श्रीमद्भागवत महापुराण/स्कंध ०८/अध्यायः १३

विकिस्रोतः तः
← श्रीमद्भागवत महापुराण/स्कंध ०८/अध्यायः १२ श्रीमद्भागवत महापुराण/स्कंध ०८/अध्यायः १३
[[लेखकः :|]]
श्रीमद्भागवत महापुराण/स्कंध ०८/अध्यायः १४ →


भविष्यन्मन्वन्तर सप्तकवर्णनम् -


श्रीशुक उवाच -
(अनुष्टुप्)
मनुर्विवस्वतः पुत्रः श्राद्धदेव इति श्रुतः ।
 सप्तमो वर्तमानो यः तद् अपत्यानि मे श्रृणु ॥ १ ॥
 इक्ष्वाकुर्नभगश्चैव धृष्टः शर्यातिरेव च ।
 नरिष्यन्तोऽथ नाभागः सप्तमो दिष्ट उच्यते ॥ २ ॥
 करूषश्च पृषध्रश्च दशमो वसुमान्स्मृतः ।
 मनोर्वैवस्वतस्यैते दशपुत्राः परन्तप ॥ ३ ॥
 आदित्या वसवो रुद्रा विश्वेदेवा मरुद्‍गणाः ।
 अश्विनावृभवो राजन् इंद्रस्तेषां पुरंदरः ॥ ४ ॥
 कश्यपोऽत्रिर्वसिष्ठश्च विश्वामित्रोऽथ गौतमः ।
 जमदग्निर्भरद्वाज इति सप्तर्षयः स्मृताः ॥ ५ ॥
 अत्रापि भगवत् जन्म कश्यपाद् अदितेरभूत् ।
 आदित्यानामवरजो विष्णुर्वामनरूपधृक् ॥ ६ ॥
 संक्षेपतो मयोक्तानि सप्तमन्वन्तराणि ते ।
 भविष्याण्यथ वक्ष्यामि विष्णोः शक्त्यान्वितानि च ॥ ७ ॥
 विवस्वतश्च द्वे जाये विश्वकर्मसुते उभे ।
 संज्ञा छाया च राजेन्द्र ये प्राग् अभिहिते तव ॥ ८ ॥
 तृतीयां वडवामेके तासां संज्ञासुतास्त्रयः ।
 यमो यमी श्राद्धदेवः छायायाश्च सुतान् श्रृणु ॥ ९ ॥
 सावर्णिस्तपती कन्या भार्या संवरणस्य या ।
 शनैश्चरस्तृतीयोऽभूद् अश्विनौ वडवात्मजौ ॥ १० ॥
 अष्टमेऽन्तर आयाते सावर्णिर्भविता मनुः ।
 निर्मोकविरजस्काद्याः सावर्णितनया नृप ॥ ११ ॥
 तत्र देवाः सुतपसो विरजा अमृतप्रभाः ।
 तेषां विरोचनसुतो बलिरिन्द्रो भविष्यति ॥ १२ ॥
 दत्त्वेमां याचमानाय विष्णवे यः पदत्रयम् ।
 राद्धं इंद्रपदं हित्वा ततः सिद्धिं अवाप्स्यति ॥ १३ ॥
 योऽसौ भगवता बद्धः प्रीतेन सुतले पुनः ।
 निवेशितोऽधिके स्वर्गाद् अधुनास्ते स्वराडिव ॥ १४ ॥
 गालवो दीप्तिमान् रामो द्रोणपुत्रः कृपस्तथा ।
 ऋष्यश्रृंगः पितास्माकं भगवान् बादरायणः ॥ १५ ॥
 इमे सप्तर्षयस्तत्र भविष्यन्ति स्वयोगतः ।
 इदानीं आसते राजन् स्वे स्वे आश्रममण्डले ॥ १६ ॥
 देवगुह्यात्सरस्वत्यां सार्वभौम इति प्रभुः ।
 स्थानं पुरन्दराद् हृत्वा बलये दास्यतीश्वरः ॥ १७ ॥
 नवमो दक्षसावर्णिः मनुर्वरुणसम्भवः ।
 भूतकेतुर्दीप्तकेतुः इत्याद्यास्तत्सुता नृप ॥ १८ ॥
 पारा मरीचिगर्भाद्या देवा इन्द्रोऽद्‍भुतः स्मृतः ।
 द्युतिमत् प्रमुखास्तत्र भविष्यन्ति ऋषयस्ततः ॥ १९ ॥
 आयुष्मतोऽम्बुधारायां ऋषभो भगवत्कला ।
 भविता येन संराद्धां त्रिलोकीं भोक्ष्यतेऽद्‍भुतः ॥ २० ॥
 दशमो ब्रह्मसावर्णिः उपश्लोकसुतो मनुः ।
 तत्सुता भूरिषेणाद्या हविष्मत्प्रमुखा द्विजाः ॥ २१ ॥
 हविष्मान्सुकृतः सत्यो जयो मूर्तिस्तदा द्विजाः ।
 सुवासनविरुद्धाद्या देवाः शम्भुः सुरेश्वरः ॥ २२ ॥
 विष्वक्सेनो विषूच्यां तु शम्भोः सख्यं करिष्यति ।
 जातः स्वांशेन भगवान् गृहे विश्वसृजो विभुः ॥ २३ ॥
 मनुर्वै धर्मसावर्णिः एकादशम आत्मवान् ।
 अनागतास्तत्सुताश्च सत्यधर्मादयो दश ॥ २४ ॥
 विहंगमाः कामगमा निर्वाणरुचयः सुराः ।
 इन्द्रश्च वैधृतस्तेषां ऋषयश्चारुणादयः ॥ २५ ॥
 आर्यकस्य सुतस्तत्र धर्मसेतुरिति स्मृतः ।
 वैधृतायां हरेरंशः त्रिलोकीं धारयिष्यति ॥ २६ ॥
 भविता रुद्रसावर्णी राजन् स्वादशमो मनुः ।
 देववान् उपदेवश्च देवश्रेष्ठादयः सुताः ॥ २७ ॥
 ऋतधामा च तत्रेन्द्रो देवाश्च हरितादयः ।
 ऋषयश्च तपोमूर्तिः तपस्व्याग्नीध्रकादयः ॥ २८ ॥
 स्वधामाख्यो हरेरंशः साधयिष्यति तन्मनोः ।
 अन्तरं सत्यसहसः सुनृतायाः सुतो विभुः ॥ २९ ॥
 मनुस्त्रयोदशो भाव्यो देवसावर्णिरात्मवान् ।
 चित्रसेनविचित्राद्या देवसावर्णिदेहजाः ॥ ३० ॥
 देवाः सुकर्मसुत्राम संज्ञा इन्द्रो दिवस्पतिः ।
 निर्मोकतत्त्वदर्शाद्या भविष्यन्ति ऋषयस्तदा ॥ ३१ ॥
 देवहोत्रस्य तनय उपहर्ता दिवस्पतेः ।
 योगेश्वरो हरेरंशो बृहत्यां संभविष्यति ॥ ३२ ॥
 मनुर्वा इन्द्रसावर्णिः चतुर्दशम एष्यति ।
 उरुगम्भीरबुधाद्या इन्द्रसावर्णिवीर्यजाः ॥ ३३ ॥
 पवित्राश्चाक्षुषा देवाः शुचिरिन्द्रो भविष्यति ।
 अग्निर्बाहुः शुचिः शुद्धो मागधाद्यास्तपस्विनः ॥ ३४ ॥
 सत्रायणस्य तनयो बृहद्‍भानुस्तदा हरिः ।
 वितानायां महाराज क्रियातन्तून्वितायिता ॥ ३५ ॥
 राजन् चतुर्दशैतानि त्रिकालानुगतानि ते ।
 प्रोक्तान्येभिर्मितः कल्पो युगसाहस्रपर्ययः ॥ ३६ ॥


इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां
अष्टमस्कन्धे मन्वन्तरानुवर्णनं नाम त्रयोदशोऽध्यायः ॥ १३ ॥

 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥