श्रीमद्भागवत महापुराण/स्कंध ०३/अध्यायः ०९

विकिस्रोतः तः
Jump to navigation Jump to search
← श्रीमद्भागवत महापुराण/स्कंध ०३/अध्यायः ०८ श्रीमद्भागवत महापुराण/स्कंध ०३/अध्यायः ०९
[[लेखकः :|]]
श्रीमद्भागवत महापुराण/स्कंध ०३/अध्यायः १० →


ब्रह्मकृता भगवत्स्तुतिः, भगवतो ब्रह्मणे वरप्रदानं च -

ब्रह्मोवाच -
(अनुष्टुप्)
ज्ञातोऽसि मेऽद्य सुचिरान्ननु देहभाजां
    न ज्ञायते भगवतो गतिरित्यवद्यम् ।
 नान्यत्त्वदस्ति भगवन्नपि तन्न शुद्धं
    मायागुणव्यतिकराद् यदुरुर्विभासि ॥ १ ॥
 रूपं यदेतदवबोधरसोदयेन ।
    शश्वन्निवृत्ततमसः सदनुग्रहाय ।
 आदौ गृहीतमवतारशतैकबीजं ।
    यन्नाभिपद्मभवनाद् अहमाविरासम् ॥ २ ॥
 नातः परं परम यद्‍भवतः स्वरूपम् ।
    आनन्दमात्रमविकल्पमविद्धवर्चः ।
 पश्यामि विश्वसृजमेकमविश्वमात्मन् ।
    भूतेन्द्रियात्मकमदस्त उपाश्रितोऽस्मि ॥ ३ ॥
 तद्वा इदं भुवनमङ्गल मङ्गलाय ।
    ध्याने स्म नो दर्शितं त उपासकानाम् ।
 तस्मै नमो भगवतेऽनुविधेम तुभ्यं ।
    योऽनादृतो नरकभाग्भिरसत्प्रसङ्गैः ॥ ४ ॥
 ये तु त्वदीयचरणाम्बुजकोशगन्धं ।
    जिघ्रन्ति कर्णविवरैः श्रुतिवातनीतम् ।
 भक्त्या गृहीतचरणः परया च तेषां ।
    नापैषि नाथ हृदयाम्बुरुहात्स्वपुंसाम् ॥ ५ ॥
 तावद्‍भयं द्रविणगेहसुहृन्निमित्तं ।
    शोकः स्पृहा परिभवो विपुलश्च लोभः ।
 तावन्ममेत्यसदवग्रह आर्तिमूलं ।
    यावन्न तेऽङ्‌घ्रिमभयं प्रवृणीत लोकः ॥ ६ ॥
 दैवेन ते हतधियो भवतः प्रसङ्गात् ।
    सर्वाशुभोपशमनाद् विमुखेन्द्रिया ये ।
 कुर्वन्ति कामसुखलेशलवाय दीना ।
    लोभाभिभूतमनसोऽकुशलानि शश्वत् ॥ ७ ॥
 क्षुत्तृट्‌त्रधातुभिरिमा मुहुरर्द्यमानाः ।
    शीतोष्णवातवर्षैरितरेतराच्च ।
 कामाग्निनाच्युत रुषा च सुदुर्भरेण ।
    सम्पश्यतो मन उरुक्रम सीदते मे ॥ ८ ॥
 यावत् पृथक्त्वमिदमात्मन इन्द्रियार्थ ।
    मायाबलं भगवतो जन ईश पश्येत् ।
 तावन्न संसृतिरसौ प्रतिसङ्क्रमेत ।
    व्यर्थापि दुःखनिवहं वहती क्रियार्था ॥ ९ ॥
 अह्न्यापृतार्तकरणा निशि निःशयाना ।
    नानामनोरथधिया क्षणभग्ननिद्राः ।
 दैवाहतार्थरचना ऋषयोऽपि देव ।
    युष्मत् प्रसङ्गविमुखा इह संसरन्ति ॥ १० ॥
 त्वं भक्तियोगपरिभावितहृत्सरोज ।
    आस्से श्रुतेक्षितपथो ननु नाथ पुंसाम् ।
 यद् यद् धिया ते उरुगाय विभावयन्ति ।
    तत्तद् वपुः प्रणयसे सदनुग्रहाय ॥ ११ ॥
 नातिप्रसीदति तथोपचितोपचारैः ।
    आराधितः सुरगणैर्हृदि बद्धकामैः ।
 यत्सर्वभूतदययासदलभ्ययैको ।
    नानाजनेष्ववहितः सुहृदन्तरात्मा ॥ १२ ॥
 पुंसामतो विविधकर्मभिरध्वराद्यैः ।
    दानेन चोग्रतपसा परिचर्यया च ।
 आराधनं भगवतस्तव सत्क्रियार्थो ।
    धर्मोऽर्पितः कर्हिचिद् ध्रियते न यत्र ॥ १३ ॥
 शश्वत्स्वरूपमहसैव निपीतभेद ।
    मोहाय बोधधिषणाय नमः परस्मै ।
 विश्वोद्‍भवस्थितिलयेषु निमित्तलीला ।
    रासाय ते नम इदं चकृमेश्वराय ॥ १४ ॥
 यस्यावतार गुणकर्मविडम्बनानि ।
    नामानि येऽसुविगमे विवशा गृणन्ति ।
 तेऽनैकजन्मशमलं सहसैव हित्वा ।
    संयान्त्यपावृतामृतं तमजं प्रपद्ये ॥ १५ ॥
 यो वा अहं च गिरिशश्च विभुः स्वयं च ।
    स्थित्युद्‍भवप्रलयहेतव आत्ममूलम् ।
 भित्त्वा त्रिपाद्‌ववृध एक उरुप्ररोहः ।
    तस्मै नमो भगवते भुवनद्रुमाय ॥ १६ ॥
 लोको विकर्मनिरतः कुशले प्रमत्तः ।
    कर्मण्ययं त्वदुदिते भवदर्चने स्वे ।
 यस्तावदस्य बलवान् इह जीविताशां ।
    सद्यश्छिनत्त्यनिमिषाय नमोऽस्तु तस्मै ॥ १७ ॥
 यस्माद्‍बिभेम्यहमपि द्विपरार्धधिष्ण्यं ।
    अध्यासितः सकललोकनमस्कृतं यत् ।
 तेपे तपो बहुसवोऽवरुरुत्समानः ।
    तस्मै नमो भगवतेऽधिमखाय तुभ्यम् ॥ १८ ॥
 तिर्यङ्‌मनुष्यविबुधादिषु जीवयोनि ।
    ष्वात्मेच्छयात्मकृतसेतुपरीप्सया यः ।
 रेमे निरस्तविषयोऽप्यवरुद्धदेहः ।
    तस्मै नमो भगवते पुरुषोत्तमाय ॥ १९ ॥
 योऽविद्ययानुपहतोऽपि दशार्धवृत्त्या ।
    निद्रामुवाह जठरीकृतलोकयात्रः ।
 अन्तर्जलेऽहिकशिपुस्पर्शानुकूलां ।
    भीमोर्मिमालिनि जनस्य सुखं विवृण्वन् ॥ २० ॥
 यन्नाभिपद्मभवनाद् अहमासमीड्य ।
    लोकत्रयोपकरणो यदनुग्रहेण ।
 तस्मै नमस्त उदरस्थभवाय योग ।
    निद्रावसानविकसन् नलिनेक्षणाय ॥ २१ ॥
 सोऽयं समस्तजगतां सुहृदेक आत्मा ।
    सत्त्वेन यन्मृडयते भगवान् भगेन ।
 तेनैव मे दृशमनुस्पृशताद्यथाहं ।
    स्रक्ष्यामि पूर्ववदिदं प्रणतप्रियोऽसौ ॥ २२ ॥
 एष प्रपन्नवरदो रमयात्मशक्त्या ।
    यद्यत् करिष्यति गृहीतगुणावतारः ।
 तस्मिन्स्वविक्रममिदं सृजतोऽपि चेतो ।
    युञ्जीत कर्मशमलं च यथा विजह्याम् ॥ २३ ॥
 नाभिह्रदादिह सतोऽम्भसि यस्य पुंसो ।
    विज्ञानशक्तिरहमासमनन्तशक्तेः ।
 रूपं विचित्रमिदमस्य विवृण्वतो मे ।
    मा रीरिषीष्ट निगमस्य गिरां विसर्गः ॥ २४ ॥
 सोऽसौ अदभ्रकरुणो भगवान् विवृद्ध ।
    प्रेमस्मितेन नयनाम्बुरुहं विजृम्भन् ।
 उत्थाय विश्वविजयाय च नो विषादं ।
    माध्व्या गिरापनयतात्पुरुषः पुराणः ॥ २५ ॥
 मैत्रेय उवाच -
(अनुष्टुप्)
स्वसम्भवं निशाम्यैवं तपोविद्यासमाधिभिः ।
 यावन्मनोवचः स्तुत्वा विरराम स खिन्नवत् ॥ २६ ॥
 अथाभिप्रेतमन्वीक्ष्य ब्रह्मणो मधुसूदनः ।
 विषण्णचेतसं तेन कल्पव्यतिकराम्भसा ॥ २७ ॥
 लोकसंस्थानविज्ञान आत्मनः परिखिद्यतः ।
 तमाहागाधया वाचा कश्मलं शमयन्निव ॥ २८ ॥
 श्रीभगवानुवाच -
मा वेदगर्भ गास्तन्द्रीं सर्ग उद्यममावह ।
 तन्मयाऽऽपादितं ह्यग्रे यन्मां प्रार्थयते भवान् ॥ २९ ॥
 भूयस्त्वं तप आतिष्ठ विद्यां चैव मदाश्रयाम् ।
 ताभ्यां अन्तर्हृदि ब्रह्मन् लोकान् द्रक्ष्यसि अपावृतान् ॥ ३० ॥
 तत आत्मनि लोके च भक्तियुक्तः समाहितः ।
 द्रष्टासि मां ततं ब्रह्मन् मयि लोकान् त्वमात्मनः ॥ ३१ ॥
 यदा तु सर्वभूतेषु दारुष्वग्निमिव स्थितम् ।
 प्रतिचक्षीत मां लोको जह्यात्तर्ह्येव कश्मलम् ॥ ३२ ॥
 यदा रहितमात्मानं भूतेन्द्रियगुणाशयैः ।
 स्वरूपेण मयोपेतं पश्यन् स्वाराज्यमृच्छति ॥ ३३ ॥
 नानाकर्मवितानेन प्रजा बह्वीः सिसृक्षतः ।
 नात्मावसीदत्यस्मिन् ते वर्षीयान् मदनुग्रहः ॥ ३४ ॥
 ऋषिमाद्यं न बध्नाति पापीयान् त्वां रजोगुणः ।
 यन्मनो मयि निर्बद्धं प्रजाः संसृजतोऽपि ते ॥ ३५ ॥
 ज्ञातोऽहं भवता त्वद्य दुर्विज्ञेयोऽपि देहिनाम् ।
 यन्मां त्वं मन्यसेऽयुक्तं भूतेन्द्रियगुणात्मभिः ॥ ३६ ॥
 तुभ्यं मद्विचिकित्सायां आत्मा मे दर्शितोऽबहिः ।
 नालेन सलिले मूलं पुष्करस्य विचिन्वतः ॥ ३७ ॥
 यच्चकर्थाङ्ग मत्स्तोत्रं मत्कथा अभ्युदयांकितम् ।
 यद्वा तपसि ते निष्ठा स एष मदनुग्रहः ॥ ३८ ॥
 प्रीतोऽहमस्तु भद्रं ते लोकानां विजयेच्छया ।
 यद् अस्तौषीर्गुणमयं निर्गुणं मानुवर्णयन् ॥ ३९ ॥
 य एतेन पुमान्नित्यं स्तुत्वा स्तोत्रेण मां भजेत् ।
 तस्याशु सम्प्रसीदेयं सर्वकामवरेश्वरः ॥ ४० ॥
 पूर्तेन तपसा यज्ञैः दानैर्योगसमाधिना ।
 राद्धं निःश्रेयसं पुंसां मत्प्रीतिः तत्त्वविन्मतम् ॥ ४१ ॥
 अहमात्मात्मनां धातः प्रेष्ठः सन् प्रेयसामपि ।
 अतो मयि रतिं कुर्याद् देहादिर्यत्कृते प्रियः ॥ ४२ ॥
 सर्ववेदमयेनेदं आत्मनाऽऽत्माऽऽत्मयोनिना ।
 प्रजाः सृज यथापूर्वं याश्च मय्यनुशेरते ॥ ४३ ॥
 मैत्रेय उवाच -
तस्मा एवं जगत्स्रष्ट्रे प्रधानपुरुषेश्वरः ।
 व्यज्येदं स्वेन रूपेण कञ्जनाभस्तिरोदधे ॥ ४४ ॥


इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां
तृतीयस्कन्धे नवमोऽध्यायः ॥ ९ ॥

 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥