श्रीमद्भागवत महापुराण/स्कंध ०२/अध्यायः ०६

विकिस्रोतः तः
Jump to navigation Jump to search
← श्रीमद्भागवत महापुराण/स्कंध ०२/अध्यायः ०५ श्रीमद्भागवत महापुराण/स्कंध ०२/अध्यायः ०६
[[लेखकः :|]]
श्रीमद्भागवत महापुराण/स्कंध ०२/अध्यायः ०७ →


पुरुषसूक्तार्थेन भगवतो विराट्‌स्वरूपस्य वर्णनम् -

ब्रह्मोवाच ।
 वाचां वह्नेर्मुखं क्षेत्रं छन्दसां सप्त धातवः ।
 हव्यकव्यामृत अन्नानां जिह्वा सर्व रसस्य च ॥ १ ॥
 सर्वा असूनां च वायोश्च तत् नासे परमायणे ।
 अश्विनोः ओषधीनां च घ्राणो मोद प्रमोदयोः ॥ २ ॥
 रूपाणां तेजसां चक्षुः दिवः सूर्यस्य चाक्षिणी ।
 कर्णौ दिशां च तीर्थानां श्रोत्रं आकाश शब्दयोः ।
 तद्‍गात्रं वस्तुसाराणां सौभगस्य च भाजनम् ॥ ३ ॥
 त्वगस्य स्पर्शवायोश्च सर्व मेधस्य चैव हि ।
 रोमाणि उद्‌भिज्ज जातीनां यैर्वा यज्ञस्तु सम्भृतः ॥ ४ ॥
 केश श्मश्रु नखान्यस्य शिलालोहाभ्र विद्युताम् ।
 बाहवो लोकपालानां प्रायशः क्षेमकर्मणाम् ॥ ५ ॥
 विक्रमो भूर्भुवःस्वश्च क्षेमस्य शरणस्य च ।
 सर्वकाम वरस्यापि हरेश्चरण आस्पदम् ॥ ६ ॥
 अपां वीर्यस्य सर्गस्य पर्जन्यस्य प्रजापतेः ।
 पुंसः शिश्न उपस्थस्तु प्रजात्यानन्द निर्वृतेः ॥ ७ ॥
 पायुर्यमस्य मित्रस्य परिमोक्षस्य नारद ।
 हिंसाया निर्‌ऋतेर्मृत्यो निरयस्य गुदः स्मृतः ॥ ८ ॥
 पराभूतेः अधर्मस्य तमसश्चापि पश्चिमः ।
 नाड्यो नदनदीनां च गोत्राणां अस्थिसंहतिः ॥ ९ ॥
 अव्यक्त रससिन्धूनां भूतानां निधनस्य च ।
 उदरं विदितं पुंसो हृदयं मनसः पदम् ॥ १० ॥
 धर्मस्य मम तुभ्यं च कुमाराणां भवस्य च ।
 विज्ञानस्य च सत्त्वस्य परस्याऽऽत्मा परायणम् ॥ ११ ॥
 अहं भवान् भवश्चैव त इमे मुनयोऽग्रजाः ।
 सुरासुरनरा नागाः खगा मृगसरीसृपाः ॥ १२ ॥
 गन्धर्वाप्सरसो यक्षा रक्षोभूतगणोरगाः ।
 पशवः पितरः सिद्धा विद्याध्राश्चारणा द्रुमाः ॥ १३ ॥
 अन्ये च विविधा जीवाः जल स्थल नभौकसः ।
 ग्रह ऋक्ष केतवस्ताराः तडितः स्तनयित्‍नवः ॥ १४ ॥
 सर्वं पुरुष एवेदं भूतं भव्यं भवच्च यत् ।
 तेनेदं आवृतं विश्वं वितस्तिं अधितिष्ठति ॥ १५ ॥
 स्वधिष्ण्यं प्रतपन् प्राणो बहिश्च प्रतपत्यसौ ।
 एवं विराजं प्रतपन् तपत्यन्तः बहिः पुमान् ॥ १६ ॥
 सोऽमृतस्याभयस्येशो मर्त्यं अन्नं यदत्यगात् ।
 महिमा एष ततो ब्रह्मन् पुरुषस्य दुरत्ययः ॥ १७ ॥
 पादेषु सर्वभूतानि पुंसः स्थितिपदो विदुः ।
 अमृतं क्षेममभयं त्रिमूर्ध्नोऽधायि मूर्धसु ॥ १८ ॥
 पादास्त्रयो बहिश्चासन् अप्रजानां य आश्रमाः ।
 अन्तः त्रिलोक्यास्त्वपरो गृहमेधोऽबृहद्व्रतः ॥ १९ ॥
 सृती विचक्रमे विश्वङ् साशनानशने उभे ।
 यद् अविद्या च विद्या च पुरुषस्तु उभयाश्रयः ॥ २० ॥
 यस्माद् अण्डं विराड् जज्ञे भूतेन्द्रिय गुणात्मकः ।
 तद् द्रव्यं अत्यगाद् विश्वं गोभिः सूर्य इवाऽतपन् ॥ २१ ॥
 यदास्य नाभ्यान्नलिनाद् अहं आसं महात्मनः ।
 नाविंदं यज्ञसम्भारान् पुरुषा अवयवात् ऋते ॥ २२ ॥
 तेषु यज्ञस्य पशवः सवनस्पतयः कुशाः ।
 इदं च देवयजनं कालश्चोरु गुणान्वितः ॥ २३ ॥
 वस्तूनि ओषधयः स्नेहा रस-लोह-मृदो जलम् ।
 ऋचो यजूंषि सामानि चातुर्होत्रं च सत्तम ॥ २४ ॥
 नामधेयानि मंत्राश्च दक्षिणाश्च व्रतानि च ।
 देवतानुक्रमः कल्पः सङ्कल्पः तन्त्रमेव च ॥ २५ ॥
 गतयो मतयश्चैव प्रायश्चित्तं समर्पणम् ।
 पुरुषा अवयवैः एते संभाराः संभृता मया ॥ २६ ॥
 इति संभृतसंभारः पुरुषा अवयवैः अहम् ।
 तमेव पुरुषं यज्ञं तेनैवायजमीश्वरम् ॥ २७ ॥
 ततस्ते भ्रातर इमे प्रजानां पतयो नव ।
 अयजन् व्यक्तमव्यक्तं पुरुषं सुसमाहिताः ॥ २८ ॥
 ततश्च मनवः काले ईजिरे ऋषयोऽपरे ।
 पितरो विबुधा दैत्या मनुष्याः क्रतुभिर्विभुम् ॥ २९ ॥
 नारायणे भगवति तदिदं विश्वमाहितम् ।
 गृहीत माया उरुगुणः सर्गादौ अगुणः स्वतः ॥ ३० ॥
 सृजामि तन्नियुक्तोऽहं हरो हरति तद्वशः ।
 विश्वं पुरुषरूपेण परिपाति त्रिशक्तिधृक् ॥ ३१ ॥
 इति तेऽभिहितं तात यथेदं अनुपृच्छसि ।
 न अन्यत् भगवतः किञ्चिद् भाव्यं सद्-असदात्मकम् ॥ ३२ ॥
 न भारती मेऽङ्ग मृषोपलक्ष्यते
    न वै क्वचिन्मे मनसो मृषा गतिः ।
 न मे हृषीकाणि पतन्त्यसत्पथे
    यन्मे हृदौत्कण्ठ्ययवता धृतो हरिः ॥ ३३ ॥
 सोऽहं समाम्नायमयः तपोमयः
    प्रजापतीनां अभिवन्दितः पतिः ।
 आस्थाय योगं निपुणं समाहितः
    तं नाध्यगच्छं यत आत्मसंभवः ॥ ३४ ॥
 नतोऽस्म्यहं तच्चरणं समीयुषां
    भवच्छिदं स्वस्त्ययनं सुमङ्गलम् ।
 यो ह्यात्ममायाविभवं स्म पर्यगाद्
    यथा नभः स्वान्तमथापरे कुतः ॥ ३५ ॥
 नाहं न यूयं यदृतां गतिं विदुः
    न वामदेवः किमुतापरे सुराः ।
 तन्मायया मोहितबुद्धयस्त्विदं
    विनिर्मितं चात्मसमं विचक्ष्महे ॥ ३६ ॥
 यस्यावतारकर्माणि गायंति ह्यस्मदादयः ।
 न यं विदंति तत्त्वेन तस्मै भगवते नमः ॥ ३७ ॥
 स एष आद्यः पुरुषः कल्पे कल्पे सृजत्यजः ।
 आत्मा आत्मनि आत्मनाऽऽत्मानं, स संयच्छति पाति च ॥ ३८ ॥
 विशुद्धं केवलं ज्ञानं प्रत्यक् सम्यग् अवस्थितम् ।
 सत्यं पूर्णं अनाद्यन्तं निर्गुणं नित्यमद्वयम् ॥ ३९ ॥
 ऋषे विदंति मुनयः प्रशान्तात्मेन्द्रियाशयाः ।
 यदा तद् एव असत् तर्कैः तिरोधीयेत विप्लुतम् ॥ ४० ॥
 आद्योऽवतारः पुरुषः परस्य
    कालः स्वभावः सद्-असन्मनश्च ।
 द्रव्यं विकारो गुण इन्द्रियाणि
    विराट् स्वराट् स्थास्नु चरिष्णु भूम्नः ॥ ४१ ॥
 अहं भवो यज्ञ इमे प्रजेशा
    दक्षादयो ये भवदादयश्च ।
 स्वर्लोकपालाः खगलोकपाला
    नृलोकपालाः तललोकपालाः ॥ ४२ ॥
 गन्धर्वविद्याधरचारणेशा
    ये यक्षरक्षोरग नागनाथाः ।
 ये वा ऋषीणां ऋषभाः पितॄणां
    दैत्येन्द्रसिद्धेश्वरदानवेंद्राः ॥ ४३ ॥
 अन्ये च ये प्रेतपिशाचभूत
    कूष्माण्ड यादः मृगपक्षि-अधीशाः ।
 यत्किञ्च लोके भगवन् महस्वत्
    ओजः सहस्वद् बलवत् क्षमावत् ।
 श्रीह्रीविभूत्यात्मवद् अद्‌भुतार्णं
    तत्त्वं परं रूपवद् अस्वरूपम् ॥ ४४ ॥
 प्राधान्यतो या नृष आमनन्ति
    लीलावतारान् पुरुषस्य भूम्नः ।
 आपीयतां कर्णकषायशोषान्
    अनुक्रमिष्ये त इमान् सुपेशान् ॥ ४५ ॥


इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां
द्वितीयस्कंधे षष्ठोऽध्यायः ॥ ६ ॥

 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥