श्रीमद्भागवत महापुराण/स्कंध ०२/अध्यायः ०९

विकिस्रोतः तः
Jump to navigation Jump to search
← श्रीमद्भागवत महापुराण/स्कंध ०२/अध्यायः ०८ श्रीमद्भागवत महापुराण/स्कंध ०२/अध्यायः ०९
[[लेखकः :|]]
श्रीमद्भागवत महापुराण/स्कंध ०२/अध्यायः १० →



शुकस्य प्रतिवचनम् - ब्रह्मणो वैकुण्ठधाम दर्शनम् तत्राभ्यर्थमानेन भगवता ब्रह्मणे चतुःश्लोकभागवतोपदेशदानम् -

श्रीशुक उवाच ।
(अनुष्टुप्)
आत्ममायामृते राजन् पन्परस्यानुभवात्मनः ।
 न घटेतार्थसम्बन्धः स्वप्नद्रष्टुरिवाञ्जसा ॥ १ ॥
 बहुरूप इवाभाति मायया बहुरूपया ।
 रममाणो गुणेष्वस्या ममाहमिति मन्यते ॥ २ ॥
 यर्हि वाव महिम्नि स्वे परस्मिन् कालमाययोः ।
 रमेत गतसम्मोहः त्यक्त्वोदास्ते तदोभयम् ॥ ३ ॥
 आत्मतत्त्वविशुद्ध्यर्थं यदाह भगवानृतम् ।
 ब्रह्मणे दर्शयन् रूपं अव्यलीकव्रतादृतः ॥ ४ ॥

 स आदिदेवो जगतां परो गुरुः
    स्वधिष्ण्यमास्थाय सिसृक्षयैक्षत ।
 तां नाध्यगछ्रद्दृशमत्र सम्मतां
    प्रपञ्चनिर्माणविधिर्यया भवेत् ॥ ५ ॥
 स चिन्तयन् द्व्यक्षरमेकदाम्भसि
    उपाशृणोत् द्विर्गदितं वचो विभुः ।
 स्पर्शेषु यत्षोडशमेकविंशं
    निष्किञ्चनानां नृप यद्धनं विदुः ॥ ६ ॥
 निशम्य तद्वक्तृदिदृक्षया दिशो
    विलोक्य तत्रान्यदपश्यमानः ।
 स्वधिष्ण्यमास्थाय विमृश्य तद्धितं
    तपस्युपादिष्ट इवादधे मनः ॥ ७ ॥
 दिव्यं सहस्राब्दममोघदर्शनो
    जितानिलात्मा विजितोभयेन्द्रियः ।
 अतप्यत स्माखिललोकतापनं
    तपस्तपीयांस्तपतां समाहितः ॥ ८ ॥
 तस्मै स्वलोकं भगवान् सभाजितः
    सन्दर्शयामास परं न यत्परम् ।
 व्यपेतसङ्क्लेशविमोहसाध्वसं
    स्वदृष्टवद्‌भिः विबुधैरभिष्टुतम् ॥ ९ ॥
 प्रवर्तते यत्र रजस्तमस्तयोः
    सत्त्वं च मिश्रं न च कालविक्रमः ।
 न यत्र माया किमुतापरे हरेः
    अनुव्रता यत्र सुरासुरार्चिताः ॥ १० ॥
 श्यामावदाताः शतपत्रलोचनाः
    पिशङ्गवस्त्राः सुरुचः सुपेशसः ।
 सर्वे चतुर्बाहव उन्मिषन्मणि
    प्रवेकनिष्काभरणाः सुवर्चसः ।
 प्रवालवैदूर्यमृणालवर्चसः
    परिस्फुरत्कुण्डल मौलिमालिनः ॥ ११ ॥
 भ्राजिष्णुभिर्यः परितो विराजते
    लसद्विमानावलिभिर्महात्मनाम् ।
 विद्योतमानः प्रमदोत्तमाद्युभिः
    सविद्युदभ्रावलिभिर्यथा नभः ॥ १२ ॥
 श्रीर्यत्र रूपिण्युरुगायपादयोः
    करोति मानं बहुधा विभूतिभिः ।
 प्रेङ्खं श्रिता या कुसुमाकरानुगैः
    विगीयमाना प्रियकर्म गायती ॥ १३ ॥
 ददर्श तत्राखिलसात्वतां पतिं
    श्रियः पतिं यज्ञपतिं जगत्पतिम् ।
 सुनंदनंदप्रबलार्हणादिभिः
    स्वपार्षदाग्रैः परिसेवितं विभुम् ॥ १४ ॥
 भृत्यप्रसादाभिमुखं दृगासवं
    प्रसन्नहासारुणलोचनाननम् ।
 किरीटिनं कुण्डलिनं चतुर्भुजं
    पीतांशुकं वक्षसि लक्षितं श्रिया ॥ १५ ॥
 अध्यर्हणीयासनमास्थितं परं
    वृतं चतुःषोडशपञ्चशक्तिभिः ।
 युक्तं भगैः स्वैरितरत्र चाध्रुवैः
    स्व एव धामन् रममाणमीश्वरम् ॥ १६ ॥
 तद्दर्शनाह्लादपरिप्लुतान्तरो
    हृष्यत्तनुः प्रेमभराश्रुलोचनः ।
 ननाम पादाम्बुजमस्य विश्वसृग्
    यत् पारमहंस्येन पथाधिगम्यते ॥ १७ ॥
 तं प्रीयमाणं समुपस्थितं कविं
    प्रजाविसर्गे निजशासनार्हणम् ।
 बभाष ईषत्स्मितशोचिषा गिरा
    प्रियः प्रियं प्रीतमनाः करे स्पृशन् ॥ १८ ॥
 श्रीभगवानुवाच ।
(अनुष्टुप्)
त्वयाहं तोषितः सम्यग् वेदगर्भ सिसृक्षया ।
 चिरं भृतेन तपसा दुस्तोषः कूटयोगिनाम् ॥ १९ ॥
 वरं वरय भद्रं ते वरेशं माभिवाञ्छितम् ।
 ब्रह्मञ्छ्रेयः परिश्रामः पुंसां मद्दर्शनावधिः ॥ २० ॥
 मनीषितानुभावोऽयं मम लोकावलोकनम् ।
 यदुपश्रुत्य रहसि चकर्थ परमं तपः ॥ २१ ॥
 प्रत्यादिष्टं मया तत्र त्वयि कर्मविमोहिते ।
 तपो मे हृदयं साक्षाद् आत्माऽहं तपसोऽनघ ॥ २२ ॥
 सृजामि तपसैवेदं ग्रसामि तपसा पुनः ।
 बिभर्मि तपसा विश्वं वीर्यं मे दुश्चरं तपः ॥ २३ ॥
 ब्रह्मोवाच
 भगवन् सर्वभूतानां अध्यक्षोऽवस्थितो गुहाम् ।
 वेद ह्यप्रतिरुद्धेन प्रज्ञानेन चिकीर्षितम् ॥ २४ ॥
 तथापि नाथमानस्य नाथ नाथय नाथितम् ।
 परावरे यथा रूपे जानीयां ते त्वरूपिणः ॥ २५ ॥
 यथात्ममायायोगेन नानाशक्त्युपबृंहितम् ।
 विलुम्पन् विसृजन् गृह्णन् बिभ्रदात्मानमात्मना ॥ २६ ॥
 क्रीडस्यमोघसङ्कल्प ऊर्णनाभिर्यथोर्णुते ।
 तथा तद्विषयां धेहि मनीषां मयि माधव ॥ २७ ॥
 भगवच्छिक्षितमहं करवाणि ह्यतन्द्रितः ।
 नेहमानः प्रजासर्गं बध्येयं यदनुग्रहात् ॥ २८ ॥

 यावत्सखा सख्युरिवेश ते कृतः
    प्रजाविसर्गे विभजामि भो जनम् ।
 अविक्लबस्ते परिकर्मणि स्थितो
    मा मे समुन्नद्धमदोऽजमानिनः ॥ २९ ॥
 श्रीभगवानुवाच ।
(अनुष्टुप्)
ज्ञानं परमगुह्यं मे यद्विज्ञानसमन्वितम् ।
 सरहस्यं तदङ्गं च गृहाण गदितं मया ॥ ३० ॥
 यावानहं यथाभावो यद् रूपगुणकर्मकः ।
 तथैव तत्त्वविज्ञानं अस्तु ते मदनुग्रहात् ॥ ३१ ॥
 अहमेवासमेकोऽग्रे नान्यत् यत्सदसत्परम् ।
 पश्चादहं यदेतच्च योऽवशिष्येत सोऽस्म्यहम् ॥ ३२ ॥
 ऋतेऽर्थं यत्प्रतीयेत न प्रतीयेत चात्मनि ।
 तद्विद्याद् आत्मनो मायां यथाभासो यथा तमः ॥ ३३ ॥
 यथा महान्ति भूतानि भूतेषूच्चावचेष्वनु ।
 प्रविष्टानि अप्रविष्टानि तथा तेषु न तेष्वहम् ॥ ३४ ॥
 एतावदेव जिज्ञास्यं तत्त्वजिज्ञासुनाऽऽत्मनः ।
 अन्वयव्यतिरेकाभ्यां यत्स्यात् सर्वत्र सर्वदा ॥ ३५ ॥
 एतन्मतं समातिष्ठ परमेण समाधिना ।
 भवान् कल्पविकल्पेषु न विमुह्यति कर्हिचित् ॥ ३६ ॥
 श्रीशुक उवाच ।
 सम्प्रदिश्यैवमजनो जनानां परमेष्ठिनम् ।
 पश्यतः तस्य तद् रूपं आत्मनो न्यरुणद्धरिः ॥ ३७ ॥
 अन्तर्हितेन्द्रियार्थाय हरये विहिताञ्जलिः ।
 सर्वभूतमयो विश्वं ससर्जेदं स पूर्ववत् ॥ ३८ ॥
 प्रजापतिर्धर्मपतिः एकदा नियमान् यमान् ।
 भद्रं प्रजानामन्विच्छन् नातिष्ठत्स्वार्थकाम्यया ॥ ३९ ॥
 तं नारदः प्रियतमो रिक्थादानामनुव्रतः ।
 शुश्रूषमाणः शीलेन प्रश्रयेण दमेन च ॥ ४० ॥
 मायां विविदिषन् विष्णोः मायेशस्य महामुनिः ।
 महाभागवतो राजन् पितरं पर्यतोषयत् ॥ ४१ ॥
 तुष्टं निशाम्य पितरं लोकानां प्रपितामहम् ।
 देवर्षिः परिपप्रच्छ भवान् यन्मानुपृच्छति ॥ ४२ ॥
 तस्मा इदं भागवतं पुराणं दशलक्षणम् ।
 प्रोक्तं भगवता प्राह प्रीतः पुत्राय भूतकृत् ॥ ४३ ॥
 नारदः प्राह मुनये सरस्वत्यास्तटे नृप ।
 ध्यायते ब्रह्म परमं व्यासाय अमिततेजसे ॥ ४४ ॥
 यदुताहं त्वया पृष्टो वैराजात्पुरुषादिदम् ।
 यथासीत् तदुपाख्यास्ते प्रश्नान् अन्यांश्च कृत्स्नशः ॥ ४५ ॥


इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां
द्वितीयस्कंधे नवमोऽध्यायः ॥ ९ ॥

 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥