श्रीसिद्धान्तसुधानिधिः/अध्यायः १-पादः १/आह्निकम् १
श्रीसिद्धान्तसुधानिधिः आह्निकम् १ [[लेखकः :|]] |
आह्निकम् २ → |
व्याकरणसिद्धान्तसुधानिधिः ।
ॐनमः स्वप्रकाशाय समिद्धसुखसिद्धये ।।
विशुद्धाय विवर्तानां निदानाय चिदात्मने ।। 1.1.1 ।।
आत्मसत्तापरिस्यूतजगद्वास्तव्यवस्तुने ।।
दुर्विगाहरहस्याय वाङ्मयब्रह्मणे नमः ।। 1.1.2 ।।
महसा महतोदयैः सहस्रैः समरुत्कैरवपद्मबान्धवानाम् ।।
जयति त्रितयी महामुनीनां नयनानामिव चन्द्रशेखरस्य ।। 1.1.3 ।।
जयति यथाजातानां वाग्जातसुजातपारिजातश्रीः ।।
श्रीलक्ष्मीधरविबुधावतंसचरणाब्जरेणुकणः ।। 1.1.4 ।।
विषये फणिनायकस्य मार्गं क्षमते नैव विधातुमल्पमेधः ।।
विबुधाधिपतिप्रसादधाराः पुनरारादुपकारमारभन्ते ।। 1.1.5 ।।
व्युत्पित्सारसवत्सलस्य बलवद्विभ्रंशयन् संशयं
निष्प्रत्यूहसमूहयन्बुधवरव्यूहस्य कौतूहलम् ।।
साक्षीकृत्य पदं तनोति सवितुर्दाक्षीसुतस्यागमे
सिद्धान्तस्य सुधानिधिं बहुवचोदृश्वेह विश्वेश्वरः ।। 1.1.6 ।।
तत्र प्रवृत्तिं प्रति स्वविषयविशेष्यकस्येष्टसाधनताज्ञानस्य हेतुत्वात् साधुशब्दज्ञाने वक्ष्यमाणेष्टसाधनत्वज्ञानवतां पुंसां शब्दज्ञानोपायाकाङ्क्षायां व्याकरणस्य शब्दज्ञानोपायत्वप्रदर्शनपरं भाष्यमवतरति ।।
अथ शब्दानुशासनमिति ।
अत्रोपसर्गोपसन्धानवशात्सजातीयापेक्षभेदपूर्वकबोधकत्वार्थ कस्यानुशास्तेः कर्मषष्ठ्यन्तशब्दपदसमभिव्याहाररूपतात्पर्यग्राहकवशादपशब्दापेक्षभेदपूर्वकप्रमापरतया ल्युटः करणार्थकतया शब्दानामित्यत्र विशेष्यत्वस्य षष्ठ्यर्थतया अथशब्दस्य चारम्भार्थकतया साधुशब्दविशेष्यकापशब्दत्वावच्छिन्नप्रतियोगिताकभेदप्रकारकप्रमाकरणं शास्त्रमारभ्यत इत्यर्थः । तेन स्वरूपमात्रेण यत्किञ्चित्साधुशब्दस्य प्रकारान्तरेण ज्ञानसम्भवेऽपि न शास्त्रवैयर्थ्यम् । यथोक्तभेदप्रकारकत्वाभावात् । न च तथात्वस्यापि क्वचिदाप्तवाक्यादितः सम्भवोऽस्त्येवेति वाच्यम् । शब्दानामानन्त्येन सर्वत्र तदसम्भवात् । तथा च भगवतोक्तम्, बृहस्पतिरिन्द्राय दिव्यं वर्षसहस्रं प्रतिपदविहितानां शब्दानां शब्दपारायणं प्रोवाच नचान्तं जगामेति । न च व्याकरणेनापि तत्तद्व्यक्तित्वावच्छिन्नविशेष्यताकयथोक्तभेदप्रकारकज्ञानासम्भवः, शब्दानामानन्त्यादिति वाच्यम् । यावतीनां साधुव्यक्तीनां व्याकरणेन ज्ञानं तावतीनामेव प्रकारान्तरेण ज्ञातुमशक्यत्वात् । सति शब्दज्ञाने तत्र यथोक्तभेदप्रकारकत्वस्यापि प्रकारान्तरेणानुपपत्तेः । यत्साधुशब्दव्यक्तीनां च यस्य पुरुषस्योपस्थितिर्न जाता तद्व्यक्तित्वावच्छिन्नविशेष्यताकयथोक्तभेदप्रकारकज्ञानोपायज्ञानस्याक्षतत्वाच्च । न चाप्तवाक्यादितः शब्दत्वसामानाधिकरण्यमोत्रणापि अपशब्दभिन्नत्वग्रहसम्भवः । अभियोगविशेषव्यतिरेके तदाप्तत्वग्रहविरहात् । अप्रामाण्यज्ञानानास्कन्दितस्यैव तादृशज्ञानस्योद्देश्यत्वात् । अत्र शूब्दानामिति कर्तृकर्मणोः कृतीति षष्ठी, न तूभयप्राप्तौ कर्मणीति । कर्मणिचेति सूत्रेण कर्मणीतिशब्दवता उभयप्राप्तावितिसूत्रेण या षष्ठी तदन्तस्य समासनिषेधात् । शेषषष्ठीयमिति केचित् । अथशब्दश्चारम्भवाचकः । अथेत्ययं शब्दोऽधिकारार्थः प्रयुज्यत इति भगवदुक्तेः । मङ्गलन्त्वस्य प्रयोजनमात्रं न तु वाच्यम् । वाक्यार्थानन्वयात् । स्पष्टं चेदं शारीरकभाष्यादौ । एतेन---
ॐ कारश्चाथशब्दश्च सर्गादौ ब्रह्मणः पुरा ।
कण्ठं भित्त्वा विनिर्यातौ तेन माङ्गलिकावुभौ ।।
इति स्मृतिर्व्याख्याता ।
यत्तु अथशब्दः प्रारम्भस्य द्योतको न तु वाचको निपातत्वादुपसर्गवदिति । तन्न । व्याप्यत्वासिद्धेः । उपसर्गत्वस्योपाधित्वाच्च । न च शबादौ साध्याव्यापकत्वं, निपातत्वरुपसाधनावच्छिन्नसाध्यव्यापकत्वात् । न च वाचकत्वाभाव एव साध्यः, साधनावच्छिन्नसाध्याधिकरणे पादपूरणमात्रार्थे तु हीत्यादौ साध्याव्यापकत्वादिति वाच्यम् । शक्तिप्रमापकाभावस्योपाधित्वात् । विभक्तिप्रतिरूपकनिपाते व्यभिचाराच्च । मिश्रास्तु निपातमात्रस्य वाचकत्वेऽर्थवदादिसूत्रेणैव सिद्धौ निपातस्यानर्थकस्य प्रातिपदिकसंज्ञेतिवार्त्तिकस्य द्योतकत्वे तु व्यावर्त्याभावादनर्थकस्येतिविशेषणभागस्य वैयर्थ्यमतश्चादयो वाचकाः प्रादयस्तु द्योतका इत्याहुः । यत्तु वैपरीत्येनापि ज्ञापकपर्यवसानसम्भवान्न तदुक्तपर्यवसानमिति । तदसत् । सूत्रापेक्षया वार्तिकस्याल्पविषयकत्वकल्पनाया युक्तत्वात् ।
उक्तानुक्तद्विरुक्तानां चिन्ता यत्र प्रवर्त्तते ।
तद्वार्त्तिकमिति प्राहुर्वार्त्तिकज्ञा विपश्चितः ।।
इत्युक्तेः । न चैवमुपसर्गस्य प्रातिपदिकसंज्ञेत्येव ब्रूयादिति वाच्यम् । तवापि चादीनां तुल्यत्वात् । यदपि अधिपरी अनर्थकाविति सूत्रे उक्तवार्त्तिकं भाष्ये प्रत्याख्यातं, कुतोऽध्यागच्छति कुतः पर्यागच्छतीत्यत्र गतिर्गताविति निघातवारणार्था गतिसंज्ञाबाधिका कर्मप्रवचनीयसंज्ञा व्यर्था । अनर्थकयोः क्रियायोगाभावादेव गतित्वाभावात् । पञ्चम्याश्चापदानत्वादेव सिद्धौ पञ्चम्यपाङ्परिभिरित्यस्यानपेक्षितत्वादित्याशङ्क्योक्तम्, अनर्थकानामप्येषामर्थवत्कृतकार्यज्ञापनार्थं तत्संज्ञारम्भः । उक्तवार्तिकानारम्भश्च प्रयोजनमिति । अतस्तन्मूलकं कल्पनमश्रद्धेयमेवेति । तदप्यसत् । तावताऽप्युक्तार्थस्य वार्त्तिकतात्पर्यविषयत्वसिद्धेः । अत एव भाष्यकृता प्रत्याख्येयमपि जात्याख्यायामिति सरूपाणामिति च सूत्रद्वयं जातिव्यक्तिपक्षयोर्ज्ञापकत्वेन स्वयमेवोपन्यस्तम् । अथ वा नेमावनर्थकावित्युत्तरभाष्येण तत्संज्ञाविधानावश्यकत्वाभिधानाच्च । धातोरधिपर्योश्च सहाभिधायित्वमिति कैयटोक्तेः । एतद्भाष्यप्रमाण्यादर्थवत्सूत्रस्थभाष्यस्यापि तद्वार्त्तिकप्रत्याख्याने तात्पर्याभावोन्नयनाच्च । एवं च निर्बद्धा उपसर्गा अर्थान्निराहुरिति शाकटायनः । नामाख्यातयोस्तु कर्मोपसंयोगद्योतका भवन्त्युच्चावचाः पदार्था भवन्तीति गार्ग्यस्तद्य एषु पदार्थः प्राहुरिमे तं नामाख्यातयोरर्थविकरणमित्यादि । ततोद्वितीयपादारम्भे अथ निपाता उच्चावचेष्वर्थेषु निपतन्तीत्यादिनिरुक्तदर्शनाच्च । उपसर्गाणां नामाख्यातार्थविकरणं स्वसबन्धेन तयोरन्यादृशार्थबोधकत्वमित्युक्त्या निपातानां तद्वैपरीत्यस्य स्पष्टत्वात् । यत्तु उपास्यते गुरुरित्यादौ धातोः सकर्मकक्रियार्थत्वाभावे कर्मणि लकारानुपपत्त्योपसर्गाणामिव साक्षात्क्रियतेऽलङ्क्रियते इत्याद्यनुरोधान्निपातानामपि द्योतकत्वामिति । तन्न । स्थलविशेषे तथात्वेऽपि सर्वत्र तत्कल्पने मानाभावात् । सामान्ये प्रमाणानां पक्षपातस्य बाधकाभावनियतत्वात् । यदपि "तुहिचस्महवै पादपूरणे" इत्यमरात् "कमीमिद्विति पादपूरणार्था" इति निरुक्ताच्च यत्रद्योत्योऽप्यर्थो न विवक्षितस्तदर्थमुक्तवार्त्तिकारम्भइति । तदप्यसत् । निपातान्तराणामर्थवत्त्वसिद्धेः । यत्तु द्योत्यार्थेनैव तदिति । तन्न । मतुबर्थसंबन्धस्य शब्दे प्रकारीभूतस्य रामादिपदानुरोधेन वृत्तिस्वरूपतयोभयपरत्वानुपपत्तेः । आवृत्तौ मानाभावात् । यदपि अर्थवत्त्वमर्थप्रतीतिजनकज्ञानविषयत्वमेव न तु शक्तिलक्षणान्यतरवत्त्वं, तच्च द्योतकसाधारणमिति । तदप्यसत् । वृक्ष इत्यादौ प्रत्येकवर्णादपि विभक्त्यापत्तेः । स्यादेतत् । स्वादिसङ्ख्याशास्त्रयोरेकवाक्यत्वात्प्रत्येकस्य संख्यानभिधायकत्वान्न तथा । तथा च हयवरट्सूत्रे भाष्यम् । सङ्घातस्यैकार्थ्यात्सुबभावो वर्णादिति । यद्वा । एकाज्द्विर्वचनन्यायेन समुदायादेव विभक्तिः । यद्वा । तन्मध्यपतितन्यायेन प्रत्येकोत्तरविभक्तेः प्रातिपदिकावयवत्वात्सुपोधातुप्रातिपदिकयोरिति लुक् । अथ वा समासान्तमेकं रामपदं तत्र राजपुरुषादिवल्लुगिति । तत्र नाद्यः । निपातानामपि संख्मयानभिधायकत्वात् सुबुत्पत्तेरसिद्धेः । नचैकवचनमुत्सर्गत इति रीत्या संख्यानभिधायकत्वेऽपि तदिति वाच्यम् । प्रत्येकवर्णसाधारण्यात् । न द्वितीयः । समुदायकार्येणावयवानामप्यनुग्रहस्यैतद्बीजत्वात् । समुदायोत्तरविभक्तेश्च प्रत्येकवर्णपदत्वात् । न तृतीयः । प्रातिपदिकानवयवत्वात् । विशिष्टशब्दरूपोपादाने एव तन्मध्यपतितन्याय इति कैयटेनोक्तत्वात् । समासग्रहणस्य नियमार्थतया वर्णसमुदायस्य प्रातिपदिकत्वानुपपत्तेः । न चतुर्थः । धनं वनमित्यादौ नलोपङमुडागमजश्त्वानां हस्तीत्यत्र ढत्वस्य देह इत्यत्र घत्वस्य परिमृजो याजको राजा छाया इत्यादौ षत्वस्य पन्थानावित्यत्र समासान्तस्य च प्रसङ्गात् । यदि त्वत्र "धनगणं लब्धा" "वनगिर्योः" "अहस्त्यादिभ्यः" "परिमृजापनुदोः" "याजकादिभिश्च" "राजाहः सखिभ्यः" "छा या बाहुल्ये" "भृशादिभ्य" इत्यादिनिर्देशात्तत्तत्कार्याभावः । "इतोऽत्सर्वनामस्थाने" इति पथिशब्देकारस्यात्वविधानाच्च न समासान्तः । अन्यथा द्विवचनबहुवचनयोस्तेनैव सिद्धौ स्वमोरेव तद्विधानापत्तेरित्यादि विभाव्यते, तदा गौरवम् । मथ्यादिशब्दानुरोधात्सर्वनामस्थानमात्रेऽत्वविधानावश्यकतया पथिशब्दे स्वमोः पृथ्कृत्य तद्विधाने गौरवाच्च । अथ पदान्तोपादानसामर्थ्यात्समुदायप्रवृत्तपदसंज्ञायामेव तत्तत्कार्याणि प्रवर्तन्ते । अन्यथा अस्मिन् पक्षे ऽवयवप्रवृत्तपदसंज्ञायाः सार्वत्रिकतया तदुपादानवैयर्थ्यादिति विभाव्यते, तर्हि राजपुरुष इत्यादौ नलोपो न स्यात् । समासावयवपूर्वपदप्रवृत्तपदसंज्ञयैव तत्प्रवृत्तेः । वस्तुतस्त्वर्थवद्ग्रहणं प्रत्येकवर्णाद्विभक्तिवारणार्थमिति भाष्यकारैरेवोक्तम् । पर्युदासादर्थवत्त्वप्राप्तावपि धर्मान्तरप्रयुक्तसादृश्यवद्वारणस्य तदर्थत्वात् । त्वदुक्तार्थवत्त्वविवक्षायां तु तद्व्यतिरेकेणापि तत्सिद्धेः अर्थवदादिसूत्रेऽनर्थकस्य प्रातिपदिकसंज्ञायां प्रकाशयितव्यस्यार्थस्याभावात्समुदायादिव प्रतिवर्णं विभक्त्युत्पत्तिप्रसङ्ग इति कैयटाद्युक्तेरिष्टापादनत्वप्रसङ्गात् । अतो वर्णेभ्यो विभक्तिवारणाय कृतेनैवार्थवत्पदेन तेभ्यो विभक्त्यानयनं शान्तिकर्मणि वेतालाभ्युदयन्यायमनुहरति । यत्तु "अव्ययादाप्सुप" इति लोपप्रतियोगितयैव निपातेभ्यो विभक्तिरिति । तन्न । प्रापकाभावे सत्यनुवादतः पदार्थप्राप्तेरङ्गीकारात् । स्वरादिपरत्वेन तत्सम्भवाच्च । यदपि निपातस्यानर्थकस्येत्येव विभक्तिरिति । तदप्यसत् । तद्बलादेव निपातत्वसामानाधिकरण्येन वाचकत्वासिद्धेः । यदपि "अधिपरी अनर्थकौ" इति सूत्रे विशेषणबलादनर्थकयोरप्यधिपरिशब्दयोर्द्विवचनान्तत्वदर्शनादनर्थकनिपातोत्तरं विभक्तिज्ञापनस्य सामान्यापेक्षत्वाश्रयणादनर्थकत्वेऽपि निपातोत्तरं विभक्तिरिति । तदप्यसत् । शब्दस्वरूपपरयोरधिपर्योरनुकार्येणार्थवत्त्वात् । धात्वर्थातिरिक्तार्थाभावस्यानुकार्यनिष्ठस्याभिप्रायेणैवानर्थकत्वोक्तेः । यदपि कृत्तद्धितेत्यत्र चकारेण तत्सिद्धिरिति । तदप्यसत् । कृत्तद्धइतग्रहणमेतदन्तस्यैव प्रत्ययान्तस्य प्रातिपदिकसंज्ञा नान्यस्येति, समासग्रहणं चार्थवत्समुदायानां मध्ये समासस्यैव प्रातिपदिकत्वमिति नियमार्थमिति भाष्यादौ तत्सूत्रस्य नियमार्थत्वोक्तेः । चकारस्यापूर्वविधित्वे समभिव्याहारविरोधात् । क्व चिदगत्या तत्समूहनेऽपि स्वेच्छया तदनौचित्यात् । एतेन---
सा वाचको विशेषाणां सम्भवाद् द्योतकोऽपि वा ।
इति वाक्यपदीयं व्यवस्थितविकल्पार्थकत्वेन व्याख्यात्म् । न च
क्वचित्सम्भविनो भेदाः केवलैरनिदर्शिताः ।
उपसर्गेण संबन्धे व्यज्यन्ते प्रपरादिना ।।
इति उपसर्गप्रक्रमात्तच्छब्दस्तत्पर एवेति वाच्यम् । त्वदाभिमताया निपातमात्रस्योभयरूपत्वेन तत्संमतेरप्यनुपपत्तेः । तत्पूर्वप्रक्रान्तनिपातमात्रपरत्वे तु यथोक्तेऽप्यविरोधात् । एतेन घटश्चेत्यादौ समुच्चितघटे लक्षणेत्यपास्तम् । चार्थे द्वन्द्वविरोधात् । न च स्वातन्त्र्येण प्रयोगापत्तिः । प्रत्ययादिसाम्यात् । तथा च वाक्यपदीयम् ।
प्रत्ययो वाचकत्वेऽपि केवलो न प्रयुज्यते ।
समुच्चयाभिधानेऽपि व्यतिरेको न विद्यते ।। इति ।
न चैषां प्रत्ययवत्परत्वानुशासनं नेति वाच्यम् । समुच्चयादेस्तदर्थस्य संबन्धिनमन्तरेणानवभासात् ।
तथा च वाक्यपदीयम्,
समुच्चयाभिधानेऽपि विशिष्टार्थाभिधायिना ।
गुणैः पदानां संबन्धः परतन्त्रास्तु चादयः ।।
इति । चकारमात्राभिधाने केवलसमुच्चयबोधस्येष्टत्वात् । अत एव तत्र प्रतियोगिविशेषाकाङ्क्षा । अत एव नेत्यादितः प्रतियोग्यमिश्रिताभावशाब्दबोधोदयादभावप्रत्यक्षत्वमेव प्रतियोगिज्ञानकार्यतावच्छेदकम् । अत एव ननेत्युक्तेऽभावो नास्तीत्यर्थो भाष्ये दर्शितः । निपातेनापि कारकाभिधानोक्तेश्च । "परिहर्त्तुं न तवापि सांप्रतम्" इत्यादौ क्रियायोगनिबन्धनस्य तुमुनो दर्शनाच्च । भूवादिसूत्रे नतरामिति भाष्याच्च अन्वयव्यतिरेकाभ्यां चकारस्य समुच्चयार्थतायाः समुच्चयाधिकरणसिद्धत्वाच्च । नञः पर्युदासे लक्षणेतिसकलतान्त्रिकव्यवहाराच्च । न च शोभनः समुच्चय इतिवच्चार्थेऽपि विशेषणान्वयः, घटपटयोः समुच्चय इतिवत्षष्ठी च स्यादिति वाच्यम् । अभेदसंसर्गावच्छिन्ननामार्थप्रकारतानिरूपितविशेष्यतया बोधे निपातजन्योपस्थितोर्विरोधात् । चार्थे प्रतियोगित्वेन नामार्थान्वयाच्च । अत एव घठो नेत्यत्र प्रतियोगित्वसंसर्गको बोधः । घटस्याभाव इत्यत्र प्रतियोगित्वप्रकारकः । निपातातिरिक्तनामार्थस्य भेदान्वयानुपपत्तेः । यत्तु---
शरैरुस्रैरिवोदीच्यानुद्धरिष्यन्नसानिव ।
इत्यादावुस्रसदृशैः शरैरिति बोधे द्योतकत्वपक्ष एव सम्भवतीति । तदसत् । तत्र सादृश्यस्यैवाश्रयत्वसम्बन्धेन शरेषु प्रकारत्वात् । अन्यथा इवादिपदोपादाने श्रौती उपमा, सदृशादिपदप्रयोगे त्वार्थीतिकाव्यमीमांसकसिद्धान्तविरोधात् । उस्रपदोत्तरविभक्तेः साधुत्वार्थत्वादित्यास्तां विस्तरः । स्यादेतत् । उपसर्गाणामपि वाचकत्वमेव । न च तत्र प्रजयतीत्यादौ निपातार्थस्य प्रकर्षस्याश्रयत्वेन धात्वर्थान्वयो न स्यात्, नामार्थधात्वर्थयोर्भेदान्वये तण्डुलं पचतीत्यादावतिप्रसङ्गादिति वाच्यम् । निपातातिरिक्तत्वेन नाम्नो विशेष्यत्वात् । न कलञ्जं भक्षयेदित्यत्र कलञ्जभक्षणाभावविषयकं कार्यमिति गुरुमते धात्वर्थस्य प्रतियोगित्वेनाभावे विशेषणत्वात् । न्यायनये कलञ्जभक्षणं पापाजनकत्वाभावावदित्यभावस्य विशेषणतया धात्वर्थे प्रकारत्वाच्च । आकाशं न पश्यतीत्यादावाकाशविषयकलौकिकविषयताशालिचाक्षुषस्याप्रसिद्ध्या आकाशविषयकत्वाभावस्य दर्शने बोधाच्च । प्रतिष्ठतइति स्थितिप्रकर्षस्य लक्षणया त्वन्मतेऽपि बोधापत्तेः । उक्तसमभिव्याहारे गमनत्वप्रकारकबोधत्वं कार्यतावच्छेदकमित्यस्यापि तुल्यत्वात् । प्रशब्दस्याभावार्थकतां स्वीकृत्य धात्वर्थस्य गत्यभावस्य प्रतियोगित्वेन तदन्वये गत्यभावाभावस्य प्रतीतेः घटो नेत्यादिवत्षष्ठ्याद्यभावेऽपि क्षतिविरहात् । उपस्यतइत्यादौ तत्तदनुपपत्तिबलादुपसर्गस्य द्योतकत्वेऽपि क्षतिविरहादिति कन्दलीकारादयः । अत्र वदन्ति । धातुशक्तेर्विशेष्यांशे क्लृप्ताया एव विशेषणविषयकत्वकल्पने लाघवादुपसर्गः शक्त्यवच्छेदको न तु शक्तः शक्त्यन्तरकल्पनापत्तेः । उक्तरीत्या तु न तथा । परस्परव्यभिचारिनानाप्रवृत्तिनिमित्तकत्वस्यैव शक्तिभेदकल्पकत्वात् । प्रकृष्टजयत्वस्य तु जयत्वव्याप्यत्वात् । यदि प्रवृत्तिनिमित्तभेदमात्रेण शक्तिभेदो लाघवादिति विभाव्यते, तदाऽस्तु प्रकृष्टजये लक्षणैव । ननु विशिष्टजये कथं लक्षणा, विशिष्टस्यानर्थान्तरत्वात् । स्वनिरूपितसम्बन्धस्य स्वस्मिन्नभावात् । अत्र मिश्रादयः । अभेदसम्बन्धोऽत्रलक्ष्यतावच्छेकः । न च घटपदस्यापि घटे लक्षणापत्तिः । विशेषप्रकारकप्रतीत्यर्थमेव तदङ्गीकारात् । एवं प्रतिष्ठतइत्यत्राभावे प्रत्ययार्थानन्वयः । प्रकृत्यर्थत्वाभावात् । न च गत्यभावोऽत्र प्रशब्दस्य धातोस्त्वभावोऽर्थ इति वाच्यम् । कृतहानाकृताभ्यागमप्रसङ्गात् । न च गतिरभावश्च पृथगेव धात्वर्थः, ततो गतेः प्रशब्दार्थेऽभावे तस्य च धात्वर्थेऽभावेऽन्वय इति वाच्यम् । समानश्रुत्यवरुद्धतया गतेर्धात्वर्थाभावान्वयस्यान्तरङ्गत्वात् । गमनत्वप्रकारकप्रतीत्यसिद्धिश्चेति दिक् ।
प्रकृतमनुसरामः । ननु शब्दत्वस्यैव व्युत्पाद्यतावच्छेदकत्वेऽपशब्दसाधारण्यमिति चेन्न । साधुत्वस्य तथात्वात् । तच्च निरूपयिष्यते । न च डोप्रत्ययसुप्रत्ययर्वादेशादीनां व्युत्पादनेऽर्थान्तरम् । गौरित्यादिशब्दप्रतिपत्त्युपयोगित्वात् । न च--राम इत्यादावपि सुप्रत्ययादेरुपयोगान्ना साधारणोपयोगित्वम्, नापि व्युत्पाद्यतावच्छेदकावच्छेदेन पचतीत्यादावनुपयोगादिति वाच्यम् । निरूपणीयतावच्छेदकावच्छेदेनानुपयोगित्वस्यैवार्थान्तरत्वापादकत्वात् । व्युत्पाद्यतावच्छेदकसामानाधिकरण्यमात्रेणाप्युपयोगे तदनवकाशात् । द्रव्यत्वादिभिर्वाच्यवाचकभावसत्त्वेऽपि तेषामन्यत्र निरूपितत्वाच्छब्दस्वरूपप्रतिपत्त्यनु पयोगित्वात् । शब्दा द्विधा । लौकिका वैदिकाश्च । लौकिकत्वं च जन्यज्ञानवत्पुरुषप्रयोगार्हत्वम् । वैदिकत्वं तु वेदमात्रप्रयुक्तत्वम् । वेदपदं च शब्दतदुपजीविप्रमाणातिरिक्तप्रमाणजन्यप्रमित्यविषयार्थकत्वे सति प्रमाणशब्दमात्रपरम् । तेन वैदिकानां स्मृत्यादौ प्रयोगेऽपि न क्षतिः । ते च "शन्नोदेवीरभिष्टये" "इषेत्वोर्जेत्वा" "अग्निमीडेपुरोहितम्" "अग्नआयाहिवीतये" इति भाष्यम् । सर्ववैदिकशब्दानां व्युत्पाद्यत्वलाभाय प्रथमप्रतीकोपादानम् वैदिकैकदेशमात्रव्युत्पादकप्रातिशख्यवैलक्षण्यसूचनाय । देवीरित्यस्य प्रथमाबहुवचनान्तस्य च्छान्दसत्वात्प्रथममुल्लेखः । इषेत्वेत्यत्र श्रेष्ठतमायेति तमपः ईशतेति लुगभावस्य बह्वीरिति पूर्वसवर्णदीर्घस्य चच्छान्दसत्वात् । न च तथापि शन्नोदेवीरित्यस्य अग्निमीडे इत्यस्मादेव प्राथम्यमस्तु न त्विषे इत्यस्मादपि, उभयत्रापि छान्दशब्दसत्त्वे क्रमोल्लङ्घने बीजाभावादिति वाच्यम् । एकत्र प्रतीकान्तर्गत एवच्छान्दसशब्दोऽन्यत्र तदुत्तरगत इति वैषम्यसत्त्वात् । स्यादेतत् । वैदिकशब्दानामप्यर्था लौकिका एव वेदे रात्र्यादीनां घृताच्यादिपदैर्व्यवहारेऽपि वाच्यभेदविरहात् । शब्दार्थयोश्चात्यन्तपरस्परभिन्नत्वे मानाभावः । अयं गौरित्यादिव्यवहारेणाभेदस्यैव विषयीक्रियमाणत्वात् । तथा हि त्वन्मतेऽपि शाब्दबोधे समवायेन जातेरिव शक्तिसम्बन्धेन शब्दस्याऽर्थे प्रकारतया भानम् ।
ग्राह्यत्वं ग्राहकत्वं च द्वे शक्ती तेजसो यथा ।
तथैव सर्वशब्दानामेते पृथगवस्थिते ।।
इत्युक्तेः । किं च ज्ञानमात्रेऽपि शब्दभानम् । तदुक्तम्,
न सोऽस्ति प्रत्ययो लोके यः शब्दानुगमादृते ।
अनुविद्धमिव ज्ञानं सर्वं शब्देन भासते ।।
गृहीतशक्तिकस्य शब्दादर्थवदार्थाच्छब्दस्यापि स्मरणोपपत्तेः । तदुक्तम्,
यत्संज्ञास्मरणं तत्र न तदप्यन्यहेतुकम् ।
पिण्ड एव हि दृष्टः सन्संज्ञां स्मारयितुं क्षमः ।।
यद्यपि नान्यहेतुकमित्यस्य व्यक्तितादात्म्यहेतुकं नेत्यर्थस्य वाचस्पत्यादावुक्तत्वान्नोक्तसंवादः, तथाऽपि शब्दोपस्थितिनियमप्रतिपादकत्वांशे संवादः । तदयं प्रयोगः । अर्थः पदादव्यतिरिक्तः, पदाविषयकप्रतीत्यविषयत्वात् । यद् यदविषयकप्रतीत्यविषयस्तत् तदव्यतिरिक्तम्, यथा गौरेव स्वाविषयकप्रतीत्यविषयः, स्वाव्यतिरिक्तश्च । न ह्यत्यन्तभेदेऽयं नियमः । अश्वमहिषयोः परस्पराविषयकप्रतीत्यविषयकत्वनियमापत्तेः । तथा चार्थाभेदाद्वैदिकलौकिकशब्दभेदोऽप्यनुपपन्न इति कथं द्वैराश्येन तदुल्लेख इति । एतदभिप्रायेणैव अथगौरित्यत्र कः शब्द इति भाष्यम् । न च द्रव्यसामान्ययोर्गौरित्येतद्बोधविषयत्वंऽपि गुणकर्मणोरतथात्वाच्छब्दस्य तदभेदशङ्कापरं भाष्यमनुपपन्नमेवेति वाच्यम् । भेदाभेदयोर्विरुद्धत्वात्कथं समावेश इत्याशङ्क्य दृष्टान्तत्वेन तदुपादानात् । भेदाभेदवादिभिस्तत्राप्यभेदोपगमात् । न च गुणकर्मणोः शब्दाभेदशङ्का तथाऽपि कथमिति वाच्यम् । शब्दाभिन्नद्रव्याभिन्नतया शब्दाभिन्नत्वस्यापि तदुपपत्तेः । न च तत्र सामानाधिकरण्येनाभेदः, प्रकृते त्वेकप्रतीतिविषयत्वेन घटपदं घट इति प्रत्ययानभ्युपगमादिति पक्षदृष्टान्तयोर्न साधनैक्यामिति वाच्यम् । यथोक्तसाधने साधनान्तरस्योक्तत्वात् । अत्र एवायं गौरित्यादौ शब्दार्थयोरभेदव्यवहारदर्शनादेव शङ्काभाष्यमवतारितम् । के चित्तु गोशब्दस्यापि गवि तादात्म्यमेव संसर्गो।स्तु । एवं गुणादिभिरपि तदभिन्नाभिन्नस्य तदभेदादित्याशयेन द्रव्यगुणसामान्यैः सह शब्दस्याभेदशङ्केति व्याख्याय निराकरणग्रन्थमित्थं व्याचक्षते । घटे व्यावहारिकपटभेदस्य प्रातिभासिकपटाभेदस्य च सत्त्वेऽपि समसत्ताकौ भेदाभेदौ विरुद्धावेव । अन्यथा सत्तागुणत्वाद्यभेदात्सुखदुः खस्वर्गनरकादेरप्यभेदापत्तौ प्रवृत्तिनिवृत्तिव्यवस्था भेदग्रहाद् भ्रमानिवृत्तिश्च न स्यादिति । तच्चिन्त्यम् । नीलो घट इत्यादौ समानसत्ताकयोरेव भेदाभेदयोस्तद्वादिभिरभ्युपगमात् । तदुक्तं वाचस्पत्ये, विरुद्धमिति नः क्व संप्रत्ययो यन्न प्रामाणिकं सामानाधिकरण्यप्रत्यये तु भेदाभदौ भासेते इति । अतश्च प्रतियोग्यभावयोरन्यत्र सामानाधिकरण्याभावेऽपि अनुभवानुरोधात्संयोगतदभावयोस्तदभ्युपगमः सुखदुः खादेस्तु सत्तादिनाऽभेदेऽपि प्रातिस्विकधर्मेण भेदसत्त्वादेव प्रवृत्त्यादिव्यवस्थोपपत्तेः । विरोधिविषयकत्वस्यैव बाधकत्वे तन्त्रतया भेदग्रहाद् भ्रमनिवृत्तेश्च । शक्तिसंबन्धेन प्रकारतामादाय नियमोत्थाने पश्चात्तादात्म्यस्य संसर्गताशङ्काऽनुत्थानाच्चेति । उच्यते । न पदार्थयोरभेदः, एकज्ञाननियतविषयताकयोरपि द्रव्यसामान्ययोर्भेदस्वीकारेण व्यभिचारात् । न च गोत्ववानित्याद्यनुमित्यादौ गवादेर्न विषयत्वामिति वाच्यम् । गोत्वत्वस्य साध्यतावच्छेदकतया भानेन तद्धटकतया गोरपि विषयत्वात् । तथा च द्रव्यं नाम तत् सामान्यं नाम तदित्यनेन प्रकृतहेतौ व्यभिचार उक्तः । गुणक्रियाभागेन च दृष्टान्तासिद्धिरुक्तेति विभागः । तथा हि । घटो नील इत्यत्र किं शाब्दं सामानाधिकरण्यमभेदसाधकमुतार्थम् । नाद्यः । भेदमात्रसाधकतया विरुद्धत्वात् । नान्त्यः । उभयथाऽप्युपपन्नतया तत्साधकत्वायोगादित्युदयनाचार्याः । तर्ककौतूहले विस्तरः । स्यादेतत् । शाब्दबोधस्य शब्दबिषयकत्वकल्पने मानाभावः । स्वारसिकानुभवविरहात् । न च गोत्वस्य प्रकारतायाः सर्वसिद्धत्वाद्गोपदप्रकारताकल्पनं नाधिकम्, सङ्केतविशेषसंबन्धेन गोपदस्यैव गोत्वरूपत्वादिति वाच्यम् । गोत्वस्य स्वरूपत एव प्रकारत्वाभ्युपगमाद्गोपदत्वावच्छिन्नप्रकारताकल्पनस्याधिक्यात् । गोत्वस्य समवायेन प्रकारत्वाङ्गीकाराच्च । शब्दस्य वृत्त्यविषयतया शाब्दत्वानुपपत्तेश्च । घटपदात्समवायित्वेनोपस्थिताकाशादेरपि तदापत्तेश्च । न चाश्रयत्वनिरूपकत्वान्यतरसंबन्धेन वृत्तिमत्त्वमेव वृत्तिविषयत्वमिति वाच्यम् । आश्रयत्वप्रवेशे मानाभावात् । यत्तु गामुच्चारयेत्यादौ पदविषयकत्वं विनाऽन्वयानुपपत्तिः । अर्थस्योच्चारणासम्भवात् । शब्देलक्षणायां च गौरवात् । अस्माकं तु विशेषणतया पदोपस्थितिसत्त्वात्तस्योच्चारणान्वयोपपत्तेः । न च विशेष्यत्वार्थं लक्षणा, पदप्रकारकव्यक्तिविशेष्यकबोधत्वस्यैव कार्यतावच्छेदकत्वाद्धटो नित्य इत्यादाविवेति वाच्यम् । तत्र घटत्वत्वप्रकारकबोधानुरोधादेव तथात्वात् । घटत्वांशे निर्विकल्पकापत्तेश्च । अत्र तु पदावच्छेदकतयाऽऽनुपूर्वीविशेषस्यापि भाने तदनापत्तेः । विशेष्यव्यक्त्यभाने पदप्राधान्यस्याप्यर्थात्सिद्धेः । यद्वा शक्तिज्ञानस्य कार्यतावच्छेदकं न पदप्रकारकबोधत्वम्, किं तु गोत्वप्रकारकबोधत्वमेव प्रथमोपस्थितत्वेन, सामान्यसामग्रीबलात्तु शब्दस्य विशेषणतया भानं, निर्विकल्पकोत्तरप्रत्यक्षे जातेरिव प्रकारत्वनियमोपपत्तेरिति । तदप्यसत् । व्यक्त्यवच्छेदकतयोपस्थितस्यान्यत्रान्वयायोगात् । स्वतन्त्रोपस्थित्यर्थमेव तत्र घटत्वे लक्षणोपयोगात् । अत एव पङ्कजपदस्य कुमुदे लक्षणेति दर्पणचिन्तामण्यादयः । अयं ह्यत्र निष्कर्षः । येन रूपेण पदादुपस्थितिस्तेनेतरपदार्थान्वयसम्भवे न लक्षणा । यथा गौरनित्य इति । अवच्छेदकत्वेनोपस्थितस्य गोत्वस्यावच्छेदकत्वेनानित्यत्वान्वययोग्यत्वात् । गौर्नित्य इत्यत्र त्ववच्छेदकत्वेनोपस्थितस्य विशेष्यतया नित्यत्वान्वयानर्हत्वात्सेति । पदार्थप्रकारकबोधे विशेष्यतया पदजन्योपस्थितेर्हेतुत्वात् । अन्यथा घटं पश्येत्यादौ घटत्वस्य कर्मत्वबोधापत्तेः । घटत्वनिर्विकल्पकापत्तावपि क्षतिविरहाच्च । गोपदशक्तिज्ञानस्य पदप्रकारकव्यक्तिविशेष्यकबोधे हेतुतायां समानविषयकत्वस्य समानप्रकारकत्वस्य वा प्रत्यासत्तित्वे गोपदाविशेष्यकस्मरणानुपपत्तेश्च । न चाभेदसंसर्गकगोपदप्रकारकगोपदविशेष्यकस्मरणमेवास्त्विति वाच्यम् । शक्तिज्ञानकार्यतावच्छेदकेऽभेदस्यानिवेशात् । अन्यथा तादृशघटत्वप्रकारकघटत्वविशेष्यकबोधस्याप्यापत्तेः । उपस्थितिमात्रस्य शाब्दविषयकत्वनियामकत्वे चातिप्रसङ्गात् । न ह्युपस्थितत्वादेव शाब्दे भानमिति प्रत्यक्षं दीधितिकारोक्तेः । निर्विकल्पकस्य च धर्मिग्राहकमानेन तथैव सिद्धेः । तस्माच्छाब्दबोधे शब्दभाने मानाभावः । ज्ञानमात्रे तु तद्भाने सुतराम् । तथा हि व्यक्तिज्ञानस्य शब्दस्मारकत्वं त्वयाऽभ्युपगम्यते । अज्ञातस्योद्बोधकत्वायोगात्पिण्ड एव हि दृष्टः सन्नित्युक्तेः । तथा च प्राथमिकं व्यक्तिज्ञानं शब्दाविषयकमेवेति वाच्यम् । तदा तस्यानुपस्थितत्वात् । तथा च व्यभिचारः स्फुट एव । गोत्वेन गां जानामीतिवद्गोपदेन गां जानामीत्यनुव्यवसायविरहादिति प्राप्ते उच्यते । अनुभवानुरोधेन ज्ञानमात्रस्य पदविषयकत्वकल्पनोऽऽवश्यकतया ज्ञानसामान्यसामग्री पदविशिष्टमेवार्थं बोधयतीति नियमः कल्प्यते । अतो वृत्तिसन्निकर्षाद्यभावेऽपि न क्षतिः । अत एवेच्छादेर्मदंशादिविषयत्वं न कारणनियम्यमिति नैयायिकाः । किञ्च । अगृहीतघटपदशक्तिकस्य घटचक्षुः सन्निकर्षसत्त्वेऽपि घटत्वप्रकारकघटविशेष्यकचाक्षुषानुदयोऽनुभवसिद्धः । सोऽयन्निष्कर्षनियमः शक्तिसम्बन्धेन पदप्रकारकबोधसामग्रीव्यतिरेकप्रयुक्त एव कारणान्तरसत्त्वादिति तद्व्यतिरेकप्रयोजकत्वयतिरेकप्रतियोगितया शब्दभागमङ्गीकार्यम् । अयं तु विशेषः । कदाचित्किञ्चित्पदत्वं प्रकारतावच्छेदकं कदाचिच्च घटपटत्वादिकमिति । इदं च दर्शनान्तरेऽपि मन्तव्यम् । अनुभवस्यापह्नोतुमशक्यत्वात् । अत एवाक्षरमम्बरान्तधृतेरिति शारीरकमीमांसासूत्रसिद्धान्ते भामत्यामपि ज्ञानमात्रे शब्दविषयकत्वमङ्गीकृतम् । संज्ञा तु गृहीतसम्बन्धैरत्यन्ताभ्यासवशात्पिण्डानिवेशिन्येव संस्कारोद्बोधसम्पातायाता स्मर्यते । यथाह,
"यत्संज्ञास्मरणं तत्र" इत्यादि ।
संज्ञा हि स्मर्यमाणआऽऽपि प्रत्यक्षत्वं न बाधते ।
संज्ञिनः सा तटस्था हि न रूपाच्छादनक्षमा ।।
इति । गृहीतसम्बन्धैर्वाच्यवाचकज्ञानवद्भिः । पिण्डानिवेशिनी व्यक्तितादात्म्यमनापन्ना । स्मर्यमाणसंज्ञायाः परोक्षत्वात्तद्विशिष्टार्थस्य प्रत्यक्षत्वं न स्यात्, अतः संज्ञाहीति । स्मर्यमाणाऽपि संज्ञा संज्ञिनः प्रत्यक्षत्वं न बाधते । सा हि तटस्थाऽर्थानिविष्टा । अतो नार्थस्वरूपाच्छादनक्षमा । ग्रहणस्मरणात्मकज्ञानद्वयाभ्युपगमेन संज्ञाविशिष्टसंज्ञिप्रत्यक्षानभ्युपगमादित्यर्थः । तथा च लीलावत्याम् " न च शब्दः संसर्गप्रत्यक्षगोचरः, ततो जातिसंसर्गमात्रं तत्रावभासते, शब्दस्तु व्युत्पत्तिसमयावगतोऽत्र स्मर्यते न तु केन चित्संसर्गोऽवभासतइत्यादि" । एवं च शब्दस्यापि व्यक्तिविशेषणत्वेन भानमित्येव शाब्दिकमते विशेष इति दिक् । ननु तथाऽपि शब्दस्य शक्तिसम्बन्धेन कथं व्यक्तौ प्रकारत्वं स्पोटस्यैवेतन्मते वाचकत्वात् । अन्यथा स्फोट एव प्रमाणानवतारादिति चेत्, सत्यम् । आरोपितामेव वाचकत्मादाय तथोक्तेः । अथ वर्णस्फोटे विप्रतिपत्तिः । तिप्प्रभृतयो वाचका न वेति । यदि तिबादिभिः स्मृतानां लादीनां बोधकत्वं तदा निषेधकोटिः, अथ श्रूयमाणानामेव तदा विधिः । अन्ये तु प्रयुज्यमानपदसमभिव्याहारानन्तर्गता वर्णा वाचका न वेति स्थानिपक्षिकां विप्रतिपत्तिमाहुः । आद्यायां विधिकोटिर्वैयाकरणानां निषेधकोटिर्नैयायिकादीनाम् । द्वितीयायां तु वैपरीत्यम् । नन्वाद्यायां क्तिप्रत्ययादिमादाय विधौ सिद्धसाधनं निषेधे च बाधः । द्वितीयायामपि पचसीत्यादिसमभिव्याहारानन्तर्गतयजसीत्यादिसमभिव्याहारान्तर्गतवर्णानादाय सिद्धसाधनबाधौ । न चादेशत्वं पक्षतावच्छेदकं प्रथमायां द्वितीयस्यां च स्थानित्वमिति वाच्यम् । तथाऽप्येकत्वादिवाचकतया तयोरपरिहारात् । द्वितीयायामपि भ्वादेशादिस्थलेऽभूदित्यादिसमभिव्याहारानन्तर्गतस्यास्त्यादेर्वाचकतया तयोः प्रसङ्गात् । सत्यम् । कर्त्रादिवाचकत्वस्य विध्यर्थत्वात् । कर्त्रादिपदेषु तस्य घटादिपदेषु तदभावस्य प्रसिद्धिः । पचतीत्यादिसमभिव्याहारानन्तर्गतत्वं च तिप्रभृतीनां विशेषणम् । द्वितीयायां च तादृशस्थले पक्षसङ्कोच एव शरणम् । अयं च पक्षः स्थानिवत्सूत्रे सर्वे सर्वपदादेशा इति भाष्यग्रन्थे पद्यते ज्ञायतेऽर्थोऽनेनेति व्युत्पत्त्या पदशब्दस्यार्थवत्परत्वमाश्रित्य एरुरित्यस्य तेस्तुरित्यर्थः अर्थवत्येव स्थान्यादेशभावविश्रान्तेरित्यादिग्रन्थैश्च स्वीकृतः । अत्र वदन्ति । लकार एव वाचको न तु प्रयोगान्तर्गतास्तिबादयः । अनेकशक्तिकल्पनापत्तेः । "लः कर्मणि" इत्याद्यनुशासनाच्च । न च स्थान्यादेशभावधीविधुराणां बोधानुपपत्तिः । शक्तिभ्रमात्तदुपपत्तेः । न च शत्रादीनामपि लकारादेशतया बोधवैषम्यं न स्यात्, वाचकस्य लकारस्यैक्यादिति वाच्यम् । "कर्त्तरिकृत्" इत्यनुशासनान्नामार्थयोरभेदान्वयाच्च तत्र कर्त्रादिपरत्वात् । यत्तु---राम इत्यादौ पाणिनीयाः सुप्रत्ययं विदधति, कौमारास्तु सिम्, अन्ये तु रुप्रत्ययम्, तावानित्यत्र सूत्ररीत्या वतुः, " आ सर्वनाम्न" इत्यात्वम्, डावतावर्थवैशेष्यादिति पूर्वाचार्यवार्तिकोक्तरीत्या डावतुः, तत्र किं स्मारणीयम् । न च स्वाधीतव्याकरणस्थानिनः स्मरणं, सर्वाधीतिनो विनिगमनाविरहादिति । तन्न । उद्बोधकानुसारेण व्यवस्थासम्भवात्, संभेदेऽन्यतरवैयर्थ्याभावाच्च । न च स्थानिनामप्युक्तरीत्या बहुत्वादनेकशक्तिकल्पनसाम्यं वृद्धव्यवहारस्याप्यादेशे एव शक्तिपरिच्छेदकत्वमिति वाच्यम् । "लः कर्णणि च" इत्यस्य शक्तिपरिच्छेदकत्वात् । न च साधुत्वानुशासने एव तस्य तात्पर्यं न तु शक्तिपरिच्छेदेऽपीति वाच्यम् ।
शक्तिग्रहं व्याकरणोपमानकोशाप्तवाक्याद्व्यवहारतश्च ।
वाक्यस्य शेषाद्विवृतेर्वदन्ति सान्निध्यतः सिद्धपदस्य वृद्धाः ।।
इति प्रथमकक्षायां तदुपादानानुपपत्तेः । वाक्यशेषादिनाऽपि तदनुपपत्तेश्च । न चेष्टापत्तिः । त्रिवृच्चर्वधिकरणादिविरोधात् । व्यवहारस्यापि तदतात्पर्यकत्वाच्च । तदुन्नायकत्वस्यापि साम्यात् । त्वयाऽपि कर्तृशक्तावुक्तानुशासनस्यैव प्रमाणितत्वात् । "अनेकमन्यपदार्थे" इत्यादेर्वहुव्रीह्यादावतिरिक्तशक्तिस्वीकाराच्च । न च भूल् इत्यतो बोधापत्तिः । भूतिप्इत्येतत्तुल्यत्वात् । शबादिविध्यन्तरप्रवृत्तिविषयत्वादपरिनिष्ठितत्वस्यापि साम्यात् । असाधुत्वज्ञानस्य शाब्दधीविरोधित्वाच्च । न च भवतीत्यादिसमभिव्याहारो वा समभिव्याहृता वर्णा वा वाचका इति विनिगमकाभावाद्वर्णांनां वाचकत्वमिति वाच्यम् । समभिव्याहारो हि क्व चित्पूर्वोत्तरभावरूपो यथा घटमित्यादौ प्रकृतिप्रत्ययादेः, क्व चित्तात्पर्यरूपः, अयमेति पुत्रो राज्ञः पुरुषोऽपसार्यतामित्यादौ तत्सत्त्वेऽपि तात्पर्याभावाद्राजपुरुषयोरन्वयाभावात् । तस्य च वाचकतायाः कुत्राप्यनुक्तत्वात् । पदोपस्थितानामर्थानामन्वयविशेष एव तस्य सहकारित्वात् । अभ्युपेत्यापि ब्रूमः, लकारस्य वाचकत्वं त्वयाऽप्यभ्युपगम्यते । लकारस्य वाचकत्वे तिबादीनां शत्रादीनां च वैषम्यं च स्यात् । न च "कर्त्तरि कृत्" इत्यनेन निर्वाहः । स्थान्यर्थेनैव निराकाङ्क्षत्वाच्छत्रादौ तदप्रवृत्तेः । ण्वुलादीनामनादेशतयाऽर्थाकाङ्क्षायां तत्रैव प्रवृत्तेः । आकाङ्क्षितविधानं ज्याय इतिन्यायादिव्यवस्थापितत्वात् । तद्यदि लकारः कस्य चिदर्थस्य नाभिधायकस्तत्कथं तदर्थेन शत्रादीनामर्थाकाङ्क्षोपशान्तिः । कथं च तेन शय्यमाने आस्यमाने चायं गत इत्यादौ भावे घटः क्रियमाण इत्यादौ कर्मणि शानच् । नन्वस्मन्मते तिबादिवच्छानजादीनामपि लादेशत्वात्तन्निष्ठामेव वाचकतां लकारे आरोप्य तदर्थकथनाभ्युपगमात्तथोक्तमिति चेत्, आस्तां तावदेतत्, लकारस्यैव वाचकत्वमिति तार्किकमतमित्यसिद्धमेव । तिङो व्यापारे लक्षणेति कुसुमाञ्जलावाचार्योक्तेः । एकत्वादिसंख्यामात्रमाख्यातार्थ इत्युपाध्यायाश्च । आख्यातदीधितावपि आख्यातत्वं लत्वमेव दशलकारसाधारणमिति यद्यपि कैश्चिद्व्याख्यातम्, तथाऽप्याख्यातत्वं न जातिर्मत्वादिना सङ्करान्मानाभावाच्च, किं त्वभियुक्तानां सङ्केतविशेषेणाख्यातपदवत्त्वम्, शक्ततावच्छेदकं तु तिप्त्वादिकमेव तद्रूपेणआज्ञानदशायां शाब्दबोधानुदयादिति व्याख्यातमेव । अन्यैरप्येकोच्चारणान्तर्भावेन तिप्त्वादिकमेव कर्त्तमानत्वयत्नयोः शक्ततावच्छेदकम्पुष्पवन्तादिवत् । अत एवातीति यत्ने वर्त्तमानत्वबोधे तात्पर्याभावे पचतीत्यादिप्रयोगाभावः । उष्णपुष्पवन्तावितिवदित्याद्युक्तम् । अतो लकारस्यैव न्यायमते वाचकत्वमित्येकान्तकल्पनं प्रामादिकमेव । नन्वेवं सुत्वेनैकत्वे शक्तिरित्यादिकं कथमिति चेत् । मैवम् । स्थानिन एवादेशस्यैवेति वा नियमाभावात् । न हि त्वन्मतेऽप्यादेशस्यैव वाचकत्वनियमः । भ्यामित्यादिभ्यो बोधानापत्तेः । न च रामभ्यामित्यस्य "सुपि च" इति दीर्घद्वारा रामाभ्यामित्यादेश इति वाच्यम् । वर्णस्फोटपक्षस्य पदस्फोटपक्षाद्भिन्नत्वात् । प्रमाणानुरोधेनैव वाचकत्वविश्रामात् । "लः कर्मणि" इत्याद्यनुशासनसत्त्वेऽपि तस्य प्रयोगविरहनियमात्तदादेशानामेव तत् । लाघवार्थमेव लकारस्य तत्रोल्लेखात् । त्वयाऽप्येवमेवाभ्युपेतत्वाच्च । न च "तिङ्कर्मणिच" इत्यादिकमेव तदस्तु इति वाच्यम् । तिबाद्यन्यतमत्वरूपस्य तिङ्त्वस्य विधेयतावच्छेदकत्वे गौरवात् । नच लस्येति सूत्रस्य लडित्यादिसूत्रस्य चानारम्भाल्लाघवमिति वाच्यम् । सुब्विभक्तीनामनुगतार्थतया स्वातन्त्र्येण तद्विधानेऽपि तिङा तत्तत्कालविशेषप्रयुक्तावान्तरानेककार्यवैलक्षण्येन तन्निर्वाहान्यथानुपपत्त्या स्थानिभेदेनैव तस्योपपाद्यत्वात् ।
प्रकृतमनुसरामः । सुपां च स्वौजसित्यादिना स्वरूपं निर्दिश्य तत्रैव द्व्येकयोर्व्दिवचनैकवचने इत्याद्यर्थविशेषनिर्देशात्सुत्वादिकमेव शक्ततावच्छेदकम् । अत एवैकत्वादौ तिबादेरेव शक्तिः । तवापि विसर्गत्वस्य राम इत्यादौ शक्ततावच्छेदकत्वे पचत इत्यादौ व्यभिचारात् । सुस्थानीयविसर्गत्वापेक्षया च सुत्वस्य लघुत्वात् । टादौ तु गौर्येत्यादौ तस्यापि स्वरूपेण प्रयोगयोग्यतया शक्त्यावश्यकत्वे इनाद्यादेशानामपि तत्कल्पने गौरवात् । अन्यथा स्त्रीलिङ्गमात्रे हलन्तपुन्नपुंसकयोश्च टाप एव रामेणेत्यादाविनादेशस्य घिसंज्ञास्थले हरिणेत्यादौ च नादेशस्येति शक्तित्रयकल्पनापत्तेः । स्थानिशक्तिबाधकप्रमाणाभावात् । इनादिशक्तिसाधकप्रमाणाभावाच्च । बोधस्य च व्युत्पन्नानां स्मरणेनान्येषां च शक्तिभ्रमेण सम्भवात् । अत एव टत्वेन एकत्वे करणत्वे च शक्तिरिति नैयायिकानां व्यवहारः । किञ्च तिबादीनामपि सर्वलकारसाधारणार्थ एव शक्तिः । तत्तदसाधारणार्थे तु लडादीनां तत्तद्रूपेणैव शक्तिः । अन्यथा बोधवैलक्षण्यानुपपत्तेः । वर्तमानत्वादौ लडादीनां शक्तिरिति वैयाकरणाः । लिङादावाख्यातत्वेन भावना तिङ्त्वादिना तु प्रवर्तना वाच्येति मीमांसकाः । यदाहुः---
अभिधाभावनामाहुरन्यामेव लिङादयः ।
अर्थात्मभावना त्वन्या सर्वाख्यातस्य गोचरः ।।
तत्सिद्धमेतत् आदेशविनिर्मुक्तस्य प्रयोगाभावे आदेशानामेव, उभयथा प्रयोगे तु स्थानिनामेव वाचकत्वम् । यत्र त्वनुगतेष्वप्यादेशेषु अर्थविशेषपुरस्कारो यथा लिङादौ तत्र सर्वानुगतेऽर्थे आदेशानां अर्थविशेषे च स्थानिनामेव तथात्वम् । एवं च द्वितीयविप्रतिपत्तौ अभावकोटौ बाध इत्यादिकं बहुतरम्हनीयम् । नन्वेवं यत्रैवादेशानां वाचकत्वमभ्युपगम्यते तत्रैव स्फोटसिद्धिरिति चेत् । मैवम् । यदि तिबादीनामर्थवाचकत्वमेव स्फोट इत्युच्यते तदा इष्टापत्तिः । अथ तकारेकारादीनां प्रत्येकं वाचकत्वम् । तन्न । तवाप्यसिद्धान्तात् । एरुरित्यस्य तेस्तुरित्यर्थ इतिव्याख्यातृवचनानुपपत्तेः । इकारस्याप्यर्थवत्त्वे तस्योकारादेशेऽप्यर्थवत्येव स्थान्यादेशभाव इति नियमभङ्गाभावात् । नन्वेवं चैत्रः पचत्वित्यादौ "तिङ्ङतिङः" इति निघातो न स्यात् । इकारमात्रस्य पचतु इत्यस्य तिङन्तत्वाभावादिति चेत्, किं तेन । न हि वयमिकारस्यैव उकारादेशो विधेय इति व्यवस्थापयामः । किं तु इकारमात्रस्य वाचकत्वे नैवापसिद्धान्तापत्तिः । अन्यथा निघातानुरोधात्तेस्तुरित्यर्थ इति ब्रुयान्न तूक्तन्यायानुरोधादिति न किं चिदेतत् । एतेन आदेश वाचकत्वाभ्युपगमे घटेन दधीदं हरेऽव विष्णोऽवेत्यादिषु पदवाक्यस्फोटावपि सिद्ध्येतामिति परास्तम् । अवेत्यादिस्मरणादपि बोधोपपत्तेः । पूर्वरूपस्थलेऽकारलोपाभ्युपगमेऽपि क्षतिविरहात् । वस्नसादौ प्रकृतिप्रत्ययविभागसंमोहेऽपि तत्रापि युष्माकमित्यादिस्थानिनः स्मरणाद् बोधात् । अन्यथा तेषां षष्ठीचतुर्थीद्वितीयासाधारण्यादर्थविशेषस्य दुर्ग्रहत्वात् । सर्वादेशानां वाचकत्वानभ्युपगमात् । आदेशशक्तिग्राहकप्रमाणसत्त्व एव तथात्वात् । ननु---
सर्वे सर्वपदादेशा दाक्षीपुत्रस्य पाणिनेः ।
एकदेशविकारे हि नित्यत्वं नोपपद्यते ।।
इति रीत्या हरे अव इत्यस्य स्थाने पूर्वरूपमुखेन हरेऽव इत्यादेश एव विधीयत इति चेत्, कामं विधीयतामर्थबोधोपायस्योक्तत्वात् । न चैवमादेशस्यार्थवत्त्वं कथमिति वाच्यम् । तवापि स्थानिनस्तत्कथमिति पर्यनुयोगात् । उक्तन्यायेनादेशवत्स्थानिनोऽप्यर्थवत्ताया लाभात् । आदेशार्थवत्तयैव स्थानिनस्तथात्वमिति चेत्, तर्हि स्थान्यर्थवत्तयैवादेशस्य तथात्वमिति तुल्यम् ।
वाक्यस्फोटे त्विदमपि विचार्यते । विशिष्टवाक्यार्थबोधे विशिष्टवाक्यशक्तिज्ञानस्य हेतुत्वे मानाभावः । तथा हि वाक्यशक्तिवादिना पदानां शक्तिस्तज्ज्ञानस्य शाब्दधीकारणत्वं च स्वीक्रियते न वा । नाद्यः । तत एव वाक्यार्थबोधोपपत्तौ वाक्यशक्तिकल्पनाऽनवतारात् । नान्त्यः । पदशक्तिज्ञानविरहे वाक्यशक्तिज्ञानाद् बोधापत्तेः । पदशक्तिज्ञानसत्त्वे वाक्यशक्तिज्ञानविरेहेण शाब्दधीव्यतिरेकानुपलम्भाच्च । यत्तु पदशक्तिज्ञानस्य पदार्थशाब्दबोधत्वं वाक्यशक्तिज्ञानस्य च वाक्यार्थशाब्दत्वं कार्यतावच्छेदकमिति नान्यतरवैयर्थ्यमिति । तन्न । पदार्थशाब्दबोधः स्वातन्त्र्येणैव वक्तृतात्पर्यविषयः प्रकारान्तरेण वा । नाद्यः । प्रयोजनाभावात् । पदार्थवाक्यार्थज्ञानस्य समूहालम्बनत्वप्रसङ्गात् । वाक्यार्थबोधसमये पदार्थानां खण्डशो बोधस्याप्रामाणिकत्वात् । न द्वितीयः । वाक्यार्थज्ञानोपयोगित्वातिरिक्तस्य प्रकारस्याभावात् । पदशक्तिज्ञानेन वाक्यार्थबोधे जननीये पदार्थस्मरणस्य द्वारतायास्त्वयैवोक्तत्वात् । घटकर्मकानयनबोधस्य वाक्यशक्तिज्ञानादेव सिद्धौ प्रत्येकपदजन्यघटादिज्ञानानां तदुपयोगासम्भवाच्च । ननु घटादिपदशक्तिज्ञानस्य घटत्वप्रकारकघटविशेष्यकशाब्दत्वादिकमेव कार्यतावच्छेदकं तत्कथं तेन वाक्यार्थज्ञाननिर्वाहः । अतस्तत्कारणीभूतज्ञाने विषयतयाऽवच्छेदिका वाक्यशक्तिरवश्यं कल्पनीया । यत्कार्यं यत्कार्यविजातीयं तत् तत्कारणविजातीयकारणजन्यम्, यथा घटविजातीयः पट इति न्यायेन घटमानयेत्येतद्वाक्यार्थज्ञानत्वं प्रत्येकपदार्थज्ञानत्वावच्छिन्नकार्यताप्रतियोगिककारणतानवच्छेदकरूपावच्छिन्नकारणताप्रतियोगिककार्यतावच्छेदकं तद्धर्मावच्छिन्नकार्यताभिन्नकार्यतावच्छेदकधर्मवत्त्वादिति चेत् । न । प्रत्येकशक्तिज्ञानैः स्वस्वकार्यतावच्छेदकावच्छिन्नजनेन आकाङ्क्षादिरूपसहकारिवशाद्विशिष्टधर्मावच्छिन्नजननसम्भवात् । यत्त्वाकाङ्क्षादिज्ञानहेतुत्वापेक्षया वाक्यशक्तिज्ञानमेव कारणत्वेनाभ्युपगम्यतामिति । तन्न । तद्धि निरपेक्षमेव वाक्यार्थज्ञानजनकं किञ्चिदपेक्षं वा । नाद्यः । घटः कर्मत्वमानयनं कृतिरित्यादितोऽपि बोधापत्तेः । नान्त्यः । आकाङ्क्षाज्ञानादेरेवापेक्षत्त्वात् । न च घटः कर्मत्वमित्यादौ शक्तिग्रहसत्त्वे भवत्येव शाब्दमिति वाच्यम् । विमलं जलं नद्याः कच्छे महिषश्चरतीत्यादौ कदाचिन्नद्यर्थो जलान्वितत्बेन कदाचिच्च कच्छान्वितत्वेन प्रतीयत इति वैषम्यानापत्तेः । उभयवाक्यार्थशक्तिज्ञानसत्त्वात् । न च नानार्थवत्तात्पर्याद्विनिगमनेति वाच्यम् । तात्पर्यज्ञानहेतुत्वापत्तेः । न च तथाप्याकाङ्क्षाज्ञानस्थले वाक्यशक्तिज्ञानं स्यादिति वाच्यम् । घटमानय घटः कर्मत्वमित्यनयोस्तुल्यकक्षतया प्रयोगापत्तेः । न च विपरीतव्युत्पन्नस्यैव द्वितीयाद् बोधः । तद्व्युत्पत्तेर्वैपरीत्य एव मानाभावात् । निराकाङ्क्षत्वातिरिक्तस्य तद्बीजस्य दुर्वचत्वात् । घटमानय आनय घटं घटः कर्मत्वमित्यादीनां भिन्नतया घटकर्मकानयनबुद्धौ हेतुत्रयकल्पनापत्तेश्च । तत्तदानुपूर्वीवैशिष्ट्यस्य कार्यतावच्छेदके निवेश्यत्वाच्च । तदरिक्तवाक्यत्वस्य त्वया दुर्वचत्वात् । न च साकाङ्क्षपदसमूह एव वाक्यमिति वाच्यम् । आकाङ्क्षाज्ञानहेतुतासिद्धेः । किं च वह्निनासिञ्चतीत्यादौ वह्निकरणकसेकरूपवाक्यार्थाप्रसिद्ध्या तत्र शक्तिग्रहानुपपत्तिः । मन्मते पदार्थानां प्रत्येकं प्रसिद्धिनियमात् । यत्तु---विशिष्टं नातिरिक्तं किं तु तावन्त एव पदार्थास्ते च प्रसिद्धा एवेति । तत्तुच्छम् । पदार्थशक्तेस्त्वयाऽपिस्वीकाराद्वाक्यार्थशक्तिस्वीकारवैयर्थ्यात् । यमेव विशेषमादाय भवता पदार्थाद्वाक्यार्थाभेदो मन्तव्यस्तमेवादायाप्रसिद्धेर्वाच्यत्वात् । अन्यथा ग्रावाणः प्लवन्ते इत्यादेरयोग्यत्वम्, काञ्चनमयः पर्वत इत्यादावाश्रयासिद्ध्यादिकं च न स्यात् । पर्याप्तिसम्बन्धेन तद्वृत्तिविषयताया एव विशिष्टपदार्थत्वाच्च । एतेन पीतः शङ्खो नास्तीत्यत्रारोपिता पीतशङ्खसत्तेति बोध इत्युन्नीतमतमपास्तम् । तत्रापि पीतशङ्खसत्ताया अप्रसिद्धेः । यत्त्वाहार्या प्रतियोगिप्रसिद्धिः । प्रतियोगिज्ञानस्याभावधीहेतुत्वेऽनाहार्यत्वस्य गौरवादनिवेशादिति । तदसत् । सा हि शब्दादेव अन्यतो वा । नाद्यः । परोक्षज्ञानस्यानाहार्यत्वनियमात् । शक्तिग्रहं विना तदनुपपत्तेश्च । नान्त्यः । ज्ञानान्तरविषयस्य शाब्दान्वयानुपपत्तेः । नञर्थेनारोपितत्वेन सहानन्वयापत्तेः । एतेन विशेषणतावच्छेदकप्रकारकज्ञानकारणतैव प्रतियोगिज्ञानकारणतेति पक्षेऽप्याहार्यज्ञानादप्याहार्यविशिष्टवैशिष्ट्यबोध इत्यपि परास्तम् । तावताऽप्युक्तरीत्या दोषानुद्धारात् । इदं च सौकर्यादुक्तम् । वस्तुतस्तु वाक्यार्थस्यापूर्वत्वात्सर्वत्रैव न शक्तिग्रहसम्भवः ।
यत्तु येषां मते वाक्यार्थो लक्ष्यो येषां वाऽन्विते शक्तिस्तेषामपि प्राक् तदनुपस्थितेर्वृत्तिग्रहासम्भवात्कथं निर्वाह इत्यादि, तत् कथं चिद्भट्टादीन्प्रति सङ्गच्छतां नाम, नैयायिकादीन्प्रति तु सर्वथा नेदमुत्तरं घटते । परैरपि घटपदमितरान्वितघटे शक्तमित्याकारकस्यैव शक्तिग्रहस्य स्वीकारेण कर्मत्वान्वितघटे शक्तमित्यस्यानभ्युपगमाच्च ।
यत्तु येषां मते वाक्यार्थो लक्ष्यो येषां वाऽन्विते शक्तिस्तेषामपि प्राक् तदनुपस्थितेर्वृत्तिग्रहासम्भवात्कथं निर्वाह इत्यादि, तत् कथं चिद्भट्टादीन्प्रति सङ्गच्छतां नाम, नैयायिकादीन्प्रति तु सर्वथा नेदमुत्तरं घटते । परैरपि घटपदमितरान्वितघटे शक्तमित्याकारकस्यैव शक्तिग्रहस्य स्वीकारेण कर्मत्वान्वितघटेशक्तमित्यस्यानभ्युपगमाच्च ।
यदपि पदशक्तिः पदार्थंशे ज्ञाताऽन्वयांशे तु स्वरूपसत्येवोपयुज्यते इति कुब्जशक्तिवादे इवास्माकमपि पदशक्तिर्ज्ञाता वाक्यशक्तिरज्ञातैवोपयुज्यतामिति । तदप्यसत् । वाक्यशक्त्युपयोगो हि पदार्थबोधे वाक्यार्थबोधे वा । नाद्यः । पदशक्त्यैव सिद्धेः । नान्त्यः । पदशक्तेरुभयसिद्धतयाऽन्वयांशेऽज्ञातोपयोगिन्याः शक्तेरपि पदेष्वेव कल्प्यत्वात् । वाक्यशक्तेरज्ञातोपयोगित्वे घटः कर्मत्वमित्यादौ वाक्यशक्तिज्ञानसत्त्वे भवत्येव शाब्दमन्यथा तदभावादेव तदभाव इति पूर्वोक्तविरोधाच्च ।
अयं चात्र नैयायिकमतनिष्कर्षः । यद्यि पदानामन्वयज्ञानजनकत्वात्तत्र शक्तिरस्ति, अशक्तस्याजनकत्वात्, पदादन्वयबोध इतीश्वरेच्छासत्त्वाच्च । तथाऽप्यन्वयबोधे स्वरूपसती सा व्याप्रियते, न तु ज्ञाता घटज्ञानशक्तत्वेन ज्ञातादेव घटान्वयबोधोपपत्तेः । ज्ञायमानकरणे ज्ञातोपयोगिसम्बन्धस्य विषयप्रतियोगिकसंसर्गबोधकत्वनियमाच्च । वह्निप्रतियोगिकव्याप्तेरिव तत्सम्बन्धव्याप्तेरपि बोधस्य वह्न्यनुमित्यनङ्गत्वात् । न च घटज्ञानत्वमितरान्वितघटज्ञानेऽप्यस्तीति तेन रूपेणान्वितघटज्ञानेऽपि ज्ञातशक्त्युपयोगः । अन्वयांशस्य गौरवादन्यलभ्यत्वाच्च घटज्ञानत्वमेव शक्यतावच्छेदकम्, न त्वन्वितघटज्ञानत्वमिति स्वीकारात् । अत एव घटाद्यन्वयप्रतियोग्युपस्थापकपदज्ञानत्वमुभयमतेऽपि कारणतावच्छेदकम् । कार्यतावच्छेदकं तु भट्टमतेऽन्वितघटादिशाब्दत्वम्, न्यायमते तु घटादिशाब्दत्वमेवेति विशेषः । तस्माद् भट्टमते जातिवाचकपदस्य व्यक्ताविव एकैव शक्तिरन्वयांशे स्वरूपसती पदार्थांशे ज्ञाता व्याप्रियते । न च जातिव्यक्त्योः समानसंवित्संवेद्यत्वात्तथा, घट ज्ञानस्य तु नान्वयविषयकत्वनियमः, स्मरणे व्यभिचारादिति वाच्यम् । घटानुभविविशेषघटान्वययोरेकवित्तिवेद्यत्वात् । स्मरणे च सम्बन्धितया ज्ञातत्वेन घटपदस्य जनकत्वात् । तस्मात्पदज्ञानं करणम्, पदार्थस्मरणं व्यापारः, आकाङ्क्षादिसहकारिवशात्स्मारितार्थान्वयानुभवः फलम्, व्यापारत्वाच्च पदार्थस्मरणस्य न व्यवधायकत्वमिति । एवं चान्वयबोधविरहप्रयोजकाभावप्रतियोगिज्ञाने विषयतया ऽवच्छेदकत्वाभावे वाक्यशक्तौ मानाभावः । पदशक्तेस्त्वेकस्या एवान्वयांशेऽज्ञातोपयोगित्वकल्पनया वैषम्यात् । हरिद्रायां नद्यां घोष इत्यादौ तु सम्भवत्येकवाक्यत्वे वाक्यभेदायोगात्प्रसिद्धार्थकनदीपदसमानविषयकत्वाद्धरिद्रापदस्य नदीविशेषवाचकत्वं कल्पयित्वा दरिद्रानद्योरभेदान्वयबोधोत्तरं नदीशब्दस्य तीरे लक्षणा । यत्तु पदार्थोपस्थित्याकाङ्क्षादिसहकारेण तत एव वाक्यार्थोपस्थितावपि स बोधो न शाब्द इति मध्ये लक्षणाकल्पनम्, तद्वदत्रापि शक्तिकल्पनमिति । तन्न । शाब्दत्वं हि न शब्दशक्तिजन्यत्वं, लक्षणाकल्पनेऽप्यनिर्वाहात् । न शब्दवृत्तिजन्यत्वं, न्यायरीत्यैव सिद्धेः । नापि स्वविषयविषयकवृत्तिज्ञानजन्यत्वम् । अन्वयस्य पदार्थत्वे तेषामिव तस्यापि संसर्गस्य विषयत्वापत्तौ तत्र व्यभिचारात् । अन्यथा चानवस्थानात् । अत एवान्वयस्य शक्यत्वे पदार्थवत्तस्य विशेषणत्वे संसर्गसंसर्गभानापत्तिरिति नान्वयः शक्य इति तात्पर्यं न शक्तिनिर्वाह्यमिति मिश्राः । न च संसर्गसंसर्गस्य वृत्तिं विनैव शाब्दत्वमिति वाच्यम् । पदार्थसंसर्गे एव तथाकल्पनौचित्यात् । पदार्थस्यापि संसर्गस्य संसर्गोन भासते इत्यत्र च बीजाभावात् । भट्टमतेऽपि शक्तिवदन्व यसामान्य एव पदानां लक्षणायाः स्वीकारात् । पूर्वं संसर्गविशेषोपस्थितेरनपेक्षितत्वात् । अन्वयविशेषस्याकाङ्क्षादिवशात्सिद्धिस्वीकारात् । यत्तु प्रथमं मानससंसर्गबोधेऽपि तस्य संशयसाधारणतया निर्णयार्थं शाब्दादरः । वस्तुतस्तात्पर्यज्ञानरूपामेवोपस्थितिमादायान्वयांशशक्तिग्रहस्तात्कालिक एवेति । तदसत् । लौकिकवाक्ये तत्सम्भवेऽपि वैदिके तदयोगात् । वेदैर्थस्य मानान्तरानवगम्यत्वात् । तस्य च प्रथममबोधकत्वात् । तात्पर्यज्ञानस्य शाब्दधीत्वावच्छिन्ने हेतुत्वानभ्युपगमाच्च । एतेनाप्तोक्तत्वनिश्चयोऽपि व्याख्यातः ।
नाप्तोक्तता तु वाक्यार्थगर्भा ज्ञातोपयुज्यते ।
वाक्यार्थानामपूर्वत्वात्संशयेऽप्यन्वयोदयात् ।।
इत्युक्तत्वात् । पदार्थवाक्यार्थतात्पर्यस्य च घटपदं स्वार्थप्रकारककर्मत्वविशेष्यकप्रतीतिपरमित्यादिरीत्या एकत्र पदार्थत्वेन घटितत्वादिति दिक् । अपि च पदार्थबोधवदवान्तरबोधस्तस्य महावाक्यार्थबोधहेतुत्वं च त्वयाऽप्यभ्युपगम्यमनुभवानुरोधात् । अन्यथाऽवान्तरवाक्यार्थायोग्यत्वनिर्णयकाले महावाक्यार्थबोधापत्तेः । ग्राह्माभावावगाहित्वजनकज्ञानविघटकत्वान्यतरव्यतिरेके ज्ञानस्य प्रतिबन्धकत्वायोगात् । अतो घटप्रकारककर्मत्वविशेष्यकबोधे घटपदाम्पदयोराकाङ्क्षाज्ञानस्य हेतुत्वमावश्यकम् । न च घटमित्यादिपदशक्तिज्ञानादेव तत्सिद्धिः । वाक्यस्फोटस्य पदस्फोटभिन्नत्वात् । "पदैः पदार्था बुद्ध्यन्ते वाक्येन वाक्यार्थ" इति भवदभ्युपगमात् । अत्र पदशब्दस्य प्रत्येकप्रकृत्यादिपरत्वात् । अत एव "समासग्रहणं नियमार्थं सद् वाक्यस्य प्रातिपदिकसंज्ञां वारयतीति वैयाकरणसाम्प्रदायिकानां ग्रन्थाः । अन्यथा घटमित्यादिसमुदायस्य तन्नियमाद्व्यावृत्त्यभावादर्थवत्त्वाच्चार्थवदादि सूत्रेण प्रातिपदिकत्वापत्तेः । न च पदस्यापि तदुपलक्षणम् । पदस्फोटपक्षेऽपि तस्याऽर्थवत्समुदायत्वरूपनिर्द्धारणप्रतियोगितावच्छेदकधर्मानवच्छिन्नत्वात् । घटमिति समुदायस्य प्रत्ययभेदसत्त्वात् । प्रत्ययान्तपर्युदासे च मानाभावात् । किञ्च मणिमन्त्रादिन्यायेनैव निराकाङ्क्षत्वज्ञानादीनां प्रतिबन्धकत्वं त्वयाऽपि वाच्यम्, हेतुत्वन्तु त्वन्मते निराकाङ्क्षत्वज्ञानाभावस्य । मम त्वाकाङ्क्षाज्ञानस्येति लाघवम् । निराकाङ्क्षत्वमाकाङ्क्षाविरहः साकाङ्क्षभिन्नत्वं चेति द्वयोर्विरोधितायास्तदभावद्वयस्य च कारणताया आपत्तेः । न चाकाङअक्षाविरोधिज्ञानत्वेन तदनुगमः । विरोधितावच्छेदकभेदेन विरोधिताभेदात् । अपि च निराकाङ्क्षत्वज्ञानस्य प्रतिबन्धकतायामप्रामाण्यनिश्चयाभावोऽवच्छेदको वाच्यः । तदपेक्षयाऽऽकाङ्क्षानिश्चयहेतुतैव युक्ता । अप्रामाण्यज्ञानाभावस्यैवावच्छेदकत्वे लाघवात् । संसर्गं शाब्दयामीत्यनुव्यवसायोऽपि वाक्यार्थबोधस्य शब्दप्रयोज्यत्वात् । नचैवं पदार्थस्याप्यशाब्दत्वं, हेत्वन्तराभावेन वैषम्यात् । तदुक्तं भट्टपादैः ।
तन्मात्रावसितेष्वेषु पदार्थेभ्यः स गम्यते ।
अशाब्दोऽपि च वाक्यार्थो न पदार्थेष्वशाब्दता ।।
वाक्यार्थस्यैव नैतेषां निमित्तान्तरसम्भवः ।
न च व्यवहाराद्वाक्यार्थे एव शक्तिग्रहः । आवापोद्वापाभ्यां पदशक्तिकल्पनसमये गौरवान्यलभ्यत्वाभ्यां तद्ग्रहस्य भ्रमत्वात् । चन्द्राद्यल्पत्वग्रहवत् ।
अखण्डस्फोटे विप्रतिपत्तिः । शब्दत्वं शब्दोपादानवृत्ति न वेति लीलावत्यामुपायकृतः । विधिर्वैयाकरणानाम्, निषेधो नैयायिकादीनाम् । शब्दोपादानमाकाशस्तद्वृत्तित्वं तदीये विशेषे परिमाणे वा प्रसिद्धम् । तदभावस्तु घटत्वादौ । न च पक्षेऽप्याकाशवृत्तित्वेनार्थान्तरत्वप्रसङ्गः । शब्देतरावृत्तित्वे सति सकलशब्दसमवेतत्वरूपपक्षतावच्छेदकधियो बाधकत्वात् । स्फोटात्मकशब्दोपादानककारादिवृत्तित्वं विना साध्यानुपसंहारात् । अत्र कैयटादयः । शब्दस्यार्थप्रत्यायकत्वान्यथानुपपत्त्या वर्णातिरिक्तं पदं पदातिरिक्तं च वाक्यमखण्डं कल्प्यते । न ह्येकवर्णमात्रेणार्थधीः । अनुभवविरोधाद्वर्णान्तरवैयर्थ्यात् । नापि समुदायेन, मेलकाभावात् । वर्णानां नित्यत्वेऽभिव्यक्तेरनित्यत्वे च स्वरूपस्यैव क्रमिकत्वात् । न च पूर्वपूर्ववर्णानुभवजनितसंस्कारसहकारेण समूहालम्बनरूपसकलविषयकज्ञानेन निर्वाहः । सरो रसः नदीदीनः जारा राजा इत्यादावर्थविशेषप्रत्ययानुपपत्तेः । वर्णस्वरूपस्य तुल्यत्वात् । अतो वर्णादिव्यङ्ग्यं पदं वाक्यं वाऽखण्डस्फोटात्मकमर्थप्रत्यायकम् ।
तदुक्तम्---
एकैकवर्णासामर्थ्यान्मेलकानुपपत्तितः ।
एकबुद्धेर्नदीदीनसाम्यात् स्फोटः स तु द्विधा ।।
अत्र वदन्ति । स्फोटोऽपि किमेकैकवर्णज्ञानेनाभिव्यङ्ग्यः, तत्समूहज्ञानेन वा । नाद्यः । शेषवैयर्थ्यात् । नान्त्यः । मेलनानुपपत्तेः । अभिव्यञ्जकाभावेऽभिव्यङ्ग्यग्रहासम्भवात् ।
तदुक्तम्---
यस्यानवयवः स्फोटो व्यज्यते वर्णबुद्धिभिः ।
सोऽपि पर्यनुयोगेन नैवानेन विमुच्यते ।।
इदमेव साङ्ख्यसूत्रेणाप्युक्तम्,
प्रतीत्यप्रतीतिभ्यां न स्फोटात्मकः शब्द इति । पदप्रत्यक्षाभ्युपगमे तेनैवार्थप्रतीतेः तदभावे चाभिव्यञ्जकाभावादित्यर्थः । यत्तु पदप्रत्यक्षमनुपपन्नमिति । तदसत् । घज्ञानानन्तरज्ञानविषयत्वं टस्यानन्तर्यं घकारटकारयोरानुपूर्वी । मौनिश्लोकानुरोधात् । सा च घटपटज्ञानयोरिव मनसैव गृह्यते । मानसोपनीता च श्रोत्रे भासते । सुरभिचन्दनमित्यादिवत् । बहिरिन्द्रियेण मानसोपनीतस्य स्वायोग्यस्यापि ग्रहोपगमात् । नन्वेवं घज्ञानानन्तरज्ञानविषयष्टकार इति टकारमुख्यविशेष्यकमानुपूर्वीविशेषणकं लौकिकप्रत्यक्षं न स्यात् । टकारोत्पत्ति स्तज्ज्ञानं तत्र घज्ञानानन्तर्यग्रहश्चेत्येतावत्पर्यन्तं टकारनाशे विशेष्याभावात् ।
उच्यते---
वीचीतरङ्गन्यायेन श्रोत्रावच्छेदेन नानाटकारा उत्पद्यन्ते । तत्र तत्तद्व्यक्तिभेदेऽप्यानुपूर्व्या एकत्वात्पूर्वटकारस्य श्रोत्रसमवेततया तत्समवेतटत्वस्य समवेतसमवायेन निर्विकल्पकोपपत्तौ द्वितीयटकारे पूर्वटकारघटितसम्बन्धेन ज्ञातानुपूर्वी विशेषणतया भासते इत्यभ्युपगमः । तथा च टकारोत्पत्तिस्तज्ज्ञानं तज्ज्ञानानन्तरं तत्र घज्ञानानन्तर्यग्रहः । सा चानुपूर्वी पूर्वटकारनाशेऽपि टकारान्तरे विशेषणतया श्रौतप्रत्यक्षे भासते इति । अथ चोक्तक्रमेण कालान्तरे गृहीतैवानुपूर्वी टकारोत्पत्तिकाले स्मर्यते, ततष्टकारस्थितिक्षणे तत्रैव प्रकारीभूय भासते इति । अन्यथा तवाप्यनुपपत्तेरुक्तत्वात् ।
यत्तु---पदं वाक्यं चाखण्डमेव । न तु वर्णसमूहः । अनन्तवर्णकल्पने मानाभावात् । तेषां जनकत्वेन व्यञ्जकत्वेन वाऽभिमतवायुसंयोगेषु तदुभयावच्छेदकवैजात्यस्यावश्यकतया मन्मते कत्वादीनामेव वायुसंयोगनिष्ठत्वोपगमात् । नचैवं वायुसंयोगस्यैव वाचकत्वापत्तिः । प्रत्यक्षसिद्धकादीनामेव तदौचित्यात् । तथा च वाचकत्वान्यथानुपपत्त्या तदेवं पदं वाक्यं चेत्यादिप्रतीत्याऽखण्डस्फोटसिद्धिः । कत्वादिकं च तत्रारोप्यते । भट्टमते तारत्वादिरिव ककारादौ, तस्माद्वायुसंयोगा एव स्फोटव्यञ्जकाः । न च तत्र प्रत्येकसमुदायविकल्पः । के चिद्गत्वेन के चिदौत्वेन के चिद्विसर्गत्वेनेति प्रकारभेदेन सर्वेऽपि व्यञ्जका इत्यभ्युपगमात् । न चैकेनाभिव्यक्तावन्यवैयर्थ्यम् । विशदप्रतीतेस्तावदभिव्यक्तिसाध्यत्वात् । न च वर्णानामप्येवमेवार्थप्रतीतावुपयोगोऽस्त्विति वाच्यम् । प्रत्यक्षात्मकप्रतीतावेव विशदाविशदाभासस्वीकारात् । अर्थप्रतीतेश्च प्रत्यक्षानात्मकत्वात् । तदुक्तम्,
सामस्त्येन तु तद्व्यक्तिः सर्वान्ते मणितत्त्ववत् ।
इति । अत एव तदतिरिक्तवर्णानभ्युपगमः । कादिप्रत्ययवैलक्षण्यस्य स्फोटविशेष्यककत्वाद्यारोपेणैव निर्वाहात् । एतेन गकारौकारविसर्गादिव्यतिरिक्तस्य स्फोटस्याभावादित्यपास्तम् । तेषामेव स्फोटातिरिक्तानामनङ्गीकारात् । तत्प्रतीतेरेव स्फोटविषयकत्वात् । अत एव तत्त्वबिन्दौ---"वस्तुतः ककारादतिरिच्यमानमूर्त्तेर्गकारस्याभावादिति स्फोटवादिमतं वाचस्पतिमिश्रैरुक्तम् । हरिणाऽप्युक्तम्---
पदे न वर्णा विद्यन्ते वर्णेष्ववयवा न च ।
वाक्यात्पदानामत्यन्तं प्रविवेको न कश्च न ।।
इति । यथा ऋकारादिषु रेफादिसमानाकारैकदेशावभासस्तथाऽखण्डपदे वर्णप्रत्यय इति दृष्टान्ततया द्वितीयचरणोपादानम् । अवयवा इवेति पाठे स्पष्टम् ।
अत्रेदं वक्तव्यम् । प्रमाणान्तरसिद्धे हि धर्मिणि तन्निष्ठात्यन्ताभावप्रतियोगित्वेन भासमानानां धर्माणां प्रतीतिरारोप इत्युच्यते । न चेह यथोक्तस्फोटो मानान्तरात्सिद्धः । नापि कत्वादीनां प्रतीयमानककारादिगतत्वे बाधकं वायुसंयोगवृत्तित्वे साधकं वाऽस्ति । वायुसंयोगजनकवृत्तित्वस्याप्यापत्तेः । अकार औकाराद्भिन्न इति गत्वप्रकारकप्रतीतिविशेष्यस्यौत्वप्रकारकप्रतीतिविशेष्याद्भेदप्रतीतेश्च । अभिव्यञ्जकानामभिव्यङ्ग्यवृत्तिविशेषग्राहकत्वेनैवोपयोगाच्च । यत्तु---वर्णमालायां पदमिति प्रतीतेर्वर्णातिरिक्त एव स्फोटः । अन्यथा कपालातिरिक्तघटासिद्धिप्रसङ्गादिति । तन्न । आधाराधेयभावोऽस्या विषयः, अभिव्यङ्ग्याभिव्यञ्जकभावो वा । नाद्यः । तवाप्यपसिद्धान्तात् । उत्पत्तये स्थितये वा स्फोटेन तदपेक्षानभ्युपगमात् । नान्त्यः । आलोकेन घटव्यञ्जनेऽपि आलोके घट इति प्रत्ययानुदयादिति दिक् ।
अत्रोच्यते । एकं पदमेकं वाक्यमिति सर्वसिद्धप्रतीतिबलादेवाखण्डस्फोटसिद्धिः । अत एव लीलावत्युपाये स्फोटवादिमतोपन्यासे उक्तप्रतीतिरेव तत्साधकत्वेनोक्ता न त्वर्थप्रत्ययान्यथानुपपत्तिः । एकम्पदमिति धीः सर्वानुभवसिद्धा न तावद्वर्णविषया । वर्णानामनेकत्वात् । नापि वर्णेष्वेवैकार्थज्ञानजननौपाधिकी । उपाध्यननुसन्धानेऽपि जायमानत्वात् । अतो यस्तस्या विषयः स एव स्फोट इति । न ह्यत्र तद्धेतोरितिन्यायावकाशः । स्फोटानभ्युपगमे स्फोटहेतोरेवार्थप्रत्ययोऽस्त्विति वक्तुमशक्यत्वात् । न च तद्धेतुत्वेन त्वदभिमतादित्यर्थः । सर्वत्र कल्पनोच्छेदापत्तेः । अत एव भेदाग्रहस्य विशिष्टज्ञानहेतुत्वेनावश्यकतया स एव प्रवृत्तिहेतुरिति न्यायोऽसत्यविशिष्टज्ञानकल्पनायां न बाधकः । भ्रमं प्रति भेदाग्रहहेतुत्वस्य भ्रमकल्पनोत्तरकल्पनीयतया प्रवृत्तिकारणताग्रहकाले तदुपस्थितिविरहात् । प्रमाणप्रवृत्तिसमये सिद्ध्यसिद्धिपराहतत्वेन फलमुखगौरवस्यादूषणत्वादिति नैयायिकाः । न चैवं यथोक्तन्यायोच्छेदः । तद्धेतोर्धर्मिणो मानान्तरसिद्धत्वे एव तदवकाशात् । यथा धर्मिज्ञानहेतुत्वेनावश्यकस्य धर्मीन्द्रियसन्निकर्षस्यैव संशयहेतुत्वं, न तु धर्मिज्ञानस्येति मिश्रादिभिरुक्तत्वात् । अथात्राप्युक्तप्रत्ययादेव स्फाटेसिद्धावुक्तन्यायः प्रवर्त्ततामिति वाच्यम् । तर्हि स्फोटस्य वाचकत्वे एव विवादो न स्वरूपे, तस्य त्वयाऽप्यभ्युपगमादिति सिद्धमिष्टम् । न च त्वदभिमतं तद्वाचकत्वं न सिद्धमिति वाच्यम् । अस्माद्वाक्यादयमर्थो बुद्ध इति प्रत्ययात्तद्वाचकतायाः सुसाधत्वात् ।
स्यादेतत् । एवं पदमित्यादिप्रतीतेरतिरिक्तविषयकत्वेमानाभावः । उक्तं हि शारीरकभाष्ये भगवत्पादैः---
या तु गौरित्येकोऽयं शब्द इति प्रतीतिः सा बहुष्वेव वर्णेष्वेकार्थावच्छेदनिबन्धनौपचारिकी, वनसेनादिबुद्धिवदिति ।
तत्र वाचस्पतिमिश्रैरप्युक्तम्----
तस्मात्प्रत्येकवर्णानुभवजनितभावनानिचयलब्धजन्मनि निखिलवर्णावगाहिनि स्मृतिज्ञाने भासमानानां वर्णानां तद्रूपैकज्ञानविषयतया वा एकार्थधीहेतुतया वैपचारिकमेकत्वमिति ।
अत एवाहुः---
यस्त्वेकप्रत्ययः सोऽपि बाधकेन बलीयसा ।
औपाधिकतया नीतस्तस्मात्स्फोटो न मानभाक् ।।
इति । तन्न । उक्तोपाधिप्रतिसन्धानव्यतिरेकेऽपि ऐक्यप्रत्ययात् । सेनावनादिबुद्धेश्चोपाधिप्रत्ययं विनाऽनुत्पादेन वैषम्यात् । एकज्ञानविषयत्वमात्रस्य समूहालम्बनसमुल्लिख्यमानघटपटादिष्वैक्यप्रतीत्यनुपधायकत्वात् । एकार्थधीहेतुत्वस्य तावद्वर्णवाचकत्वसिद्ध्युत्तरकल्प्यत्वाच्च । न चैकसुप्तिङन्तत्वावच्छेदेनैवैक्यधीः, अन्यथा कश्चित्पदात्मा स्फोटः, कश्चिच्च वाक्यात्मा स्फोटो न स्यादिति लीलावत्युक्त उपाधिर्युक्त इति वाच्यम् । वस्तुत एव तस्य नियामकतया ज्ञानस्यानुपयोगात् । तदेतदभ्युपगम्य कैयटेनोक्तम्---
वैयाकरणा वर्णव्यतिरिक्तस्य पदस्य वाक्यस्य वा वाचकत्वमिच्छन्तीति ।
अथ जातिस्फोटपक्षः । तथा हि । प्रत्यक्षसिद्धवर्णानां तावदपलापो न युक्तः । युक्तेरुक्तत्वात् । स्फोटेऽतिरिक्तगत्वादिस्वीकारे गत्वादेरेव गकारादिरूपताया वर्णनित्यत्वपक्षे सम्भवेन तदतिरिक्तस्फोटकल्पनएवगौरवात् । अस्वीकारे चानुभवविरोधात् । न च वायुसंयोगे ध्वनौ वा गत्वादिकं स्वीकृत्य तस्य गकारादावारोप इति वाच्यम् । विना बाधकं प्रतीतेर्भ्रमत्वकल्पनाया अनुचितत्वात् । वायुसंयोगस्यैव गकाररूपत्वोपपत्तेश्च । तन्निष्ठस्य गत्वादेरिव तस्यापि श्रोत्रेन्द्रियाग्राह्यत्वकल्पनसम्भवात् । तस्मादतिरिक्ता एव वर्णाः । परन्तु गौरवान्न वाचकाः । आकृत्यधिकरणन्यायेन वाच्यताया इव वाचकताया अपि जातावेव स्वीकर्त्तुमुचितत्वात् । हर्युपस्थितित्वावच्छिन्नजन्यतानिरूपितजनकतावच्छेदकतया, इदं हरिपदमिति प्रतीत्या च, जातिविशेषसिद्धेः । वर्णानुपूर्व्यैव तत्प्रतीत्यवच्छेदकत्वयोर्निर्वाहे च घटत्वपटत्वादेरपि संयोगविशेषविशिष्टमृदाकारादिभिरन्यथासिद्धिप्रसङ्गात् । तस्माज्जातेरेव वाचकत्वं, तादात्म्येन तदवच्छेदकत्वं च । जातिविशेषाभिव्यञ्जकश्चानुपूर्वीविशेषरूप उपाधिः । तेन सरो रस इत्यादौ वर्णसाम्येऽप्यर्थबोधभेद उपपन्नः । उक्तं च वोपदेवेन---
शक्यत्वइव शक्तत्वे जाते र्लाघवमीक्ष्यताम् ।
औपाधिको वा भेदोऽस्तु वर्णानां तारमन्दवत् ।।
वाशब्दः तुशब्दसमानार्थः । उपाधेर्ज्ञानभेदप्रयोजकत्वे दृष्टान्तो वर्णानामिति । भट्टमते इति शेषः । वाक्यपदीयेऽप्युक्तम्---
अनेकव्यक्त्यभिव्यङ्ग्या जातिः स्फोट इति स्मृता ।
कैश्चिद्व्यक्तय एवास्या ध्वनित्वेन प्रकल्पिताः ।।
इति । अस्यार्थः । यद्यपि स्फोटपक्षे सरो रस इत्यादावर्थविशेषप्रत्ययानुपपत्तिरूपो दोषोऽस्ति तथाऽपि पदस्फोटवाक्यस्फोटपक्षयोर्न । तत्र जातेर्व्यासज्यवृत्तित्वस्य धर्मिग्राहकप्रमाणसिद्धत्वात् । न च तस्या नित्यत्वात्सर्वदा पदार्थबोधापत्तिः । ज्ञाताया एव तस्याः । फलोपधायकत्वात् । वर्णाभिव्यक्तेश्च तदभिव्यञ्जकत्वात् । वर्णाभिव्यञ्जकत्वेनाभिमता ध्वनय एव कत्वादिना भासन्त इति प्रागुक्तं मतान्तरमाह । कैश्चिदिति । अतिरिक्तवर्णानङ्गीकर्तृभिरित्यर्थः । तदुक्तं काव्यप्रकाशे---
बुधैर्वैयाकरणैः प्रधानीभूतस्फोटव्यञ्जकस्य शब्दस्य ध्वनिरिति व्यवहारः कृत इति । जातिश्च तत्तद्व्यक्तिविशिष्टाऽविद्या तदीयो धर्मविशेषो वा । अत एव ब्रह्मदर्शने च गोत्वादिजातेरप्यसत्त्वादनित्यत्वम्, आत्मैवेदं सर्वमिति श्रुतिदर्शनादिति कैयटस्तदभिप्रायः * । वस्तुतस्तु तत्तद्व्यक्तिविशिष्टं ब्रह्मैव गोत्वादिजातिरिति वेदान्तिसिद्धान्तः । तदुक्तं वाक्यपदीये---
सम्बन्धिभेदात्सत्तैव भिद्यमाना गवादिषु ।
जातिरित्युच्यते तस्यां सर्वे शब्दा व्यवस्थिताः ।।
तां प्रातिपदिकार्थं च धात्वर्थं च प्रचक्षते ।
सा नित्या सा महानात्मा तामाहुस्त्वतलादयः ।।
सम्बन्धिनां गोत्वादिनाऽभिमतव्यक्तिविशेषाणां, सत्ता सद्रूपमेव, भिद्यमाना गोत्वादिविषयकधीविशेषविषयत्वापन्ना । यावत्यो गवादिव्यक्तयस्तावदन्यतमनिष्ठतादात्म्यसम्बन्धेन सद्रूपमेव गोत्वादिकम् । न च सम्बन्धाननुगमः । स्वरूपसम्बन्धेन कारणत्वादिस्थले तस्यादोषत्वोपगमात् । अन्यतमत्वेनानुगमाच्च । तादात्म्यानामनन्तत्वेऽपि तावदन्यतमव्यक्तेः स्वरूपेणैव निवेशात् । अनुगतरूपान्तरसत्त्वएव तद्रूपेणान्यथासिद्धेः । अत एव स्वरूपसम्बन्धेनाभावादेः कारणत्वादिस्थले तावत्स्वरूपान्यतमत्वं स्वरूपत एवावच्छेदकमन्यथाऽननुगतसम्बन्धैः कारणत्वादेर्दुर्वचत्वात् । तस्माद्यत्र गोत्वमतिरिक्तमवच्छेदकं परेषां तत्रास्माकमुक्तसम्बन्धेन सद्रूपमेव तथा । न च गोव्यक्तीनामेवान्यतमत्वेन कारणत्वसम्भवात् सत्सामान्यस्यैव कथमवच्छेदकत्वमिति वाच्यम् । अतिरिक्तगोत्वाद्यभ्युपगमेऽपि तादृशविनिगमनाविरहात्तेन रूपेणान्यथासिद्धेरुभाभ्यां स्वीकार्यत्वादित्यादि नवीनवेदान्तिनः ।
प्रकृतमनुसरामः । तस्यां व्यवस्थिता इति । तद्वाचका इति भावः । प्रातिपदिकार्थत्वं जातेर्विप्रतिषेधसूत्रे दर्शयिष्यामः । धात्वर्थत्वं च भूवादिसूत्रे । नित्येति । ब्रह्मस्वरूपत्वात् ध्वंसप्रतियोगित्वं नास्तीत्यर्थः । अन्यथा प्रागभावाप्रतियोगित्वरूपनित्यत्वस्याविद्यारूपत्वेऽपि सम्भवात् । तदेवाह । सा महानात्मेति । अविद्यात्मकत्वे तु तस्या ब्रह्मसाक्षात्कारोच्छेद्यत्वाभ्युपगमात्तन्न स्यात् । तामिति विशेष्यत्वं द्वितीयार्थः । त्वतलादिभिर्विशेष्यतया तद्वोधनात् । प्रकारतया तु घटादिपदैरपि बोधात् । एतेनासत्त्वोपाध्यवच्छिन्नं ब्रह्मैव शब्दवाच्यमित्यर्थ इति ब्रह्मतत्त्वमेव शब्दरूपतया प्रतिभातीत्यर्थ इति च कैयटग्रन्थौ व्याख्यातौ । इदं पुनरिहावधेयम्---
हरिपदत्वादिकं जातिरिति यदुक्तं तद् भूषणानुसारेण । कौस्तुभकारास्तु घोत्तरटत्वादिकमेव वाचकं, तच्च उपाधिरूपमेव । उपाधिश्च परम्परासंबद्धा जातिरेव । वह्निमत्त्वमित्यादौ वह्न्यादेर्नानात्वेऽपि स्वसमवायिसंयोगसम्बन्धेन वह्नित्वादिजातेरेव सामान्यत्वस्य तार्किकैरपि स्वीकृतत्वादित्याहुः । अन्यत्पूर्ववत् । युक्तं चैतत् । पदत्वादिजातिस्वीकारे मानाभावात् । घोत्तरटत्वादिप्रकारकज्ञानाभावदशायां तवापि तज्जात्यनभिव्यक्तिस्वीकारस्यावश्यकत्वात् । अन्यथा सरो रस इत्यादावर्थविशेषबोधानुपपत्तितादवस्थ्यात् । एतेन घटत्वादिप्रतिबन्दिरपास्ता । संयोगविशेषादिज्ञानविकलानामपि घटत्वादिप्रकारकबोधस्य जायमानत्वादित्यास्तां विस्तरः ।
अथ व्याकारणाध्ययने किं प्रवर्त्तकमिति चेत् । अत्र भाष्यम् । कानि पुनरस्य प्रयोजनानि रक्षोहागमलघ्वसन्देहाः प्रयोजनमिति । अत्रैकः प्रयोजनशब्दः पुल्लिङ्गः प्रवर्त्तकविधिपरः । करणे बाहुलकात्कर्त्तरि वा ल्युट् । द्वितीयस्तु क्लीबः फलपरः । द्वयोर्न्पुंसकमनपुंसकेनेति नपुंसकैकशेषे वैकल्पिक एकवद्भावः । अतः प्रश्ने बहुवचनमुत्तरे चैकवचनम् । तत्रागमः प्रवर्तकः । अन्यच्चतुष्टयं फलम् । आद्यो यथा । ब्राह्मणेन निष्कारणो धर्मः षडङ्गो वेदोऽध्येयो ज्ञेयश्चेति । निष्कारणो दृष्टकारणनिरपेक्षः । कारयतेः करणल्युटा प्रवृत्तिजनकेच्छाविषयत्वसंबन्धेन प्रवृत्तिजनकस्य फलस्य कारणपदेन लाभात् । एतेन प्रत्यवायसाधनीभूताभावप्रतियोगित्वरूपनित्यत्वमुक्तम् । तथा च संध्योपासनादिवदत्रापि प्रवृत्तिः । न चैवं फलसन्दंशविरोधः । फलस्य नित्यत्वेन समं विरोधाभावात् । इयं च श्रुतिः आगमपदस्य वेदे रूढत्वादिति शाब्दिकाः । स्मृतिरिति मीमांसकाः । अत एव तैरागमस्यापि फलत्वमभिसन्धाय तस्य स्वरूपेण व्याकरणफलत्वायोगाद्वेदवाक्यार्थरूपधर्मज्ञानोपयोगिपदान्वाख्यानद्वारा व्याकरणस्य धर्मप्रयोजनकत्वमिति लक्षणयाऽऽगमस्य फलत्वोक्तिरित्याशङ्क्य चकारेण षडङ्गवेदाध्ययनज्ञानयोर्द्वयोरपि क्रत्वनुष्ठानोपयुक्तत्वेन विधेयत्वावगमान्नात्र धर्मज्ञानस्य षडङ्गवेदाध्ययनफलत्वधीः । नचैवं विधेयानेकत्वनिबन्धनो वाक्यभेदः । पौरुषेयत्वेन तस्यादोषत्वादित्युक्तम् । अङ्गत्वं च तदुपकारकत्वेन तदारोपात् । तथा च शिक्षायाम्,
मुखं व्याकरणं तस्य ज्योतिषं नेत्रमुच्यते ।
निरुक्तं शिर उद्दिष्टं छन्दसां विचितिः पदे ।।
शिक्षा घ्राणं तु वेदस्य हस्तौ कल्पान्प्रचक्षते ।
व्याकरणस्य स्वरादिभिः पदार्थनिर्णये, ज्योतिषस्याध्ययनानुष्ठानयोरुपयुक्तकालविशेषज्ञाने, निरुक्तस्य लोपागमविकारादिप्रतिपादने, छन्दोविचितेर्गायत्र्यादिलक्षणेन गायत्र्या यजते इत्यादिविध्यर्थनिर्णये, शिक्षायाश्च वर्णोच्चारणप्रकारे, कल्पानां च न्यायलभ्यानामन्यशाखागतानां चाङ्गानामुपसंहारेण प्रयोगेयत्ताज्ञाने उपयोगात् । तत्रापि व्याकरणं प्रधानं, वाक्यार्थज्ञानोपयोगिनोः पदपदार्थयोस्तत एव निर्णयात् ।
ननु रक्षा नैतत्फलम् । सा हि लौकिकानां पदानां वैदिकनां वा । नाद्यः । लोकत एव सिद्धेः । नान्त्यः । वाक्यवत् पदानामप्यध्येतृसंप्रदायपरम्परयैव रक्षोपपत्तेः । मैवम् । पदस्वरूपमात्रस्य परम्परया रक्षायामनुपयोगेऽपि वाक्यार्थज्ञानस्यावश्यापेक्षणीयत्वात्तस्य च पदार्थग्रहमूलकत्वात् त्मनेत्यादीनां च लोकतोऽर्थग्रहानुपपत्तेर्लोपाद्यन्वाख्यानद्वारा तदुपयोगात् । लोपो यथा, त्मनादेवेषुविविदेमितद्रुः । मन्त्रेष्वाङ्यादेरात्मन इत्यालोपः । आगमो यथा । देवासः । ब्राह्मणासः । आज्जसेरित्यसुक् । उभयं यथा । देवा अदुह । अदुहत इत्यर्थः । दुहेर्लङो झस्यादादेशः । लोपस्त आत्मनेपदेष्विति तलोपः । बहुलं छन्दसीति रुट् । एतेन नाशिरं दुहे इति लडन्तमपि व्याख्यातम् । आशिरं सोमसंस्कारात्थं पयो न दुहते इत्यर्थः । विकारो यथा । गृभ्णामितेमहतेसौभगाय । "हृग्रहोर्भश्छन्दसि" हस्येति वक्तव्यमिति हकारस्य भत्वम् । प्रत्ययो यथा । उद्ग्राभं च निग्राभञ्चेति । "उदिग्रह" इति सूत्रे "उद्ग्राभनिग्राभौ चच्छन्दसि स्रुगुद्यमननिपातनयोः" इति वार्त्तिकान्निपूर्वादपि ग्रहेर्घञ् । भादेशः प्रग्वत् । सन्निवेशविशिष्टपात्रपरस्यापि स्रुक्पदस्यात्र जुहूपभृन्मात्रपरत्वम् । उद्ग्राभञ्चेति जुहूमुद्यच्छति निग्राभं चेत्युपभृतं नियच्छतीति वचनात् । ननु ऊहस्वरूपं तावन्मीमांसोक्तन्यायमूलकमेव, उह्यमानपदस्वरूपं तु लोकत एव सिद्धमिति चेन्न । प्रकृत्यादिमात्रस्योहस्थले व्याकरणं विना तद्विवेकासम्भवात् । तथा हि । यत्राङ्गजातं पूर्णमुपदिष्टं सा प्रकृतिः । यथा दर्शपौर्णमासौ । यत्र नोपदिष्टं सा विकृतिः । यथा सौर्यं चरुं निर्वप्रह्ब्रह्मवर्चसकामः, प्राजापत्यं घृते चरुं निर्वपेत् कृष्णलमायुष्काम इत्यादि । अतिदेशश्च त्रेधा । प्रत्यक्षवचनेन यथा । इष्टावेकाहे समानमितरच्छ्येनेनेति । नामधेयेन यथा । कुण्डपायिनामयने मासमग्निहोत्रं जुहोतीति । आनुमानिकवचनेन यथा । सौर्यमित्यादि । नन्वत्र प्रमाणाभावान्न धर्मातिदेश इति चेन्न । यागेन ब्रह्मवर्चसं भावयेदिति वाक्यार्थे भावनायाः किं केन कथमित्यंशत्रयसापेक्षत्वनियमात् । किमित्यंशस्य भाव्यश्रुत्या केनेत्यंशस्य यागश्रुत्या पूरणेऽपि कथमितीतिकर्त्तव्यांशस्य पूर्णत्वाभावात्तदाकाङ्क्षायामतिदेशावश्यकत्वात् । न च वैदिक्या दर्शादीतिकर्त्तव्यतायास्तन्मात्रोपनिबद्धत्वादन्यत्र नेतुमशक्यत्वाल्लौकिक्याः पार्वणस्थालीपाकादीतिकर्त्तव्यताया बहुष्वनुवृत्त्या साधारणत्वात्सैव गृह्यतामिति वाच्यम् । करणस्य वैदिकत्वे वैदिक्या एव तस्या अपेक्षितत्वात् । न च सोऽपि कथम्भावः स्मृतिमूलवेदविहितत्वाद्वैदिक एवेति वाच्यम् । दर्शादिकथम्भावस्य प्रत्यक्षवेदमूलतया ततो विशेषात् । सौर्यस्य प्रधानस्य वैतानिकेऽग्नौ प्रवृत्तिः लौकिकेतिकर्त्तव्यतायास्तु आचारात्स्मार्त्ते इत्यङ्गप्रधानयोर्भिन्नदेशत्वापत्तेश्चं । प्रकृतिविकृतिभावश्चैकदेवताकत्वादिना सुज्ञानः । तथा हि । सौर्यस्याग्नेयविकारत्वमेकस्य देवतात्वपर्याप्त्याश्रयत्वात् । ओषधिद्रव्यकत्वाच्च । आग्नावैष्णवमेकादशकपालं निर्वपेदिति यागो द्विदेवताकत्वादैन्द्राग्नविकारः । अपराह्णे सरस्वतीमाज्यस्य यजेतेत्याज्यद्रव्यकत्वादुपांशुयाजविकार इत्यादि ।।
ऊहस्याप्येकदेशबाधरूपतया बाधप्रवृत्तिप्रकारोदर्श्यते । दशमेनिरूपितं किं सर्वं प्राकृतं विकृतौ कर्त्तव्यम्, उत लुप्तप्राकृतप्रयोजनं नेति । तत्र पूर्वपक्षः अनपेक्षितप्रयोजनमेव प्राकृतमङ्गजातं स्वरूपमात्रेण विकृतावतिदिश्यते, अतो वैतुष्याद्यसम्भवेऽपि प्रापकप्रमाणानुरोधाददृष्टार्थकत्वं कल्पयित्वा कृष्णलादावप्यवघातादयः कार्या इति । सिद्धान्तस्तु---
अपेक्षासत्तियोग्यत्वैरुपकारातिदेशनम् ।
तदभावात्पदार्थानामतिदेशो न कल्प्यते ।।
यागेन भावयेदिति---यथा यागः फलसाधनं भवति तथा व्याप्रियेतेत्युक्ते केन व्यापारेण यागः फलजनको भवतीति व्यापारविशेष एवापेक्षितो न पदार्थस्वरूपमात्रम् । सन्निधिरप्युपकारस्यैव । निर्वपत्यादिचोदनासाम्येन वैकृतवाक्यस्य प्राकृताङ्गवाक्योपस्थापकत्वात् । तस्य चांशत्रययुक्तभावनोपस्थापकत्वात्साध्यसाधनयोर्विशिष्य वैकृतवाक्योपादानात्तावनादृत्य कथंभावांशस्यैवाङ्गजन्योपकारसंपादनस्वरूपस्य तेन ग्रहणात् ।
आकाङ्क्षापूरणयोग्यताऽपि व्यापारस्यैव नाङ्गानाम् । अतः पदार्थविशिष्टोपकाराणामेवातिदेशो न पदार्थस्वरूपाणाम् । तस्मात्प्राकृतकार्यस्य विकृतावसंभवे तत्पदार्थस्यानतिदेश एव । अतो व्रीहीनवहन्तीत्यत्र प्रकृतौ वैतुष्यमवघातस्योपकारतया क्लृप्तम् । तस्य च कृष्णलेष्वसंभवाद्बाध एव । श्रपणं तु घृते श्रपयतीतिप्रत्यक्षवचनाद् भवतीति वैषम्यमिति । मन्त्राणआं चानुष्ठेयार्थप्रकाशनद्वारकमङ्गत्वम् । तत्र मन्त्राभिधेयस्य सर्वस्य विकृतावभावे सर्वस्य मन्त्रस्य निवृत्तिः । यथा अवरक्षोदिवः सपत्नं वध्यसमित्यवघातमन्त्रस्य कृष्णलेषु । अर्थैकदेशमात्राभावे तु विकृतिवृत्त्यभावप्रतियोग्यर्थाभिधायिभागस्यैव निवृत्तिः । यथा अग्नये त्वा जुष्टं निर्वपामीत्यत्राग्निशब्दस्य । सूर्यपदस्य तत्स्थाने प्रयोगात् । अर्थाच्च एकारस्यापि निवृत्तिः । अकारान्तायां प्रकृतौ यकारस्यैव संप्रदाने साधुत्वात् । अतोऽग्नये इति मध्योदात्तस्थाने सूर्यायेत्याद्युदात्तमूहनीयम् ।
लिङ्गस्य यथा । देवीरापः शुद्धाः स्थेत्यप्सु विनियुक्तस्य देवाज्यशुद्धमसीति ।
प्रत्ययमात्रस्य यथा । माभेर्मासंविक्था इति पुरोडाशेऽवदानमन्त्रस्य धानासु माभैष्टमासंविजिध्वमिति हरदत्तादयः । संविग्ध्वमिति याज्ञिकाः । प्रकृतावनिट्कतया विजिर् पृथग्भाव इत्यस्य प्रयोग इति तेषामभिप्रायः ।
पूर्वेषां त्वयमाशयः । तन्मन्त्रभाष्यकारेण ओविजी भयसञ्चलनयोरित्यस्यार्थद्वयमध्ये भयस्य माभैरित्यनेनैव निषेधान्मासंविक्था इत्यनेन संञ्चलनं निषिध्यतइत्युक्तम् । अवदानोपयोगिनि मन्त्रे पृथभावस्य निषेधानर्हत्वात् । तथा च तत्र छान्दसत्वादिडभावेऽपि ऊहस्य वेदत्वाभावादूह्यमाने इडेव युक्त इति ।
ननु लाघवं न फलम् । सूत्रपाठादेरलौकिकसंज्ञापरिभाषोपनिबद्धत्वाद्भाष्यवार्त्तिकादेश्चात्यन्तविषमत्वाद्गौरवस्य वैपरीत्यादिति चेन्न । शब्दानामानन्त्येन प्रतिपदपाठस्यासंभवात् उत्सर्गापवादरूपलक्षणद्वारा तद्व्युत्पादनस्यैव लघुत्वात् । लक्षणप्रणयनं च जातिव्यक्तिपक्षयोरन्यतरपक्षमाश्रित्य । लक्ष्यानुरोधश्च तन्नियामक इति विप्रतिषेधसूत्रे निरूपयिष्यामः ।
असन्देहः सन्देहप्रागभावो न तु ध्वेसः । वैयाकरणस्य संशयानुत्पादादिति कैयटः । न च तस्यानादित्वात्फलत्वानुपपत्तिः । संदेहानुत्पादे उत्तरक्षणे तत्प्रागभावानुवृत्तेरेव क्षेमसाधारणसाध्यत्वस्वीकारात् । अत एवाव्ययीभावाप्रसक्तिः । प्रागभावार्थकनञस्तदभावस्य वक्ष्यमाणत्वात् ।
स्थूलपृषतीमनड्वाहीमालभेतेत्यत्र संशयः । कर्मधारये स्थूलत्वं गव्यन्वेति । पृषतीपदस्य मत्वर्थलक्षणया बिन्दुमत्परत्वात् । बहुव्रीहौ तु पृषत्स्विति विशेषः । तत्र पूर्वपदान्तोदात्तत्वं दृष्ट्वा पूर्वपदप्रकृतिस्वरेण बहुव्रीहित्वनिश्चयः । नन्वेवम् इन्द्रपीतस्योपहूतोभक्षयामीत्यत्रापीन्द्रशब्दस्याद्युदात्तपाठादेव बहुव्रीहिनिर्णयसंभवादिन्द्रपीताधिकरणवैयर्थ्यापत्तिरिति चेत् । अत्राहुः । अवैयाकरणान्प्रति तत् कृत्वाचिन्तान्यायेन वेति ।
स्यादेतत् । कर्मार्थकक्तप्रत्ययान्ते परे तृतीयान्तं पूर्वपदं प्रकृतिस्वरं स्यादित्यर्थकेन "तृतीयाकर्मणि" इति सूत्रेण तृतीयान्तेन्द्रपदस्य कर्मक्तान्तपीतपदेन समासेऽपि पूर्वपदप्रकृतिस्वरस्यैवानुशासनात्तस्य निर्णायकत्वानुपपत्तिः । अतोऽधिकरणं सार्थकमिति । अत्राहुः । पीतपदस्य दानपरत्वमत्रावश्यकम् । देवताया अचेतनत्वेन पानासंभवात् । इन्द्राय दत्तस्येत्यादिग्रन्थदर्शनाच्च । तथा चेन्द्रोद्देश्यकदाने तस्य कर्तृत्वकरणत्वयोरसंभवाच्चतुर्थ्यन्तं वाच्यमिति उक्तसूत्रस्य नायं विषयः । न च हेतुतृतीयान्तत्वम् । उपपदविभक्तितः कारकविभक्तेर्बलवत्त्वातान च तदर्थचतुर्थीसमासस्य प्रकृतिविकारभावमात्रविषयत्वाच्चतुर्थीसमासानुपपत्तिः । "तृतीयातत्कृतार्थेन" इत्यादेरप्रवृत्त्या तृतीयासमासस्याप्यसंभवात् । योगविभागस्य चतुर्थीत्यत्रापि संभवात् । तस्माच्छान्दसत्वाच्चतुर्थीसमासः षष्ठीसमासो वेति वाच्यत्वात् । अत्र च स्वरभेदस्यावश्यकत्वात्पूर्वपदप्रकृतिस्वरेण निर्णयो युक्त एवेति ।
अत्र नवीनमीमांसकाः । नात्र बहुव्रीहिलक्षणानुगमः । समानाधिकरणानामेव तद्विधानात् । सप्तमीविशेषणे बहुव्रीहाविति ज्ञापकबलादेव कण्ठेकाल इत्यादौ तत्सिद्धेः । तत्पुरुषे तु "कर्तृकरणे कृता बहुलम्" इति लक्षणानुगमः । बहुलग्रहणेन चतुर्थीसमासस्याप्युपपत्तेः । न चैवं स्वरेणैव बहुव्रीहिनिर्णयोपपत्तावधिकरणवैयर्थ्यतादवस्थ्यम् । सत्यपि बहुव्रीहिनिर्णयोपपत्तावधिकरणवैयर्थ्यतादवस्थ्यम् । सत्यपि बहुव्रीहिज्ञापके स्वरे प्रधानभूतस्वार्थानुग्रहाय तत्पुरुषावधारणादङ्गगुणविरोधन्यायेन शब्दधर्मस्वरस्यैव व्यत्ययेनोपपाद्यत्वात् । नचैवं स्थूलपृषतीमित्यत्रापि स्वरेण निर्णयो न स्यात्, इष्टापत्तौ च महाभाष्यविरोध इति वाच्यम् । तत्र समानाधइकरणबहुव्रीहिसंभवेन वैषम्यात् । अतोऽधिकरणारम्भ इत्याहुः ।
इमानि च भूय इत्यादिभाष्येण प्रयोजनान्तराणि दर्शितानि । ते सुरा हेलयो हेलय इति कुर्वन्तः । परावभूवुः तस्माद्ब्रह्मणेन न म्लेच्छितवै नापभाषितवै म्लेच्छो ह वा एष यदपशब्द इति ब्राह्मणम् । न म्लेच्छितव्यमित्यस्यार्थे नापभाषितवै इति । निन्दार्थान्म्लेच्छतेः कर्मणि घञ् । अत्र "हैहेप्रयोगे हैहयोः" इति प्लुते तन्निमित्ते प्रकृतिभावे च प्राप्ते तदकरणान्म्लेच्छनमिति के चित् । सर्वः प्लुतः साहसमनिच्छता विभाषाकर्त्तव्य इति भाष्यादत्रापरितुष्य वाक्यद्विर्वचनं तथा । सर्वस्य द्वे इत्यत्र पदस्यैव तद्विधानात् । न चानावृत्तिः शब्दादनावृत्तिः शब्दादितिवदैच्छिक एवायं पुनः प्रयोग इति वाच्यम् । आम्रेडितस्वरानुपपत्तेः । शास्त्रीयद्विर्वचने एव तद्विधानादित्यपरे । तत्स्वररहितस्यैव पाठे तु अरिशब्दे रेफस्य लत्वमपशब्द इत्याहुः । अत एव वेदस्थशब्दत्वं साधुत्वमित्यस्य विवक्षायां वेदस्थेऽलिशब्दे गतत्वादिति मणिकारेणोक्तम् ।
मध्यन्दिने ब्राह्मणे तु हेलवो हेलव इति पठित्वा तस्माद् ब्राह्मणो न म्लेच्छेदिति पठ्यते । तत्र यकारस्थाने वकारोऽपशब्दः । तस्माच्छास्त्रबोधितविपरीतानुष्ठानान्म्लेच्छा निन्द्या मा भूमेत्यध्येयं व्याकरणम् । न च म्लेच्छनेन पराभवोक्त्या तदभावेन पराभवाभाव एव रात्रिसत्रन्यायेन फलं स्यादिति वाच्यम् । द्रव्यसंस्कारकर्मसु परार्थत्वात् फलश्रुतिरर्थवादः स्यादिति न्यायेनापापश्लोकश्रवणवत्प्राशस्त्यमात्रपरत्वात् ।
तथाहि । यस्य पर्णमयीजुहूर्भवति न स पापं शृणोतीति द्रव्ये फलं श्रूयते । यदङ्क्ते चक्षुरेव भ्रातृव्यस्य वृक्ते इति ज्योतिष्टोमे अञ्जनाख्यसंस्कारे, यत्प्रयाजानुयाजा इज्यन्ते वर्म वा एतद्यज्ञस्य क्रियते वर्म यजमानस्य भ्रातृव्याभिभूत्यै इति च कर्मणि । अङ्क्ते अञ्जनं करोति । भ्रातृव्यः शत्रुः । किमेते फलविधयः उत क्रत्वर्थपर्णतादिफलार्थवादा इति संदेहे खादिरं वीर्यकामस्य यूपं कुर्य्यादितिवत्फलविधयः क्रतूपकारेण व्यवहितफलोपादानापेक्षया अव्यवहितस्य श्रूयमाणफलस्य विपरिणामेन साध्यत्वौचित्यादिति प्राप्ते सिद्धान्तः । रात्रिसत्राणामनन्यशेषत्वादगत्या विपरिणाम आश्रितः । पर्णतादीनां त्वव्यभिचरितक्रतुसंबन्धजुह्वादिद्वारा क्रत्वङ्गत्वात् प्रधानफलेनानाकाङ्क्षत्वान्न तथेति । न चासाधुप्रयोगनिषेधस्यापि अनन्यशेषत्वाद्रात्रिसत्रसाम्यम् । प्रकरणादेतन्निषेधस्य क्रत्वङ्गत्वमिति वक्ष्यमाणत्वात् । क्रतुप्रकरणपाठे च भाष्यकारस्यैव साक्षित्वात् ।।
वस्तुतो नात्र रात्रिसत्रन्यायावकाशः । तथा हि । आयुर्ज्योतिरित्यादिवाक्यविहितसोमयागविशेषाणां वाचको रात्रिशब्दः । तत्र स्वर्गः प्रतिष्ठा वा फलमिति संशये पूर्वपक्षः । रात्रिसत्रे फलार्थवादमङ्गवत्कार्ष्णाजिनिः । यथाऽङ्गेषु फलश्रुतिरर्थवादस्तथाऽत्रापि कामपदसमभिव्याहारादेः फलत्वकल्पकस्य विरहः । अतः सर्वाभिलषितत्वेन स्वर्गोपस्थित्या स एव फलमिति । सिद्धान्तस्तु फलमात्रेयो निर्देशादिति । निर्देशादर्थवादवाक्योपात्तत्वात् प्रतिष्ठा फलमेवेति आत्रेय आचार्यो मन्यते । प्रतितिष्ठन्ति ह वै यएता रात्रीरुपयन्तीत्यर्थवादेन प्रतिष्ठाया उपस्थितत्वात् तस्याः फलत्वकल्पने लाघवम् । स्वर्गस्य तूपस्थितिः फलत्वं चेत्युभयकल्पेन गौरवमिति । प्रकृते तु म्लेच्छनेन पराभवस्यार्थवादादुपस्तितत्वेऽपि तदभावेन तदभावोपस्थितिरपि कल्प्यैवेति । शिक्षासु पठ्यते ।
मन्त्रो हीनः स्वरतो वर्णतो वा मिथ्याप्रयुक्तो न तमर्थमाह ।
स वाग्वज्रो यजमानं हिनस्ति यथेन्द्रशत्रुः स्वरतोऽपराधात् ।।
स्वरतः स्वरेण । "हीयमानपापयोगाच्चेति तसिः । मिथ्याप्रयुक्तः । तात्पर्य्यविषयार्थातिरिक्तार्थप्रतिपादकः । तदाह । न तमर्थमाहेति । स्पष्टमन्यत् । इन्द्रशत्रुरिति । विश्वरूपवधानन्तरं कुपितेन त्वष्ट्रा इन्द्रवधार्थमाभिचारिकयागप्रयोगे इन्द्रस्य शत्रुर्हिंसकः सन्वर्द्धस्वेत्यभिप्रायेणेन्द्रशत्रुर्वर्द्धस्वेति प्रयुक्तम् । तत्र षष्ठीसमासत्वादन्तोदात्ते वक्तव्ये प्रमादादाद्युदात्त उक्तः । तथा च पूर्वपदप्रकृतिस्वरेण बहुव्रीह्यर्थो लब्धः । रन्प्रत्ययान्तत्वादिन्द्रशब्दस्याद्युदात्तत्वात् । तेनेन्द्रनिष्ठशातकतानिरूपितशातनीयत्वलाभादिन्द्र एव वृत्रस्य हिंसको वृत्त इति । इन्द्रशत्रुत्वस्य विधेयत्वान्न संबोधनविभक्तिः । तस्या अनुवाद्यविषयत्वात् । ननु कथं यथोक्तेऽपीन्द्रशत्रुत्वं विधेयं वृद्धेरेव तथात्वात् । न च विशिष्टविधेर्विशेषणस्याप्यप्राप्तस्य विधेयत्वादिति वाच्यम् । संबोधनपक्षेऽपि तुल्यत्वात् । मैवम् । इन्द्रशत्रुत्वविशिष्टस्य वृद्धेर्विधानाद्विशेषणविधिः । संबोधनस्य तु विशेषणतयाऽपि विध्यन्वयाभावान्नेति ।
स्यादेतत् । "यज्ञकर्मण्यजपन्यूङ्खसामसु" इति एकश्रुत्येह भाव्यम् । सा च स्वराविभागः । सचोभयत्राप्यविशिष्ट एवेति ।
अत्राहुः । जपादिपर्युदासादेकश्रुतिविधिर्मन्त्रमात्रपरः । अघट इत्यादौ भेदप्रतियोगिवृत्तिर्भेदप्रतियोगितानवच्छेदकश्च यो धर्मस्तदवच्छिन्नानुयोगितयैव भेदस्य भासमानत्वात् । प्रकृतेऽपि भेदप्रतियोगिजपादिवृत्तिस्तत्प्रतियोगितानवच्छेदकश्च धर्मो मन्त्रत्वादिस्तदवच्छिन्न एव विधितात्पर्यात् । ऊहादीनां च स्वेच्छया प्रयुज्यमानत्वान्न मन्त्रत्वम् ।
तदाह जैमिनिः---अनाम्नातेष्वमन्त्रत्वमिति । ऊहप्रवरनामधेयानां मन्त्रत्वमस्ति न वेति संशयः । ऊहः प्रसिद्धः । आर्षेयं वृणीतेइत्यादिविधिवशादुच्चार्यमाणः काश्यपादिः प्रवरः । यजमानस्य नाम गृह्णातीति विधेरुच्चार्यमाणं देवदत्तादिपदं नामधेयम् । तत्र प्रयोगकालीनार्थाभिधायित्वरूपमन्त्रस्योहादिसाधारण्यान्मन्त्रपदैकवाक्यत्वाच्चैषामपि मन्त्रत्वम् । अन्यथा श्लोकैकवाक्यतापन्नमन्त्रवदूहादिभिरमन्त्रैरेकवाक्यीभूतानामपि मन्त्राणाममन्त्रत्वं स्यादिति प्राप्ते सिद्धान्तः । अभियुक्तप्रसिद्धिविषयत्वमेव मन्त्रत्वम् । ऊहादिषु चाभियुक्तानां मन्त्रत्वप्रसिद्ध्यभावान्न तत् । तदेकवाक्यतापन्नमन्त्राक्षराणां तु मन्त्रत्वप्रत्यभिज्ञानात्तथेति । आपस्तम्बोऽपि, अनाम्नाता अमन्त्राः, यथा, प्रवरोहनामधेयग्रहणानीति । अत एव मन्त्रस्य स्वरादिदोषेणानिष्टजनकत्वमित्यर्थे यथेन्द्रशत्रुरिति दृष्टान्तोऽसङ्गतः स्यात् । तस्य मन्त्रत्वाभावात् । अतो मन्त्रशब्दस्य शब्दमात्रपरत्वमिति मनसि कृत्वा मन्त्रो हीन इत्यस्य स्थाने दुष्टः शब्द इति भाष्ये पठितम् । यद्यपि स्वाहेन्द्रशत्रुर्वर्द्धस्वेति वेदे पठ्यतएव, तथाऽपि ऊहितानुकरणमेव तदिति तदनुकार्यस्य लौकिकत्वमक्षतम् । न च स्वरस्य वेदमात्रविषयकत्वात्तत्र तत्प्रत्युक्तगुणदोषयोर्न प्रसक्तिरिति वाच्यम् । तद्विधौ छन्दसीति अनधिकारात् । वेदे त्रैस्वर्यैकश्रुत्योश्च यथासंप्रदायं व्यवस्था । लोके त्वैच्छिको विकल्प इति तु विशेषः ।
स्यादेतत् । अजपेति प्रतिषेध एव युक्तः । तथा हि । "उच्चैस्तरां वा वषट्कार" इति सूत्रस्थस्यैव वाशब्दस्य विभाषाच्छन्दसीत्यत्रानुवृत्तिसम्भवाद् विभाषाग्रहणं व्यर्थंस्यात् । तद्विकल्पस्येव यज्ञकर्मणीत्यस्याप्यनुवृत्तिर्माभूदित्येतदर्थमुच्चैस्तरांवेति सूत्रे यज्ञकर्मणीत्यस्यानुवृत्तेः । पर्युदासपक्षे च यज्ञकर्मणीत्येकश्रुतेर्वेदमात्रपरत्वान्नित्यत्वाच्च । वि भाषाच्छन्दसीत्येकश्रुतेरपि यज्ञकर्मविषयकत्वे एकत्रैव वैकल्पिक्या नित्यायाश्च प्राप्तिविरोधात्तत्परिहाराय यज्ञकर्मणीत्यस्याननुवृत्तेर्वाग्रहणानुवृत्तेश्च संभवात्पुनर्विभाषाग्रहणवैयर्थ्यं स्पष्टम् । प्रतिषेधपक्षे तु "विभाषा च्छन्दसि" इत्यत्र यज्ञकर्मानुवृत्तावपि वेदे वैकल्पिक्येकश्रुतिः, ऊहादौ तु " यज्ञकर्मणि" इति सूत्रेण नित्येति व्यवस्थोपपत्तेरुक्तरीत्या तत्सार्थक्यमिति चेत् । मैवम् । पर्युदासपक्षेऽपि वैकल्पिकैकश्रुतेः छन्दोविषयत्वान्नित्यैकश्रुतेश्च मन्त्रविषयत्वात् छन्दः शब्दस्य सामान्यपरस्य मन्त्रातिरिक्तपरत्वं कल्पयित्वा विकल्पस्य ब्राह्मणपरत्वसंभात् । विशेषविधिविरोधे सामान्यविधेस्तदतिरिक्तविषयकत्वस्य व्युत्पन्नत्वात् । अत उभयमतेऽपि यज्ञकर्मणीत्यस्याननुवृत्तितात्पर्यग्राहकत्वेन विभाषापदं समानयोगक्षेममेवेति ।
केचित्तु एकश्रुतिप्रसङ्गेऽप्युदात्तोच्चारणादेवेन्द्रशत्रुपदे दुष्टत्वमित्याहुः ।
यदधीतमविज्ञातं निगदेनैव शब्द्यते ।
अनग्नाविव शुष्कैधो न तज्ज्वलति कर्हि चित् ।।
निगदः पाठमात्राम् । न ज्वलति न प्रकाशते । निष्फलमिति यावत् । निरुक्ते तु---
स्थाणुरयं भारहारः किलाभूदधीत्य वेदं न विजानाति योऽर्थम् ।
योऽर्थज्ञ इत्सकलं भद्रमश्नुते नाकमेति ज्ञानविधूतपाप्मा ।।
इति मन्त्रं लिखित्वा यद् गृहीतमविज्ञातमिति पाठः । गृहीतं शब्दतः । अविज्ञातम् अर्थतः प्रकृत्यादिविभागेन चेत्यर्थः । एकः शब्दः सम्यग्ज्ञातः सुष्ठु प्रयुक्तः स्वर्गे लोके कामधुग्भवतीतिषाष्ठभाष्यवक्ष्यमाणश्रुतिमूलकम्---
भ्राजाख्यश्लोकेषु कात्यायनस्मरणमपि---
यस्तु प्रयुङ्क्ते कुशलो विशेषे शब्दान् यथावद् व्यवहारकाले ।
सोऽनन्तमाप्नोति जयं परत्र वाग्योगविद् दुष्यति चापशब्दैः ।।
दुष्यति चेत्यवैयाकरणपरम् ।
अविद्वांसः प्रत्यभिवादे नाम्नो ये न प्लुतिं विदुः ।
कामं तेषु तु विप्रोष्य स्त्रीष्विवायमहं वदेत् ।।
अयमहमिति "अनुकरणं चानितिपरम्" इति संज्ञा । न च समासे विभक्तिलोपापत्तिः । अनुकरणत्वात् । अस्यवामीयमित्यादिवत् ।
याज्ञिकाः पठन्ति, प्रयाजाः सविभक्तिकाः कार्या इति । आधानोत्तरं यजमानस्योदरव्यथाया वर्षमध्ये आपद्विशेषस्य वोपनिपाते नैमित्तिकीं पुनराधायेष्टिं विधायेदमाम्नातम् । विभक्तिमात्रस्यानर्हत्वात्प्रकृतेराक्षेपः । सा चाग्निशब्दरूपा । निरुक्ते अथ किंदेवताः प्रयाजानुयाजा इति प्रश्ने छन्दांसि वै प्रयाजा ऋतवो वै प्रयाजा इत्यादिपक्षानुदाहृत्य आग्नेया इति तु स्थितिर्भक्तिमात्रमितरदिति सिद्धान्तितत्वात् । अत एव प्रयाजान्मे अनुयाजांश्च केवलानूर्जस्वन्तं हविषो दत्तभागमिति अग्नेर्वरप्रार्थनम् । तव प्रयाजा अनुयाजाश्च केवला ऊर्जस्वन्तो हविषः सन्तु भागा इति देवानां वरप्रदानं च श्रूयते ।
अन्यत्रापि श्रूयते, यो वाइमां पदशः स्वरशोऽक्षरशो वाचं विदधाति स आर्त्विजीन इति । पदं पदमिति सङ्ख्यैकवचनाच्चेति शस् । ऋत्विजमर्हति इति ऋत्विक्कर्मार्हति इति च व्युत्पत्त्या आर्त्वि जीनपदं याज्ययाजकोभयपरम् । "यज्ञर्त्विग्भ्यां घखञौ" इति सूत्रेण " यज्ञर्त्विग्भ्यां तत्कर्मार्हतीति चोपसंख्यानम्" इति वार्तिकेन च खञ् । अन्येऽपि मन्त्रवर्णाः---
चत्वारि श्रृङ्गा त्रयो अस्य पादा द्वे शीर्षे सप्त हस्तासो अस्य ।
त्रिधा बद्धो वृषभो रोरवीति महोदेवो मर्त्त्यां आविवेश ।।
शब्द एव सर्वकामदत्वाद् वृषभत्वेन रूप्यते । यद्भाष्यम्, वृषभो वर्षणआदिति । कामानां ज्ञानपूर्वकानुष्ठानफलत्वादिति कैयटः । नामाख्यातनिपातोपसर्गाणां चतुष्टयम् । कालानां त्रयम् । व्यञ्जकव्यङ्ग्यभेदेन कार्यनित्ययोर्वर्णाखण्डस्फोटात्मकयोर्द्वयम् । विभक्तीनां सप्तकम् । उरसि शिरसि कण्ठे च बद्धः । तेषां व्यञ्जकध्वनिस्थानत्वात् । महान्देवः शब्दः । महता देवेन ब्रह्मणा साम्यमध्ययनप्रयोजनमित्यर्थः ।
चत्वारि वाक्परिमिता पदानि तानि वदुर्ब्राह्मणा ये मनीषिणः ।
गुहा त्रीणि निहिता नेङ्गयन्ति तुरीयं वाचो मनुष्या वदन्ति ।।
मनस ईषिणो मनीषिणः पृषोदरादिः । तएव विदन्तीत्यर्थः । गुहेति लुप्तसप्तमीकमज्ञानार्थकम् । व्याकरणेनैव प्रकाशन्ते नान्यथा । अमनुष्या अवैयाकरणाः चतुर्णां पदजातानामेकैकस्य चतुर्थं भागं वदन्ति । सामस्त्येन न जानन्तीति यावत् ।
उत त्वः पश्यन्न ददर्श वाचमुत त्वः शृण्वन्न शृणोत्येनाम् ।
उतो त्वस्मै तन्वं विसस्रे जायेव पत्यउशती सुवासाः ।।
त्वशब्दोऽन्यार्थः । उतेत्यपिशब्दार्थे । पूर्वार्द्धमविद्वत्परम् । प्रत्यक्षेण शब्दमुपलभमानोऽप्यर्थानवबोधान्न पश्यतीत्यर्थः । उत्तरार्द्धं विद्वत्परम् । यथा कामयमाना जाया पत्ये स्वात्मानं प्रकाशयति, तथैव विदुषे वागपीत्यर्थः ।
सक्तुमिव तितउना पुनन्तो यत्र धीरा मनसा वाचमक्रत ।
अत्रा सखायः सख्यानि जानते भद्रैषां लक्ष्मीर्निहिताऽधिवाचि ।।
यथा चालन्या सक्तूनां तुषनिष्कासनेन सारं गृह्णन्ति, तथाऽपशब्देभ्यो वाचं पृथक्कृत्य जानन्तीत्यर्थः । अत्र ज्ञानमात्रप्राप्ये दुर्गममार्गरूपे वाग्विषये सखायः समानख्यातयः अविद्यानाशेन द्वैतनिवृत्त्या सर्वमेकमिति मन्यमानाः सख्यानि सायुज्यानि भजन्ते, वैयाकरणा इत्यर्थलभ्यम् । वेदाख्ये ब्रह्मणि या लक्ष्मीर्वेदान्तेषु परमार्थसंविल्लक्षणोक्ता सा यस्मादेषां सन्निहिता भवतीत्यर्थः । "चालनी तितउः पुमान्" इत्यमरः । इदं च नान्यव्यवच्छेदपरम् । "स्याद्वास्तु हिङ्गु तितउ" इति त्रिकाण्डशेषेऽपुंस्त्वस्यापि विधानात् । अतस्तितउ परिपवनं भवतीति भाष्येण संगतिः । याज्ञिकाः पठन्ति---
"आहिताग्निरपशब्दं प्रयुज्य सारस्वतीं प्रायश्चित्तीयामिष्टिं निर्वपेत्"
इति । तथा---
"दशम्युत्तरकालं पुत्रस्य जातस्य नाम विदध्याद् घोषवदाद्यन्तरन्तस्थमवृद्धं त्रिपुरुषानूकमनरिप्रतिष्ठितं तद्धि प्रतिष्ठिततमं भति द्व्यक्षरं चतुरक्षरं वा नाम कृतं कुर्य्यान्न तद्धितम्"
इति । संस्कार्यस्य पितरमवधीकृत्य ये आद्यास्त्रयः पुरुषास्ताननुकायत्यभिधत्ते इति त्रिपुरुषानूकम् । मूलविभुजादित्वात्कः । अन्येषामपि दृश्यते इति दीर्घः । पात्रादित्वान्न स्त्रीत्वम् । अप्रत्तानां च स्त्रीणां त्रिपुरुषी विज्ञायते इति वसिष्ठप्रयोगस्त्वार्षः ।
"सुदेवो असि वरुण यस्य ते सप्त सिन्धवः ।
अनुक्षरन्ति काकुदं सूर्म्यं सुषिरामिव" ।।
इति ऋङ्मन्त्रः । सिन्धवो विभक्तयः । काकुर्जिहा उद्यते उत्क्षिप्यतेऽस्मिन् काकुदम् । वदिरुत्क्षेपणपरः । घञर्थे कविधानमित्याधिकरणे कः । शकन्ध्वादित्वात्पररूपमित्येके । नुद प्रेरणे अधिकरणे कः । पृषोदरादित्वान्नुलोप इत्यन्ये । तथा च काकुदं ताल्वाचक्षतइत्युपक्रम्य कोकूयमाना एनां नुदतीति वेति निरुक्तम् । अनुक्षरन्ति तालु प्राप्य प्रकाशन्तइत्यर्थः । यथाऽग्निः सच्छिद्रां लोहमयीं प्रतिमां प्रविश्य प्रकाशते तन्मलं भस्मीकृत्य तां च शुद्धां करोति । तथा विभक्तयोऽपि दुरितं निरस्यन्तीत्यर्थः । "सूर्मी स्थूणाऽयः प्रतिमा" इत्यमरः ।
"गर्त्ते गर्त्तान्विते वाद्यविशेषे सुषिरं त्रिषु"
इति शाश्वतः । विषयप्रयोजनयोरुक्त्या च प्रतिपाद्यप्रतिपादकभावः संबन्धः । उक्तप्रयोजनकामश्चाधिकारीत्युक्तप्रायम् । इति प्रयोजननिरूपणम् ।।
ननु यथाऽऽचार्यप्रेरणयैव वेदाध्ययने प्रवृत्तिस्तद्वदत्रापि, तत्किं प्रयोजनेनेति । मैवम् । इदानींतनैः बाल्यदशायां प्रयोजनप्रश्नमकृत्वा वेदाध्ययने।ञपि तदुत्तरं तद्व्यतिरेकेणात्र प्रवृत्त्यनुपपत्तेः ।
"वेदान्नो वैदिकाः शब्दाः सिद्धा लोकाच्च लौकिकाः ।
अनथर्कं व्याकरणम्" इत्याशङ्कावताराच्च । पूर्वकल्पेष्वङ्गान्येव प्रथममपठ्यन्त इति भाष्यम् । न च---
श्रावण्यां पौष्ठपद्यां वाऽप्युपाकृत्य यथाविधि ।
युक्तश्छन्दांस्यधीयीत मासान् विप्रोऽर्द्धपञ्चमान् ।।
अत ऊर्ध्वन्तु च्छन्दांसि शुक्लेषु नियतः पठेत् ।
वेदाङ्गानि रहस्यं च कृष्णपक्षेषु संपठेत् ।।
इत्यादिस्मृतिभिर्वेदतदङ्गाध्ययनयोः समकालत्वलाभ इति वाच्यम् । भाष्यकारोक्तेरपि बलवत्त्वाद्विकल्पसंभवात् । नियमत्वदर्शनाय वार्त्तिकम्---
सिद्धे शब्दार्थसंबन्धे लोकतोऽर्थप्रयुक्ते शब्दप्रयोगे शास्त्रेण धर्मनियमो यथा लोकिकवैदिकेषु ।
लोकत इति पूर्वान्वयी । प्रथमव्युत्पत्तेर्लोकाधीनत्वात् । अर्थवदित्यादिव्याकरणस्य लोकसिद्धशक्तिग्रहमुपजीव्य प्रवृत्तेः । अत एव समर्थसूत्रेऽर्थानादेशनादिति वार्त्तिकम् । अर्थप्रतिपादनार्थं च शब्दप्रयोगोऽपि प्रसक्तः । शब्दश्च द्वेधा । साधुरपशब्दश्च । तत्र गवादय एव प्रयोक्तव्या न तु गाव्यादय इति नियमनिर्वाहकं व्याकरणम् । तत्फलं तु धर्मः । तत्र प्रङ्मुखोऽन्नानि भुञ्जीतेत्यादिः लौकिकः व्रीहिनवहन्तीत्यादिश्च वैदिको दृष्टान्तः । धर्मनियम इत्यश्वघासादिवत् षष्ठीसमासः । न च प्रयुक्तमात्राणां व्युत्पाद्यत्वे---ऊष, तेर, चक्र, पेच, इत्यादिव्युत्पादनवैयर्थ्यं तेषामप्रयोगादिति वाच्यम् । अस्मदादिभिस्तस्य दुर्गमत्वात् । यद्भाष्यम्---
सप्तद्वीपा वसुमती, त्रयो लोकाः, चत्वारो वेदाः साङ्गाः सरहस्या बहुधा भिन्नाः, एकशतमध्वर्युशाखाः, सहस्रवर्त्मा सामवेदः, एकविंशतिधा बाह्वृच्यम्, नवधाऽथर्वणो वेदः, वाकोवाक्यम्, इतिहासः, पुराणम्, वैद्यकम्, इत्येतावान् प्रयोगस्य विषय इति । अस्ति चैषां वेदे प्रयोगः---
सप्तास्ये रेवतीरेवदूष, यन्मेनरः श्रुत्यं ब्रह्म चक्र, यत्रानश्चक्रा जरसं तनूनामिति ।
न च व्युत्पादितत्वमात्रेण प्रयुक्तत्वानुमाने वचन्तीत्यादीनामपि साधुत्वापत्तिः । न हि वचिरन्तिपरः प्रयुज्यतइति अविगीतशिष्टव्यवहारेण तत्र व्युत्पत्त्यप्रवृत्तेः । तथा चाप्रयुक्तत्वप्रमित्यविषयत्वे सति व्युत्पाद्यत्वं हेतुः । तदाहयथालक्षणमप्रयुक्ते---
इति ।
स्यादेतत् । अप्राप्तांशपूरणफलको नियमविधिः । व्रीहीनवहन्तीत्यादौ वैतुष्यसाधनत्वेन नखविदलनादेरपि प्राप्तिपक्षेऽवघातस्य प्राप्त्यभावात् । अवघातेनैव वैतुष्यं साध्यमिति बोधात् ।
इतरव्यावृत्तिफलकस्तु परिसङ्ख्याविधिः । "इमामगृभ्णन् रशनामृतस्येत्यश्वाभिधानीमादत्ते" इत्यत्र रशनाग्रहणै लिङ्गबलादेव मन्त्रप्राप्त्या गर्द्दभरशनाव्यावृत्तावेव तात्पर्यात् । यद्यपि लिङ्गात्पूर्वमेवेयं श्रुतिः प्रवृत्ता, तस्यानुपपत्तिप्रतिसंधानापेक्षतया चरमप्रवृत्तिकत्वात्, तथाऽप्युक्तव्यावृत्तिरेव फलम् । तदुक्तम्---
अप्राप्तविधिरेवायमतो मन्त्रस्य निश्चितः ।
प्रयोजनं विधेः किं स्यादस्येति तु निरूपणे ।।
न गर्द्दभाभिधानीतः फलमन्यन्निवर्त्तंनात् ।
एवं च लिङ्गेनोभयसाधारणरशनाग्रहणे मन्त्रविधिकल्पनया यावद्गर्द्दभरशनाया मन्त्रप्राप्तिः संभवति तावदेव प्रत्यक्षविधिनाऽश्वरशनायामेव मन्त्रविधानाल्लिङ्गस्य निराकाङ्क्षतयोभयसाधारणविध्यकल्पकत्वाद् गर्द्दभरशनायां मन्त्रस्य प्रापकप्रमाणाभावादप्राप्तिरेव व्यावृत्तिरित्युच्यते । यत्र तु प्रमाणान्तरप्राप्त एवार्थो व्यावर्त्त्यते, यथा पञ्च पञ्चनखा भक्ष्या इत्यत्र पञ्चातिरिक्तभक्षणस्यापि रागप्राप्ततया पञ्चातिरिक्तभक्षणव्यावृत्तौ तात्पर्यं सा प्राप्तपरिसंख्या । नन्वयं नियम एवास्त्विति चेत्, अविज्ञानेश्वरः---
नियमपक्षे शशाद्यभक्षणे दोषप्रसङ्गः, श्वादिभक्षणे चादोषप्रसङ्ग इति प्रायश्चित्तस्मृतिविरोध इति परिसंख्यैवेति । आद्यायां च प्राप्तबाधरूपदोषाभावात्तदपेक्षया द्वितीयाऽभ्यर्हितेति सिद्धान्तः । तथा च पञ्च पञ्चनखा इत्यस्य नियमोदाहरणत्वं भाष्यकृतोऽनुपपन्नमिति । अत्राहुः---
परिसङ्ख्याऽप्यत्र नियमशब्देन व्यवह्रियते इति ।
न चैवमपभ्रंशेभ्यो बोधो न स्यादिति वाच्यम् । नियमफलस्यादृष्टस्याभावेऽपि दृष्टस्य कार्यस्योत्पत्तेः । नख विदलनादिना वैतुष्यवत्, दिगन्तराभिमुखभोजने तृप्तिवच्च ।
नन्वपभ्रंशानामर्थावबोधहेतुत्वस्याक्लृप्तत्वात् कारणाभावप्रयुक्त एवार्थबोधाभावः स्यात् । मैवम् । पर्यायवद्विनिगमनाविरहादपभ्रंशानामपि शक्तिसद्भावात् । अस्मात्पदादयमर्थो बोध्य इतीश्वरेच्छायाः शक्तित्वपक्षे भगवदिच्छायाः सन्मात्रविषयकत्वात् । पदार्थान्तरत्वपक्षेऽपि कल्पकस्य तुल्यत्वात् । असाधुस्मरणद्वारा साधोर्बोधकत्वप्रसङ्गाच्च । तिबादिस्मारितानां लादीनां बोधकत्वस्य वार्त्तिकैरभ्युपगमात् । नचात्पत्वबहुत्वाभ्यां विनिगमः, अल्पीयांसो हि शब्दा भूयांसश्चापशब्दा इति महाभाष्योक्तेरिति वाच्यम् । घटबोधकत्वरूपायाः शक्तेस्तद्भ्रमाद्बोधं वतताऽप्यङ्गीकारात् । शक्तिभ्रमस्य भ्रमत्वकल्पनस्य पुनरुक्तित्वात् । नचैवं सर्वे सर्वार्थवाचका इति पर्यवसानाद् गौणमुख्यविभागोच्छेद इति वाच्यम् । त्वत्पक्षेऽपीश्वरेच्छाया गौणादावतिप्रसङ्गात् । प्रयोगप्राचुर्यतद्विरहाभ्यां विभागाच्च ।
अत्र नैयायिकाः । नेश्वरेच्छामात्रं शक्तिः, किं तूक्तविषयविशेषवैशिष्ट्येन । तथा च सन्मात्रविषयकत्वमकिंचित्करम् । प्रमाणानुरोधेनैव यथोक्तविशेषकल्पनात् ।
मिश्रास्तु उक्तेच्छया ईश्वरेण स्वातन्त्र्येणोच्चरितत्वमेव शक्तिः । न च चैत्रादावव्याप्तिः । द्वादशेऽह्नि पिता नामेत्यादितो नामत्वेन तेषामपीश्वरोच्चरितत्वात् । न च निषेधप्रतियोगित्वेनापभ्रंशानामप्यपभ्रंशत्वरूपेण तथात्वम् । तदिच्छयोच्चरितत्वाभावात् । नामपदार्थपर्यालोचनया नाम्नां तथा तात्पर्यकोच्चारणसत्त्वात् । न च गावीशब्दस्य बोधकतया स्वज्ञाप्यसम्बन्धसत्त्वाल्लक्षणया गवि साधुत्वापत्तिः । गभीरायां नद्यामित्याद्यनुरोधाच्छक्यसंबन्धस्य लक्षणात्वाभावादिति वाच्यम् । शक्यसंबन्धस्यैव तत्त्वात् । तस्य च ज्ञप्तिप्रयोजकसंबन्धाश्रयसंबन्धपर्यवसन्नस्य साक्षात्परम्परासाधारणशक्तिविषयसंबन्धपर्यवसन्नत्वाद् गाव्यादिपदेऽनुपपत्तेरित्याहुः । एतेन पदार्थान्तरत्वपक्षेऽपि वैषम्यं व्याख्यातम् । उक्तलाघवस्योभयत्र विनिगमकत्वात् । न च प्राकृतस्यापि संस्कृतवदनुगतत्वाच्छक्त्यापत्तिः ।
"तद्भवस्तत्समो देशीत्यनेकः प्राकृतक्रमः" इति दण्ड्युक्तेः ।
यत्तु काव्यप्रकाशादौ शब्दशक्तिमूलध्वन्यादौ प्राकृतगाथोदाहरणं तत् तद्बोध्यसंस्कृताभिप्रायम् । शक्तिभ्रमाद्बोधोक्तौ तत्र शक्तिस्वीकार इति त्वसंगतम् । व्याप्तिभ्रमविषये व्याप्तेरप्यापत्तेः । तथा च "न च शक्तिसाध्यं शक्त्यारोपाद्भवितुमर्हति, आरोपितदहनादपि दाहापत्तेः" इत्याशङ्क्य मणिकृतोक्तम्---
"ज्ञायमानकरणे प्रयोजकरूपवत्तया ज्ञायमानादेव फलं बाष्पे धूमारोपाद् वन्ह्यनुमितिवत्" इति ।
न च जनकज्ञानभ्रमत्वे शाब्दबुद्धेरयथार्थत्वम् । शक्तिज्ञानयथार्थत्वस्य शाब्दप्रमायामप्रयोजकत्वात् । अनाप्तोक्ते व्यभिचारात् । नापि जनकज्ञानभ्रमत्वेनायथार्थत्वम् । भ्रमानुव्यवसाये व्यभिचारात् । अपभ्रंशस्य शाब्दप्रमाजनकत्वं तु तत्प्रयोजकाद् योग्यतादेः यथार्थतद्बोधाद्वा । अबाधितसंसर्गज्ञानजगकपदार्थोपस्थापकत्वाद्वा । संसर्गबाधकप्रमाविरहाद्वेति । प्रयोगप्रत्यययोरविशेषेऽपि व्याकरणस्य साधुत्वनियमार्थत्ववत् कोशादीनां शक्तिनियामकत्वाच्च । उक्तं च वाक्यपदीये---
ते साधुष्वनुमानेन प्रत्ययोत्पत्तिहेतवः ।
तादात्म्यमुपगम्यैव शब्दस्यार्थप्रकाशकाः ।।
न शिष्टैरनुगम्यन्ते पर्याया इव साधवः ।
न यतः स्मृतिशास्त्रेण तस्मात्साक्षादवाचकाः ।।
अम्बाम्बेति यदा बालः शिक्षमाणः प्रभाषते ।
अव्यक्तं तद्विदां तेन व्यक्ते भवति निर्णयः ।।
एवं साधौ प्रयोक्तव्ये योऽपभ्रंशः प्रयुज्यते ।
तेन साधुव्यवहितः कश्चिदर्थोऽभीधीयते ।। इति ।
न च संस्कृतज्ञानविरहिणां म्लेच्छादीनां कथं शक्त्यारोप इति वाच्यम् । प्रथमं केनचिद् गावीशब्दे प्रयुक्ते तत्र व्युत्पन्नो गोशब्दादर्थं प्रतीत्य व्यवहृतवान् अम्बाम्बोतिन्यायात्, पार्श्वस्थैश्च गावीशब्दादेव स्वार्थः प्रबोध्यतइति भ्रमेण गावीपदं गवि शक्तमिति अन्येषां व्युत्पादनादिति भ्रमपरम्परया निर्वाहात् । नन्वेवं संस्कृतत्वाभावे शक्त्यभावव्याप्यत्वज्ञानवतां तद्वाचकसंस्कृतविशेषज्ञानवतां च---
स्मारयन्तश्च ते साधूनर्थावगतिहेतवः ।
इति रीत्या तत्स्मरणाद्बोधोपपत्तौ अपि संस्कृतविशेषज्ञानविरहिणामपभ्रंशाच्छब्दबोधो न स्यात्, विशेषदर्शनसत्त्वे भ्रमानवकाशाच्च इति चेत्,
अत्र कण्कोद्धारकृतः,
अयमर्थः किञ्चित्पदवाच्य इति सामान्यज्ञानादेव आहार्यं शक्तिज्ञानं तत्रेत्यपि कल्पनीयम् । यद्वा तद्बोध्यार्थसंबद्धपदार्थान्तरवाचकस्य स्मृत्या ततो लक्षणया बोध इति ।
न च यत्र सर्वेऽप्यपभ्रंशास्तत्समार्थकसंस्कृतमात्रस्य चानुपस्थितिस्तत्रोक्तरीत्या शाब्दबोधानुपपत्तिः लाक्षणिकस्याननुभावकत्वादिति वाच्यम् । सविभक्तिकस्यैवोक्तपदस्य स्मरणात् । विभक्तेरेव तत्रानुभावकत्वात् । गङ्गायां द्विरेक्त इत्यादिवत् ।
एवं सर्वेषां सर्वार्थवाचकत्वे अश्वशब्दोऽस्वशब्दश्च क्रमेण वाजिनि दरिद्रे च साधुः, व्युत्क्रमेण त्वसाधुः, परत्र परशब्दप्रयोगः तद्धर्मप्रतिपत्त्यर्थ इति सिद्धान्तविरोधः । गतिबुद्धिप्रत्यवसानार्थेत्याद्यर्थविशेषघटितानुशासनानुपपत्यतिप्रसक्त्यादिः । प्रयोगबाहुल्याल्पत्वयोरसर्वज्ञापरिच्छेद्यत्वात् । कोषादेश्च शक्तिमात्रबोधकत्वेन तदतात्पर्यकत्वात् । अत एव दुश्च्यवनादिपदानामल्पप्रयोगतेत्यालंकारिकाः । नियतविषया अपि शब्दा दृश्यन्ते शवतिर्गतिकर्मा कम्बोजेष्वेव भाष्यते विकारएवैनमार्या भाषन्ते इत्यादिभाष्यनिरुक्तादिदर्शनान्नियतप्रयोगाणां तस्मिन्नर्थे गौणत्वं स्यात् ।
यत्तु सर्वत्र शक्तिस्वीकारे लक्षणानङ्गीकाराल्लाघवम् । अन्यता कार्यकारणभावद्वयस्य शाब्दधीद्वये परस्परव्यभिचारवारणाय कार्यतावच्छेदककोटावव्यवहितोत्तरत्वनिवेशस्य चापत्तेरिति । तत्तुच्छम् । शक्तिज्ञानीयकार्यकारणभावेषु तवापि तत्साम्यात् । न च तादृशस्थले शक्तिभ्रमाद् यत्र बोधस्तत्र शक्तिज्ञानत्वेन कारणतायास्त्वयाऽपि कल्पनान्नैतदाधिक्यमिति वाच्यम् । तथाऽपि लाक्षणिकपदानामननुभावकत्वपक्षे तीरत्वप्रकारकतीरविशेष्यकशाब्दत्वं तीरपदशक्तिज्ञानस्य कार्यतावच्छेदकम् । गङ्गापदलक्षणाज्ञानस्य तु तादृशस्मृतित्वमिति कार्यतावच्छेदकभेदेन व्यभिचारानवकाशात् । नव्यमतेऽपि लक्ष्यतावच्छेदके लक्षणानभ्युपगमात् ।
किं च शतं शब्दानर्थांश्चोदाहृत्य विचार्यते । एकैकस्य शतशतार्थवाचकत्वेऽयुतशक्तिकल्पनं तावत्कार्यकारणभावकल्पनं तावदव्यवहितोत्तरत्वनिवेशनं च स्यात् ।
मम तु शतमेव शक्तयः कल्प्यन्ते । न हि ममापि तावतीनां लक्षणानां स्वीकार आवश्यकः । तावच्छब्देभ्योलक्षणया तावदर्थबोधः कस्य चिज्जात एवेत्यत्र मानाभावात् । एतेन शक्तिभ्रमोऽपि व्याख्यातः । त्वया त्वजनितान्यार्थबोधस्य तच्छक्तत्वकल्पने मानाभावात् तावद्भ्यस्तावदर्थबोधो जात एवेति कल्प्यम् । एवं तज्जन्यव्यवहारादयोऽपीति महागौरवमित्यास्तां विस्तरः ।
केचित्तु शक्तिलक्षणाज्ञानयोरेक एव कार्यकारणभावः । शक्तित्वावच्छिन्नसांसर्गिकविषयतानिरूपितपदनिष्ठप्रकारतानिरूपितार्थनिष्ठविशेष्यताशालिज्ञानत्वं कारणतावच्छेदकं, शाब्दबोधत्वं च कार्यतावच्छेदकं, घटो घटपदवानित्यत्रार्थो विशेष्यः, पदं प्रकारः, शक्तिः संसर्गः । नचैवं शक्यसम्बन्धस्य लक्षणास्थले संसर्गत्वात्तदसंग्रहः । तस्यापि शक्तिघटितत्वात् । शक्तित्वनिष्ठावच्छेदकतायां पर्याप्तेरनिवेशात् । नचैवं तीरं गङ्गापदवदिति शक्तिरूपसम्बन्धावच्छिन्नप्रतियोगिताकपदाभावप्रकारकनिर्णयसत्त्वे लक्षणाज्ञानादपि लक्ष्यार्थबोधो न स्याद्, बाधकसत्त्वादिति वाच्यम् । पदनिष्ठप्रकारतानिरूपितशक्तिनिष्ठसांसर्गिकविषयतायामर्थनिष्ठविशेष्यतानिरूपितत्वानभ्युपगमात्तद्धर्मावच्छिन्नविशेष्यतानिरूपिता यस्य सांसर्गिकविषयता तद्धर्मावच्छिन्नविशेष्यताकतत्संसर्गावच्छिन्नप्रतियोगिताकाभावप्रकारकज्ञानस्यैव प्रतिबन्धकत्वादिति । तदसत् । उक्तबाधदशायां शक्यार्थबोधस्यापि प्रसङ्गात् । शक्यसम्बन्धप्रतियोगितावच्छेदककोक्तज्ञानदशायामपि लक्ष्यार्थबोधप्रसङ्गाच्च । उक्तरीत्या बाधकाभावात् । शक्तिनिष्ठसांसर्गिकविषयतायाः पदनिष्ठविशेष्यतानिरूपितत्वानभ्युपगमे पदनिष्ठविशेष्यतायाः शक्तिनिष्ठसांसर्गिकविषयतानिरूपितत्वस्यापि दुर्वचत्वाच्च । यन्निष्ठा या विषयता यन्निष्ठयद्विषयतानिरूपिता तन्निष्ठा तद्विषयता तन्निष्ठतद्विषयतानिरूपितेति क्लृप्तत्वात् । अन्यथा शक्तिनिष्ठसांसर्गिकविषयतायां पदनिष्ठप्रकारतानिरूपितत्वस्य पदनिष्ठप्रकारतायां वा शक्तिनिष्ठसांसर्गिकविषयतानिरूपितत्वस्याभावमभ्युपगम्योक्तबाधद्रशायां लक्ष्यार्थबोध इत्यस्य दुर्वारत्वात् । तन्निष्ठविषयतानिरूपकस्य कथं तन्निष्ठविषयतानिरूपितत्वं नास्तीति युक्तेस्त्वदुक्तेऽपि जागरूपकत्वात् । एवं पदनिष्ठप्रकारतायामर्थविशेष्यतानिरूपितत्वाभावः स्वीक्रियतामुत शक्तिनिष्ठसांसर्गिकविषयतायामित्यप्यापादनीयम् । यद्धर्मावच्छिन्नविशेष्यतानिरूपिता या प्रकारता तद्धर्मावच्छिन्नविशेष्यताकतद्धर्मावच्छिन्नप्रतियोगिताकाभावज्ञानमेव प्रतिबन्धकमित्यस्यापि सुवचत्वात् ।
अत्रेदं बोध्यम् । भाष्यमते क्रतावेवापशब्दप्रयोगनिषेधः । न म्लेच्छितवाइत्यस्य तत्प्रकरणस्थत्वात् । श्रुत्यन्तरमपि यर्वाणस्तर्वाणो नाम ऋषयो बभूवुः प्रत्यक्षधर्माणः परावरज्ञा इत्यादि । योगजधर्मेण धर्मसाक्षात्कारवन्तः ।
अयमर्थः । विषयोदासीनतया यद्वानस्तद्वान इति वक्तव्ये यर्वाणस्तर्वाण इति प्रयोगात्तन्नामकतेति । एवं च क्रतोर्बहिरपशब्दप्रयोगस्तैः कृतः इति तस्याविगीतत्वोन्नयनमिति । भट्टैरप्युक्तम्---
स्त्र्युपायमांसभक्तादिपुरुषार्थमपि श्रितः ।
प्रतिषेधः क्रतोरङ्गमिष्टः प्रकरणाश्रयात् ।।
वार्तिकमते तु उभयत्र निषेधः । नानृतं वदेदित्यनारभ्याधीतपुरुषार्थनिषेधेन सर्वसिद्धेनार्थानृतवच्छब्दानृतस्यापि निषेधोपपत्तेः । एवं च क्रतावपभाषणे तद्वैगुण्यं प्रत्यवायश्च । तद्बहिस्तु प्रत्यवायमात्रमिति विशेषः ।
अत्र मीमांसाकौस्तुभकृतः । अनृतपदस्योभयपरत्वे वदेदित्यस्योच्चारणप्रतिपादनोभयपरत्वे वैरूप्यम् । एवं सकृच्छ्रुतानृतपदस्यापि । न च शब्दानृतस्यैव तर्हि निषेधोऽयं विनिगमकाभावादिति वाच्यम् । "प्रातः प्रातरनृतं ते वदन्ति पुरोदयाज्जुह्वति येऽग्निहोत्रम्" इत्यादिश्रौतप्रयोगवशादर्थानृतएवानृतपदशक्त्यवधारणात् । भाष्यस्मृतेरनवकाशतया तदनुरोधेनात्रत्यानृतपदस्यार्थासत्यत्वपरत्ववस्य कल्पयितुमुचितत्वाच्च । अत एव नानृतं वदेदिति श्रुतेरेव विवाहार्थानृतवदनाभ्यनुज्ञापकस्मृत्या सङ्कोचः । न च न म्लेच्छितवाइति म्लेच्छभाषाया एव निषेधः । हेलय इत्युपक्रमविरोधात् । म्लेच्छो हवा एष यदपशब्द इत्युपसंहारविरोधाच्च ।
ननु "वाग्योगविद् दुष्यपि चापशब्दैः" इत्यत्र वाचा चैव हि मनसा च यज्ञः प्रवर्ततइतिदर्शनेन वाग्योगविच्छब्दस्य यजमानपरत्वात् साधुभाषणनियमस्य याज्ञे कर्मणि नियमोऽन्यत्रानियम इति महाभाष्योक्त्या यज्ञमात्रपरत्वात् तद्बलादेव ज्योतिष्टोमेऽपि निषेधसिद्धौ तत्र पृथङ्निषेधवैयर्थ्यम् इति चेन्न । अवघातासम्भवे दलनवत्प्रतिनिधित्वेन प्रसक्तानामसाधूनां प्रयोगनिषेधार्थत्वात् । अयज्ञिया वै माषा इत्यादिवत् । एवं ज्योतिष्टोमे साधुप्रयोगासम्भवे प्रतिनिधित्वेनाप्यसाधवो न वाच्याः । किं त्वक्षिसंकेतादिभिरेव व्यवहर्तव्यम् । यज्ञान्तरे त्वपभ्रंशा अपि प्रतिनिधेया इति फलितम् । अत एवाहिताग्निरपशब्दं प्रयुज्येत्यत्राहिताग्निपदं संगच्छते । अन्यथा निषेधस्य ज्योतिष्टोममात्रपरत्वे नैमित्तिकप्रायश्चित्तस्यापि तन्मात्रविषयकत्वस्य स्वत एव सिद्धेः । न चेयमिष्टिरनारभ्याधतित्वने हिरण्यनाशेष्ट्यादिवत् पुरुषार्थेव स्यादिति वाच्यम् । प्रायश्चित्तीया मा भूमेत्यादिभाष्यदर्शनेन दोषनिर्घातार्थत्वाद्दोषस्य च भाष्यानुसारेण यज्ञेऽपशब्दभाषणादेव प्रसक्तेर्दोषनिर्घातद्वारा क्रत्वङ्गत्वप्रतीतेः । न चैवमप्याहिताग्निग्रहणवैयर्थ्यम्, यज्ञमात्रएव तदधिकारादिति वाच्यम् । याज्ञे कर्मणीति भाष्यस्मृतावसाधुभाषणनिषेधस्य स्मार्त्तयज्ञादिभ्यो व्यावृत्त्यर्थत्वात् ।
वस्तुतः प्रायश्चित्तेऽपशब्दभाषणस्य निमित्ततया तद्विशेषणमाहिताग्निपदमविवक्षितमेवेत्यनुवाद एव । न च नैमित्तिकोक्तेष्टिकर्तृत्वेन तद्विवक्षा । इष्टेरपि स्वत एवाहिताग्निसाध्यत्वात् । अतो न तद्वैयर्थ्यभयेन स्वतन्त्रपुरुषार्थनिषेधकल्पनं युक्तम् । न च वाग्योगविदिति कात्यायनवचनात्पुरुषार्थोऽपि निषेध इति वाच्यम् । यथोत्तरं मुनीनां प्रामाण्यमिति न्यायेन पतञ्जलिप्रोक्तस्यैव ग्राह्यत्वादित्याहुः ।
अथ किमिदं साधुत्वम् । न तावद् बोधकत्वम् । अपशब्दसाधारण्यात् । न च शक्तिमत्त्वम् । शबादिविकरणआनामसाधुत्वापत्तेः । तेषां कर्त्रादिवाचकतायास्तृतीये परस्तत्वात् । अपशब्दे व्यभिचाराच्च । साधुत्वस्यैव शक्त्यवच्छेदकत्वेनान्योन्याश्रयत्वाच्च । गौणलाक्षणिकयोरव्याप्तेश्च । तयोरपि क्वचिच्छक्तिरस्त्येवेति चेद्गावीशब्दस्य गं गणपतिमवितुं प्रीणयितुं शीलमस्येति मिश्रोक्तरीत्या गुङ् शब्दइत्यतोणिनि वा क्कचिदर्थे शक्तिसत्त्वाद् गव्यपि तदापत्तेः । एतेन वृत्तिमत्त्वं तदित्यपि परास्तम् । एतेन यस्य शब्दस्य यत्रार्थेऽनादिप्रयोगः स तत्र साधुरित्यपि निरस्तम् । हेलय इति वेदप्रयुक्ते अलिशब्देऽतिव्याप्तेश्च । तस्यापशब्दत्वात् । न च वेदस्य तदंशे।ञनुवादरूपत्वान्न तत्रानादिप्रयोगः । संज्ञा शब्देदष्वव्याप्तेः । न च नामधेयत्वेन तदपि वेदस्थमेवेति वाच्यम् । नापभाषितवै इत्यादावपभ्रंशत्वेनापशब्दानामपि तथात्वात् । न च निषेधाप्रतियोगित्वेन तदिति वाच्यम् । म्लेच्छो ह वा एष यदपशब्द इत्यादौ तस्यापि सत्त्वात् । एतेन वेदस्थशब्दत्वं तदित्यपि निरस्तम् । "भाषायां सदवसश्रुवः" "प्रथमायाश्च द्विवचने भाषायाम्" इति भाषापुरुस्कारेण व्युत्पादितानां निषेदिवान् युवामित्यादीनां साधुत्वानापत्तेश्च । भाषापदोपादानसामर्थ्येन तेषआं वेदे प्रयोगो नास्तीति निर्णयात् । नापि यज्ञप्रयोगार्हत्वम् । साधूनामेव तथात्वात् । तदवच्छेदकरूपान्तरापरिचयात् । एतेनाभ्युदयजनकत्वमपि परास्तम् । नाप्यनपभ्रष्टत्वम् । तद्ध्यपभ्रंशभिन्नत्वमेव । तच्च न सादित्वम् । संज्ञाशब्दातिव्याप्तेः । नापि साधुभिन्नत्वम् । अन्योन्याश्रयात् । साधुत्वस्य तद्भेदघटितत्वात् । नापि प्रत्यवाययोग्यत्वम् । तदवच्छेदकरूपानिरुक्तेः । नानृतं वदेदित्यादिना विसंवादिसंस्कृतस्यापि प्रत्यवायजनकत्वात् । न च जातिविशेषे एव साधुत्वम् । कत्वादिना सङ्करात् । साधुगकारे असाधुककारे च परस्परात्यन्ताभावलसमानाधिकरणयोः साधुत्वकत्वयोः साधुककारे समावेशात् । कशब्दादाचारक्किबन्तात्कर्तरि क्विपि पर्याप्त्या सामानाधिकरण्यसम्भवात् ।
आत्राहुः ।
अनपभ्रष्टताऽनादिः यद्वाऽभ्युदययोग्यता ।
प्रक्रियाव्यञ्जनीया वा जातिः काऽपपीह साधुता ।।
इत्यभियुक्तोक्त्या जातिविशेष एव साधुत्वम् । न च सङ्करस्तद्बाधकः । गुणगतजातौ तस्यादौषत्वात् । तथा हि । सन्ति तावच्छब्देषु तत्तज्जन्यतावच्छेदिका जातयः । यतः स्त्रीपुंसाद्युच्चरितमनुमीयते । सन्ति च देवदत्तादिजन्यतावच्छेदिका अपि जातयः । यतोऽयं देवदत्तीय इत्याद्यनुमीयते इति निर्विवादम् । तत्र देवदत्तीयत्वाभिव्यञ्जिका जातिः तदीयककारादिवृत्तिरेका स्वीकर्तव्या । यत्र देवदत्तीया अनोष्ठ्या एव वर्णाः पूर्वं श्रुताः, तत्र चाक्षुषाद्यविषयदेवदत्तोच्चारितौष्ठ्यश्रवणे देवदत्तीयत्वानुमानस्यानुभविकत्वात् । कत्वादिव्याप्यतादृशनानाजातिस्वीकारे ओष्ठ्यवर्णवृत्तिजातेः पूर्वमग्रहादनुमानानुपपत्तेः । तथा च देवदत्तोच्चरितगकारे चैत्रीयककारे च परस्परात्यन्ताभावसामानाधिकरणयोर्देवदत्तीयत्वाभिव्यञ्जकजातिकत्वजात्योर्देवदत्तोच्चारितककारे समावेशात् संकर आवश्यक इति । तच्चिन्त्यम् । द्रव्यगतजातितो वैषम्याभावात् । "गुणगतजातौ सांकर्यं न दोष इति मतं निर्बीजमेव" इत्युपायकृता "बीजसाम्येन गुणेऽपि तस्य दोषत्वम्" इति मणिकृता चाभिहितत्वात् । न चोक्तानुपपत्तिः । तत्र स्मर्यमाणायाः ककारादिवृत्तिजातेरारोपेणैवानुमानोपपत्तेः । विषयसत्त्वेनानुमितेर्भ्रमत्वानापत्तेः ।
अत एवोक्तं शब्दमणौ । शुकककारादिषु कत्वादिव्याप्यजातिर्भिन्ना । तया प्रत्येकं शुकककारादिषु शुकादिप्रभवत्वमनुमाय तद्व्यवहारः । न तु शुकककारादिष्वेका जातिरस्ति शुकप्रभवत्वानुमापिका तद्व्यवहारिका वा । गत्वादिना संकरप्रसङ्गादिति ।
मिश्रास्तु साधुत्वजातेर्वर्णवृत्तित्वे वर्णषु साधुत्वप्रत्ययापत्तिः । वाक्ये तथात्वप्रत्ययानुपपत्तिः । देवदत्तीयत्वाद्यनुमापकजातिसंकरापत्तिश्चेत्याहुः ।
किं च घटादिपदेषु जात्यनुपपत्तिः । पदस्य वर्णसमुदायात्मकस्य अव्यवहितोत्तरत्वसंबन्धेन घविशिष्टटकारादिरूपतया साधुत्वपर्याप्त्यधिकरणस्य युगपदनवस्थानात् ।
"अनारब्धे तु गोशब्दे गोशब्दत्वं कथं भवेत्" इतिन्यायेन पदत्ववत् साधुत्वस्यापि जातित्वासंभवात् । जातेर्व्यासज्यवृत्तित्वानुपपत्तिश्चेति । अत्रोच्यते---
अयं वृद्धानामाशयः । नित्यत्वे सत्यनेकसमवेतत्वं जातिस्वरूपम् । तच्च व्यासज्यवृत्तित्वेऽप्यविरुद्धम् । समवायावच्छिन्नवृत्तेरेकमात्राश्रयनिरूप्यत्वनियमाभावात् । घटादावेव व्यभिचारात् । संयोगादीनां च जन्यत्वादेव जातित्वाभावो न तु व्यासज्यवृत्तित्वात् । दर्शनमात्रस्य चाप्रयोजकत्वात् । पदवृत्तित्वाभ्युपगमादेव संकरोऽप्यनवकाशः । एकजातिपर्याप्त्यधिकरणे यथोक्तान्यजातिपर्याप्तावेव तदुल्लासात् । न च "अकारो वासुदेवः स्यात्" इत्याद्यनुशासनात् तत्सम्बुद्धौ अ इत्यादौ सङ्करो दुर्वारः । तथाऽपि वाक्यनिष्ठसाधुत्वाभ्युपगमे दोषाभावात् ।
नचैवं व्याकरणस्य साध्वनुशानत्वभङ्गापत्तिः । पदद्वारा वाक्यस्यैव संस्कारात् । वाक्यादपोद्धृत्य पदानि संस्क्रियन्ते इति पक्षस्यापि "न पदान्त" इति सूत्रे आकरारूढत्वात् । पदमात्रस्य कयाचिद् व्युत्पत्त्या साधुत्वाद्वा । वाक्यविशेषान्तर्भावेणैव साधुत्वासाधुत्वयोर्व्यवस्थितत्वात् । न च पर्याप्त्यधिकरणसमुदायघटकवर्णानामेककालानवस्थानात् कथं तत्र साधुत्वम् । पदवाक्यप्रत्यक्षस्य सर्वसंमततया तत्र यादृशी विषयता यस्य वर्णस्य तद्विषयत्वापन्नवर्णसमुदाये तद्वृत्तिसंभवात् । प्रत्यक्षविषयवर्णमात्रवृत्तित्वानभ्युपगमात् । व्यवहारेण तथैव सिद्धत्वाच्च । विरुद्धधर्मसमसंख्याका नित्या एव अकारादयो वर्णा इतिपक्षस्य पाणिन्याद्यभिमतत्वेन अइउण्सूत्रे वक्ष्यमाणत्वात् ।
मणिकृतस्तु व्याकरणव्युत्पाद्यत्वं साधुत्वम् । व्याकरणपरिगृहीतत्वतदभावाभ्यामेव प्रामाणिकानां साध्वसाधुव्यवहारात् । अत एव यः शब्दो व्याकरणेन यस्मिन्नर्थे व्युत्पादितः तत्र साधुरसाधुरन्यत्र । नाम्नामपि "उणादयो बहुलम्" इति व्युत्पादितत्वात् । केवलप्रकृतिप्रत्यययोर्बाधयति ग्रामगादेश्च न तद्व्युत्पाद्यत्वम् । अनभिधानेन तेषां प्रयोगानर्हत्वात् । गौणलाक्षणिकयोश्च यथा प्रतिपादकत्वं तद्व्युत्पादनमपि तत्र तथेति तयोरपि साधुत्वम् ।
न च साधुशब्दव्युत्पादकत्वमेव व्याकरणत्वमित्यात्माश्रयः । शब्दगुणदोषविद्भिरभियुक्तैः प्रकृतिप्रत्ययादिपरिकल्पनया शब्दान्वाख्यायकवाक्यस्य व्याकरणत्वात् । न च गुणदोषयोरपि साधुत्वात्मकत्वाद् दोषतादवस्थ्यम् । धर्मजनकत्वाधर्मजनकत्वयोरेव तत्त्वात् । न च साधुत्वे सिद्धे व्याकरणव्युत्पाद्यत्वं तद्व्युत्पाद्यत्वे च साधुत्वमित्यन्योन्याश्रयः । पूर्वपूर्वव्याकरणतः साधुत्वमवगम्योत्तरोत्तरव्याकरणेन तद्व्युत्पादनात् । साधुत्वस्य जातित्वे निष्प्रतियोगिकत्वापत्तौ सर्वत्र सर्वसाधुत्वापत्तिः । न च गोशब्दः अश्वे प्रयुक्तः साधुरेव, ज्ञापकश्च न भवति, तच्छक्तत्वेनाज्ञानादिति वाच्यम् । गावीशब्दस्यापि कयाचिद् व्युत्पत्त्या क्वचित् साधुत्वमिति तज्जातियोगेन गव्यपि साधुत्वापत्तेः । प्रतिशब्दं भिन्नतद्विषयजातिस्वीकारे चाननुगमात् । न च जातेः प्रतियोगिनिरूपणनिरूप्यत्वाभावनियमे तारत्वादिजातिरपि मन्दादिनिरूपणनिरूप्या न स्यादिति वाच्यम् । तत्रापि जात्रिर्नेतरनिरूपणनिरूप्या, किन्तु तदुत्कर्षत्वमेवेत्यभ्युपगमादित्याहुः ।
मीमांसकास्तु वृत्तिप्रमयाऽर्थप्रतिपादकत्वं साधुत्वम् । वृत्तित्वं च शक्तिलक्षणागौण्यन्यतमत्वरूपम् । गाव्यादिषु च प्रयोगादेरन्यथैवोपपत्तेर्वृत्तित्रयाभावान्नातिव्याप्तिः । संज्ञानां तु द्वादशेऽहनीत्यादिसामान्यविधिना पुत्रत्वाद्युपाधिना संकेतकरणेन शक्तेः प्रमितत्वान्नाव्याप्तिः ।
पुत्रादिनामकरणे गृह्येषु नियमश्रुतेः ।
अनादिशक्तिता संज्ञास्वपि नैव विरुध्यते ।।
इति वाक्यपदीयात् । टिघुभादीनां चालक्ष्यत्वादेव । "नैव ताः साधवो मताः" इतिन्यायात् ।
वस्तुतो वृत्तिग्रहाभावे तेषामर्थबोधकत्वानुपपत्तेः स्वयं संपादितसंकेतत्वेन गाव्यादिवच्छब्दान्तरोपस्थापकतयाऽपि तदयोगान्मुख्यार्थाभावे तन्मूलकलक्षणागौण्योरप्यनुपपत्तेः सांप्रतिकशक्तिस्वीकारेणैव टिघुभादिशब्दानामर्थबोधकत्वं वाच्यम् । अत एव पूर्वोक्तसाधुत्वेऽपि न क्षतिः । अत एव पाणिन्यादेः "टेः" इत्यादौ षष्ठ्यादिप्रयोगोऽप्युपपद्यतइत्याहुः ।
केचित्तु "टेः" इत्यादीनां टिशब्दानुकरणत्वमेव । अनुकरणोत्तरमितिशब्दप्रयोगनियमे मानाभावात् । "अनुकरणं चानितिपरम्" इतिसूत्रविरोधात् । नचैवं टीतिशब्दस्यैव लोपाटिकार्यं स्यान्न त्वन्त्यस्वरादिवर्णस्येति वाच्यम् । लक्षणया तत्परत्वाङ्गीकारादित्याहुः ।
असाधुत्वं तु तद्भिन्नत्वमेव, न तु जातिविशेषः । प्रमाणाभावात् । तदनुभवस्य साधुत्वाभावाविषयत्वस्यानुभविकत्वाच्च । योग्यानुपलब्धिबाधितत्वाच्च । साधुत्वं तु व्याकरणसंस्कारसहकृतश्रोत्रेन्द्रियग्राह्यम् । तदुक्तम् । प्रक्रियाव्यञ्जनीयेति । तदुक्तम्---
तत्र तत्त्वमभियोगात् स्यादिति । तथा---
अभियुक्ताश्च ये तत्र यन्निबद्धप्रयोजनाः ।
तत्रत्यगुणदोषणां ज्ञाने चाधिकृता मताः ।।
साध्वनुशासनाभ्यासस्यासाधुविषयकसंस्कारजनकत्वोक्तौचातिप्रसङ्गादिति । संज्ञाशब्दे त्वयं विशेषः---
यास्त्वेताः स्वेच्छया संज्ञाः क्रियन्ते टिघुभादयः ।
कथं नु तासां साधुत्वं नैव ताः साधवो मताः ।।
अनपभ्रंशरूपत्वान्नाप्यासामपशब्दता ।
हस्तचेष्टा यथा लोके तथा सङ्केतिता इमाः ।।
तासां प्रयोगेऽभ्युदयः प्रत्यवायोऽपि वा भवेत् ।
लाघवेनार्थबोधार्थं प्रयुज्यन्ते तु केवलम् ।।
इति उभयबहिर्भावः ।
व्यवहाराय नियमः संज्ञायाः संज्ञिनि क्वचित् ।
नित्य एव तु सम्बन्धो डित्थादिषु गवादिवत् ।।
वृद्ध्यादीनां च शास्त्रेऽस्मिन् शक्त्यवच्छेदलक्षणः ।
अकृत्रिमोऽभिसम्बन्धो विशेषणविशेष्यवत् ।।
इतिरीत्या तेषामप्यनादिता इतिपक्षे तु साधुत्वमेव । नामकरणे तु "कृतं कुर्यान्न तद्धितम् " इति गृह्यसूत्रानुगतानामेव साधुत्वम् । द्वादशेऽहनि पिता वनाम कुर्यादिति श्रुतेर्विशेषविषयकस्मृत्या बाधात् । देशभाषानुसारिणीनां तु संज्ञानां न तत् । तथा च शब्दकण्टकोद्धारे---
अनादिता चेत् साधुत्वं संज्ञाशब्देषु का गतिः ।
उच्यते नामकरणे गृह्येषु नियमश्रुतेः ।।
यथाकामं न संज्ञानां विनियोगः समस्ति नः ।
तस्मादनादिता संज्ञास्वपि नैव विधीयते ।।
यास्तु तद्देशभाषाभिः संज्ञास्तासां न साधुता ।
अत एव न्याय्यभावात् कल्पनं संज्ञादिष्विति तृतीयवार्त्तिके अनादिशब्दानां साधुत्वमित्युक्तम् । तृतीयत्वाभिधानं तु विपरीतगणनयेत्यवधेयम् । वार्त्तिकं तु ऋलृक्सूत्रे स्पष्टम् । तस्मात् प्रकृतिप्रत्ययविभागकल्पनया साधुशब्दा अत्र व्युत्पाद्यन्तइति सिद्धम् ।। इति साधुत्वविचारः ।।
अथैवं वर्णोपदेशवैयर्थ्यम् । अइउण् इत्यादिना कस्यचित् साधुत्वानवगमात् । न च दोषरहितवर्णस्वरूपप्रतीतिः तदर्थः । लोकत एव तत्सिद्धेः । अन्यथोदात्तादिपाठस्याप्यापत्तेः । तदुक्तम्---
इष्टबुद्ध्यर्थश्चेति चेदुदात्तानुदात्तस्वरितानुनासिकदीर्घप्लुतानामप्युपदेश इति ।
कर्त्तव्यः स्यादिति शेषः । त्रैस्वर्येण सूत्रपाठे एकस्योच्चारणादेव सिद्धो द्वयोरेव कर्त्तव्यताया आपाद्यत्वेऽपि एकश्रुत्या पाठाभिप्रायेणोदात्तादित्रयपाठ आपादितः । न च निर्देशस्य जातिपरत्वाद् उदात्तादिसंग्रहः । संवृतकलादीनामपि तत्तज्जात्यवच्छिन्नतया संग्रहापत्तेः । तदुक्तम्---
आकृत्युपदेशात्सिद्धम् इतिचेत् संवृतादीनां प्रतिषेध इति ।
विधेयः स्यादिति शेषः । हस्वाकारस्य संवृतत्वेऽपि तदन्येषामचां संवृतत्वं दोषः । आदिपदसंग्राह्यानाह भाष्यम्---
संवृतः, कलः, ध्मातः, एणीकृतः, अर्द्धकः, ग्रस्तः, निरस्तः, प्रगीतः, उपगीतः, क्ष्विण्णः, रोमशः, अवलम्बितः, निर्हतः, संदष्टः, विकीर्णः, इति ।
अपर आह---
ग्रस्तं निरस्तमवलम्बितं निर्हतमम्बूकृतं ध्मातमथो विकम्पितम् ।
संदष्टमेणीकृतमर्द्धकं द्रुतं विकीर्णमेताः स्वरदोषभावनाः ।।
व्याख्यातं च कैयटेन । कलः स्थानान्तरनिष्पन्नः काकलीत्वेन प्रसिद्धः । ध्मातः श्वासभूयिष्ठतया ह्रस्वोऽपि दीर्घ इव लक्ष्यते । एणीकृतोऽविशिष्टः किमयमोकार उत औकार इति यत्र संदेहः । अम्बूकृतो यो व्यक्तोऽप्यन्तर्मुख इव श्रूयते । अर्द्धको दीर्घोऽपि ह्रस्व इव । ग्रस्तो जिह्वामूले निगृहीतः, अव्यक्त इत्यपरे । निरस्तो निष्ठुरः । प्रगीतः सामवदुच्चारितः । उपगीतः समीपवर्णान्तरगीत्याऽनुरक्तः । क्ष्विण्णः कम्पमान इव । रोमशो गम्भीरः । अवलम्बितो वर्णान्तरसंभिन्नः । निर्हतो रूक्षः । संदष्टो वर्द्धित इव । विकीर्णो वर्णान्तरे प्रसृतः, एकोऽप्यनेकनिर्भासीत्यपरे । स्वरदोषभावनाः स्वरदोषगोत्राणि । अनन्ता हि दोषाः शक्तिप्रमादकृता इति ।
न च दोषविशिष्यानामपि निर्देशे तादृशानामेव प्रयोगापत्तिः । शास्त्रान्ते सर्वासामेव वर्णव्यक्तीनां शुद्धानां पाठ्यत्वात् । सिद्धान्ते सर्वासामेव वर्णव्यक्तीनां विवृतत्वप्रतिज्ञायामपि "अअ" इतिसूत्रेण संवृतत्ववत् । शास्त्रान्तपाठेन च सर्वत्रासिद्धत्वलाभः । एवं चानुबन्धानामित्संज्ञालोपयोश्च त्यागाल्लाघवम् । तथा हि । शी धातौ ईकारः एव कलः पाठ्यः । कलादात्मनेपदम् । ध्मातात्कर्त्रभिप्राये । आद्यन्तौ कलध्मातौ इत्यादिकं तत्र तत्र पठनीयम् । इडानुगादयः कलध्माताश्च क्रमेण पाठ्याः । डुकृञ् इत्यत्र कृ इति द्विदोषं पाठ्यम् । अनुबन्धास्तु सर्वत्र हेयाः । आदिरन्त्येन सहेता इत्यत्र आदिकलौ सहेति वाच्यम् । कलेनेतिपाठे तु सिद्धान्ते चरमस्य णकारादेरिवात्राप्यन्त्यवर्णस्य संज्ञा न स्यात् । ढ्रलोप इत्यादौ अण इत्यस्य स्थाने अओरिति । असंदेहार्थोऽसन्धिः । सिद्ध्यत्येवम्, अपाणिनीयं तु भवति । अत्र सिद्धान्तवार्त्तिकम्---
आगमाश्च विकाराश्च प्रत्ययाः सह धातुभिः ।
उच्चार्यन्ते ततस्तेषु नेमे प्राप्ताः कलादयः ।।
जातिपरनिर्देशेऽपि शास्त्रे आगमादीनां विशिष्य पाठेन दोषनिवृत्तिरित्यर्थः । न चापठितेषु प्रातिपदिकेषु दोषः । त्वयाऽपि प्रतिपदपाठस्यावश्याश्रयणीयत्वात् । अन्यथा शशो, मञ्चकः, पलाशः, इत्यादौ षषो, मञ्चकः, पलाषः, इत्यादेः प्रसङ्गात् ।
ननु स्वरादिनिर्णयाय प्रतिपदपाठे दोषनिवृत्तिरपि ततोऽस्तु, उणादित्वात् पृषोदरादित्वाद्वा साधुत्वाभ्यनुज्ञानम्---विशेषावधारणं तु कोषादिना इत्युक्तौ तु दोषनिवृत्तिरपि शिक्षादेरस्तु इति चेत् । सत्यम् । दोषनिवृत्तेरानुषङ्गिकत्वात् । प्रत्याहारनिष्पत्तेरेव प्रयोजनत्वात् ।
ते च अणादयः । प्रतायहियन्ते संक्षिप्यन्ते वर्णा अत्रेतिव्युत्पत्तेः । न च ग्रहणकवाक्यादकारादिभिरष्यनेकेषामुपस्थापनादतिप्रसङ्गः । रूढेरेव नियामकत्वात् । भाष्यवार्त्तिकव्यवहारस्य च तत्र मानत्वात् । न च रूढ्यवच्छेदकाभावः । पङ्कजपदे पद्मत्वस्येवात्रापि आदिरन्त्येनेत्येतत्सूत्र विहितसंज्ञात्वस्य तथात्वात् । तेन सुप्तिङादिसाधारण्यम् ।
यदि तु तत्पदजन्यबोधप्रकारस्यैव रूढ्यवच्छेदकत्वमिति नियमःष शक्त्युपाधेः शाब्दविषयत्वनियमादिति ग्रन्थदर्शनात् । तदाऽस्तु प्रयोगोपाधिरेवोक्तधर्मः । तत्प्रयोगजन्ययोगार्थज्ञानविरोधिविरहप्रतियोगित्वस्य तथात्वात् । यद्वा---उक्तसंज्ञात्वमेव प्रत्याहारत्वम् । आदिरन्त्येनेतिसूत्रेण कृताः संज्ञाः प्रत्याहारशब्देन व्यवह्वियन्तइति दर्शनादिति सर्वं शिवम् ।।
इति श्रीकूर्माचलचक्रवर्त्तिगुरुणा विश्वेश्वरेण विरचिते सिद्धान्तसुधानिधौ प्रथमाध्यायस्य प्रथमे पादे प्रथममान्हिकम् ।।
********************---------------------