श्रीमद्भागवत महापुराण/स्कंध ०३/अध्यायः ०८

विकिस्रोतः तः
Jump to navigation Jump to search
← श्रीमद्भागवत महापुराण/स्कंध ०३/अध्यायः ०७ श्रीमद्भागवत महापुराण/स्कंध ०३/अध्यायः ०८
[[लेखकः :|]]
श्रीमद्भागवत महापुराण/स्कंध ०३/अध्यायः ०९ →



विष्णोर्माभिकमलाद् ब्रह्मोत्पत्तिवर्णनम् -

मैत्रेय उवाच -
सत्सेवनीयो बत पूरुवंशो
     यल्लोकपालो भगवत्प्रधानः ।
 बभूविथेहाजितकीर्तिमालां
     पदे पदे नूतनयस्यभीक्ष्णम् ॥ १ ॥
 सोऽहं नृणां क्षुल्लसुखाय दुःखं
     महद्‍गतानां विरमाय तस्य ।
 प्रवर्तये भागवतं पुराणं
     यदाह साक्षात् भगवान् ऋषिभ्यः ॥ २ ॥
 आसीनमुर्व्यां भगवन्तमाद्यं
     सङ्कर्षणं देवमकुण्ठसत्त्वम् ।
 विवित्सवस्तत्त्वमतः परस्य
     कुमारमुख्या मुनयोऽन्वपृच्छन् ॥ ३ ॥
 स्वमेव धिष्ण्यं बहु मानयन्तं
     यद् वासुदेवाभिधमामनन्ति ।
 प्रत्यग्धृताक्षाम्बुजकोशमीषद्
     उन्मीलयन्तं विबुधोदयाय ॥ ४ ॥
 स्वर्धुन्युदार्द्रैः स्वजटाकलापैः
     उपस्पृशन्तश्चरणोपधानम् ।
 पद्मं यदर्चन्त्यहिराजकन्याः
     सप्रेम नानाबलिभिर्वरार्थाः ॥ ५ ॥
 मुहुर्गृणन्तो वचसानुराग
     स्खलत्पदेनास्य कृतानि तज्ज्ञाः ।
 किरीटसाहस्रमणिप्रवेक
     प्रद्योतितोद्दामफणासहस्रम् ॥ ६ ॥
 प्रोक्तं किलैतद्‍भगवत्तमेन
     निवृत्तिधर्माभिरताय तेन ।
 सनत्कुमाराय स चाह पृष्टः
     साङ्ख्यायनायाङ्ग धृतव्रताय ॥ ७ ॥
 साङ्ख्यायनः पारमहंस्यमुख्यो
     विवक्षमाणो भगवद्विभूतीः ।
 जगाद सोऽस्मद्‍गुरवेऽन्विताय
     पराशरायाथ बृहस्पतेश्च ॥ ८ ॥
 प्रोवाच मह्यं स दयालुरुक्तो
     मुनिः पुलस्त्येन पुराणमाद्यम् ।
 सोऽहं तवैतत्कथयामि वत्स
     श्रद्धालवे नित्यमनुव्रताय ॥ ९ ॥
 उदाप्लुतं विश्वमिदं तदासीत्
     यन्निद्रयामीलितदृङ् न्यमीलयत् ।
 अहीन्द्रतल्पेऽधिशयान एकः
     कृतक्षणः स्वात्मरतौ निरीहः ॥ १० ॥
 सोऽन्तः शरीरेऽर्पितभूतसूक्ष्मः
     कालात्मिकां शक्तिमुदीरयाणः ।
 उवास तस्मिन् सलिले पदे स्वे
     यथानलो दारुणि रुद्धवीर्यः ॥ ११ ॥
 चतुर्युगानां च सहस्रमप्सु
     स्वपन् स्वयोदीरितया स्वशक्त्या ।
 कालाख्ययाऽऽसादितकर्मतन्त्रो
     लोकानपीतान्ददृशे स्वदेहे ॥ १२ ॥
 तस्यार्थसूक्ष्माभिनिविष्टदृष्टेः
     अन्तर्गतोऽर्थो रजसा तनीयान् ।
 गुणेन कालानुगतेन विद्धः
     सूष्यंस्तदाभिद्यत नाभिदेशात् ॥ १३ ॥
 स पद्मकोशः सहसोदतिष्ठत्
     कालेन कर्मप्रतिबोधनेन ।
 स्वरोचिषा तत्सलिलं विशालं
     विद्योतयन्नर्क इवात्मयोनिः ॥ १४ ॥
 तल्लोकपद्मं स उ एव विष्णुः
     प्रावीविशत्सर्वगुणावभासम् ।
 तस्मिन् स्वयं वेदमयो विधाता
     स्वयंभुवं यं स्म वदन्ति सोऽभूत् ॥ १५ ॥
 तस्यां स चाम्भोरुहकर्णिकायां
     अवस्थितो लोकमपश्यमानः ।
 परिक्रमन् व्योम्नि विवृत्तनेत्रः
     चत्वारि लेभेऽनुदिशं मुखानि ॥ १६ ॥
 तस्माद्युगान्तश्वसनावघूर्ण
     जलोर्मिचक्रात् सलिलाद्विरूढम् ।
 उपाश्रितः कञ्जमु लोकतत्त्वं
     नात्मानमद्धाविददादिदेवः ॥ १७ ॥
 क एष योऽसौ अहमब्जपृष्ठ
     एतत्कुतो वाब्जमनन्यदप्सु ।
 अस्ति ह्यधस्तादिह किञ्चनैतद्
     अधिष्ठितं यत्र सता नु भाव्यम् ॥ १८ ॥
 स इत्थमुद्वीक्ष्य तदब्जनाल
     नाडीभिरन्तर्जलमाविवेश ।
 नार्वाग्गतस्तत् खरनालनाल
     नाभिं विचिन्वन् तदविन्दताजः ॥ १९ ॥
 तमस्यपारे विदुरात्मसर्गं
     विचिन्वतोऽभूत् सुमहांस्त्रिणेमिः ।
 यो देहभाजां भयमीरयाणः
     परिक्षिणोत्यायुरजस्य हेतिः ॥ २० ॥
 ततो निवृत्तोऽप्रतिलब्धकामः
     स्वधिष्ण्यमासाद्य पुनः स देवः ।
 शनैर्जितश्वासनिवृत्तचित्तो
     न्यषीददारूढसमाधियोगः ॥ २१ ॥
 कालेन सोऽजः पुरुषायुषाभि
     प्रवृत्तयोगेन विरूढबोधः ।
 स्वयं तदन्तर्हृदयेऽवभातं
     अपश्यतापश्यत यन्न पूर्वम् ॥ २२ ॥
 मृणालगौरायतशेषभोग
     पर्यङ्क एकं पुरुषं शयानम् ।
 फणातपत्रायुतमूर्धरत्‍न
     द्युभिर्हतध्वान्तयुगान्ततोये ॥ २३ ॥
 प्रेक्षां क्षिपन्तं हरितोपलाद्रेः
     सन्ध्याभ्रनीवेरु रुरुक्ममूर्ध्नः ।
 रत्‍नोदधारौषधिसौमनस्य
     वनस्रजो वेणुभुजाङ्‌घ्रिपाङ्घ्रेः ॥ २४ ॥
 आयामतो विस्तरतः स्वमान
     देहेन लोकत्रयसङ्ग्रहेण ।
 विचित्रदिव्याभरणांशुकानां
     कृतश्रियापाश्रितवेषदेहम् ॥ २५ ॥
 पुंसां स्वकामाय विविक्तमार्गैः
     अभ्यर्चतां कामदुघाङ्‌घ्रिपद्मम् ।
 प्रदर्शयन्तं कृपया नखेन्दु
     मयूखभिन्नाङ्गुलिचारुपत्रम् ॥ २६ ॥
 मुखेन लोकार्तिहरस्मितेन
     परिस्फुरत् कुण्डलमण्डितेन ।
 शोणायितेनाधरबिम्बभासा
     प्रत्यर्हयन्तं सुनसेन सुभ्र्वा ॥ २७ ॥
 कदम्बकिञ्जल्कपिशङ्गवाससा
     स्वलङ्कृतं मेखलया नितम्बे ।
 हारेण चानन्तधनेन वत्स
     श्रीवत्सवक्षःस्थलवल्लभेन ॥ २८ ॥
 परार्ध्यकेयूरमणिप्रवेक
     पर्यस्तदोर्दण्डसहस्रशाखम् ।
 अव्यक्तमूलं भुवनाङ्‌घ्रिपेन्द्र
     महीन्द्रभोगैरधिवीतवल्शम् ॥ २९ ॥
 चराचरौको भगवन् महीध्र
     महीन्द्रबन्धुं सलिलोपगूढम् ।
 किरीटसाहस्रहिरण्यश्रृङ्गं
     आविर्भवत्कौस्तुभरत्‍नगर्भम् ॥ ३० ॥
 निवीतमाम्नायमधुव्रतश्रिया
     स्वकीर्तिमय्या वनमालया हरिम् ।
 सूर्येन्दुवाय्वग्न्यगमं त्रिधामभिः
     परिक्रमत् प्राधनिकैर्दुरासदम् ॥ ३१ ॥
 तर्ह्येव तन्नाभिसरःसरोजं
     आत्मानमम्भः श्वसनं वियच्च ।
 ददर्श देवो जगतो विधाता
     नातः परं लोकविसर्गदृष्टिः ॥ ३२ ॥
 स कर्मबीजं रजसोपरक्तः
     प्रजाः सिसृक्षन्नियदेव दृष्ट्वा ।
 अस्तौद् विसर्गाभिमुखस्तमीड्यं
     अव्यक्तवर्त्मन्यभिवेशितात्मा ॥ ३३ ॥


इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां
तृतीयस्कन्धे अष्टमोऽध्यायः ॥ ८ ॥

 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥