ।
निषेधस्वीकारे च "वाहैरलुप्यत सहस्रदृगर्वगर्वः " इत्यादिविरोधात् । भेदप्रतियोगितावच्छेदकान्यप्रतियोगिवृत्तिधर्ममात्रेण सादृश्यविवक्षायां च तत्र प्रत्ययत्वस्येवात्राप्यल्त्वस्य तादृशत्वात्तदवच्छिन्नानां वादीनां वारणानुपपत्तेः । एतेनाण्‌ग्रहणस्य पूर्वेणाप्युपपन्नत्वान् नञिवयुक्तन्यायबाध इत्यप्यपास्तम् । उभयोरप्यन्यथोपपत्तौ न्यायसङ्कोचस्यैव न्याय्यत्वात् । "केऽणः" इत्यादौ तु ह्रस्वश्रुत्यैवाच उपस्थापनात्तदनुरोध इति वैषम्यम् । उक्तरीत्या तु बाधाभावस्य प्रमाणमात्रोपजीव्यतया हलामणां पदान्तेऽनुपपत्तेः तत्संग्रहार्थत्वायोगात् । अच्‌पदं परित्यज्याण्‌ग्रहणसामर्थ्यादेव पूर्वेणाण्‌ग्रहणसिद्धिः । तस्मादत्रत्यभाष्यस्य हरदत्तोक्त एवार्थो युक्तः । कैयटस्याप्यत्रैव तात्पर्यात् । तथा हि । वृक्षव् करोतीत्यश्‌पदानुवृत्तेः प्रयोजनं वक्ष्यतीति यथाश्रुताष्टमिकभाष्यविरोधमाशङ्क्य उक्तपर्युदासादितरे कार्यभाजो न सन्तीति समाधानस्य न पदान्ता हलोऽणः सन्तीत्यत्रैव तात्पर्यम् । ऋकारादीनां स्वरूपतः सत्त्वेन कार्यभात्कं विशेषणम् । स च विशिष्टाभाव ऋकारादिषु विशेषणाभावेन हकारादिषु च विशेष्याभावेनाविशिष्टः । उभयत्रापि विशेषणाभावपरत्वे विशेष्यभागवैयर्थ्यात् ।
यद्यपि चेदं प्रथममसिद्धम् ऋकारादिष्वनुनासिकविध्यप्रवृत्तेस्तद्वेलायामसिद्धेः, तथाऽप्यप्रगृह्यस्येति पर्युदासेनाच एवानुनासिकेन भाव्यम्, न तु हल इति फक्किकायां हलामणामसम्भवे सतीति शेषः । अन्यथा उक्तरीत्या न्यायस्याप्रवृत्तौ वादीनामप्यनुनासिकापत्तेः इत्युक्ते पदान्ता हलोऽणो न सन्तीत्युक्तप्रायम् । तथा चाष्टमिकभाष्यं प्रौढिमात्रमिति भावः ।
न हि पदान्ता इत्यस्यार्थमाह । "कार्यभाज इत्यर्थः" इति । तथा च गूढाभिप्राय उक्तविशिष्टाभावं दर्शयतीति सिद्धान्त एवायं न तु पूर्वपक्ष इति भावः ।
इतरस्तु यथाश्रुते दूषणमाह । ननु चायमिति भाष्ये आचार्यः पूर्वाक्षिप्तं स्वाभिप्रायं प्रकाशयति---एवं तर्हीति । पदान्ते हलामणामसम्भवात् पर्युदासेनाचामेव ग्रहणे सिद्धे अण्‌ग्रहणसामर्थ्यात्पूर्वेणैवेति भावः । अत एवाच एव प्रगृह्या भवन्तीति पर्युदासमात्रं साधकत्वेनोक्तम् । तच्चोक्तरीत्या पदान्ते हलामणां सत्त्वेऽसाधकमेवेति सर्वथाऽप्यत्रत्यभाष्यस्य न पदान्ताः परेऽणः सन्तीति भाष्यस्य च सिद्धान्तत्वे कैयटस्य तात्पर्यम् । पूर्वपक्षत्वे ग्रन्थद्वयस्याप्यलग्नकत्वापत्तेः । वृक्षव् हसतीत्यत्रातिप्रसङ्गस्य अशीत्यनुवृत्त्याऽपि दुर्वारतया त्वयाऽपि तत्रानभिधानस्यावश्यमाश्रयणीयत्वात् । अनभिधानस्य च पदविशेषगर्भतया वृक्षव् इतिप्रयोगाभावमात्रपर्यवसितत्वाद् इत्यास्तां विस्तरः ।
"उरण्‌ रपरः" इत्यपि पूर्वेण । परेण प्रयोजनाभावात् । न च होतॄकारः मातॄणामित्यादौ ऋकारस्य सवर्णदीर्घे "नामि" इति दीर्घे च रपरत्वार्थं परेण स्यादिति वाच्यम् । "ऋत इद्धातोः" इति धातुग्रहणात् ज्ञापकात् । तद्धि ऋकारान्तमात्रस्य इत्वविधाने मातॄणामित्यादावपि इत्वं स्यादित्यतिप्रसङ्गनिषेधार्थम् । तत्रापि रपरत्वे तु रेफान्तत्वापत्त्या ऋकारान्तत्वाभावादेव तदप्रसक्त्या किं तेन । न च चिकीर्षतीत्यादौ "अज्झनगमां सनि" इति ऋकारस्य दीर्घे रपरत्वे च "उपधायां च" इतिसूत्रेण यथा ऋकारस्य इकारादेशो भवति, तथा मातॄणामित्यादावपि रपरत्वे कृते स्यात्, अतः "उपधायां च' इत्यत्रानुवृत्त्यर्थमेव धातुग्रहणमिति वाच्यम् । तथाऽपि तत्रैव तदुपादानापत्त्या पूर्वत्र निर्देशस्य ज्ञापनार्थत्वात् । अण्‌ग्रहणस्यैव ज्ञापकत्वसंभवाच्च । अन्यथा "उरज्रपरः" इत्येव ब्रूयात् । तत्र तत्र ऋकारस्थानीयानाम् उदात्तानुदात्तस्वरितानुनासिकदीर्घरूपाणामादेशानां रपरत्वापत्तेस्तेनैव निर्वाहसम्भवात् ।
अथ कर्त्रर्थमित्यादौ यणादेशेन ऋकारस्य रेफे तस्य रपरत्वसिद्ध्यर्थमण्‌ग्रहणम् । न च "हलो यमां यमि" इत्याद्यरेफस्य लोपावश्यकत्वात्तत्ररपरत्वं व्यर्थमिति वाच्यम् । "झयो होऽन्यतरस्याम्" इत्यतस्तत्र विकल्पानुवृत्तेरुक्तत्वात् इति चेन्न । "रोरि" इति लोपस्य दुर्वारत्वात् । न च तस्य पदान्तमात्रविषयकत्वम् । अजर्घा इत्यादेरसिद्ध्यापत्तेः । गृधु अभिकाङ्क्षायाम् इत्यस्य हि यङ्‌लुकि द्वित्वे उरदत्वे जश्त्वे "रुग्रिकौ च लुकि" इत्यभ्यासस्य रुगागमे च कृते लङि अडागमे सिपि शब्लुकि गुणे रपरत्वे सिलोपे भष्भावेन गस्य घत्वे जश्त्वेन धस्य दत्वे दस्य रुत्वे घकारोत्तररफेस्य लोपे " ढ्रलोप" इति घकाराकारस्य दीर्घत्वे "खरवसानयोः" इति रोर्विसर्गे चास्य सिद्धेः । एतच्च सर्वमभ्युपगम्यवादः ।
वस्तुतस्तु ऋकारस्थानीयानामणां रपरत्वे विधेये ऋकारलृकारयोः स्थानित्वेन रेफलकारयोश्च विधेयत्वेनोपस्थितौ परिशेषादादेशसमर्पकमण्‌पदं स्थानिभिन्नेषु रेफलकारभिन्नेषु चाण्‌सु पर्यवस्यति । तथा च मातॄणामित्यादौ कुत्रापि नातिप्रसङ्गः । नापि कर्त्रर्थमित्यादौ रेफद्वयापत्तिः । एवं च परेण ग्रहणे वैयर्थ्यापत्तिरेवाण्‌ग्रहणसामर्थ्यादिति भाष्यस्यार्थः । यथा श्रुते लाकृतिरित्यत्र लपरत्वस्यैव तत्फलत्वसम्भवादिति कौस्तुभोक्तदोषापत्तेः । नापि धातुग्रहणेन निस्तारः । तस्योत्तरार्थत्वस्यापि सम्भवात् ।
यत्तु नुड्‌वाच्य उत्तरार्थं तु इह किञ्चित्त्रपो इतिन्यायेनात्र करणं ज्ञापकमेवेति, तन्न । "नामि" इति सूत्रे नुड्‌विशिष्टग्हणस्य केवलोत्तरार्थत्वस्यापि स्थापितत्वेन तथानियमाभावात् । न च वचनेन तक्रकौण्‌डिन्यन्यायबाधः । पूर्वेणाप्युपपत्तेः । अन्यथा अर्त्त्रर्थमित्यादौ "रो रि" इति लोपस्यापि बाधापत्तेः । न च वचनसामर्थ्यान्न्यायबाधः श्रेयान् । तत्र रेफलोपस्वीकारे रेफस्य रपरत्ववैयर्थ्यात् । तद्बोधकवचनबाधस्य तत्राप्यविशेषात् । कुत्रापि तच्छ्रवणाभावे प्रवृत्तिमात्रेण चरितार्थत्वानुपपत्तेः । अन्यथा "शरोऽचि" इत्यस्य विकल्पानुवृत्तिज्ञापकत्वतद्विघटनोभयपरस्य भाष्यादेरनुपपत्तेरिति दिक् ।
"अणुदित् सवर्णस्य च" इत्यत्र तु परेणैव । "उर्ऋत्" इति ज्ञापकात् । तद्धि कॄत संशब्दने इत्यस्माच्चुरादिण्यन्ताल्लुङि "णिश्रि" इति च्लेश्चङादेशे च अचीकृतदित्यत्र ऋकारस्थाने ऋकारविधानार्थम् । तत्र दीर्घस्थानेऽपि ह्रस्व एव ऋकारोऽस्तु इत्येतदर्थं तपरत्वम् । ग्रहणकशास्त्रे पूर्वेणाण्‌ग्रहणे तु दीर्घ ऋकारस्य स्थानित्वादेशत्वयोः प्रसक्त्यभावाद्व्यर्थं स्यात् । परेण तद्ग्रहणे तु "उर्ऋत्" इत्यृकारेण सवर्णस्य ऋकारस्यापि ग्रहणाद्भवति तस्य स्थानित्वप्रसक्तिः ।
न च विधीयमातत्वादेवात्र ग्राहकत्वानुपपत्त्या परेण ग्रहणेऽपि तपरत्ववैयर्थ्यम् । विकाराभावमात्रपर्यवसितत्वात् । तथा च वृत्तिकारः । "न चायं भाव्यमानोऽण्‌ किं त्वादेशान्तरनिवृत्त्यर्थं स्वरूपेणाभ्यनुज्ञायते" इति । तपरत्वसामर्थ्यात्तु दीर्घस्थाने भाव्यमानताऽपि लभ्यतइत्यन्यत् ।
इण्‌प्रत्याहारस्तु सर्वत्र परेणैव । "अचि श्नु" इति सूत्रे य्वोरिति इकारोकारयोः स्वरूपेण निर्द्देशात् । अन्यथा इण इत्येवावक्ष्यत् । संहितायां यथान्यासे हलोरर्द्धमात्राद्वयम् मात्राद्वयं चौकारस्येति मात्रात्रयम् । इण इत्युक्ते तु सार्धमात्राद्वयम् । पदच्छेदेऽपि अर्द्धमात्रात्रयं द्वे च मात्रे इति सार्द्धमात्रात्रयं मात्रात्रयं चेति क्रमेण लाघवात् । "रलो व्युपधाद्" इत्यत्र उकारेकारयोः स्वरूपेण निर्द्देशस्तज्ज्ञापक इति न्यासकृत् ।
तस्माद् "व्याख्यानतो विशेषप्रतिपत्तिर्न हि सन्देहादलक्षणम्' इतिपरिभाषाज्ञापनाय पुनर्णकारानुबन्ध इति सिद्धम् । सन्देहश्च सर्वत्र स्वरूपांशविषयक एवेति न नियमः । "भस्याढे तद्धिते" इत्यत्र "अग्नेर्ढक्" इत्यस्यैव भेदप्रतियोगित्वेनान्वयो व्याख्यानान्न तु स्त्रीभ्यो ढक इति प्रामाणिकग्रन्थदर्शनात् । किं तु प्रकृतिविशेषविहितत्वादिप्रकारकोऽप्यनया निवर्त्त्यतिति सर्वमवदातम् ।

ञमङणनम् 7 । झभञ्् 8 ।

अत्र भाष्यं मकारोऽत्र नानुबन्धनीयः । यम् ङम् अम्‌ इति प्रत्याहारत्रयस्य ञकारेणैव निर्वाहात् । तथा हि--"हलो यञां यञि लोपः " इति सूत्रणीयम् । न च झकारभकारयोस्तन्मध्यवर्त्तिनोर्लोपापत्तिः । झकारभकारोत्तरवर्त्तिनोर्झकारभकारयोः कुत्राप्यभावात् । "पुमः खय्यञ्‌परे" इति पाठ्यम् । न चातिप्रसङ्गः । खय्‌परयोस्तयोरसम्भवात् । एवं "ङञो ह्रस्वादचि ङञुण्नित्यम्" इति वाच्यम् । न चातिप्रसङ्गः । पदान्ते झभयोरप्रसिद्धेः । उज्झेस्तु संयोगान्तलोपे उदित्येव रूपम् । लभादीनां तु जश्त्वस्यावश्यकत्वात् । अन्यत्‌ प्रागेवोक्तम् ।
नन्वेवमपि "ञमन्ताड्‌ङः" इत्युणादौ तदावश्यकम् । अन्यथा झान्तभान्तधातोरपि डप्रत्ययापत्तेः, सत्यम् । तत्रापि ञञन्तादित्येव पाठ्यम् । ञमन्तेभ्योऽपि सर्वेभ्यो डप्रत्ययानुत्पत्त्या बाहुलकस्यावश्याश्रयणीयतया तत एव झान्तभान्तेभ्योऽपि प्रत्ययवारणसम्भवादिति केचित् ।
वस्तुतस्तु ञकारङकारान्तधातूनामप्रसिद्ध्या मणनाड्‌ड इत्येव सूत्रं कार्यमिति भाष्याशयः ।

घढधष्‌ 9 । जबगडदश्‌ 10 । खफछठथचटतव्‌ 11 । कपय्‌ 12 । शषसर्‌ 13 । हल्‌ 14।

इति माहेश्वराणि प्रत्याहारसूत्राणि । अत्र प्राञ्चः---
एकस्मान्ङञणवटा द्वाभ्यां षस्त्रिभ्य एव कणमाः स्युः ।
ज्ञेयौ चयौ चतुर्भ्यो रः पञ्चभ्यः शलौ षड्‌भ्यः ।।
अत्र वदन्ति । चतुर्द्दशसूत्रीस्थैर्हल्भिरिद्भिः कृतानामष्टाध्याय्यां व्यवहृतानां प्रत्याहाराणामयं संग्रहः । तेन सुप्तिङादेः रप्रत्याहारस्य "ञमन्ताड्‌डः" "यमिर्ञमन्तेषु" इति उणादिव्याघ्रभूतिकारिकयोर्व्यवहृतस्य ञम्‌प्रत्याहारस्य "चयो द्वितीया" इति वार्त्तिककृद्व्यवहृतस्य चय्‌प्रत्याहारस्य चाधिक्येऽप्यदोष इति ।
अस्यार्थः । ङकार एकस्मादेव परो ग्राह्यः । "एङि पररूपम्" इति । "षिद्भिदादिभ्योऽङ्‌" इत्यादौ अङिति तु न प्रत्याहारः । "आदिरन्त्येन" इत्यत्र ग्रहणकसूत्रादप्रत्यय इत्यनुवृत्तेः । नचैवम् "इको यणचि" इत्यादावनुपपत्तिः । तत्र प्रत्याहारसाहचर्यात् ।
यद्वा भिदादौ रेखालेखादीनां गुणनिपातनान्ङित्त्वाभावे तद्वैयर्थ्यापत्तेः । "शास इदङ्‌हलोः" इत्यत्रापि अङादौ हलादौ चेत्यर्थे विशेषणवैयर्थ्यात् । अङादौ हलादौ चेति व्याख्याने हि अङ्‌हलोरिति व्यर्थं स्यात् । अङादिहलादिव्यतिरिक्तानां ङ्कित्प्रत्ययानामसिद्धेः ङ्कितीत्येव ब्रूयात् । परस्मैपदे अजादिङ्कित्प्रत्ययानामभावाच्च । कर्मव्यतिहारे तु व्यतिशासै इत्यत्र आटा सहैकादेशस्य ङ्कित्त्वाभावात् । स्थानिवद्भावेनाङादित्वाच्च । "ऋदृशोऽङि" इत्यत्रापि "ऋच्छत्यॄताम्" इत्यत्र ऋकारान्तेषु गुणविधानान्न प्रत्याहारः । "सनि च" "इङश्च" इत्यपि न प्रत्याहारः । "सनि च" इति इणः पृथग्गम्यादेशविधानसामर्थ्यात् । न च बोधने इणो गम्यादेशपर्युदासार्थं पृथगुपादानमिति वाच्यम् । तावन्मात्रस्य "इङो गाङ्‌ लिटि" "विभाषा लुङ्‌लृङोः" "णौ च संश्चङोः" "सनि गमिः" "इणोऽबोधने" "णौ च गा लुङि" इत्येतादृशन्यासेनाप्युपपत्तेः । "इणो गा लुङि" "णौ गमिरबोधने" "सनि च" "इङश्च" इत्यादिन्यासापेक्षया गौरवाभावात् । णिचं सनं चोद्दिश्य गम्यादेशविधानापेक्षया णिचमुद्दिश्य विधानस्य सनं णिचं चानूद्य पर्युदासस्यैव लघुत्वात् । सूत्रत्रये इणनुसन्धानापेक्षया सूत्रद्वये तस्य लघुत्वाच्च । "इको झल्" इति कित्त्वविधानात् "अज्झनगमां सनि" इति दीर्घविधानाच्च इङन्तानां गम्यादेशे उक्तसूत्रयोर्निर्विषयकत्वापत्तेरिति केचित् ।
एवं "किरश्च पञ्चभ्यः" इत्याद्यानां चतुर्णां ऋकारान्तानां सनि परे इड्‌विधानमपि ज्ञापकं बोध्यम् । इङन्तानां गम्यादेशे तत एव इट्‌सिद्धेः । "परिमाणाख्यायां सर्वेभ्यः" "इङश्च" इत्यपि न तथा । इकारोकारऋदन्तानां प्रत्ययान्तएव रुद्धतया एजन्तानां च प्रागेवात्त्वोत्पत्त्या ऋदन्तमात्रार्थत्वे च स्वरूपेण तन्मात्रनिर्द्देशापत्त्या सामान्यसूत्रेणैव घञ्‌सिद्ध्या च विधिवैयर्थ्यापत्तेः । अजप्प्रत्ययाभ्यां सह घञ्‌विकल्पार्थत्वे तु "ऋदोरप्" "एरच्" इत्यत्रैव वा ग्रहणापत्तेः । "क्रीङ्‌जीनां णौ " इत्यपि न प्रत्याहारः । एजन्तानामात्वस्य सूत्रान्तरसिद्धतया इक इत्येव सिद्धेः । क्रीज्योः पृथगुपादानानुपपत्तेश्च । एतेन इकारान्तानां मध्येऽनयोरेवेति नियमार्थत्वशङ्काऽप्यपास्ता ।
न च इङंशे आत्वविधानस्य णौ एजन्तयोः सामान्यतः प्राप्तात्वनिवृत्त्यर्थत्वं स्यादिति वाच्यम् । तथाऽपि "ओः पुयण्‌ज्यपरे" इत्यभ्यासोकारस्येत्वविधानसामर्थ्यात् । "इङ्‌धार्योः शत्रकृच्छ्रिणि" इत्यपि न तथा । स्वरूपतो धातुना धारिणा साहचर्यात् ।
वस्तुतो धारेः पृथगुपादानसमार्थ्यात् । तस्मादेङित्येक एव ङकारेण प्रत्याहारः । एवं ञकारोऽप्येकस्मादेव । "अतो दीर्घो यञि" इति । अञ्‌ इञ्‌ यञ्‌ इति तद्धितेषु कुतो नैवम् इति चेत् "आदिरन्त्येन" इत्यत्राप्रत्यय इत्यनुवर्तितत्वात् । आद्यो णकारोऽप्येकस्मादेव । यथा ग्रहणकशास्त्रातिरिक्ते अण्‌ग्रहणेषु । वाकारो "गश्छव्यप्रशान्' इति । टकारो यथा " अट्‌कुप्वाङ्‌" इति । "इट ईटि" इति न प्रत्याहारः । ईटि परे सकारपूर्ववर्त्तिन इकारान्यस्वरस्य क्वचिदप्यसम्भवात् ।
न च अयासीदित्यादौ तत्प्रसिद्धिः । प्रत्याहारपक्षेऽपि तद्बहिर्भावात् । एजन्तानामप्युपदेशएवाऽऽत्वविधानात् । नामधातूनां चानिट्‌त्वानुपपत्तेः । हकारान्तानां चानिटां क्सादेशविधानेन ईट एवप्रसिद्धेः । सेटां तु इकारस्यैवावश्यकत्वात् । षङणन्तानां चानिटामप्रसिद्धत्वात् । हलन्तानां तु प्रत्याहारपक्षेऽप्यनुपस्थानात् । इगन्तानां चानिटां वृद्धेरावश्यकत्वात् । विधावपि इट्‌ न प्रत्याहारः । षष्ठीटित्त्वाभ्यामवयवावयविभावबोधात् । द्वाभ्यां षः । यथा "एकाचो बशो भष्‌ झषन्तस्य" इति । कस्त्रिभ्यः । "अकः सवर्णे" "इको यण्‌" "इसुसुक्तान्तात्" इति । द्वितीयणकारोऽपि त्रिभ्यः । "अणुदित् सवर्णस्य" इत्येक एवाण्‌ "इणः षीध्वम्" "इको यण्‌" । मकारोऽपि । यथा अम्‌, यम्, ङम्, । चकारश्चतुर्भ्यः । "इको यणचि" "इच एकाचोऽम्" "एचोऽयवायावः" "वृद्धिरादैच्‌" । यकारोऽपि तथा "अनुस्वारस्य ययि" "मय उञः," "झयो हः" "पुमः खयि" इति । रः पञ्चभ्यः । "यरोऽनुनासिके" "झरो झरि" "खरिच" "अभ्यासे चर्च" "वा शरि" । शः षड्‌भ्यः । "योऽशि" "हशि च" "नेड्‌ वशि" "झलाञ्जश्‌ झशि" "एकाचो बशो" इति । एवं लः । "अलोऽन्त्यस्य" "हलि सर्वेषाम्" "लोपो व्योर्वलि" "रलो व्युपधात्" "झलाञ्जश्" "शल इगुपधाद्" इति । एकादिषडन्तसंख्यानां क्रमेण निवेशः उक्तिवैचित्र्यार्थः ।
स्यादेतत् । अनुबन्धानां प्रत्याहारान्तर्भावादजादीनां साङ्कर्यापत्तिः । णआदयो हि उभयत्रोपदेशादुभयसंज्ञाः स्युः । एवम् अकारोऽपि । लकारस्थस्य इत्संज्ञासम्बन्धोक्तेः । तथा च दधि णकारीयतीत्यादौ यणादि रुचीनामित्यादौ "अड्‌व्यवायेऽपि" इति णत्वादिकं च स्यादिति प्राप्ते हयवरट्‌सूत्रे वार्त्तिकम् ।
प्रत्याहारेऽनुबन्धानां कथमज्ग्रहणेषु न ।
आचारादप्रधानत्वाल्लोपश्च बलवत्तरः ।।
अनुबन्धानां णकारादीनां कथं नेत्यत्राक्षेप्याभावप्रतियोगित्वेन ग्रहणस्यैवान्वयः । अच्पदं प्रत्याहारमात्रपरम् । "आदिरन्त्येन" इतिसूत्रेणाव्यवहितोत्तरत्वस्म्बन्धेन किञ्चिद्‌वर्णवतोऽनुबन्धस्य तन्मध्यवर्त्तिसमुदायघटकतत्तद्वर्णव्यक्तिविशेषमात्रे सङ्केतितत्वे अकारादीनामपि ग्रहणानापत्त्या उपस्थापकवर्णविशेषेऽपि सङ्केतस्यावश्यकत्वात् मध्यगतानामनुबन्धानां स्वरूपघटकानुबन्धस्य च ग्रहणस्य दुर्वारत्वादितिशङ्का पूर्वार्द्धस्यार्थः । समाधानं त्वाह---आचारादिति । आचार्यप्रयोगात् । "उणादयः" "तृषिमृषिकृषेः" "ङसिङसोश्च" इत्यादौ अनुबन्धानां तत्तत्प्रत्याहारान्तर्भावप्रयुक्तकार्यप्रयोजकत्वविरहात् । कार्याभावप्रयोजकाभावप्रतियोगित्वेन तेषामजादिशब्दावाच्यत्वं शास्त्रकृतः संमतम् । अतश्च "आदिरन्त्येन" इतिसङ्केतस्य तत्साधारण्ये प्रमाणाभावात् । अजादिशब्दानामनुबन्धान्यत्वे सति तत्समुदायघटकवर्णत्वं विषयतावच्छेदकम् । सत्यन्तेन मध्यगतानुबन्धवत्संज्ञाघटकस्यापि निरासः ।
केचित्तु अनुनासिक इतिनिर्द्देशोऽपि ज्ञापकः । "प्रत्ययस्थाद्‌" इतिसूत्रं हि प्रतिषेधारम्भसामर्थ्यात् कृति तद्धिते च प्रवर्त्ततइति निर्बाधम् । तत्रानन्तरस्येतिन्यायेन "यस्येति" लोप एव बाध्यतइतिपक्षे "इको यणचि" इति दुर्वारम् । नासधातोः क्वुनि नासिकाशब्दस्य व्युत्पन्नत्वात् ।
येननाप्राप्तिन्यायेन यणादेश एव बाध्यतइतिस्वीकारे तु नासाशब्दात्के प्रत्यये यस्येति लोपो दुर्वारः । अनुबन्धानां प्रत्याहारान्तर्भावे कप्रत्ययस्य अजादितद्धितप्रत्ययसत्त्वेन पूर्वस्य भसंज्ञत्वात् । न च वचनसामर्थ्यादुभयं बाध्यम् । तदपक्षेया प्रत्याहारेष्वितां न ग्रहणमित्यस्यैव ज्ञापयितुमुचितत्वादित्याहुः । तच्चिन्त्यम् । "केऽणः" इति ह्रस्वविधानसामर्थ्यात्कप्रत्यये परे भसंज्ञा न भवतीति कल्पयितुं शक्यत्वात् । अकारेकारयोः यस्येतिलोपावश्यकत्वे उकारस्यैव तद्विधानप्रसङ्गात् ।
वस्तुतस्तत्राप्योर्गुणप्रङ्गेन विशेषाभावात् ।
समाधानान्तरमाह---अप्रधानत्वादिति । संज्ञास्वरूपत्वप्रतिपत्तिमात्रार्थमनुबन्धोपादानात्संज्ञिनामेव प्राधान्याद्ग्रहणम् प्रधानाप्रधानयोरितिन्यायात् । न चैवमकारादेरपि तदनापत्तिः । स्वं रूपमित्यनुवृत्त्या आदेरपि संज्ञित्वात् । न च स्वशब्देनानुबन्धोऽपि गृह्यतामिति वाच्यम् । इतेति तृतीयया इतोऽप्राधान्यलाभात् । सर्वनाम्नां च प्रधानपरामर्शित्वस्यौत्सर्गिकत्वात् ।
इदं त्वब्युच्चयमात्रम् । प्राधान्यं यदि संज्ञित्वमेव, तदा परस्पराश्रयः । अथ संकेतग्रहणकशास्त्रजन्यबोधे विशेष्यत्वम् । तन्न । तस्याकिञ्चित्करत्वात् । घटत्वविशिष्टो घटो घटशब्दवाच्य इत्यादौ विशेषणेऽपि शक्तिग्रहाच्च । मीमांसकानां नागृहीतविशेषणेतिन्यायेन विशेषणे एव शक्तिग्रहाच्च । मध्यगतानुबन्धानां ग्रहणस्योक्तरीत्याऽपि दुर्वारत्वाच्च ।
समाधानान्तरमाह---लोपश्चेति । बलवत्तर इति स्वार्थे तरप् । इत्संज्ञायां कृतायां णकारादीनामच्संज्ञालोपयोः प्राप्तौ लोपविधेर्बलवत्त्वात् लोपे कृते संज्ञाप्रवृत्तिकाले तेषामभावान्न संज्ञा । भूतपूर्वन्यायेनान्त्यसहितस्यादेः संज्ञाप्तम्भवात् । अन्यता वचनवैयर्थ्यात् ।
इदमपि न वास्तवम् । संज्ञाप्रवृत्तिकालसत्त्वस्य शक्तिग्रहेऽनुपयुक्तत्वात् । अत एव वृद्धिसूत्रे कैयटः---
सत्यसति वा संज्ञिनि बुद्ध्या विषयीकृते शब्देन पूर्वं निर्द्दिष्टे संज्ञा प्रवर्त्ततइति ।
अत एव "हलन्त्यम्" इतिसूत्रे "लस्येत्संज्ञा" इतिभाष्यादयः । तस्मात् पूर्वोक्त एव तात्पर्यमिति दिक् ।।
इति श्रीसिद्धान्तसुधानिधौ प्रथमस्याध्यायस्य प्रथमे पादे द्वितीयमाह्निकम् ।


*************************-------------------