श्रीमद्भागवत महापुराण/स्कंध ०८/अध्यायः ०१

विकिस्रोतः तः
Jump to navigation Jump to search
← श्रीमद्भागवत महापुराण/स्कंध ०७/अध्यायः १५ श्रीमद्भागवत महापुराण/स्कंध ०८/अध्यायः ०१
[[लेखकः :|]]
श्रीमद्भागवत महापुराण/स्कंध ०८/अध्यायः ०२ →




स्वायंभुवादि मन्वन्तरचतुष्टयवर्णनं यज्ञावतारचरितं च -


     


श्रीराजोवाच -
(अनुष्टुप्)
स्वायम्भुवस्य इह गुरो वंशोऽयं विस्तरात् श्रुतः ।
 यत्र विश्वसृजां सर्गो मनून् अन्यान् वदस्व नः ॥ १ ॥
 यत्र यत्र हरेर्जन्म कर्माणि च महीयसः ।
 गृणंति कवयो ब्रह्मन् तानि नो वद श्रृण्वताम् ॥ २ ॥
 यत् यस्मिन् अंतरे ब्रह्मन् भगवान् विश्वभावनः ।
 कृतवान् कुरुते कर्ता हि अतीते अनागतेऽद्य वा ॥ ३ ॥
 श्रीऋषिरुवाच -
मनवोऽस्मिन् व्यतीताः षट् कल्पे स्वायम्भुवादयः ।
 आद्यस्ते कथितो यत्र देवादीनां च सम्भवः ॥ ४ ॥
 आकूत्यां देवहूत्यां च दुहित्रोः तस्य वै मनोः ।
 धर्मज्ञानोपदेशार्थं भगवान् पुत्रतां गतः ॥ ५ ॥
 कृतं पुरा भगवतः कपिलस्य अनुवर्णितम् ।
 आख्यास्ये भगवान् यज्ञः यच्चकार कुरूद्वह ॥ ६ ॥
 विरक्तः कामभोगेषु शतरूपापतिः प्रभुः ।
 विसृज्य राज्यं तपसे सभार्यो वनमाविशत् ॥ ७ ॥
 सुनंदायां वर्षशतं पदैकेन भुवं स्पृशन् ।
 तप्यमानः तपो घोरं इदं अन्वाह भारत ॥ ८ ॥
 श्रीमनुरुवाच -
येन चेतयते विश्वं विश्वं चेतयते न यम् ।
 यो जागर्ति शयानेऽस्मिन् नायं तं वेद वेद सः ॥ ९ ॥
 आत्मावास्यं इदं विश्वं यत् किञ्चित् जगत्यां जगत् ।
 तेन त्यक्तेन भुञ्जीथा मा गृधः कस्य स्विद् धनम् ॥ १० ॥
 यं पश्यति न पश्यंतं चक्षुर्यस्य न रिष्यति ।
 तं भूतनिलयं देवं सुपर्णं उपधावत ॥ ११ ॥
 न यस्यादि अन्तौ मध्यं च स्वः परो नान्तरं बहिः ।
 विश्वस्य अमूनि यत् यस्मात् विश्वं च तत् ऋतं महत् ॥ १२ ॥
 स विश्वकायः पुरुहूत ईशः
     सत्यः स्वयंज्योतिः अजः पुराणः ।
 धत्तेऽस्य जन्माद्यजयाऽऽआत्मशक्त्या
     तां विद्यया उदस्य निरीह आस्ते ॥ १३ ॥
 अथाग्रे ऋषयः कर्माणि ईहन्ते अकर्महेतवे ।
 ईहमानो हि पुरुषः प्रायः अनीहां प्रपद्यते ॥ १४ ॥
 ईहते भगवान् ईशो न हि तत्र विषज्जते ।
 आत्मलाभेन पूर्णार्थो न अवसीदन्ति ये अनु तम् ॥ १५ ॥
 तमीहमानं निरहंकृतं बुधं
     निराशिषं पूर्णं अनन्यचोदितम् ।
 नॄन् शिक्षयंतं निजवर्त्मसंस्थितं
     प्रभुं प्रपद्येऽखिलधर्मभावनम् ॥ १६ ॥
 श्रीशुक उवाच -
(अनुष्टुप्)
इति मंत्रोपनिषदं व्याहरन्तं समाहितम् ।
 दृष्ट्वासुरा यातुधाना जग्धुं अभ्यद्रवन् क्षुधा ॥ १७ ॥
 तान् तथा अवसितान् वीक्ष्य यज्ञः सर्वगतो हरिः ।
 यामैः परिवृतो देवैः हत्वा अशासत् त्रिविष्टपम् ॥ १८ ॥
 स्वारोचिषो द्वितीयस्तु मनुः अग्नेः सुतो अभवत् ।
 द्युमत् सुषेण रोचिष्मत् प्रमुखाः तस्य च आत्मजाः ॥ १९ ॥
 तत्र इन्द्रो रोचनः त्वासीत् देवाश्च तुषितादयः ।
 ऊर्जस्तम्भ आदयः सप्त ऋषयो ब्रह्मवादिनः ॥ २० ॥
 ऋषेस्तु वेदशिरसः तुषिता नाम पत्‍न्यभूत् ।
 तस्यां जज्ञे ततो देवः विभुः इति अभिविश्रुतः ॥ २१ ॥
 अष्टाशीति सहस्राणि मुनयो ये धृतव्रताः ।
 अन्वशिक्षन् व्रतं तस्य कौमार ब्रह्मचारिणः ॥ २२ ॥
 तृतीय उत्तमो नाम प्रियव्रत सुतो मनुः ।
 पवनः सृञ्जयो यज्ञ-होत्राद्याः तत्सुता नृप ॥ २३ ॥
 वसिष्ठतनयाः सप्त ऋषयः प्रमदादयः ।
 सत्या वेदश्रुता भद्रा देवा इंद्रस्तु सत्यजित् ॥ २४ ॥
 धर्मस्य सूनृतायां तु भगवान् पुरुषोत्तमः ।
 सत्यसेन इति ख्यातो जातः सत्यव्रतैः सह ॥ २५ ॥
 सो अनृतव्रत दुःशीलान् असतो यक्षराक्षसान् ।
 भूतद्रुहो भूतगणांस्तु अवधीत् सत्यजित्सखः ॥ २६ ॥
 चतुर्थ उत्तमभ्राता मनुर्नाम्ना च तामसः ।
 पृथुः ख्यातिः नरः केतुः इत्याद्या दश तत्सुताः ॥ २७ ॥
 सत्यका हरयो वीरा देवाः त्रिशिख ईश्वरः ।
 ज्योतिर्धामादयः सप्त ऋषयः तामसेऽन्तरे ॥ २८ ॥
 देवा वैधृतयो नाम विधृतेः तनया नृप ।
 नष्टाः कालेन यैर्वेदा विधृताः स्वेन तेजसा ॥ २९ ॥
 तत्रापि जज्ञे भगवान् हरिण्यां हरिमेधसः ।
 हरिरित्याहृतो येन गजेंद्रो मोचितो ग्रहात् ॥ ३० ॥
 श्रीराजोवाच -
बादरायण एतत् ते श्रोतुं इच्छामहे वयम् ।
 हरिर्यथा गजपतिं ग्राह ग्रस्तं अमूमुचत् ॥ ३१ ॥
 तत्कथा सुमहत् पुण्यं धन्यं स्वस्त्ययनं शुभम् ।
 यत्र यत्र उत्तमश्लोको भगवान् गीयते हरिः ॥ ३२ ॥
 श्रीसूत उवाच -
परीक्षितैवं स तु बादरायणिः
     प्रायोपविष्टेन कथासु चोदितः ।
 उवाच विप्राः प्रतिनन्द्य पार्थिवं
     मुदा मुनीनां सदसि स्म श्रृण्वताम् ॥ ३३ ॥


इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां
अष्टमस्कन्धे मन्वन्तरानुचरिते प्रथमोध्याऽयः ॥ १ ॥

 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥