श्रीमद्भागवत महापुराण/स्कंध ०४/अध्यायः ३१

विकिस्रोतः तः
Jump to navigation Jump to search
← श्रीमद्भागवत महापुराण/स्कंध ०४/अध्यायः ३० श्रीमद्भागवत महापुराण/स्कंध ०४/अध्यायः ३१
[[लेखकः :|]]
श्रीमद्भागवत महापुराण/स्कंध ०५/अध्यायः ०१ →




गृहात्प्रव्रजितानां प्रचेतसां नारदोपदेशान्मुक्तिः -


मैत्रेय उवाच -
(अनुष्टुप्)
तत उत्पन्नविज्ञाना आश्वधोक्षजभाषितम् ।
 स्मरन्त आत्मजे भार्यां विसृज्य प्राव्रजन् गृहात् ॥ १ ॥
 दीक्षिता ब्रह्मसत्रेण सर्वभूतात्ममेधसा ।
 प्रतीच्यां दिशि वेलायां सिद्धोऽभूद् यत्र जाजलिः ॥ २ ॥
 तान्निर्जितप्राणमनोवचोदृशो
     जितासनान् शान्तसमानविग्रहान् ।
 परेऽमले ब्रह्मणि योजितात्मनः
     सुरासुरेड्यो ददृशे स्म नारदः ॥ ३ ॥
(अनुष्टुप्)
तमागतं त उत्थाय प्रणिपत्याभिनन्द्य च ।
 पूजयित्वा यथादेशं सुखासीनं अथाब्रुवन् ॥ ४ ॥
 प्रचेतस ऊचुः -
स्वागतं ते सुरर्षेऽद्य दिष्ट्या नो दर्शनं गतः ।
 तव चङ्‌क्रमणं ब्रह्मन् अभयाय यथा रवेः ॥ ५ ॥
 यदादिष्टं भगवता शिवेनाधोक्षजेन च ।
 तद्‍गृहेषु प्रसक्तानां प्रायशः क्षपितं प्रभो ॥ ॥ ६ ॥
 तन्नः प्रद्योतयाध्यात्म ज्ञानं तत्त्वार्थदर्शनम् ।
 येनाञ्जसा तरिष्यामो दुस्तरं भवसागरम् ॥ ७ ॥
 मैत्रेय उवाच -
इति प्रचेतसां पृष्टो भगवान् नारदो मुनिः ।
 भगवति उत्तमश्लोक आविष्टात्माब्रवीन् नृपान् ॥ ८ ॥
 नारद उवाच -
तज्जन्म तानि कर्माणि तदायुस्तन्मनो वचः ।
 नृणां येन हि विश्वात्मा सेव्यते हरिरीश्वरः ॥ ९ ॥
 किं जन्मभिः त्रिभिर्वेह शौक्रसावित्रयाज्ञिकैः ।
 कर्मभिर्वा त्रयीप्रोक्तैः पुंसोऽपि विबुधायुषा ॥ १० ॥
 श्रुतेन तपसा वा किं वचोभिश्चित्तवृत्तिभिः ।
 बुद्ध्या वा किं निपुणया बलेनेन्द्रियराधसा ॥ ११ ॥
 किं वा योगेन साङ्‌ख्येन न्यासस्वाध्याययोरपि ।
 किं वा श्रेयोभिरन्यैश्च न यत्रात्मप्रदो हरिः ॥ १२ ॥
 श्रेयसामपि सर्वेषां आत्मा ह्यवधिरर्थतः ।
 सर्वेषामपि भूतानां हरिरात्माऽऽत्मदः प्रियः ॥ १३ ॥
 यथा तरोर्मूलनिषेचनेन
     तृप्यन्ति तत्स्कन्धभुजोपशाखाः ।
 प्राणोपहाराच्च यथेन्द्रियाणां
     तथैव सर्वार्हणमच्युतेज्या ॥ १४ ॥
 यथैव सूर्यात्प्रभवन्ति वारः
     पुनश्च तस्मिन् प्रविशन्ति काले ।
 भूतानि भूमौ स्थिरजङ्‌गमानि
     तथा हरावेव गुणप्रवाहः ॥ १५ ॥
 एतत्पदं तज्जगदात्मनः परं
     सकृद्विभातं सवितुर्यथा प्रभा ।
 यथासवो जाग्रति सुप्तशक्तयो
     द्रव्यक्रियाज्ञानभिदाभ्रमात्ययः ॥ १६ ॥
 यथा नभस्यभ्रतमःप्रकाशा
     भवन्ति भूपा न भवन्त्यनुक्रमात् ।
 एवं परे ब्रह्मणि शक्तयस्त्वमू
     रजस्तमः सत्त्वमिति प्रवाहः ॥ १७ ॥
 तेनैकमात्मानमशेषदेहिनां
     कालं प्रधानं पुरुषं परेशम् ।
 स्वतेजसा ध्वस्तगुणप्रवाहं
     आत्मैकभावेन भजध्वमद्धा ॥ १८ ॥
(अनुष्टुप्)
दयया सर्वभूतेषु सन्तुष्ट्या येन केन वा ।
 सर्वेन्द्रियोपशान्त्या च तुष्यत्याशु जनार्दनः ॥ १९ ॥
 अपहतसकलैषणामलात्मनि
     अविरतमेधितभावनोपहूतः ।
 निजजनवशगत्वमात्मनोऽयन्
     न सरति छिद्रवदक्षरः सतां हि ॥ २० ॥
 न भजति कुमनीषिणां स इज्यां
     हरिरधनात्मधनप्रियो रसज्ञः ।
 श्रुतधनकुलकर्मणां मदैर्ये
     विदधति पापमकिञ्चनेषु सत्सु ॥ २१ ॥
 श्रियमनुचरतीं तदर्थिनश्च
     द्विपदपतीन् विबुधांश्च यत्स्वपूर्णः ।
 न भजति निजभृत्यवर्गतन्त्रः
     कथममुमुद्विसृजेत्पुमान् कृतज्ञः ॥ २२ ॥
 मैत्रेय उवाच -
(अनुष्टुप्)
इति प्रचेतसो राजन् अन्याश्च भगवत्कथाः ।
 श्रावयित्वा ब्रह्मलोकं ययौ स्वायम्भुवो मुनिः ॥ २३ ॥
 तेऽपि तन्मुखनिर्यातं यशो लोकमलापहम् ।
 हरेर्निशम्य तत्पादं ध्यायन्तस्तद्‍गतिं ययुः ॥ २४ ॥
 एतत्तेऽभिहितं क्षत्तः यन्मां त्वं परिपृष्टवान् ।
 प्रचेतसां नारदस्य संवादं हरिकीर्तनम् ॥ २५ ॥
 श्रीशुक उवाच -
य एष उत्तानपदो मानवस्यानुवर्णितः ।
 वंशः प्रियव्रतस्यापि निबोध नृपसत्तम ॥ २६ ॥
 यो नारदादात् आविद्यां अधिगम्य पुनर्महीम् ।
 भुक्त्वा विभज्य पुत्रेभ्य ऐश्वरं समगात्पदम् ॥ २७ ॥
 इमां तु कौषारविणोपवर्णितां
     क्षत्ता निशम्याजितवादसत्कथाम् ।
 प्रवृद्धभावोऽश्रुकलाकुलो मुनेः
     दधार मूर्ध्ना चरणं हृदा हरेः ॥ २८ ॥
 विदुर उवाच -
(अनुष्टुप्)
सोऽयमद्य महायोगिन् भवता करुणात्मना ।
 दर्शितस्तमसः पारो यत्राकिञ्चनगो हरिः ॥ २९ ॥
 श्रीशुक उवाच -
इत्यानम्य तमामन्त्र्य विदुरो गजसाह्वयम् ।
 स्वानां दिदृक्षुः प्रययौ ज्ञातीनां निर्वृताशयः ॥ ३० ॥
 एतद् यः शृणुयाद् राजन् राज्ञां हर्यर्पितात्मनाम् ।
 आयुर्धनं यशः स्वस्ति गतिमैश्वर्यमाप्नुयात् ॥ ३१ ॥


इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां
चतुर्थस्कन्धे प्रचेतौपाख्यानं नाम एकयस्त्रिंशोऽध्यायः ॥ ३१ ॥

 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥