श्रीमद्भागवत महापुराण/स्कंध ०३/अध्यायः १७

विकिस्रोतः तः
← श्रीमद्भागवत महापुराण/स्कंध ०३/अध्यायः १६ श्रीमद्भागवत महापुराण/स्कंध ०३/अध्यायः १७
[[लेखकः :|]]
श्रीमद्भागवत महापुराण/स्कंध ०३/अध्यायः १८ →


हिरण्याक्षहिरण्यकशिप्वोर्जन्म, तदानीमुत्पातदर्शनम्, हिरण्याक्षदिग्विजयश्च -

मैत्रेय उवाच -
निशम्यात्मभुवा गीतं कारणं शङ्‌कयोज्झिताः ।
 ततः सर्वे न्यवर्तन्त त्रिदिवाय दिवौकसः ॥ १ ॥
 दितिस्तु भर्तुरादेशाद् अपत्यपरिशङ्‌किनी ।
 पूर्णे वर्षशते साध्वी पुत्रौ प्रसुषुवे यमौ ॥ २ ॥
 उत्पाता बहवस्तत्र निपेतुर्जायमानयोः ।
 दिवि भुव्यन्तरिक्षे च लोकस्य उरु भयावहाः ॥ ३ ॥
 सहाचला भुवश्चेलुः दिशः सर्वाः प्रजज्वलुः ।
 स उल्काश्च अशनयः पेतुः, केतवश्चार्तिहेतवः ॥ ४ ॥
 ववौ वायुः सुदुःस्पर्शः फूत्कारानीरयन्मुहुः ।
 उन्मूलयन् नगपतीन् वात्यानीको रजोध्वजः ॥ ५ ॥
 उद्धसत् तडिदम्भोद घटया नष्टभागणे ।
 व्योम्नि प्रविष्टतमसा न स्म व्यादृश्यते पदम् ॥ ६ ॥
 चुक्रोश विमना वार्धिरुदूर्मिः क्षुभितोदरः ।
 सोदपानाश्च सरितः चुक्षुभुः शुष्कपङ्‌कजाः ॥ ७ ॥
 मुहुः परिधयोऽभूवन् सराह्वोः शशिसूर्ययोः ।
 निर्घाता रथनिर्ह्रादा विवरेभ्यः प्रजज्ञिरे ॥ ८ ॥
 अन्तर्ग्रामेषु मुखतो वमन्त्यो वह्निमुल्बणम् ।
 सृगाल उलूक टङ्‌कारैः प्रणेदुः अशिवं शिवाः ॥ ९ ॥
 सङ्‌गीतवद् रोदनवद् उन्नमय्य शिरोधराम् ।
 व्यमुञ्चन् विविधा वाचो ग्रामसिंहाः ततस्ततः ॥ १० ॥
 खराश्च कर्कशैः क्षत्तः खुरैर्घ्नन्तो धरातलम् ।
 खार्कार रभसा मत्ताः पर्यधावन् वरूथशः ॥ ११ ॥
 रुदन्तो रासभत्रस्ता नीडाद् उदपतन्खगाः ।
 घोषेऽरण्ये च पशवः शकृन् मूत्रमकुर्वत ॥ १२ ॥
 गावः अत्रसन् असृग्दोहाः तोयदाः पूयवर्षिणः ।
 व्यरुदन् देवलिङ्‌गानि द्रुमाः पेतुर्विनानिलम् ॥ १३ ॥
 ग्रहान् पुण्यतमानन्ये भगणांश्चापि दीपिताः ।
 अतिचेरुः वक्रगत्या युयुधुश्च परस्परम् ॥ १४ ॥
 दृष्ट्वा अन्यांश्च महोत्पातान् अतत्-तत्त्वविदः प्रजाः ।
 ब्रह्मपुत्रान् ऋते भीता मेनिरे विश्वसंप्लवम् ॥ १५ ॥
 तौ आदिदैत्यौ सहसा व्यज्यमान आत्मपौरुषौ ।
 ववृधातेऽश्मसारेण कायेन अद्रिपती इव ॥ १६ ॥
 दिविस्पृशौ हेमकिरीटकोटिभिः
     निरुद्धकाष्ठौ स्फुरदङ्‌गदाभुजौ ।
 गां कंपयन्तौ चरणैः पदे पदे
     कट्या सुकाञ्च्यार्कमतीत्य तस्थतुः ॥ १७ ॥
 प्रजापतिर्नाम तयोरकार्षीद्
     यः प्राक् स्वदेहाद्यमयोरजायत ।
 तं वै हिरण्यकशिपुं विदुः प्रजा
     यं तं हिरण्याक्षमसूत साग्रतः ॥ १८ ॥
 चक्रे हिरण्यकशिपुः दोर्भ्यां ब्रह्मवरेण च ।
 वशे सपालान् लोकान् त्रीन् अकुतोमृत्युरुद्धतः ॥ १९ ॥
 हिरण्याक्षो अनुजस्तस्य प्रियः प्रीतिकृदन्वहम् ।
 गदापाणिर्दिवं यातो युयुत्सुः मृगयन् रणम् ॥ २० ॥
 तं वीक्ष्य दुःसहजवं रणत् काञ्चन नूपुरम् ।
 वैजयन्त्या स्रजा जुष्टं अंस न्यस्त महागदम् ॥ २१ ॥
 मनोवीर्यवर उत्सिक्तं असृण्यं अकुतोभयम् ।
 भीता निलिल्यिरे देवाः तार्क्ष्य त्रस्तः इवाहयः ॥ २२ ॥
 स वै तिरोहितान् दृष्ट्वा महसा स्वेन दैत्यराट् ।
 स-इन्द्रान् देवगणान् क्षीबान् अपश्यन् व्यनदद्‍भृशम् ॥ २३ ॥
 ततो निवृत्तः क्रीडिष्यन् गम्भीरं भीमनिस्वनम् ।
 विजगाहे महासत्त्वो वार्धिं मत्त इव द्विपः ॥ २४ ॥
 तस्मिन्प्रविष्टे वरुणस्य सैनिका
     यादोगणाः सन्नधियः ससाध्वसाः ।
 अहन्यमाना अपि तस्य वर्चसा
     प्रधर्षिता दूरतरं प्रदुद्रुवुः ॥ २५ ॥
 स वर्षपूगान् उदधौ महाबलः
     चरन् महोर्मीन् श्वसनेरितान्मुहुः ।
 मौर्व्याभिजघ्ने गदया विभावरीं
     आसेदिवान् तास्तात पुरीं प्रचेतसः ॥ २६ ॥
 तत्रोपलभ्यासुरलोकपालकं
     यादोगणानां ऋषभं प्रचेतसम् ।
 स्मयन् प्रलब्धुं प्रणिपत्य नीचवत्
     जगाद मे देह्यधिराज संयुगम् ॥ २७ ॥
 त्वं लोकपालोऽधिपतिर्बृहच्छ्रवा
     वीर्यापहो दुर्मदवीरमानिनाम् ।
 विजित्य लोकेऽखिलदैत्यदानवान्
     यद् राजसूयेन पुरायजत्प्रभो ॥ २८ ॥
 स एवं उत्सिक्त मदेन विद्विषा
     दृढं प्रलब्धो भगवान् अपां पतिः ।
 रोषं समुत्थं शमयन् स्वया धिया
     व्यवोचदङ्‌गोपशमं गता वयम् ॥ २९ ॥
 पश्यामि नान्यं पुरुषात् पुरातनाद्
     यः संयुगे त्वां रणमार्गकोविदम् ।
 आराधयिष्यति असुरर्षभेहि तं
     मनस्विनो यं गृणते भवादृशाः ॥ ३० ॥
 तं वीरमारादभिपद्य विस्मयः
     शयिष्यसे वीरशये श्वभिर्वृतः ।
 यस्त्वद्विधानां असतां प्रशान्तये
     रूपाणि धत्ते सदनुग्रहेच्छया ॥ ३१ ॥


इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां
तृतीयस्कन्धे सप्तदशोऽध्यायः ॥ १७ ॥

 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥