श्रीमद्भागवत महापुराण/स्कंध ०७/अध्यायः १३

विकिस्रोतः तः
Jump to navigation Jump to search
← श्रीमद्भागवत महापुराण/स्कंध ०७/अध्यायः १२ श्रीमद्भागवत महापुराण/स्कंध ०७/अध्यायः १३
[[लेखकः :|]]
श्रीमद्भागवत महापुराण/स्कंध ०७/अध्यायः १४ →



संन्यासधर्मवर्णनम्, अवधूतप्रह्रादसंवादश्च -


नारद उवाच -
(अनुष्टुप्)
कल्पस्त्वेवं परिव्रज्य देहमात्रावशेषितः ।
 ग्रामैकरात्रविधिना निरपेक्षश्चरेन्महीम् ॥ १ ॥
 बिभृयाद् यद्यसौ वासः कौपीनाच्छादनं परम् ।
 त्यक्तं न दण्डलिंगादेः अन्यत् किञ्चिदनापदि ॥ २ ॥
 एक एव चरेद्‌भिक्षुः आत्मारामोऽनपाश्रयः ।
 सर्वभूतसुहृच्छान्तो नारायणपरायणः ॥ ३ ॥
 पश्येदात्मन्यदो विश्वं परे सदसतोऽव्यये ।
 आत्मानं च परं ब्रह्म सर्वत्र सदसन्मये ॥ ४ ॥
 सुप्तिप्रबोधयोः सन्धौ आत्मनो गतिमात्मदृक् ।
 पश्यन्बन्धं च मोक्षं च मायामात्रं न वस्तुतः ॥ ५ ॥
 नाभिनन्देद्ध्रुवं मृत्युं अध्रुवं वास्य जीवितम् ।
 कालं परं प्रतीक्षेत भूतानां प्रभवाप्ययम् ॥ ६ ॥
 नासच्छास्त्रेषु सज्जेत नोपजीवेत जीविकाम् ।
 वादवादान् त्यजेत् तर्कान् पक्षं कंच न संश्रयेत् ॥ ७ ॥
 न शिष्याननुबध्नीत ग्रन्थान्नैवाभ्यसेन् बहून् ।
 न व्याख्यामुपयुञ्जीत नारम्भानारभेत्क्वचित् ॥ ८ ॥
 न यतेराश्रमः प्रायो धर्महेतुर्महात्मनः ।
 शान्तस्य समचित्तस्य बिभृयाद् उत वा त्यजेत् ॥ ९ ॥
 अव्यक्तलिङ्‌गो व्यक्तार्थो मनीषि उन्मत्तबालवत् ।
 कविर्मूकवदात्मानं स दृष्ट्या दर्शयेन् नृणाम् ॥ १० ॥
 अत्रापि उदाहरन्ति इमं इतिहासं पुरातनम् ।
 प्रह्रादस्य च संवादं मुनेराजगरस्य च ॥ ११ ॥
 तं शयानं धरोपस्थे कावेर्यां सह्यसानुनि ।
 रजस्वलैस्तनूदेशैः निगूढामलतेजसम् ॥ १२ ॥
 ददर्श लोकान् विचरन् लोकतत्त्वविवित्सया ।
 वृतोऽमात्यैः कतिपयैः प्रह्रादो भगवत्प्रियः ॥ १३ ॥
 कर्मणाऽऽकृतिभिर्वाचा लिङ्‌गैर्वर्णाश्रमादिभिः ।
 न विदन्ति जना यं वै सोऽसाविति न वेति च ॥ १४ ॥
 तं नत्वाभ्यर्च्य विधिवत् पादयोः शिरसा स्पृशन् ।
 विवित्सुरिदमप्राक्षीन् महाभागवतोऽसुरः ॥ १५ ॥
 बिभर्षि कायं पीवानं सोद्यमो भोगवान्यथा ।
 वित्तं चैवोद्यमवतां भोगो वित्तवतामिह ।
 भोगिनां खलु देहोऽयं पीवा भवति नान्यथा ॥ १६ ॥
 न ते शयानस्य निरुद्यमस्य
     ब्रह्मन्नु हार्थो यत एव भोगः ।
 अभोगिनोऽयं तव विप्र देहः
     पीवा यतस्तद्वद नः क्षमं चेत् ॥ १७ ॥
 कविः कल्पो निपुणदृक्चित्रप्रियकथः समः ।
 लोकस्य कुर्वतः कर्म शेषे तद्वीक्षितापि वा ॥ १८ ॥
 नारद उवाच -
(अनुष्टुप्)
स इत्थं दैत्यपतिना परिपृष्टो महामुनिः ।
 स्मयमानः तमभ्याह तद् वाग् अमृतयन्त्रितः ॥ १९ ॥
 ब्राह्मण उवाच -
वेदेदमसुरश्रेष्ठ भवान्नन्वार्यसम्मतः ।
 ईहोपरमयोर्नॄणां पदान्यध्यात्मचक्षुषा ॥ २० ॥
 यस्य नारायणो देवो भगवान् हृद्‍गतः सदा ।
 भक्त्या केवलयाज्ञानं धुनोति ध्वान्तमर्कवत् ॥ २१ ॥
 तथापि ब्रूमहे प्रश्नान् तव राजन्यथाश्रुतम् ।
 सम्भाषणीयो हि भवान् आत्मनः शुद्धिमिच्छता ॥ २२ ॥
 तृष्णया भववाहिन्या योग्यैः कामैरपूर्यया ।
 कर्माणि कार्यमाणोऽहं नानायोनिषु योजितः ॥ २३ ॥
 यदृच्छया लोकमिमं प्रापितः कर्मभिर्भ्रमन् ।
 स्वर्गापवर्गयोर्द्वारं तिरश्चां पुनरस्य च ॥ २४ ॥
 तत्रापि दम्पतीनां च सुखायान्यापनुत्तये ।
 कर्माणि कुर्वतां दृष्ट्वा निवृत्तोऽस्मि विपर्ययम् ॥ २५ ॥
 सुखमस्यात्मनो रूपं सर्वेहोपरतिस्तनुः ।
 मनःसंस्पर्शजान् दृष्ट्वा भोगान् स्वप्स्यामि संविशन् ॥ २६ ॥
 इत्येतदात्मनः स्वार्थं सन्तं विस्मृत्य वै पुमान् ।
 विचित्रामसति द्वैते घोरामाप्नोति संसृतिम् ॥ २७ ॥
 जलं तदुद्‍भवैश्छन्नं हित्वाज्ञो जलकाम्यया ।
 मृगतृष्णामुपाधावेत् यथान्यत्रार्थदृक्स्वतः ॥ २८ ॥
 देहादिभिर्दैवतन्त्रैः आत्मनः सुखमीहतः ।
 दुःखात्ययं चानीशस्य क्रिया मोघाः कृताः कृताः ॥ २९ ॥
 आध्यात्मिकादिभिर्दुःखैः अविमुक्तस्य कर्हिचित् ।
 मर्त्यस्य कृच्छ्रोपनतैः अर्थैः कामैः क्रियेत किम् ॥ ३० ॥
 पश्यामि धनिनां क्लेशं लुब्धानां अजितात्मनाम् ।
 भयाद् अलब्धनिद्राणां सर्वतोऽभिविशङ्‌किनाम् ॥ ३१ ॥
 राजतश्चौरतः शत्रोः स्वजनात्पशुपक्षितः ।
 अर्थिभ्यः कालतः स्वस्मान् नित्यं प्राणार्थवद्‍भयम् ॥ ३२ ॥
 शोकमोहभयक्रोध रागक्लैब्यश्रमादयः ।
 यन्मूलाः स्युर्नृणां जह्यात् स्पृहां प्राणार्थयोर्बुधः ॥ ३३ ॥
 मधुकारमहासर्पौ लोकेऽस्मिन् नो गुरूत्तमौ ।
 वैराग्यं परितोषं च प्राप्ता यच्छिक्षया वयम् ॥ ३४ ॥
 विरागः सर्वकामेभ्यः शिक्षितो मे मधुव्रतात् ।
 कृच्छ्राप्तं मधुवद् वित्तं हत्वाप्यन्यो हरेत्पतिम् ॥ ३५ ॥
 अनीहः परितुष्टात्मा यदृच्छोपनतादहम् ।
 नो चेच्छये बह्वहानि महाहिरिव सत्त्ववान् ॥ ३६ ॥
 क्वचिदल्पं क्वचिद् भूरि भुञ्जेऽन्नं स्वाद्वस्वादु वा ।
 क्वचिद्‍भूरि गुणोपेतं गुणहीनमुत क्वचित् ॥ ३७ ॥
 श्रद्धयोपाहृतं क्वापि कदाचिन्मानवर्जितम् ।
 भुञ्जे भुक्त्वाथ कस्मिंश्चित् दिवा नक्तं यदृच्छया ॥ ३८ ॥
 क्षौमं दुकूलमजिनं चीरं वल्कलमेव वा ।
 वसेऽन्यदपि सम्प्राप्तं दिष्टभुक्तुष्टधीरहम् ॥ ३९ ॥
 क्वचिच्छये धरोपस्थे तृणपर्णाश्मभस्मसु ।
 क्वचित्प्रासादपर्यङ्‌के कशिपौ वा परेच्छया ॥ ४० ॥
 क्वचित्स्नातोऽनुलिप्ताङ्‌गघ्गः सुवासाः स्रग्व्यलङ्‌कृतः ।
 रथेभाश्वैश्चरे क्वापि दिग्वासा ग्रहवद् विभो ॥ ४१ ॥
 नाहं निन्दे न च स्तौमि स्वभावविषमं जनम् ।
 एतेषां श्रेय आशासे उतैकात्म्यं महात्मनि ॥ ४२ ॥
 विकल्पं जुहुयाच्चित्तौ तां मनस्यर्थविभ्रमे ।
 मनो वैकारिके हुत्वा तं मायायां जुहोत्यनु ॥ ४३ ॥
 आत्मानुभूतौ तां मायां जुहुयात् सत्यदृङ्‌मुनिः ।
 ततो निरीहो विरमेत् स्वानुभूत्यात्मनि स्थितः ॥ ४४ ॥
 स्वात्मवृत्तं मयेत्थं ते सुगुप्तमपि वर्णितम् ।
 व्यपेतं लोकशास्त्राभ्यां भवान्हि भगवत्परः ॥ ४५ ॥
 नारद उवाच -
धर्मं पारमहंस्यं वै मुनेः श्रुत्वासुरेश्वरः ।
 पूजयित्वा ततः प्रीत आमन्त्र्य प्रययौ गृहम् ॥ ४६ ॥


इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां
सप्तमस्कन्धे युधिष्ठिरनारदसंवादे यतिधर्मे त्रयोदशोऽध्यायः ॥ १३ ॥

 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥