श्रीमद्भागवत महापुराण/स्कंध ०२/अध्यायः ०५

विकिस्रोतः तः
Jump to navigation Jump to search
← श्रीमद्भागवत महापुराण/स्कंध ०२/अध्यायः ०४ श्रीमद्भागवत महापुराण/स्कंध ०२/अध्यायः ०५
[[लेखकः :|]]
श्रीमद्भागवत महापुराण/स्कंध ०२/अध्यायः ०६ →



ब्रह्माणं प्रति नारदप्रश्नः, ब्रह्मोक्तिः,
तत्त्वानां उत्पत्तिः, ब्रह्माण्डनिर्माणवर्णनं च -

नारद उवाच ।
 देवदेव नमस्तेऽस्तु भूतभावन पूर्वज ।
 तद्विजानीहि यद् ज्ञानं आत्मतत्त्वनिदर्शनम् ॥ १ ॥
 यद् रूपं यद् अधिष्ठानं यतः सृष्टमिदं प्रभो ।
 यत्संस्थं यत्परं यच्च तत् तत्त्वं वद तत्त्वतः ॥ २ ॥
 सर्वं ह्येतद् भवान् वेद भूतभव्यभवत्प्रभुः ।
 करामलकवद् विश्वं विज्ञानावसितं तव ॥ ३ ॥
 यद् विज्ञानो यद् आधारो यत् परस्त्वं यदात्मकः ।
 एकः सृजसि भूतानि भूतैरेवात्ममायया ॥ ४ ॥
 आत्मन् भावयसे तानि न पराभावयन् स्वयम् ।
 आत्मशक्तिमवष्टभ्य ऊर्णनाभिरिवाक्लमः ॥ ५ ॥
 नाहं वेद परं ह्यस्मिन् नापरं न समं विभो ।
 नामरूपगुणैर्भाव्यं सदसत् किञ्चिदन्यतः ॥ ६ ॥
 स भवानचरद् घोरं यत्तपः सुसमाहितः ।
 तेन खेदयसे नस्त्वं पराशङ्कां च यच्छसि ॥ ७ ॥
 एतन्मे पृच्छतः सर्वं सर्वज्ञ सकलेश्वर ।
 विजानीहि यथैवेदं अहं बुध्येऽनुशासितः ॥ ८ ॥
 ब्रह्मोवाच ॥
 सम्यक् कारुणिकस्येदं वत्स ते विचिकित्सितम् ।
 यदहं चोदितः सौम्य भगवद्वीर्यदर्शने ॥ ९ ॥
 नानृतं तव तच्चापि यथा मां प्रब्रवीषि भोः ।
 अविज्ञाय परं मत्त एतावत्त्वं यतो हि मे ॥ १० ॥
 येन स्वरोचिषा विश्वं रोचितं रोचयाम्यहम् ।
 यथार्कोऽग्निः यथा सोमो यथा ऋक्षग्रहतारकाः ॥ ११ ॥
 तस्मै नमो भगवते वासुदेवाय धीमहि ।
 यन्मायया दुर्जयया मां वदन्ति जगद्‍गुरुम् ॥ १२ ॥
 विलज्जमानया यस्य स्थातुमीक्षापथेऽमुया ।
 विमोहिता विकत्थन्ते ममाहमिति दुर्धियः ॥ १३ ॥
 द्रव्यं कर्म च कालश्च स्वभावो जीव एव च ।
 वासुदेवात्परो ब्रह्मन् न चान्योऽर्थोऽस्ति तत्त्वतः ॥ १४ ॥
 नारायणपरा वेदा देवा नारायणाङ्गजाः ।
 नारायणपरा लोका नारायणपरा मखाः ॥ १५ ॥
 नारायणपरो योगो नारायणपरं तपः ।
 नारायणपरं ज्ञानं नारायणपरा गतिः ॥ १६ ॥
 तस्यापि द्रष्टुः ईशस्य कूटस्थस्याखिलात्मनः ।
 सृज्यं सृजामि सृष्टोऽहं ईक्षयैवाभिचोदितः ॥ १७ ॥
 सत्त्वं रजस्तम इति निर्गुणस्य गुणास्त्रयः ।
 स्थितिसर्गनिरोधेषु गृहीता मायया विभोः ॥ १८ ॥
 कार्यकारणकर्तृत्वे द्रव्यज्ञानक्रियाश्रयाः ।
 बध्नन्ति नित्यदा मुक्तं मायिनं पुरुषं गुणाः ॥ १९ ॥
 स एष भगवान् लिङ्गैः त्रिभिरेतैरधोक्षजः ।
 स्वलक्षितगतिर्ब्रह्मन् सर्वेषां मम चेश्वरः ॥ २० ॥
 कालं कर्म स्वभावं च मायेशो मायया स्वया ।
 आत्मन् यदृच्छया प्राप्तं विबुभूषुरुपाददे ॥ २१ ॥
 कालाद् गुणव्यतिकरः परिणामः स्वभावतः ।
 कर्मणो जन्म महतः पुरुषाधिष्ठितात् अभूत् ॥ २२ ॥
 महतस्तु विकुर्वाणाद् रजःसत्त्वोपबृंहितात् ।
 तमःप्रधानस्त्वभवद् द्रव्यज्ञानक्रियात्मकः ॥ २३ ॥
 सोऽहङ्कार इति प्रोक्तो विकुर्वन्समभूत् त्रिधा ।
 वैकारिकस्तैजसश्च तामसश्चेति यद्‌भिदा ।
 द्रव्यशक्तिः क्रियाशक्तिः ज्ञानशक्तिरिति प्रभो ॥ २४ ॥
 तामसादपि भूतादेः विकुर्वाणाद् अभूत् नभः ।
 तस्य मात्रा गुणः शब्दो लिङ्गं यद् द्रष्टृदृश्ययोः ॥ २५ ॥
 नभसोऽथ विकुर्वाणाद् अभूत् स्पर्शगुणोऽनिलः ।
 परान्वयाच्छब्दवांश्च प्राण ओजः सहो बलम् ॥ २६ ॥
 वायोरपि विकुर्वाणात् कालकर्मस्वभावतः ।
 उदपद्यत तेजो वै रूपवत् स्पर्शशब्दवत् ॥ २७ ॥
 तेजसस्तु विकुर्वाणाद् आसीत् अम्भो रसात्मकम् ।
 रूपवत् स्पर्शवच्चाम्भो घोषवच्च परान्वयात् ॥ २८ ॥
 विशेषस्तु विकुर्वाणाद् अम्भसो गन्धवानभूत् ।
 परान्वयाद् रसस्पर्श शब्दरूपगुणान्वितः ॥ २९ ॥
 वैकारिकान्मनो जज्ञे देवा वैकारिका दश ।
 दिग्वातार्कप्रचेतोऽश्वि वह्नीन्द्रोपेन्द्रमित्रकाः ॥ ३० ॥
 तैजसात्तु विकुर्वाणाद् इंद्रियाणि दशाभवन् ।
 ज्ञानशक्तिः क्रियाशक्तिः बुद्धिः प्राणश्च तैजसौ ।
 श्रोत्रं त्वग् घ्राण दृग् जिह्वा वाग् दोर्मेढ्राङ्‌घ्रिपायवः ॥ ३१ ॥
 यदैतेऽसङ्गता भावा भूतेन्द्रियमनोगुणाः ।
 यदाऽऽयतननिर्माणे न शेकुर्ब्रह्मवित्तम ॥ ३२ ॥
 तदा संहत्य चान्योन्यं भगवच्छक्तिचोदिताः ।
 सदसत्त्वमुपादाय चोभयं ससृजुर्ह्यदः ॥ ३३ ॥
 वर्षपूगसहस्रान्ते तदण्डमुदके शयम् ।
 कालकर्मस्वभावस्थो जीवोऽजीवमजीवयत् ॥ ३४ ॥
 स एव पुरुषः तस्माद् अण्डं निर्भिद्य निर्गतः ।
 सहस्रोर्वङ्‌घ्रिबाह्वक्षः सहस्राननशीर्षवान् ॥ ३५ ॥
 यस्येहावयवैर्लोकान् काल्पयन्ति मनीषिणः ।
 कट्यादिभिरधः सप्त सप्तोर्ध्वं जघनादिभिः ॥ ३६ ॥
 पुरुषस्य मुखं ब्रह्म क्षत्रमेतस्य बाहवः ।
 ऊर्वोर्वैश्यो भगवतः पद्‍भ्यां शूद्रोऽभ्यजायत ॥ ३७ ॥
 भूर्लोकः कल्पितः पद्‍भ्यां भुवर्लोकोऽस्य नाभितः ।
 हृदा स्वर्लोक उरसा महर्लोको महात्मनः ॥ ३८ ॥
 ग्रीवायां जनलोकोऽस्य तपोलोकः स्तनद्वयात् ।
 मूर्धभिः सत्यलोकस्तु ब्रह्मलोकः सनातनः ॥ ३९ ॥
 तत्कट्यां चातलं कॢप्तं ऊरूभ्यां वितलं विभोः ।
 जानुभ्यां सुतलं शुद्धं जङ्घाभ्यां तु तलातलम् ॥ ४० ॥
 महातलं तु गुल्फाभ्यां प्रपदाभ्यां रसातलम् ।
 पातालं पादतलत इति लोकमयः पुमान् ॥ ४१ ॥
 भूर्लोकः कल्पितः पद्‍भ्यां भुवर्लोकोऽस्य नाभितः ।
 स्वर्लोकः कल्पितो मूर्ध्ना इति वा लोककल्पना ॥ ४२ ॥


इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां
द्वितीयस्कंधे पञ्चमोऽध्यायः ॥ ५ ॥

 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥