श्रीमद्भागवत महापुराण/स्कंध ०१/अध्यायः १८

विकिस्रोतः तः
Jump to navigation Jump to search
← श्रीमद्भागवत महापुराण/स्कंध ०१/अध्यायः १६ श्रीमद्भागवत महापुराण/स्कंध ०१/अध्यायः १८
[[लेखकः :|]]
श्रीमद्भागवत महापुराण/स्कंध ०१/अध्यायः १९ →



परीक्षिते मुनिकुमारः शापः -

सूत उवाच ।
 यो वै द्रौण्यस्त्रविप्लुष्टो न मातुरुदरे मृतः ।
 अनुग्रहाद् भगवतः कृष्णस्याद्‍भुतकर्मणः ॥ १ ॥
 ब्रह्मकोपोत्थिताद् यस्तु तक्षकात् प्राणविप्लवात् ।
 न सम्मुमोहोरुभयाद् भगवत्यर्पिताशयः ॥ २ ॥
 उत्सृज्य सर्वतः सङ्गं विज्ञाताजितसंस्थितिः ।
 वैयासकेर्जहौ शिष्यो गङ्गायां स्वं कलेवरम् ॥ ३ ॥
 नोत्तमश्लोकवार्तानां जुषतां तत्कथामृतम् ।
 स्यात्सम्भ्रमोऽन्तकालेऽपि स्मरतां तत्पदाम्बुजम् ॥ ४ ॥
 तावत्कलिर्न प्रभवेत् प्रविष्टोऽपीह सर्वतः ।
 यावदीशो महानुर्व्यां आभिमन्यव एकराट् ॥ ५ ॥
 यस्मिन्नहनि यर्ह्येव भगवान् उत्ससर्ज गाम् ।
 तदैवेहानुवृत्तोऽसौ अधर्मप्रभवः कलिः ॥ ६ ॥
 नानुद्वेष्टि कलिं सम्राट् सारङ्ग इव सारभुक् ।
 कुशलान्याशु सिद्ध्यन्ति नेतराणि कृतानि यत् ॥ ७ ॥
 किं नु बालेषु शूरेण कलिना धीरभीरुणा ।
 अप्रमत्तः प्रमत्तेषु यो वृको नृषु वर्तते ॥ ८ ॥
 उपवर्णितमेतद् वः पुण्यं पारीक्षितं मया ।
 वासुदेव कथोपेतं आख्यानं यदपृच्छत ॥ ९ ॥
 या याः कथा भगवतः कथनीयोरुकर्मणः ।
 गुणकर्माश्रयाः पुम्भिः संसेव्यास्ता बुभूषुभिः ॥ १० ॥
 ऋषय ऊचुः
 सूत जीव समाः सौम्य शाश्वतीर्विशदं यशः ।
 यस्त्वं शंससि कृष्णस्य मर्त्यानां अमृतं हि नः ॥ ११ ॥
 कर्मण्यस्मिन् अनाश्वासे धूमधूम्रात्मनां भवान् ।
 आपाययति गोविन्द पादपद्मासवं मधु ॥ १२ ॥
 तुलयाम लवेनापि न स्वर्गं नापुनर्भवम् ।
 भगवत् सङ्‌गिसंगस्य मर्त्यानां किमुताशिषः ॥ १३ ॥
 को नाम तृप्येद् रसवित्कथायां
    महत्तमैकान्त परायणस्य ।
 नान्तं गुणानां अगुणस्य जग्मुः
    योगेश्वरा ये भवपाद्ममुख्याः ॥ १४ ॥
 तन्नो भवान् वै भगवत्प्रधानो
    महत्तमैकान्त परायणस्य ।
 हरेरुदारं चरितं विशुद्धं
    शुश्रूषतां नो वितनोतु विद्वन् ॥ १५ ॥
 स वै महाभागवतः परीक्षिद्
    येनापवर्गाख्यमदभ्रबुद्धिः ।
 ज्ञानेन वैयासकिशब्दितेन
    भेजे खगेन्द्रध्वजपादमूलम् ॥ १६ ॥
 तन्नः परं पुण्यमसंवृतार्थं
    आख्यानमत्यद्‍भुत योगनिष्ठम् ।
 आख्याह्यनन्ता चरितोपपन्नं
    पारीक्षितं भागवताभिरामम् ॥ १७ ॥
 सूत उवाच ।
 अहो वयं जन्मभृतोऽद्य हास्म
    वृद्धानुवृत्त्यापि विलोमजाताः ।
 दौष्कुल्यमाधिं विधुनोति शीघ्रं
    महत्तमानामभिधानयोगः ॥ १८ ॥
 कुतः पुनर्गृणतो नाम तस्य
    महत्तमैकान्त परायणस्य ।
 योऽनन्तशक्तिः भगवाननन्तो
    महद्‍गुणत्वाद् यमनन्तमाहुः ॥ १९ ॥
 एतावतालं ननु सूचितेन
    गुणैरसाम्यानतिशायनस्य ।
 हित्वेतरान् प्रार्थयतो विभूतिः
    यस्याङ्‌घ्रिरेणुं जुषतेऽनभीप्सोः ॥ २० ॥
 अथापि यत्पादनखावसृष्टं
    जगद्विरिञ्चोपहृतार्हणाम्भः ।
 सेशं पुनात्यन्यतमो मुकुन्दात्
    को नाम लोके भगवत्पदार्थः ॥ २१ ॥
 यत्रानुरक्ताः सहसैव धीरा
    व्यपोह्य देहादिषु सङ्गमूढम् ।
 व्रजन्ति तत्पारमहंस्यमन्त्यं
    यस्मिन्नहिंसोपशमः स्वधर्मः ॥ २२ ॥
 अहं हि पृष्टोऽर्यमणो भवद्‌भिः
    आचक्ष आत्मावगमोऽत्र यावान् ।
 नभः पतन्त्यात्मसमं पतत्त्रिणः
    तथा समं विष्णुगतिं विपश्चितः ॥ २३ ॥
 एकदा धनुरुद्यम्य विचरन्मृगयां वने ।
 मृगाननुगतः श्रान्तः क्षुधितस्तृषितो भृशम् ॥ २४ ॥
 जलाशयमचक्षाणः प्रविवेश तमाश्रमम् ।
 ददर्श मुनिमासीनं शान्तं मीलितलोचनम् ॥ २५ ॥
 प्रतिरुद्धेन्द्रियप्राण मनोबुद्धिमुपारतम् ।
 स्थानत्रयात्परं प्राप्तं ब्रह्मभूतमविक्रियम् ॥ २६ ॥
 विप्रकीर्णजटाच्छन्नं रौरवेणाजिनेन च ।
 विशुष्यत्तालुरुदकं तथाभूतमयाचत ॥ २७ ॥
 अलब्धतृणभूम्यादिः असम्प्राप्तार्घ्यसूनृतः ।
 अवज्ञातं इवात्मानं मन्यमानश्चुकोप ह ॥ २८ ॥
 अभूतपूर्वः सहसा क्षुत्तृड्भ्यामर्दितात्मनः ।
 ब्राह्मणं प्रत्यभूद्‍ब्रह्मन् मत्सरो मन्युरेव च ॥ २९ ॥
 स तु ब्रह्मऋषेरंसे गतासुमुरगं रुषा ।
 विनिर्गच्छन् धनुष्कोट्या निधाय पुरमागत् ॥ ३० ॥
 एष किं निभृताशेष करणो मीलितेक्षणः ।
 मृषा समाधिराहोस्वित् किं नु स्यात् क्षत्रबन्धुभिः ॥ ३१ ॥
 तस्य पुत्रोऽतितेजस्वी विहरन् बालकोऽर्भकैः ।
 राज्ञाघं प्रापितं तातं श्रुत्वा तत्रेदमब्रवीत् ॥ ३२ ॥
 अहो अधर्मः पालानां पीव्नां बलिभुजामिव ।
 स्वामिन्यघं यद् दासानां द्वारपानां शुनामिव ॥ ३३ ॥
 ब्राह्मणैः क्षत्रबन्धुर्हि गृहपालो निरूपितः ।
 स कथं तद्‍गृहे द्वाःस्थः सभाण्डं भोक्तुमर्हति ॥ ३४ ॥
 कृष्णे गते भगवति शास्तर्युत्पथगामिनाम् ।
 तद् भिन्नसेतूनद्याहं शास्मि पश्यत मे बलम् ॥ ३५ ॥
 इत्युक्त्वा रोषताम्राक्षो वयस्यान् ऋषिबालकः ।
 कौशिक्याप उपस्पृश्य वाग्वज्रं विससर्ज ह ॥ ३६ ॥
 इति लङ्‌घितमर्यादं तक्षकः सप्तमेऽहनि ।
 दङ्क्ष्यति स्म कुलाङ्गारं चोदितो मे ततद्रुहम् ॥ ३७ ॥
 ततोऽभ्येत्याश्रमं बालो गले सर्पकलेवरम् ।
 पितरं वीक्ष्य दुःखार्तो मुक्तकण्ठो रुरोद ह ॥ ३८ ॥
 स वा आङ्‌गिरसो ब्रह्मन् श्रुत्वा सुतविलापनम् ।
 उन्मील्य शनकैर्नेत्रे दृष्ट्वा चांसे मृतोरगम् ॥ ३९ ॥
 विसृज्य तं च पप्रच्छ वत्स कस्माद्धि रोदिषि ।
 केन वा तेऽपकृतं इत्युक्तः स न्यवेदयत् ॥ ४० ॥
 निशम्य शप्तमतदर्हं नरेन्द्रं
    स ब्राह्मणो नात्मजमभ्यनन्दत् ।
 अहो बतांहो महदद्य ते कृतं
    अल्पीयसि द्रोह उरुर्दमो धृतः ॥ ४१ ॥
 न वै नृभिर्नरदेवं पराख्यं
    सम्मातुमर्हस्यविपक्वबुद्धे ।
 यत्तेजसा दुर्विषहेण गुप्ता
    विन्दन्ति भद्राण्यकुतोभयाः प्रजाः ॥ ४२ ॥
 अलक्ष्यमाणे नरदेवनाम्नि
    रथाङ्गपाणावयमङ्ग लोकः ।
 तदा हि चौरप्रचुरो विनङ्क्ष्यति
    अरक्ष्यमाणोऽविव रूथवत् क्षणात् ॥ ४३ ॥
 तदद्य नः पापमुपैत्यनन्वयं
    यन्नष्टनाथस्य वसोर्विलुम्पकात् ।
 परस्परं घ्नन्ति शपन्ति वृञ्जते
    पशून् स्त्रियोऽर्थाम् पुरुदस्यवो जनाः ॥ ४४ ॥
 तदाऽऽर्यधर्मः प्रविलीयते नृणां
    वर्णाश्रमाचारयुतस्त्रयीमयः ।
 ततोऽर्थकामाभिनिवेशितात्मनां
    शुनां कपीनामिव वर्णसङ्करः ॥ ४५ ॥
 धर्मपालो नरपतिः स तु सम्राड् बृहच्छ्रवाः ।
 साक्षान् महाभागवतो राजर्षिर्हयमेधयाट् ॥ ४६ ॥
 क्षुत्तृट्श्रमयुतो दीनो नैवास्मच्छापमर्हति ॥ ४६.५ ।
 अपापेषु स्वभृत्येषु बालेनापक्वबुद्धिना ।
 पापं कृतं तद्‍भगवान् सर्वात्मा क्षन्तुमर्हति ॥ ४७ ॥
 तिरस्कृता विप्रलब्धाः शप्ताः क्षिप्ता हता अपि ।
 नास्य तत्प्रतिकुर्वन्ति तद्‍भक्ताः प्रभवोऽपि हि ॥ ४८ ॥
 इति पुत्रकृताघेन सोऽनुतप्तो महामुनिः ।
 स्वयं विप्रकृतो राज्ञा नैवाघं तदचिन्तयत् ॥ ४९ ॥
 प्रायशः साधवो लोके परैर्द्वन्द्वेषु योजिताः ।
 न व्यथन्ति न हृष्यन्ति यत आत्मागुणाश्रयः ॥ ५० ॥


इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां
प्रथमस्कन्धे विप्रशापोपलम्भनं नाम्ना अष्टादशोऽध्यायः ॥ १८ ॥

 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥