श्रीमद्भागवत महापुराण/स्कंध ०१/अध्यायः १९

विकिस्रोतः तः
Jump to navigation Jump to search
← श्रीमद्भागवत महापुराण/स्कंध ०१/अध्यायः १८ श्रीमद्भागवत महापुराण/स्कंध ०१/अध्यायः १९
[[लेखकः :|]]
श्रीमद्भागवत महापुराण/स्कंध ०२/अध्यायः ०१ →



परीक्षितो गंगातटे प्रायोपवेशनम्, ऋषिसमागमः,
शुकागमनम्, राज्ञः प्रश्नश्च -

सूत उवाच ।
 महीपतिस्त्वथ तत्कर्म गर्ह्यं
    विचिन्तयन् नात्मकृतं सुदुर्मनाः ।
 अहो मया नीचमनार्यवत्कृतं
    निरागसि ब्रह्मणि गूढतेजसि ॥ १ ॥
 ध्रुवं ततो मे कृतदेवहेलनाद्
    दुरत्ययं व्यसनं नातिदीर्घात् ।
 तदस्तु कामं ह्यघनिष्कृताय मे
    यथा न कुर्यां पुनरेवमद्धा ॥ २ ॥
 अद्यैव राज्यं बलमृद्धकोशं
    प्रकोपितब्रह्मकुलानलो मे ।
 दहत्वभद्रस्य पुनर्न मेऽभूत्
    पापीयसी धीर्द्विजदेवगोभ्यः ॥ ३ ॥
 स चिन्तयन्नित्थमथाशृणोद् यथा
    मुनेः सुतोक्तो निर्‌ऋतिस्तक्षकाख्यः ।
 स साधु मेने न चिरेण तक्षका
    नलं प्रसक्तस्य विरक्तिकारणम् ॥ ४ ॥
 अथो विहायेमममुं च लोकं
    विमर्शितौ हेयतया पुरस्तात् ।
 कृष्णाङ्‌घ्रिसेवामधिमन्यमान
    उपाविशत् प्रायममर्त्यनद्याम् ॥ ५ ॥
 या वै लसच्छ्रीतुलसीविमिश्र
    कृष्णाङ्‌घ्रिरेण्वभ्यधिकाम्बुनेत्री ।
 पुनाति लोकानुभयत्र सेशान्
    कस्तां न सेवेत मरिष्यमाणः ॥ ६ ॥
 इति व्यवच्छिद्य स पाण्डवेयः
    प्रायोपवेशं प्रति विष्णुपद्याम् ।
 दधौ मुकुन्दाङ्‌घ्रिमनन्यभावो
    मुनिव्रतो मुक्तसमस्तसङ्गः ॥ ७ ॥
 तत्रोपजग्मुर्भुवनं पुनाना
    महानुभावा मुनयः सशिष्याः ।
 प्रायेण तीर्थाभिगमापदेशैः
    स्वयं हि तीर्थानि पुनन्ति सन्तः ॥ ८ ॥
 अत्रिर्वसिष्ठश्च्यवनः शरद्वान्
    अरिष्टनेमिर्भृगुरङ्‌गिराश्च ।
 पराशरो गाधिसुतोऽथ राम
    उतथ्य इन्द्रप्रमदेध्मवाहौ ॥ ९ ॥
 मेधातिथिर्देवल आर्ष्टिषेणो
    भारद्वाजो गौतमः पिप्पलादः ।
 मैत्रेय और्वः कवषः कुम्भयोनिः
    द्वैपायनो भगवान् नारदश्च ॥ १० ॥
 अन्ये च देवर्षिब्रह्मर्षिवर्या
    राजर्षिवर्या अरुणादयश्च ।
 नानार्षेयप्रवरान् समेतान्
    अभ्यर्च्य राजा शिरसा ववन्दे ॥ ११ ॥
 सुखोपविष्टेष्वथ तेषु भूयः
    कृतप्रणामः स्वचिकीर्षितं यत् ।
 विज्ञापयामास विविक्तचेता
    उपस्थितोऽग्रेऽभिगृहीतपाणिः ॥ १२ ॥
 राजोवाच
 अहो वयं धन्यतमा नृपाणां
    महत्तमानुग्रहणीयशीलाः ।
 राज्ञां कुलं ब्राह्मणपादशौचाद्
    दूराद् विसृष्टं बत गर्ह्यकर्म ॥ १३ ॥
 तस्यैव मेऽघस्य परावरेशो
    व्यासक्तचित्तस्य गृहेष्वभीक्ष्णम् ।
 निर्वेदमूलो द्विजशापरूपो
    यत्र प्रसक्तो भयमाशु धत्ते ॥ १४ ॥
 तं मोपयातं प्रतियन्तु विप्रा
    गङ्गा च देवी धृतचित्तमीशे ।
 द्विजोपसृष्टः कुहकस्तक्षको वा
    दशत्वलं गायत विष्णुगाथाः ॥ १५ ॥
 पुनश्च भूयाद्‍भगवत्यनन्ते
    रतिः प्रसङ्गश्च तदाश्रयेषु ।
 महत्सु यां यामुपयामि सृष्टिं
    मैत्र्यस्तु सर्वत्र नमो द्विजेभ्यः ॥ १६ ॥
 इति स्म राजाध्यवसाययुक्तः
    प्राचीनमूलेषु कुशेषु धीरः ।
 उदङ्‌मुखो दक्षिणकूल आस्ते
    समुद्रपत्‍न्याः स्वसुतन्यस्तभारः ॥ १७ ॥
 एवं च तस्मिन् नरदेवदेवे
    प्रायोपविष्टे दिवि देवसङ्घाः ।
 प्रशस्य भूमौ व्यकिरन् प्रसूनैः
    मुदा मुहुर्दुन्दुभयश्च नेदुः ॥ १८ ॥
 महर्षयो वै समुपागता ये
    प्रशस्य साध्वित्यनुमोदमानाः ।
 ऊचुः प्रजानुग्रहशीलसारा
    यदुत्तमश्लोकगुणाभिरूपम् ॥ १९ ॥
 न वा इदं राजर्षिवर्य चित्रं
    भवत्सु कृष्णं समनुव्रतेषु ।
 येऽध्यासनं राजकिरीटजुष्टं
    सद्यो जहुर्भगवत्पार्श्वकामाः ॥ २० ॥
 सर्वे वयं तावदिहास्महेऽद्य
    कलेवरं यावदसौ विहाय ।
 लोकं परं विरजस्कं विशोकं
    यास्यत्ययं भागवतप्रधानः ॥ २१ ॥
 आश्रुत्य तद् ऋषिगणवचः परीक्षित्
    समं मधुच्युद् गुरु चाव्यलीकम् ।
 आभाषतैनानभिनन्द्य युक्तान्
    शुश्रूषमाणश्चरितानि विष्णोः ॥ २२ ॥
 समागताः सर्वत एव सर्वे
    वेदा यथा मूर्तिधरास्त्रिपृष्ठे ।
 नेहाथवामुत्र च कश्चनार्थ
    ऋते परानुग्रहमात्मशीलम् ॥ २३ ॥
 ततश्च वः पृच्छ्यमिमं विपृच्छे
    विश्रभ्य विप्रा इति कृत्यतायाम् ।
 सर्वात्मना म्रियमाणैश्च कृत्यं
    शुद्धं च तत्रामृशताभियुक्ताः ॥ २४ ॥
 तत्राभवद् भगवान् व्यासपुत्रो
    यदृच्छया गामटमानोऽनपेक्षः ।
 अलक्ष्यलिङ्गो निजलाभतुष्टो
    वृतश्च बालैरवधूतवेषः ॥ २५ ॥
 तं द्व्यष्टवर्षं सुकुमारपाद
    करोरुबाह्वंसकपोलगात्रम् ।
 चार्वायताक्षोन्नसतुल्यकर्ण
    सुभ्र्‌वाननं कम्बुसुजातकण्ठम् ॥ २६ ॥
 निगूढजत्रुं पृथुतुङ्गवक्षसं
    आवर्तनाभिं वलिवल्गूदरं च ।
 दिगम्बरं वक्त्रविकीर्णकेशं
    प्रलम्बबाहुं स्वमरोत्तमाभम् ॥ २७ ॥
 श्यामं सदापीच्यवयोऽङ्गलक्ष्म्या
    स्त्रीणां मनोज्ञं रुचिरस्मितेन ।
 प्रत्युत्थितास्ते मुनयः स्वासनेभ्यः
    तल्लक्षणज्ञा अपि गूढवर्चसम् ॥ २८ ॥
 स विष्णुरातोऽतिथय आगताय
    तस्मै सपर्यां शिरसाऽऽजहार ।
 ततो निवृत्ता ह्यबुधाः स्त्रियोऽर्भका
    महासने सोपविवेश पूजितः ॥ २९ ॥
 स संवृतस्तत्र महान् महीयसां
    ब्रह्मर्षिराजर्षिदेवर्षि सङ्घैः ।
 व्यरोचतालं भगवान् यथेन्दुः
    ग्रहर्क्षतारानिकरैः परीतः ॥ ३० ॥
 प्रशान्तमासीनमकुण्ठमेधसं
    मुनिं नृपो भागवतोऽभ्युपेत्य ।
 प्रणम्य मूर्ध्नावहितः कृताञ्जलिः
    नत्वा गिरा सूनृतयान्वपृच्छत् ॥ ३१ ॥
 परीक्षिदुवाच ।
 अहो अद्य वयं ब्रह्मन् सत्सेव्याः क्षत्रबन्धवः ।
 कृपयातिथिरूपेण भवद्‌भिस्तीर्थकाः कृताः ॥ ३२ ॥
 येषां संस्मरणात् पुंसां सद्यः शुद्ध्यन्ति वै गृहाः ।
 किं पुनर्दर्शनस्पर्श पादशौचासनादिभिः ॥ ३३ ॥
 सान्निध्यात्ते महायोगिन् पातकानि महान्त्यपि ।
 सद्यो नश्यन्ति वै पुंसां विष्णोरिव सुरेतराः ॥ ३४ ॥
 अपि मे भगवान् प्रीतः कृष्णः पाण्डुसुतप्रियः ।
 पैतृष्वसेयप्रीत्यर्थं तद्‍गोत्रस्यात्तबान्धवः ॥ ३५ ॥
 अन्यथा तेऽव्यक्तगतेः दर्शनं नः कथं नृणाम् ।
 नितरां म्रियमाणानां संसिद्धस्य वनीयसः ॥ ३६ ॥
 अतः पृच्छामि संसिद्धिं योगिनां परमं गुरुम् ।
 पुरुषस्येह यत्कार्यं म्रियमाणस्य सर्वथा ॥ ३७ ॥
 यच्छ्रोतव्यमथो जप्यं यत्कर्तव्यं नृभिः प्रभो ।
 स्मर्तव्यं भजनीयं वा ब्रूहि यद्वा विपर्ययम् ॥ ३८ ॥
 नूनं भगवतो ब्रह्मन् गृहेषु गृहमेधिनाम् ।
 न लक्ष्यते ह्यवस्थानं अपि गोदोहनं क्वचित् ॥ ३९ ॥
 सूत उवाच ।
 एवमाभाषितः पृष्टः स राज्ञा श्लक्ष्णया गिरा ।
 प्रत्यभाषत धर्मज्ञो भगवान् बादरायणिः ॥ ४० ॥


इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां
प्रथमस्कन्धे शुकागमनं नाम एकोनविंशोऽध्यायः ॥ १९ ॥

 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥