श्रीमद्भागवत महापुराण/स्कंध ०२/अध्यायः ०८

विकिस्रोतः तः
Jump to navigation Jump to search
← श्रीमद्भागवत महापुराण/स्कंध ०२/अध्यायः ०७ श्रीमद्भागवत महापुराण/स्कंध ०२/अध्यायः ०८
[[लेखकः :|]]
श्रीमद्भागवत महापुराण/स्कंध ०२/अध्यायः ०९ →


परीक्षितः प्रश्नाः -

राजोवाच ।
(अनुष्टुप्)
ब्रह्मणा चोदितो ब्रह्मन् गुणाख्यानेऽगुणस्य च ।
 यस्मै यस्मै यथा प्राह नारदो देवदर्शनः ॥ १ ॥
 एतत् वेदितुमिच्छामि तत्त्वं तत्त्वविदां वर ।
 हरेरद्‍भुतवीर्यस्य कथा लोकसुमङ्गलाः ॥ २ ॥
 कथयस्व महाभाग यथाऽहं अखिलात्मनि ।
 कृष्णे निवेश्य निःसङ्गं मनस्त्यक्ष्ये कलेवरम् ॥ ३ ॥
 शृण्वतः श्रद्धया नित्यं गृणतश्च स्वचेष्टितम् ।
 कालेन नातिदीर्घेण भगवान्विशते हृदि ॥ ४ ॥
 प्रविष्टः कर्णरन्ध्रेण स्वानां भावसरोरुहम् ।
 धुनोति शमलं कृष्णः सलिलस्य यथा शरत् ॥ ५ ॥
 धौतात्मा पुरुषः कृष्ण पादमूलं न मुञ्चति ।
 मुक्तसर्वपरिक्लेशः पान्थः स्वशरणं यथा ॥ ६ ॥
 यदधातुमतो ब्रह्मन्देहारम्भोऽस्य धातुभिः ।
 यदृच्छया हेतुना वा भवन्तो जानते यथा ॥ ७ ॥
 आसीद् यदुदरात्पद्मं लोकसंस्थानलक्षणम् ।
 यावानयं वै पुरुष इयत्तावयवैः पृथक् ।
 तावानसाविति प्रोक्तः संस्थावयववानिव ॥ ८ ॥
 अजः सृजति भूतानि भूतात्मा यदनुग्रहात् ।
 ददृशे येन तद् रूपं नाभिपद्मसमुद्‍भवः ॥ ९ ॥
 स चाऽपि यत्र पुरुषो विश्वस्थित्युद्‍भवाप्ययः ।
 मुक्त्वाऽऽत्ममायां मायेशः शेते सर्वगुहाशयः ॥ १० ॥
 पुरुषावयवैर्लोकाः सपालाः पूर्वकल्पिताः ।
 लोकैरमुष्यावयवाः सपालैरिति शुश्रुम ॥ ११ ॥
 यावान् कल्पो विकल्पो वा यथा कालोऽनुमीयते ।
 भूतभव्यभवच्छब्द आयुर्मानश्च यत् सतः ॥ १२ ॥
 कालस्यानुगतिर्या तु लक्ष्यतेऽण्वी बृहत्यपि ।
 यावत्यः कर्मगतयो यादृशी द्विजसत्तम ॥ १३ ॥
 यस्मिन् कर्मसमावायो यथा येनोपगृह्यते ।
 गुणानां गुणिनाश्चैव परिणाममभीप्सताम् ॥ १४ ॥
 भूपातालककुब्व्योम ग्रहनक्षत्रभूभृताम् ।
 सरित्समुद्रद्वीपानां सम्भवश्चैतदोकसाम् ॥ १५ ॥
 प्रमाणमण्डकोशस्य बाह्याभ्यन्तरभेदतः ।
 महतां चानुचरितं वर्णाश्रमविनिश्चयः ॥ १६ ॥
 युगानि युगमानश्च धर्मो यश्च युगे युगे ।
 अवतारानुचरितं यदाश्चर्यतमं हरेः ॥ १७ ॥
 नृणां साधारणो धर्मः सविशेषश्च यादृशः ।
 श्रेणीनां राजर्षीणाञ्च धर्मः कृच्छ्रेषु जीवताम् ॥ १८ ॥
 तत्त्वानां परिसङ्ख्यानं लक्षणं हेतुलक्षणम् ।
 पुरुषाराधनविधिः योगस्याध्यात्मिकस्य च ॥ १९ ॥
 योगेश्वरैश्वर्यगतिः लिङ्गभङ्गस्तु योगिनाम् ।
 वेदोपवेदधर्माणां इतिहासपुराणयोः ॥ २० ॥
 सम्प्लवः सर्वभूतानां विक्रमः प्रतिसङ्क्रमः ।
 इष्टापूर्तस्य काम्यानां त्रिवर्गस्य च यो विधिः ॥ २१ ॥
 यश्चानुशायिनां सर्गः पाषण्डस्य च सम्भवः ।
 आत्मनो बन्धमोक्षौ च व्यवस्थानं स्वरूपतः ॥ २२ ॥
 यथात्मतन्त्रो भगवान् विक्रीडत्यात्ममायया ।
 विसृज्य वा यथा मायां उदास्ते साक्षिवद्विभुः ॥ २३ ॥
 सर्वमेतच्च भगवन् पृच्छतो मेऽनुपूर्वशः ।
 तत्त्वतोऽर्हस्युदाहर्तुं प्रपन्नाय महामुने ॥ २४ ॥
 अत्र प्रमाणं हि भवान् परमेष्ठी यथात्मभूः ।
 अपरे चानुतिष्ठन्ति पूर्वेषां पूर्वजैः कृतम् ॥ २५ ॥
 न मेऽसवः परायन्ति ब्रह्मन् अनशनादमी ।
 पिबतोऽच्युतपीयूषं अन्यत्र कुपिताद् द्विजात् ॥ २६ ॥
 श्रीसूत उवाच
 स उपामन्त्रितो राज्ञा कथायामिति सत्पतेः ।
 ब्रह्मरातो भृशं प्रीतो विष्णुरातेन संसदि ॥ २७ ॥
 प्राह भागवतं नाम पुराणं ब्रह्मसम्मितम् ।
 ब्रह्मणे भगवत्प्रोक्तं ब्रह्मकल्प उपागते ॥ २८ ॥
 यद्यत् परीक्षिदृषभः पाण्डूनामनुपृच्छति ।
 आनुपूर्व्येण तत्सर्वं आख्यातुमुपचक्रमे ॥ २९ ॥


इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां
द्वितीयस्कंधे अष्टमोऽध्यायः ॥ ८ ॥

 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥