श्रीमद्भागवत महापुराण/स्कंध ०१/अध्यायः १७

विकिस्रोतः तः
Jump to navigation Jump to search
← श्रीमद्भागवत महापुराण/स्कंध ०१/अध्यायः १६ श्रीमद्भागवत महापुराण/स्कंध ०१/अध्यायः १७
[[लेखकः :|]]
श्रीमद्भागवत महापुराण/स्कंध ०१/अध्यायः १८ →



परीक्षित् धर्मसंवादः, कलिनिग्रहणं च -

सूत उवाच ।
 तत्र गोमिथुनं राजा हन्यमानमनाथवत् ।
 दण्डहस्तं च वृषलं ददृशे नृपलाञ्छनम् ॥ १ ॥
 वृषं मृणालधवलं मेहन्तमिव बिभ्यतम् ।
 वेपमानं पदैकेन सीदन्तं शूद्रताडितम् ॥ २ ॥
 गां च धर्मदुघां दीनां भृशं शूद्रपदाहताम् ।
 विवत्सामाश्रुवदनां क्षामां यवसमिच्छतीम् ॥ ३ ॥
 पप्रच्छ रथमारूढः कार्तस्वरपरिच्छदम् ।
 मेघगम्भीरया वाचा समारोपितकार्मुकः ॥ ४ ॥
 कस्त्वं मच्छरणे लोके बलाद्धंस्यबलान् बली ।
 नरदेवोऽसि वेषेण नटवत्कर्मणाद्विजः ॥ ५ ॥
 यस्त्वं कृष्णे गते दूरं सहगाण्डीवधन्वना ।
 शोच्योऽस्यशोच्यान् रहसि प्रहरन्वधमर्हसि ॥ ६ ॥
 त्वं वा मृणालधवलः पादैर्न्यूनः पदा चरन् ।
 वृषरूपेण किं कश्चिद् देवो नः परिखेदयन् ॥ ७ ॥
 न जातु कौरवेन्द्राणां दोर्दण्डपरिरम्भिते ।
 भूतलेऽनुपतन्त्यस्मिन् विना ते प्राणिनां शुचः ॥ ८ ॥
 मा सौरभेयानुशुचो व्येतु ते वृषलाद् भयम् ।
 मा रोदीरम्ब भद्रं ते खलानां मयि शास्तरि ॥ ९ ॥
 यस्य राष्ट्रे प्रजाः सर्वाः त्र्यस्यन्ते साध्व्यसाधुभिः ।
 तस्य मत्तस्य नश्यन्ति कीर्तिरायुर्भगो गतिः ॥ १० ॥
 एष राज्ञां परो धर्मो ह्यार्तानां आर्तिनिग्रहः ।
 अत एनं वधिष्यामि भूतद्रुहमसत्तमम् ॥ ११ ॥
 कोऽवृश्चत् तव पादांस्त्रीन् सौरभेय चतुष्पद ।
 मा भूवंस्त्वादृशा राष्ट्रे राज्ञां कृष्णानुवर्तिनाम् ॥ १२ ॥
 आख्याहि वृष भद्रं वः साधूनां अकृतागसाम् ।
 आत्मवैरूप्यकर्तारं पार्थानां कीर्तिदूषणम् ॥ १३ ॥
 जनेऽनागस्यघं युञ्जन् सर्वतोऽस्य च मद्‍भयम् ।
 साधूनां भद्रमेव स्याद् असाधुदमने कृते ॥ १४ ॥
 अनागःस्विह भूतेषु य आगस्कृन् निरङ्कुशः ।
 आहर्तास्मि भुजं साक्षाद् अमर्त्यस्यापि साङ्गदम् ॥ १५ ॥
 राज्ञो हि परमो धर्मः स्वधर्मस्थानुपालनम् ।
 शासतोऽन्यान् यथाशास्त्रं अनापद्युत्पथानिह ॥ १६ ॥
 धर्म उवाच ।
 एतद् वः पाण्डवेयानां युक्तमार्ताभयं वचः ।
 येषां गुणगणैः कृष्णो दौत्यादौ भगवान् कृतः ॥ १७ ॥
 न वयं क्लेशबीजानि यतः स्युः पुरुषर्षभ ।
 पुरुषं तं विजानीमो वाक्यभेदविमोहिताः ॥ १८ ॥
 केचिद् विकल्पवसना आहुरात्मानमात्मनः ।
 दैवमन्ये परे कर्म स्वभावं अपरे प्रभुम् ॥ १९ ॥
 अप्रतर्क्यादनिर्देश्याद् इति केष्वपि निश्चयः ।
 अत्रानुरूपं राजर्षे विमृश स्वमनीषया ॥ २० ॥
 सूत उवाच ।
 एवं धर्मे प्रवदति स सम्राड् द्विजसत्तम ।
 समाहितेन मनसा विखेदः पर्यचष्ट तम् ॥ २१ ॥
 राजोवाच -
धर्मं ब्रवीषि धर्मज्ञ धर्मोऽसि वृषरूपधृक् ।
 यद् अधर्मकृतः स्थानं सूचकस्यापि तद्‍भवेत् ॥ २२ ॥
 अथवा देवमायाया नूनं गतिरगोचरा ।
 चेतसो वचसश्चापि भूतानामिति निश्चयः ॥ २३ ॥
 तपः शौचं दया सत्यं इति पादाः कृते कृताः ।
 अधर्मांशैस्त्रयो भग्नाः स्मयसङ्गमदैस्तव ॥ २४ ॥
 इदानीं धर्म पादस्ते सत्यं निर्वर्तयेद्यतः ।
 तं जिघृक्षत्यधर्मोऽयं अनृतेनैधितः कलिः ॥ २५ ॥
 इयं च भूमिर्भगवता न्यासितोरुभरा सती ।
 श्रीमद्‌भिः तत्पदन्यासैः सर्वतः कृतकौतुका ॥ २६ ॥
 शोचत्यश्रुकला साध्वी दुर्भगेवोज्झिताधुना ।
 अब्रह्मण्या नृपव्याजाः शूद्रा भोक्ष्यन्ति मामिति ॥ २७ ॥
 इति धर्मं महीं चैव सान्त्वयित्वा महारथः ।
 निशातमाददे खड्गं कलयेऽधर्महेतवे ॥ २८ ॥
 तं जिघांसुमभिप्रेत्य विहाय नृपलाञ्छनम् ।
 तत्पादमूलं शिरसा समगाद् भयविह्वलः ॥ २९ ॥
 पतितं पादयोर्वीरः कृपया दीनवत्सलः ।
 शरण्यो नावधीच्छ्लोक्य आह चेदं हसन्निव ॥ ३० ॥
 राजोवाच
 न ते गुडाकेशयशोधराणां
    बद्धाञ्जलेर्वै भयमस्ति किञ्चित् ।
 न वर्तितव्यं भवता कथञ्चन
    क्षेत्रे मदीये त्वमधर्मबन्धुः ॥ ३१ ॥
 त्वां वर्तमानं नरदेवदेहेषु
    अनुप्रवृत्तोऽयमधर्मपूगः ।
 लोभोऽनृतं चौर्यमनार्यमंहो
    ज्येष्ठा च माया कलहश्च दम्भः ॥ ३२ ॥
 न वर्तितव्यं तदधर्मबन्धो
    धर्मेण सत्येन च वर्तितव्ये ।
 ब्रह्मावर्ते यत्र यजन्ति यज्ञैः
    यज्ञेश्वरं यज्ञवितानविज्ञाः ॥ ३३ ॥
 यस्मिन् हरिर्भगवानिज्यमान
    इज्यात्ममूर्तिर्यजतां शं तनोति ।
 कामानमोघान् स्थिरजङ्गमानां
    अन्तर्बहिर्वायुरिवैष आत्मा ॥ ३४ ॥
 सूत उवाच ।
 परीक्षितैवमादिष्टः स कलिर्जातवेपथुः ।
 तमुद्यतासिमाहेदं दण्डपाणिमिवोद्यतम् ॥ ३५ ॥
 कलिरुवाच ।
 यत्र क्व वाथ वत्स्यामि सार्वभौम तवाज्ञया ।
 लक्षये तत्र तत्रापि त्वामात्तेषुशरासनम् ॥ ३६ ॥
 तन्मे धर्मभृतां श्रेष्ठ स्थानं निर्देष्टुमर्हसि ।
 यत्रैव नियतो वत्स्य आतिष्ठन् तेऽनुशासनम् ॥ ३७ ॥
 सूत उवाच ।
 अभ्यर्थितस्तदा तस्मै स्थानानि कलये ददौ ।
 द्यूतं पानं स्त्रियः सूना यत्राधर्मश्चतुर्विधः ॥ ३८ ॥
 पुनश्च याचमानाय जातरूपमदात्प्रभुः ।
 ततोऽनृतं मदं कामं रजो वैरं च पञ्चमम् ॥ ३९ ॥
 अमूनि पञ्च स्थानानि ह्यधर्मप्रभवः कलिः ।
 औत्तरेयेण दत्तानि न्यवसत् तन्निदेशकृत् ॥ ४० ॥
 अथैतानि न सेवेत बुभूषुः पुरुषः क्वचित् ।
 विशेषतो धर्मशीलो राजा लोकपतिर्गुरुः ॥ ४१ ॥
 वृषस्य नष्टांस्त्रीन् पादान् तपः शौचं दयामिति ।
 प्रतिसन्दध आश्वास्य महीं च समवर्धयत् ॥ ४२ ॥
 स एष एतर्ह्यध्यास्त आसनं पार्थिवोचितम् ।
 पितामहेनोपन्यस्तं राज्ञारण्यं विविक्षता ॥ ४३ ॥
 आस्तेऽधुना स राजर्षिः कौरवेन्द्रश्रियोल्लसन् ।
 गजाह्वये महाभागः चक्रवर्ती बृहच्छ्रवाः ॥ ४४ ॥
 इत्थम्भूतानुभावोऽयं अभिमन्युसुतो नृपः ।
 यस्य पालयतः क्षौणीं यूयं सत्राय दीक्षिताः ॥ ४५ ॥


इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां
प्रथमस्कन्धे कलिनिग्रहो नाम सप्तदशोऽध्यायः ॥ १७ ॥

 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥