श्रीमद्भागवत महापुराण/स्कंध ०८/अध्यायः २२

विकिस्रोतः तः
Jump to navigation Jump to search
← श्रीमद्भागवत महापुराण/स्कंध ०८/अध्यायः २१ श्रीमद्भागवत महापुराण/स्कंध ०८/अध्यायः २२
[[लेखकः :|]]
श्रीमद्भागवत महापुराण/स्कंध ०८/अध्यायः २३ →



बलिवचनं ब्रह्मणो वचनं भगवकृतं बलेः प्रशसनं तस्मै वरदानं च -

श्रीशुक उवाच -
(अनुष्टुप्)
एवं विप्रकृतो राजन् बलिर्भगवतासुरः ।
 भिद्यमानोऽप्यभिन्नात्मा प्रत्याहाविक्लवं वचः ॥ १ ॥
 श्रीबलिरुवाच -
यद्युत्तमश्लोक भवान्ममेरितं
     वचो व्यलीकं सुरवर्य मन्यते ।
 करोम्यृतं तन्न भवेत्प्रलम्भनं
     पदं तृतीयं कुरु शीर्ष्णि मे निजम् ॥ २ ॥
 बिभेमि नाहं निरयात् पदच्युतो
     न पाशबन्धाद्व्यसनाद् दुरत्ययात् ।
 नैवार्थकृच्छ्राद्‍भवतो विनिग्रहाद्
     असाधुवादाद्‍भृशमुद्विजे यथा ॥ ३ ॥
(अनुष्टुप्)
पुंसां श्लाघ्यतमं मन्ये दण्डमर्हत्तमार्पितम् ।
 यं न माता पिता भ्राता सुहृदश्चादिशन्ति हि ॥ ४ ॥
 त्वं नूनमसुराणां नः परोक्षः परमो गुरुः ।
 यो नोऽनेकमदान्धानां विभ्रंशं चक्षुरादिशत् ॥ ५ ॥
 यस्मिन् वैरानुबन्धेन व्यूढेन विबुधेतराः ।
 बहवो लेभिरे सिद्धिं यामु हैकान्तयोगिनः ॥ ६ ॥
 तेनाहं निगृहीतोऽस्मि भवता भूरिकर्मणा ।
 बद्धश्च वारुणैः पाशैः नातिव्रीडे न च व्यथे ॥ ७ ॥
 पितामहो मे भवदीयसम्मतः
     प्रह्राद आविष्कृतसाधुवादः ।
 भवद्विपक्षेण विचित्रवैशसं
     संप्रापितस्त्वं परमः स्वपित्रा ॥ ८ ॥
 किमात्मनानेन जहाति योऽन्ततः
     किं रिक्थहारैः स्वजनाख्यदस्युभिः ।
 किं जायया संसृतिहेतुभूतया
     मर्त्यस्य गेहैः किमिहायुषो व्ययः ॥ ९ ॥
 इत्थं स निश्चित्य पितामहो महान्
     अगाधबोधो भवतः पादपद्मम् ।
 ध्रुवं प्रपेदे ह्यकुतोभयं जनाद्
     भीतः स्वपक्षक्षपणस्य सत्तम ॥ १० ॥
 अथाहमप्यात्मरिपोस्तवान्तिकं
     दैवेन नीतः प्रसभं त्याजितश्रीः ।
 इदं कृतान्तान्तिकवर्ति जीवितं
     ययाध्रुवं स्तब्धमतिर्न बुध्यते ॥ ११ ॥
 श्रीशुक उवाच -
(अनुष्टुप्)
तस्येत्थं भाषमाणस्य प्रह्रादो भगवत्प्रियः ।
 आजगाम कुरुश्रेष्ठ राकापतिरिवोत्थितः ॥ १२ ॥
 तमिन्द्रसेनः स्वपितामहं श्रिया
     विराजमानं नलिनायतेक्षणम् ।
 प्रांशुं पिशंगांबरमञ्जनत्विषं
     प्रलंबबाहुं शुभगर्षभमैक्षत ॥ १३ ॥
 तस्मै बलिर्वारुणपाशयन्त्रितः
     समर्हणं नोपजहार पूर्ववत् ।
 ननाम मूर्ध्नाश्रुविलोललोचनः
     सव्रीडनीचीनमुखो बभूव ह ॥ १४ ॥
 स तत्र हासीनमुदीक्ष्य सत्पतिं
     हरिं सुनन्दाद्यनुगैरुपासितम् ।
 उपेत्य भूमौ शिरसा महामना
     ननाम मूर्ध्ना पुलकाश्रुविक्लवः ॥ १५ ॥
 श्रीप्रह्राद उवाच -
त्वयैव दत्तं पदमैन्द्रमूर्जितं
     हृतं तदेवाद्य तथैव शोभनम् ।
 मन्ये महानस्य कृतो ह्यनुग्रहो
     विभ्रंशितो यच्छ्रिय आत्ममोहनात् ॥ १६ ॥
 यया हि विद्वानपि मुह्यते यतः
     तत् को विचष्टे गतिमात्मनो यथा ।
 तस्मै नमस्ते जगदीश्वराय वै
     नारायणायाखिललोकसाक्षिणे ॥ १७ ॥
 श्रीशुक उवाच -
(अनुष्टुप्)
तस्यानुश्रृवतो राजन् प्रह्रादस्य कृताञ्जलेः ।
 हिरण्यगर्भो भगवान् उवाच मधुसूदनम् ॥ १८ ॥
 बद्धं वीक्ष्य पतिं साध्वी तत्पत्‍नी भयविह्वला ।
 प्राञ्जलिः प्रणतोपेन्द्रं बभाषेऽवांमुखी नृप ॥ १९ ॥
 श्रीविन्ध्यावलिरुवाच -
क्रीडार्थमात्मन इदं त्रिजगत्कृतं ते
     स्वाम्यं तु तत्र कुधियोऽपर ईश कुर्युः ।
 कर्तुः प्रभोस्तव किमस्यत आवहन्ति
     त्यक्तह्रियस्त्वदवरोपितकर्तृवादाः ॥ २० ॥
 श्रीब्रह्मोवाच -
(अनुष्टुप्)
भूतभावन भूतेश देवदेव जगन्मय ।
 मुञ्चैनं हृतसर्वस्वं नायमर्हति निग्रहम् ॥ २१ ॥
 कृत्स्ना तेऽनेन दत्ता भूर्लोकाः कर्मार्जिताश्च ये ।
 निवेदितं च सर्वस्वं आत्माविक्लवया धिया ॥ २२ ॥
 यत्पादयोरशठधीः सलिलं प्रदाय
     दूर्वाङ्‌कुरैरपि विधाय सतीं सपर्याम् ।
 अप्युत्तमां गतिमसौ भजते त्रिलोकीं
     दाश्वानविक्लवमनाः कथमार्तिमृच्छेत् ॥ २३ ॥
 श्रीभगवानुवाच -
(अनुष्टुप्)
ब्रह्मन् यमनुगृह्णामि तद्विशो विधुनोम्यहम् ।
 यन्मदः पुरुषः स्तब्धो लोकं मां चावमन्यते ॥ २४ ॥
 यदा कदाचित् जीवात्मा संसरन्निजकर्मभिः ।
 नानायोनिष्वनीशोऽयं पौरुषीं गतिमाव्रजेत् ॥ २५ ॥
 जन्मकर्मवयोरूप विद्यैश्वर्यधनादिभिः ।
 यद्यस्य न भवेत् स्तंभः तत्रायं मदनुग्रहः ॥ २६ ॥
 मानस्तम्भनिमित्तानां जन्मादीनां समन्ततः ।
 सर्वश्रेयःप्रतीपानां हन्त मुह्येन्न मत्परः ॥ २७ ॥
 एष दानवदैत्यानामग्रनीः कीर्तिवर्धनः ।
 अजैषीदजयां मायां सीदन्नपि न मुह्यति ॥ २८ ॥
 क्षीणरिक्थश्च्युतः स्थानात्क्षिप्तो बद्धश्च शत्रुभिः ।
 ज्ञातिभिश्च परित्यक्तो यातनामनुयापितः ॥ २९ ॥
 गुरुणा भर्त्सितः शप्तो जहौ सत्यं न सुव्रतः ।
 छलैरुक्तो मया धर्मो नायं त्यजति सत्यवाक् ॥ ३० ॥
 एष मे प्रापितः स्थानं दुष्प्रापं अमरैरपि ।
 सावर्णेरन्तरस्यायं भवितेन्द्रो मदाश्रयः ॥ ३१ ॥
 तावत् सुतलमध्यास्तां विश्वकर्मविनिर्मितम् ।
 यदाधयो व्याधयश्च क्लमस्तन्द्रा पराभवः ।
 नोपसर्गा निवसतां सम्भवन्ति ममेक्षया ॥ ३२ ॥
 इन्द्रसेन महाराज याहि भो भद्रमस्तु ते ।
 सुतलं स्वर्गिभिः प्रार्थ्यं ज्ञातिभिः परिवारितः ॥ ३३ ॥
 न त्वां अभिभविष्यन्ति लोकेशाः किमुतापरे ।
 त्वत् शासनातिगान् दैत्यान् चक्रं मे सूदयिष्यति ॥ ३४ ॥
 रक्षिष्ये सर्वतोऽहं त्वां सानुगं सपरिच्छदम् ।
 सदा सन्निहितं वीर तत्र मां द्रक्ष्यते भवान् ॥ ३५ ॥
 तत्र दानवदैत्यानां संगात् ते भाव आसुरः ।
 दृष्ट्वा मदनुभावं वै सद्यः कुण्ठो विनंक्ष्यति ॥ ३६ ॥


इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां
अष्टमस्कन्धे वामनप्रादुर्भवे बलिवामनसंवादे द्वाविंशोऽध्यायः ॥ २२ ॥

 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥