श्रीमद्भागवत महापुराण/स्कंध ०८/अध्यायः १४

विकिस्रोतः तः
← श्रीमद्भागवत महापुराण/स्कंध ०८/अध्यायः १३ श्रीमद्भागवत महापुराण/स्कंध ०८/अध्यायः १४
[[लेखकः :|]]
श्रीमद्भागवत महापुराण/स्कंध ०८/अध्यायः १५ →


मन्वादीनां पृथक् पृथक् कर्मनिरूपणम् -



श्रीराजोवाच -
(अनुष्टुप्)
मन्वन्तरेषु भगवन् यथा मन्वादयस्त्विमे ।
 यस्मिन्कर्मणि ये येन नियुक्ताः तद् वदस्व मे ॥ १ ॥
 श्रीऋषिरुवाच -
मनवो मनुपुत्राश्च मुनयश्च महीपते ।
 इन्द्राः सुरगणाश्चैव सर्वे पुरुषशासनाः ॥ २ ॥
 यज्ञादयो याः कथिताः पौरुष्यस्तनवो नृप ।
 मन्वादयो जगद् यात्रां नयन्त्याभिः प्रचोदिताः ॥ ३ ॥
 चतुर्युगान्ते कालेन ग्रस्तान् श्रुतिगणान्यथा ।
 तपसा ऋषयोऽपश्यन् यतो धर्मः सनातनः ॥ ४ ॥
 ततो धर्मं चतुष्पादं मनवो हरिणोदिताः ।
 युक्ताः सञ्चारयन्ति अद्धा स्वे स्वे काले महीं नृप ॥ ५ ॥
 पालयन्ति प्रजापाला यावदन्तं विभागशः ।
 यज्ञभागभुजो देवा ये च तत्र अन्विताश्च तैः ॥ ६ ॥
 इन्द्रो भगवता दत्तां त्रैलोक्यश्रियमूर्जिताम् ।
 भुञ्जानः पाति लोकान् त्रीन् कामं लोके प्रवर्षति ॥ ७ ॥
 ज्ञानं चानुयुगं ब्रूते हरिः सिद्धस्वरूपधृक् ।
 ऋषिरूपधरः कर्म योगं योगेशरूपधृक् ॥ ८ ॥
 सर्गं प्रजेशरूपेण दस्यून् हन्यात् स्वराड्वपुः ।
 कालरूपेण सर्वेषां अभावाय पृथग्गुणः ॥ ९ ॥
 स्तूयमानो जनैरेभिः मायया नामरूपया ।
 विमोहितात्मभिर्नाना दर्शनैर्न च दृश्यते ॥ १० ॥
 एतत्कल्पविकल्पस्य प्रमाणं परिकीर्तितम् ।
 यत्र मन्वन्तराण्याहुः चतुर्दश पुराविदः ॥ ११ ॥


इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां
अष्टमस्कन्धे चतुर्दशोऽध्यायः ॥ १४ ॥

 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥