श्रीमद्भागवत महापुराण/स्कंध ०३/अध्यायः २५

विकिस्रोतः तः
Jump to navigation Jump to search
← श्रीमद्भागवत महापुराण/स्कंध ०३/अध्यायः २४ श्रीमद्भागवत महापुराण/स्कंध ०३/अध्यायः २५
[[लेखकः :|]]
श्रीमद्भागवत महापुराण/स्कंध ०३/अध्यायः २६ →



देवहूतिकपिलसंवादः, कपिलद्वारा भक्तियोगनिरूपणं च -

शौनक उवाच ।
 कपिलस्तत्त्वसङ्ख्याता भगवान् आत्ममायया ।
 जातः स्वयमजः साक्षाद् आत्मप्रज्ञप्तये नृणाम् ॥ १ ॥
 न ह्यस्य वर्ष्मणः पुंसां वरिम्णः सर्वयोगिनाम् ।
 विश्रुतौ श्रुतदेवस्य भूरि तृप्यन्ति मेऽसवः ॥ २ ॥
 यद् यद् विधत्ते भगवान् स्वच्छन्दात्मात्ममायया ।
 तानि मे श्रद्दधानस्य कीर्तन्यान्यनुकीर्तय ॥ ३ ॥
 सूत उवाच -
द्वैपायनसखस्त्वेवं मैत्रेयो भगवांस्तथा ।
 प्राहेदं विदुरं प्रीत आन्वीक्षिक्यां प्रचोदितः ॥ ४ ॥
 मैत्रेय उवाच -
पितरि प्रस्थितेऽरण्यं मातुः प्रियचिकीर्षया ।
 तस्मिन् बिन्दुसरेऽवात्सीत् भगवान् कपिलः किल ॥ ५ ॥
 तमासीनमकर्माणं तत्त्वमार्गाग्रदर्शनम् ।
 स्वसुतं देवहूत्याह धातुः संस्मरती वचः ॥ ६ ॥
 देवहूतिरुवाच ।
 निर्विण्णा नितरां भूमन् असत् इन्द्रियतर्षणात् ।
 येन सम्भाव्यमानेन प्रपन्नान्धं तमः प्रभो ॥ ७ ॥
 तस्य त्वं तमसोऽन्धस्य दुष्पारस्याद्य पारगम् ।
 सच्चक्षुर्जन्मनामन्ते लब्धं मे त्वदनुग्रहात् ॥ ८ ॥
 य आद्यो भगवान् पुंसां ईश्वरो वै भवान्किल ।
 लोकस्य तमसान्धस्य चक्षुः सूर्य इवोदितः ॥ ९ ॥
 अथ मे देव सम्मोहं अपाक्रष्टुं त्वमर्हसि ।
 योऽवग्रहोऽहं मम इति इति एतस्मिन् योजितस्त्वया ॥ १० ॥
 तं त्वा गताहं शरणं शरण्यं
     स्वभृत्यसंसारतरोः कुठारम् ।
 जिज्ञासयाहं प्रकृतेः पूरुषस्य
     नमामि सद्धर्मविदां वरिष्ठम् ॥ ११ ॥
 मैत्रेय उवाच -
इति स्वमातुर्निरवद्यमीप्सितं
     निशम्य पुंसां अपवर्गवर्धनम् ।
 धियाभिनन्द्यात्मवतां सतां गतिः
     बभाष ईषत् स्मितशोभिताननः ॥ १२ ॥
 श्रीभगवानुवाच -
योग आध्यात्मिकः पुंसां मतो निःश्रेयसाय मे ।
 अत्यन्तोपरतिर्यत्र दुःखस्य च सुखस्य च ॥ १३ ॥
 तमिमं ते प्रवक्ष्यामि यं अवोचं पुरानघे ।
 ऋषीणां श्रोतुकामानां योगं सर्वाङ्गनैपुणम् ॥ १४ ॥
 चेतः खल्वस्य बन्धाय मुक्तये चात्मनो मतम् ।
 गुणेषु सक्तं बन्धाय रतं वा पुंसि मुक्तये ॥ १५ ॥
 अहं ममाभिमानोत्थैः कामलोभादिभिर्मलैः ।
 वीतं यदा मनः शुद्धं अदुःखं असुखं समम् ॥ १६ ॥
 तदा पुरुष आत्मानं केवलं प्रकृतेः परम् ।
 निरन्तरं स्वयंज्योतिः अणिमानं अखण्डितम् ॥ १७ ॥
 ज्ञानवैराग्ययुक्तेन भक्तियुक्तेन चात्मना ।
 परिपश्यति उदासीनं प्रकृतिं च हतौजसम् ॥ १८ ॥
 न युज्यमानया भक्त्या भगवति अखिलात्मनि ।
 सदृशोऽस्ति शिवः पन्था योगिनां ब्रह्मसिद्धये ॥ १९ ॥
 प्रसङ्गमजरं पाशं आत्मनः कवयो विदुः ।
 स एव साधुषु कृतो मोक्षद्वारं अपावृतम् ॥ २० ॥
 तितिक्षवः कारुणिकाः सुहृदः सर्वदेहिनाम् ।
 अजातशत्रवः शान्ताः साधवः साधुभूषणाः ॥ २१ ॥
 मय्यनन्येन भावेन भक्तिं कुर्वन्ति ये दृढाम् ।
 मत्कृते त्यक्तकर्माणः त्यक्तस्वजनबान्धवाः ॥ २२ ॥
 मदाश्रयाः कथा मृष्टाः शृण्वन्ति कथयन्ति च ।
 तपन्ति विविधास्तापा नैतान् मद्‍गतचेतसः ॥ २३ ॥
 ते एते साधवः साध्वि सर्वसङ्गविवर्जिताः ।
 सङ्गस्तेष्वथ ते प्रार्थ्यः सङ्गदोषहरा हि ते ॥ २४ ॥
 सतां प्रसङ्गान् मम वीर्यसंविदो
     भवन्ति हृत्कर्णरसायनाः कथाः ।
 तज्जोषणादाश्वपवर्गवर्त्मनि
     श्रद्धा रतिर्भक्तिरनुक्रमिष्यति ॥ २५ ॥
 भक्त्या पुमान्जातविराग ऐन्द्रियाद्
     दृष्टश्रुतान् मद्रचनानुचिन्तया ।
 चित्तस्य यत्तो ग्रहणे योगयुक्तो
     यतिष्यते ऋजुभिर्योगमार्गैः ॥ २६ ॥
 असेवयायं प्रकृतेर्गुणानां
     ज्ञानेन वैराग्यविजृम्भितेन ।
 योगेन मय्यर्पितया च भक्त्या
     मां प्रत्यगात्मानमिहावरुन्धे ॥ २७ ॥
 देवहूतिरुवाच ।
 काचित् त्वय्युचिता भक्तिः कीदृशी मम गोचरा ।
 यया पदं ते निर्वाणं अञ्जसा अन्वाश्नवै अहम् ॥ २८ ॥
 यो योगो भगवद्‍बाणो निर्वाणात्मंस्त्वयोदितः ।
 कीदृशः कति चाङ्गानि यतस्तत्त्वावबोधनम् ॥ २९ ॥
 तद् एतन्मे विजानीहि यथाहं मन्दधीर्हरे ।
 सुखं बुद्ध्येय दुर्बोधं योषा भवदनुग्रहात् ॥ ३० ॥
 मैत्रेय उवाच ।
 विदित्वार्थं कपिलो मातुरित्थं
     जातस्नेहो यत्र तन्वाभिजातः ।
 तत्त्वाम्नायं यत्प्रवदन्ति साङ्ख्यं
     प्रोवाच वै भक्तिवितानयोगम् ॥ ३१ ॥
 श्रीभगवानुवाच -
देवानां गुणलिङ्गानां आनुश्रविककर्मणाम् ।
 सत्त्व एवैकमनसो वृत्तिः स्वाभाविकी तु या ॥ ३२ ॥
 अनिमित्ता भागवती भक्तिः सिद्धेर्गरीयसी ।
 जरयत्याशु या कोशं निगीर्णमनलो यथा ॥ ३३ ॥
 नैकात्मतां मे स्पृहयन्ति केचिन्
     मत्पादसेवाभिरता मदीहाः ।
 येऽन्योन्यतो भागवताः प्रसज्य
     सभाजयन्ते मम पौरुषाणि ॥ ३४ ॥
 पश्यन्ति ते मे रुचिराण्यम्ब सन्तः
     प्रसन्नवक्त्रारुणलोचनानि ।
 रूपाणि दिव्यानि वरप्रदानि
     साकं वाचं स्पृहणीयां वदन्ति ॥ ३५ ॥
 तैर्दर्शनीयावयवैरुदार
     विलासहासेक्षितवामसूक्तैः ।
 हृतात्मनो हृतप्राणांश्च भक्तिः
     अनिच्छतो मे गतिमण्वीं प्रयुङ्क्ते ॥ ३६ ॥
 अथो विभूतिं मम मायाविनस्तां
     ऐश्वर्यमष्टाङ्गमनुप्रवृत्तम् ।
 श्रियं भागवतीं वास्पृहयन्ति भद्रां
     परस्य मे तेऽश्नुवते तु लोके ॥ ३७ ॥
 न कर्हिचिन्मत्पराः शान्तरूपे
     नङ्क्ष्यन्ति नो मेऽनिमिषो लेढि हेतिः ।
 येषामहं प्रिय आत्मा सुतश्च
     सखा गुरुः सुहृदो दैवमिष्टम् ॥ ३८ ॥
 इमं लोकं तथैव अमुं आत्मानं उभयायिनम् ।
 आत्मानं अनु ये चेह ये रायः पशवो गृहाः ॥ ३९ ॥
 विसृज्य सर्वान् अन्यांश्च मामेवं विश्वतोमुखम् ।
 भजन्ति अनन्यया भक्त्या तान्मृत्योरतिपारये ॥ ४० ॥
 नान्यत्र मद्‍भगवतः प्रधानपुरुषेश्वरात् ।
 आत्मनः सर्वभूतानां भयं तीव्रं निवर्तते ॥ ४१ ॥
 मद्‍भयाद् वाति वातोऽयं सूर्यस्तपति मद्‍भयात् ।
 वर्षतीन्द्रो दहत्यग्निः मृत्युश्चरति मद्‍भयात् ॥ ४२ ॥
 ज्ञानवैराग्ययुक्तेन भक्तियोगेन योगिनः ।
 क्षेमाय पादमूलं मे प्रविशन्ति अकुतोभयम् ॥ ४३ ॥
 एतावान् एव लोकेऽस्मिन् पुंसां निःश्रेयसोदयः ।
 तीव्रेण भक्तियोगेन मनो मय्यर्पितं स्थिरम् ॥ ४४ ॥


इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां
तृतीयस्कन्धे पञ्चविंशोऽध्यायः ॥ २५ ॥

 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥