सामग्री पर जाएँ

श्रीमद्भागवत महापुराण/स्कंध ०६/अध्यायः १६

विकिस्रोतः तः
← श्रीमद्भागवत महापुराण/स्कंध ०६/अध्यायः १५ श्रीमद्भागवत महापुराण/स्कंध ०६/अध्यायः १६
[[लेखकः :|]]
श्रीमद्भागवत महापुराण/स्कंध ०६/अध्यायः १७ →



राजपुत्रदेहवियुक्तस्य जीवात्मन उक्तिः, चित्रकेतवे नारदकर्तृकं संकर्षण
मंत्रप्रदानं तज्जपेन विद्याधरत्व प्राप्तिर्भगवतो अनन्तस्य दर्शनं च -


श्रीशुक उवाच -
अथ देवऋषी राजन् संपरेतं नृपात्मजम् ।
 दर्शयित्वेति होवाच ज्ञातीनां अनुशोचताम् ॥ १ ॥
 श्रीनारद उवाच -
जीवात्मन् पश्य भद्रं ते मातरं पितरं च ते ।
 सुहृदो बान्धवास्तप्ताः शुचा त्वत्कृतया भृशम् ॥ २ ॥
 कलेवरं स्वमाविश्य शेषमायुः सुहृद्‌वृतः ।
 भुङ्‌क्ष्व भोगान् पितृप्रत्तान् अधितिष्ठ नृपासनम् ॥ ३ ॥
 जीव उवाच -
कस्मिन् जन्मन्यमी मह्यं पितरो मातरोऽभवन् ।
 कर्मभिर्भ्राम्यमाणस्य देवतिर्यङ्‌नृयोनिषु ॥ ४ ॥
 बन्धुज्ञात्यरिमध्यस्थ मित्रोदासीनविद्विषः ।
 सर्व एव हि सर्वेषां भवन्ति क्रमशो मिथः ॥ ५ ॥
 यथा वस्तूनि पण्यानि हेमादीनि ततस्ततः ।
 पर्यटन्ति नरेष्वेवं जीवो योनिषु कर्तृषु ॥ ६ ॥
 नित्यस्यार्थस्य सम्बन्धो ह्यनित्यो दृश्यते नृषु ।
 यावद्यस्य हि सम्बन्धो ममत्वं तावदेव हि ॥ ७ ॥
 एवं योनिगतो जीवः स नित्यो निरहङ्‌कृतः ।
 यावद् यत्रोपलभ्येत तावत् स्वत्वं हि तस्य तत् ॥ ८ ॥
 एष नित्योऽव्ययः सूक्ष्म एष सर्वाश्रयः स्वदृक् ।
 आत्ममायागुणैर्विश्वं आत्मानं सृजते प्रभुः ॥ ९ ॥
 न ह्यस्यास्ति प्रियः कश्चित् नाप्रियः स्वः परोऽपि वा ।
 एकः सर्वधियां द्रष्टा कर्तॄणां गुणदोषयोः ॥ १० ॥
 नादत्त आत्मा हि गुणं न दोषं न क्रियाफलम् ।
 उदासीनवदासीनः परावरदृगीश्वरः ॥ ११ ॥
 श्रीशुक उवाच -
इत्युदीर्य गतो जीवो ज्ञातयस्तस्य ते तदा ।
 विस्मिता मुमुचुः शोकं छित्त्वात्म स्नेहश्रृङ्‌खलाम् ॥ १२ ॥
 निर्हृत्य ज्ञातयो ज्ञातेः देहं कृत्वोचिताः क्रियाः ।
 तत्यजुर्दुस्त्यजं स्नेहं शोकमोहभयार्तिदम् ॥ १३ ॥
 बालघ्न्यो व्रीडितास्तत्र बालहत्याहतप्रभाः ।
 बालहत्याव्रतं चेरुः ब्राह्मणैः यन्निरूपितम् ।
 यमुनायां महाराज स्मरन्त्यो द्विजभाषितम् ॥ १४ ॥
 स इत्थं प्रतिबुद्धात्मा चित्रकेतुर्द्विजोक्तिभिः ।
 गृहान्धकूपान् निष्क्रान्तः सरःपङ्‌कादिव द्विपः ॥ १५ ॥
 कालिन्द्यां विधिवत् स्नात्वा कृतपुण्यजलक्रियः ।
 मौनेन संयतप्राणो ब्रह्मपुत्राववन्दत ॥ १६ ॥
 अथ तस्मै प्रपन्नाय भक्ताय प्रयतात्मने ।
 भगवान् नारदः प्रीतो विद्यामेतामुवाच ह ॥ १७ ॥
 ॐ नमस्तुभ्यं भगवते वासुदेवाय धीमहि ।
 प्रद्युम्नायानिरुद्धाय नमः सङ्‌कर्षणाय च ॥ १८ ॥
 नमो विज्ञानमात्राय परमानन्दमूर्तये ।
 आत्मारामाय शान्ताय निवृत्तद्वैतदृष्टये ॥ १९ ॥
 आत्मानन्दानुभूत्यैव न्यस्तशक्त्यूर्मये नमः ।
 हृषीकेशाय महते नमस्ते विश्वमूर्तये ॥ २० ॥
 वचस्युपरतेऽप्राप्य य एको मनसा सह ।
 अनामरूपश्चिन्मात्रः सोऽव्यान्नः सदसत्परः ॥ २१ ॥
 यस्मिन्निदं यतश्चेदं तिष्ठत्यप्येति जायते ।
 मृण्मयेष्विव मृज्जातिः तस्मै ते ब्रह्मणे नमः ॥ २२ ॥
 यन्न स्पृशन्ति न विदुः मनोबुद्धीन्द्रियासवः ।
 अन्तर्बहिश्च विततं व्योमवत् तन्नतोऽस्म्यहम् ॥ २३ ॥
 देहेन्द्रियप्राणमनोधियोऽमी
     यदंशविद्धाः प्रचरन्ति कर्मसु ।
 नैवान्यदा लौहमिवाप्रतप्तं
     स्थानेषु तद्द्रष्ट्रपदेशमेति ॥ २४ ॥
 ॐ नमो भगवते महापुरुषाय महानुभावाय
 महाविभूतिपतये सकलसात्वत परिवृढनिकर
 करकमल कुड्मलोपलालित
 चरणारविन्दयुगल परमपरमेष्ठिन् नमस्ते ॥ २५ ॥
 श्रीशुक उवाच -
भक्तायैतां प्रपन्नाय विद्यामादिश्य नारदः ।
 ययावङ्‌गिरसा साकं धाम स्वायम्भुवं प्रभो ॥ २६ ॥
 चित्रकेतुस्तु विद्यां तां यथा नारदभाषिताम् ।
 धारयामास सप्ताहं अब्भक्षः सुसमाहितः ॥ २७ ॥
 ततः स सप्तरात्रान्ते विद्यया धार्यमाणया ।
 विद्याधराधिपत्यं च लेभेऽप्रतिहतं नृप ॥ २८ ॥
 ततः कतिपयाहोभिः विद्ययेद्धमनोगतिः ।
 जगाम देवदेवस्य शेषस्य चरणान्तिकम् ॥ २९ ॥
 मृणालगौरं शितिवाससं स्फुरत्
     किरीटकेयूरकटित्रकङ्‌कणम् ।
 प्रसन्नवक्त्रारुणलोचनं वृतं
     ददर्श सिद्धेश्वरमण्डलैः प्रभुम् ॥ ३० ॥
 तद्दर्शनध्वस्तसमस्तकिल्बिषः
     स्वस्थामलान्तःकरणोऽभ्ययान्मुनिः ।
 प्रवृद्धभक्त्या प्रणयाश्रुलोचनः
     प्रहृष्टरोमानमदादिपुरुषम् ॥ ३१ ॥
 स उत्तमश्लोकपदाब्जविष्टरं
     प्रेमाश्रुलेशैरुपमेहयन्मुहुः ।
 प्रेमोपरुद्धाखिलवर्णनिर्गमो
     नैवाशकत्तं प्रसमीडितुं चिरम् ॥ ३२ ॥
 ततः समाधाय मनो मनीषया
     बभाष एतत्प्रतिलब्धवागसौ ।
 नियम्य सर्वेन्द्रियबाह्यवर्तनं
     जगद्‍गुरुं सात्वतशास्त्रविग्रहम् ॥ ३३ ॥
 चित्रकेतुरुवाच -
अजित जितः सममतिभिः
     साधुभिर्भवान् जितात्मभिर्भवता ।
 विजितास्तेऽपि च भजतां
     अकामात्मनां य आत्मदोऽतिकरुणः ॥ ३४ ॥
 तव विभवः खलु भगवन्
     जगदुदयस्थितिलयादीनि ।
 विश्वसृजस्तेंऽशांशास्तत्र
     मृषा स्पर्धन्ति पृथगभिमत्या ॥ ३५ ॥
 परमाणुपरममहतोः
     त्वमाद्यन्तान्तरवर्ती त्रयविधुरः ।
 आदावन्तेऽपि च सत्त्वानां
     यद्ध्रुवं तदेवान्तरालेऽपि ॥ ३६ ॥
 क्षित्यादिभिरेष किलावृतः
     सप्तभिर्दशगुणोत्तरैरण्डकोशः ।
 यत्र पतत्यणुकल्पः
     सहाण्डकोटिकोटिभिस्तदनन्तः ॥ ३७ ॥
 विषयतृषो नरपशवो
     य उपासते विभूतीर्न परं त्वाम् ।
 तेषामाशिष ईश तदनु
     विनश्यन्ति यथा राजकुलम् ॥ ३८ ॥
 कामधियस्त्वयि रचिता
     न परम रोहन्ति यथा करम्भबीजानि ।
 ज्ञानात्मन्यगुणमये
     गुणगणतोऽस्य द्वन्द्वजालानि ॥ ३९ ॥
 जितमजित तदा भवता
     यदाह भागवतं धर्ममनवद्यम् ।
 निष्किञ्चना ये मुनय
     आत्मारामा यमुपासतेऽपवर्गाय ॥ ४० ॥
 विषममतिर्न यत्र नृणां
     त्वमहमिति मम तवेति च यदन्यत्र ।
 विषमधिया रचितो यः
     स ह्यविशुद्धः क्षयिष्णुरधर्मबहुलः ॥ ४१ ॥
 कः क्षेमो निजपरयोः
     कियान्वार्थः स्वपरद्रुहा धर्मेण ।
 स्वद्रोहात्तव कोपः
     परसम्पीडया च तथाधर्मः ॥ ४२ ॥
 न व्यभिचरति तवेक्षा
     यया ह्यभिहितो भागवतो धर्मः ।
 स्थिरचरसत्त्वकदम्बेष्व
     पृथग्धियो यमुपासते त्वार्याः ॥ ४३ ॥
 न हि भगवन्नघटितमिदं
     त्वद्दर्शनान् नृणामखिलपापक्षयः ।
 यन्नाम सकृच्छ्रवणात्
     पुल्कसकोऽपि विमुच्यते संसारात् ॥ ४४ ॥
 अथ भगवन् वयमधुना
     त्वदवलोकपरिमृष्टाशयमलाः ।
 सुरऋषिणा यदुदितं
     तावकेन कथमन्यथा भवति ॥ ४५ ॥
 विदितमनन्त समस्तं
     तव जगदात्मनो जनैरिहाचरितम् ।
 विज्ञाप्यं परमगुरोः
     कियदिव सवितुरिव खद्योतैः ॥ ४६ ॥
 नमस्तुभ्यं भगवते
     सकलजगत्स्थितिलयोदयेशाय ।
 दुरवसितात्मगतये
     कुयोगिनां भिदा परमहंसाय ॥ ४७ ॥
 यं वै श्वसन्तमनु विश्वसृजः श्वसन्ति
     यं चेकितानमनु चित्तय उच्चकन्ति ।
 भूमण्डलं सर्षपायति यस्य मूर्ध्नि
     तस्मै नमो भगवतेऽस्तु सहस्रमूर्ध्ने ॥ ४८ ॥
 श्रीशुक उवाच -
संस्तुतो भगवान् एवं अनन्तस्तमभाषत ।
 विद्याधरपतिं प्रीतः चित्रकेतुं कुरूद्वह ॥ ४९ ॥
 श्रीभगवान् उवाच -
यन्नारदाङ्‌गिरोभ्यां ते व्याहृतं मेऽनुशासनम् ।
 संसिद्धोऽसि तया राजन् विद्यया दर्शनाच्च मे ॥ ५० ॥
 अहं वै सर्वभूतानि भूतात्मा भूतभावनः ।
 शब्दब्रह्म परं ब्रह्म ममोभे शाश्वती तनू ॥ ५१ ॥
 लोके विततमात्मानं लोकं चात्मनि सन्ततम् ।
 उभयं च मया व्याप्तं मयि चैवोभयं कृतम् ॥ ५२ ॥
 यथा सुषुप्तः पुरुषो विश्वं पश्यति चात्मनि ।
 आत्मानमेकदेशस्थं मन्यते स्वप्न उत्थितः ॥ ५३ ॥
 एवं जागरणादीनि जीवस्थानानि चात्मनः ।
 मायामात्राणि विज्ञाय तद्द्रष्टारं परं स्मरेत् ॥ ५४ ॥
 येन प्रसुप्तः पुरुषः स्वापं वेदात्मनस्तदा ।
 सुखं च निर्गुणं ब्रह्म तमात्मानमवेहि माम् ॥ ५५ ॥
 उभयं स्मरतः पुंसः प्रस्वापप्रतिबोधयोः ।
 अन्वेति व्यतिरिच्येत तज्ज्ञानं ब्रह्म तत्परम् ॥ ५६ ॥
 यदेतद् विस्मृतं पुंसो मद्‍भावं भिन्नमात्मनः ।
 ततः संसार एतस्य देहाद्देहो मृतेर्मृतिः ॥ ५७ ॥
 लब्ध्वेह मानुषीं योनिं ज्ञानविज्ञानसम्भवाम् ।
 आत्मानं यो न बुद्ध्येत न क्वचिन् शममाप्नुयात् ॥ ५८ ॥
 स्मृत्वेहायां परिक्लेशं ततः फलविपर्ययम् ।
 अभयं चाप्यनीहायां सङ्‌कल्पाद् विरमेत्कविः ॥ ५९ ॥
 सुखाय दुःखमोक्षाय कुर्वाते दम्पती क्रियाः ।
 ततोऽनिवृत्तिः अप्राप्तिः दुखस्य च सुखस्य च ॥ ६० ॥
 एवं विपर्ययं बुद्ध्वा नृणां विज्ञाभिमानिनाम् ।
 आत्मनश्च गतिं सूक्ष्मां स्थानत्रयविलक्षणाम् ॥ ६१ ॥
 दृष्टश्रुताभिर्मात्राभिः निर्मुक्तः स्वेन तेजसा ।
 ज्ञानविज्ञानसन्तृप्तो मद्‍भक्तः पुरुषो भवेत् ॥ ६२ ॥
 एतावानेव मनुजैः योगनैपुण्यबुद्धिभिः ।
 स्वार्थः सर्वात्मना ज्ञेयो यत्परात्मैकदर्शनम् ॥ ६३ ॥
 त्वमेतच्छ्रद्धया राजन् अप्रमत्तो वचो मम ।
 ज्ञानविज्ञानसम्पन्नो धारयन्नाशु सिध्यसि ॥ ६४ ॥
 श्रीशुक उवाच -
आश्वास्य भगवानित्थं चित्रकेतुं जगद्‍गुरुः ।
 पश्यतस्तस्य विश्वात्मा ततश्चान्तर्दधे हरिः ॥ ६५ ॥


इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां
षष्ठस्कन्धे चित्रकेतोः परमात्मदर्शनं नाम षोडशोऽध्या‍यः ॥ १६ ॥

 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥