श्रीमद्भागवत महापुराण/स्कंध ०८/अध्यायः २१

विकिस्रोतः तः
Jump to navigation Jump to search
← श्रीमद्भागवत महापुराण/स्कंध ०८/अध्यायः २० श्रीमद्भागवत महापुराण/स्कंध ०८/अध्यायः २१
[[लेखकः :|]]
श्रीमद्भागवत महापुराण/स्कंध ०८/अध्यायः २२ →



बलिबंधनं भगवतो वचनं च -


श्रीशुक उवाच -
सत्यं समीक्ष्याब्जभवो नखेन्दुभिः
     हतस्वधामद्युतिरावृतोऽभ्यगात् ।
 मरीचिमिश्रा ऋषयो बृहद्व्रताः
     सनन्दनाद्या नरदेव योगिनः ॥ १ ॥
 वेदोपवेदा नियमान्विता यमाः
     तर्केतिहासाङ्‌गपुराणसंहिताः ।
 ये चापरे योगसमीरदीपित
     ज्ञानाग्निना रन्धितकर्मकल्मषाः ॥ २ ॥
 ववन्दिरे यत्स्मरणानुभावतः
     स्वायम्भुवं धाम गता अकर्मकम् ॥ २५ ।
 अथाङ्‌घ्रये प्रोन्नमिताय विष्णोः
     उपाहरत्पद्मभवोऽर्हणोदकम् ।
 समर्च्य भक्त्याभ्यगृणाच्छुचिश्रवा
     यन्नाभिपङ्‌केरुहसम्भवः स्वयम् ॥ ३ ॥
 धातुः कमण्डलुजलं तदुरुक्रमस्य
     पादावनेजनपवित्रतया नरेन्द्र ।
 स्वर्धुन्यभून्नभसि सा पतती निमार्ष्टि
     लोकत्रयं भगवतो विशदेव कीर्तिः ॥ ४ ॥
(अनुष्टुप्)
ब्रह्मादयो लोकनाथाः स्वनाथाय समादृताः ।
 सानुगा बलिमाजह्रुः संक्षिप्तात्मविभूतये ॥ ५ ॥
 तोयैः समर्हणैः स्रग्भिः दिव्यगन्धानुलेपनैः ।
 धूपैर्दीपैः सुरभिभिः लाजाक्षतफलाङ्‌कुरैः ॥ ६ ॥
 स्तवनैर्जयशब्दैश्च तद्वीर्यमहिमांकितैः ।
 नृत्यवादित्रगीतैश्च शंखदुन्दुभिनिःस्वनैः ॥ ७ ॥
 जाम्बवान् ऋक्षराजस्तु भेरीशब्दैर्मनोजवः ।
 विजयं दिक्षु सर्वासु महोत्सवमघोषयत् ॥ ८ ॥
 महीं सर्वां हृतां दृष्ट्वा त्रिपदव्याजयाच्ञया ।
 ऊचुः स्वभर्तुरसुरा दीक्षितस्यात्यमर्षिताः ॥ ९ ॥
 न वा अयं ब्रह्मबन्धुः विष्णुर्मायाविनां वरः ।
 द्विजरूपप्रतिच्छन्नो देवकार्यं चिकीर्षति ॥ १० ॥
 अनेन याचमानेन शत्रुणा वटुरूपिणा ।
 सर्वस्वं नो हृतं भर्तुः न्यस्तदण्डस्य बर्हिषि ॥ ११ ॥
 सत्यव्रतस्य सततं दीक्षितस्य विशेषतः ।
 नानृतं भाषितुं शक्यं ब्रह्मण्यस्य दयावतः ॥ १२ ॥
 तस्मादस्य वधो धर्मो भर्तुः शुश्रूषणं च नः ।
 इत्यायुधानि जगृहुः बलेरनुचरासुराः ॥ १३ ॥
 ते सर्वे वामनं हन्तुं शूलपट्टिशपाणयः ।
 अनिच्छन्तो बले राजन् प्राद्रवन् जातमन्यवः ॥ १४ ॥
 तान् अभिद्रवतो दृष्ट्वा दितिजानीकपान् नृप ।
 प्रहस्यानुचरा विष्णोः प्रत्यषेधन्नुदायुधाः ॥ १५ ॥
 नन्दः सुनन्दोऽथ जयो विजयः प्रबलो बलः ।
 कुमुदः कुमुदाक्षश्च विष्वक्सेनः पतत्त्रिराट् ॥ १६ ॥
 जयन्तः श्रुतदेवश्च पुष्पदन्तोऽथ सात्वतः ।
 सर्वे नागायुतप्राणाः चमूं ते जघ्नुरासुरीम् ॥ १७ ॥
 हन्यमानान् स्वकान् दृष्ट्वा पुरुषानुचरैर्बलिः ।
 वारयामास संरब्धान् काव्यशापमनुस्मरन् ॥ १८ ॥
 हे विप्रचित्ते हे राहो हे नेमे श्रूयतां वचः ।
 मा युध्यत निवर्तध्वं न नः कालोऽयमर्थकृत् ॥ १९ ॥
 यः प्रभुः सर्वभूतानां सुखदुःखोपपत्तये ।
 तं नातिवर्तितुं दैत्याः पौरुषैरीश्वरः पुमान् ॥ २० ॥
 यो नो भवाय प्राग् आसीत् अभवाय दिवौकसाम् ।
 स एव भगवान् अद्य वर्तते तद्विपर्ययम् ॥ २१ ॥
 बलेन सचिवैर्बुद्ध्या दुर्गैर्मन्त्रौषधादिभिः ।
 सामादिभिरुपायैश्च कालं नात्येति वै जनः ॥ २२ ॥
 भवद्‌भिः निर्जिता ह्येते बहुशोऽनुचरा हरेः ।
 दैवेनर्द्धैस्त एवाद्य युधि जित्वा नदन्ति नः ॥ २३ ॥
 एतान्वयं विजेष्यामो यदि दैवं प्रसीदति ।
 तस्मात्कालं प्रतीक्षध्वं यो नोऽर्थत्वाय कल्पते ॥ २४ ॥
 श्रीशुक उवाच -
पत्युर्निगदितं श्रुत्वा दैत्यदानवयूथपाः ।
 रसां निर्विविशू राजन् विष्णुपार्षद ताडिताः ॥ २५ ॥
 अथ तार्क्ष्यसुतो ज्ञात्वा विराट् प्रभुचिकीर्षितम् ।
 बबन्ध वारुणैः पाशैः बलिं सूत्येऽहनि क्रतौ ॥ २६ ॥
 हाहाकारो महान् आसीत् रोदस्योः सर्वतो दिशम् ।
 निगृह्यमाणेऽसुरपतौ विष्णुना प्रभविष्णुना ॥ २७ ॥
 तं बद्धं वारुणैः पाशैः भगवान् आह वामनः ।
 नष्टश्रियं स्थिरप्रज्ञः उदारयशसं नृप ॥ २८ ॥
 पदानि त्रीणि दत्तानि भूमेर्मह्यं त्वयासुर ।
 द्वाभ्यां क्रान्ता मही सर्वा तृतीयं उपकल्पय ॥ २९ ॥
 यावत्तपत्यसौ गोभिः यावदिन्दुः सहोडुभिः ।
 यावद्वर्षति पर्जन्यः तावती भूरियं तव ॥ ३० ॥
 पदैकेन मयाक्रान्तो भूर्लोकः खं दिशस्तनोः ।
 स्वर्लोकस्ते द्वितीयेन पश्यतस्ते स्वमात्मना ॥ ३१ ॥
 प्रतिश्रुतमदातुस्ते निरये वास इष्यते ।
 विश त्वं निरयं तस्माद् गुरुणा चानुमोदितः ॥ ३२ ॥
 वृथा मनोरथस्तस्य दूरः स्वर्गः पतत्यधः ।
 प्रतिश्रुतस्यादानेन योऽर्थिनं विप्रलंभते ॥ ३३ ॥
 विप्रलब्धो ददामीति त्वयाहं चाढ्यमानिना ।
 तद्व्यलीकफलं भुङ्‌क्ष्व निरयं कतिचित्समाः ॥ ३४ ॥


इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां
अष्टमस्कन्धे बलिनिग्रहो नाम एकविंशोऽध्यायः ॥ २१ ॥

 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥