श्रीमद्भागवत महापुराण/स्कंध ०१/अध्यायः १५

विकिस्रोतः तः
Jump to navigation Jump to search
← श्रीमद्भागवत महापुराण/स्कंध ०१/अध्यायः १४ श्रीमद्भागवत महापुराण/स्कंध ०१/अध्यायः १५
[[लेखकः :|]]
श्रीमद्भागवत महापुराण/स्कंध ०१/अध्यायः १६ →



अर्जुनाद् यदुकुलसंहारं भगवतस्तिरोधानं च
श्रुत्वा पाण्डवानां हिमालयदिशिमहाप्रयाणम् -




सूत उवाच ।
 एवं कृष्णसखः कृष्णो भ्रात्रा राज्ञा विकल्पितः ।
 नानाशङ्‌कास्पदं रूपं कृष्णविश्लेषकर्शितः ॥ १ ॥
 शोकेन शुष्यद् वदन हृत्सरोजो हतप्रभः ।
 विभुं तमेवानुध्यायन् नाशक्नोत् प्रतिभाषितुम् ॥ २ ॥
 कृच्छ्रेण संस्तभ्य शुचः पाणिनाऽऽमृज्य नेत्रयोः ।
 परोक्षेण समुन्नद्ध प्रणयौत्कण्ठ्य कातरः ॥ ३ ॥
 सख्यं मैत्रीं सौहृदं च सारथ्यादिषु संस्मरन् ।
 नृपमग्रजमित्याह बाष्पगद्‍गदया गिरा ॥ ४ ॥
 अर्जुन उवाच ।
 वञ्चितोऽहं महाराज हरिणा बन्धुरूपिणा ।
 येन मेऽपहृतं तेजो देवविस्मापनं महत् ॥ ५ ॥
 यस्य क्षणवियोगेन लोको ह्यप्रियदर्शनः ।
 उक्थेन रहितो ह्येष मृतकः प्रोच्यते यथा ॥ ६ ॥
 यत् संश्रयाद् द्रुपदगेहमुपागतानां
     राज्ञां स्वयंवरमुखे स्मरदुर्मदानाम् ।
 तेजो हृतं खलु मयाभिहतश्च मत्स्यः
     सज्जीकृतेन धनुषाधिगता च कृष्णा ॥ ७ ॥
 यत्सन्निधावहमु खाण्डवमग्नयेऽदां
     इन्द्रं च सामरगणं तरसा विजित्य ।
 लब्धा सभा मयकृताद्‍भुतशिल्पमाया
     दिग्भ्योऽहरन्नृपतयो बलिमध्वरे ते ॥ ८ ॥
 यत्तेजसा नृपशिरोऽङ्‌घ्रिमहन्मखार्थ
     आर्योऽनुजस्तव गजायुतसत्त्ववीर्यः ।
 तेनाहृताः प्रमथनाथमखाय भूपा
     यन्मोचितास्तदनयन् बलिमध्वरे ते ॥ ९ ॥
 पत्‍न्यास्तवाधिमखकॢप्तमहाभिषेक
     श्लाघिष्ठचारुकबरं कितवैः सभायाम् ।
 स्पृष्टं विकीर्य पदयोः पतिताश्रुमुख्या
     यस्तत्स्त्रियोऽकृत तेशविमुक्तकेशाः ॥ १० ॥
 यो नो जुगोप वन एत्य दुरन्तकृच्छ्राद्
     दुर्वाससोऽरिरचितादयुताग्रभुग् यः ।
 शाकान्नशिष्टमुपयुज्य यतस्त्रिलोकीं
     तृप्ताममंस्त सलिले विनिमग्नसङ्‌घः ॥ ११ ॥
 यत्तेजसाथ भगवान् युधि शूलपाणिः
     विस्मापितः सगिरिजोऽस्त्रमदान्निजं मे ।
 अन्येऽपि चाहममुनैव कलेवरेण
     प्राप्तो महेन्द्रभवने महदासनार्धम् ॥ १२ ॥
 तत्रैव मे विहरतो भुजदण्डयुग्मं
     गाण्डीवलक्षणमरातिवधाय देवाः ।
 सेन्द्राः श्रिता यदनुभावितमाजमीढ
     तेनाहमद्य मुषितः पुरुषेण भूम्ना ॥ १३ ॥
 यद्‍बान्धवः कुरुबलाब्धिमनन्तपारं
     एको रथेन ततरेऽहमतीर्यसत्त्वम् ।
 प्रत्याहृतं बहु धनं च मया परेषां
     तेजास्पदं मणिमयं च हृतं शिरोभ्यः ॥ १४ ॥
 यो भीष्मकर्णगुरुशल्यचमूष्वदभ्र
     राजन्यवर्यरथमण्डलमण्डितासु ।
 अग्रेचरो मम विभो रथयूथपानां
     आयुर्मनांसि च दृशा सह ओज आर्च्छत् ॥ १५ ॥
 यद्दोःषु मा प्रणिहितं गुरुभीष्मकर्ण
     नप्तृत्रिगर्तशलसैन्धवबाह्लिकाद्यैः ।
 अस्त्राण्यमोघमहिमानि निरूपितानि
     नो पस्पृशुर्नृहरिदासमिवासुराणि ॥ १६ ॥
 सौत्ये वृतः कुमतिनात्मद ईश्वरो मे
     यत्पादपद्ममभवाय भजन्ति भव्याः ।
 मां श्रान्तवाहमरयो रथिनो भुविष्ठं
     न प्राहरन् यदनुभावनिरस्तचित्ताः ॥ १७ ॥
 नर्माण्युदाररुचिरस्मितशोभितानि
     हे पार्थ हेऽर्जुन सखे कुरुनन्दनेति ।
 सञ्जल्पितानि नरदेव हृदिस्पृशानि
     स्मर्तुर्लुठन्ति हृदयं मम माधवस्य ॥ १८ ॥
 शय्यासनाटनविकत्थन भोजनादिषु
     ऐक्याद्वयस्य ऋतवानिति विप्रलब्धः ।
 सख्युः सखेव पितृवत्तनयस्य सर्वं
     सेहे महान्महितया कुमतेरघं मे ॥ १९ ॥
 सोऽहं नृपेन्द्र रहितः पुरुषोत्तमेन
     सख्या प्रियेण सुहृदा हृदयेन शून्यः ।
 अध्वन्युरुक्रमपरिग्रहमङ्‌ग रक्षन्
     गोपैरसद्‌भिरबलेव विनिर्जितोऽस्मि ॥ २० ॥
 तद्वै धनुस्त इषवः स रथो हयास्ते
     सोऽहं रथी नृपतयो यत आनमन्ति ।
 सर्वं क्षणेन तदभूदसदीशरिक्तं
     भस्मन् हुतं कुहकराद्धमिवोप्तमूष्याम् ॥ २१ ॥
 राजंस्त्वयानुपृष्टानां सुहृदां नः सुहृत्पुरे ।
 विप्रशापविमूढानां निघ्नतां मुष्टिभिर्मिथः ॥ २२ ॥
 वारुणीं मदिरां पीत्वा मदोन्मथितचेतसाम् ।
 अजानतां इवान्योन्यं चतुःपञ्चावशेषिताः ॥ २३ ॥
 प्रायेणैतद् भगवत ईश्वरस्य विचेष्टितम् ।
 मिथो निघ्नन्ति भूतानि भावयन्ति च यन्मिथः ॥ २४ ॥
 जलौकसां जले यद्वन् महान्तोऽदन्त्यणीयसः ।
 दुर्बलान्बलिनो राजन् महान्तो बलिनो मिथः ॥ २५ ॥
 एवं बलिष्ठैर्यदुभिः महद्‌भिरितरान् विभुः ।
 यदून् यदुभिरन्योन्यं भूभारान् संजहार ह ॥ २६ ॥
 देशकालार्थयुक्तानि हृत्तापोपशमानि च ।
 हरन्ति स्मरतश्चित्तं गोविन्दाभिहितानि मे ॥ २७ ॥
 सूत उवाच ।
 एवं चिन्तयतो जिष्णोः कृष्णपादसरोरुहम् ।
 सौहार्देनातिगाढेन शान्ताऽऽसीद् विमला मतिः ॥ २८ ॥
 वासुदेवाङ्‌घ्र्यनुध्यान परिबृंहितरंहसा ।
 भक्त्या निर्मथिताशेष कषायधिषणोऽर्जुनः ॥ २९ ॥
 गीतं भगवता ज्ञानं य त् तत् सङ्‌ग्राममूर्धनि ।
 कालकर्मतमोरुद्धं पुनरध्यगमत् प्रभुः ॥ ३० ॥
 विशोको ब्रह्मसम्पत्त्या सञ्छिन्नद्वैतसंशयः ।
 लीनप्रकृतिनैर्गुण्याद् अलिङ्‌गत्वादसम्भवः ॥ ३१ ॥
 निशम्य भगवन्मार्गं संस्थां यदुकुलस्य च ।
 स्वःपथाय मतिं चक्रे निभृतात्मा युधिष्ठिरः ॥ ३२ ॥
 पृथाप्यनुश्रुत्य धनञ्जयोदितं
     नाशं यदूनां भगवद्‍गतिं च ताम् ।
 एकान्तभक्त्या भगवत्यधोक्षजे
     निवेशितात्मोपरराम संसृतेः ॥ ३३ ॥
 ययाहरद् भुवो भारं तां तनुं विजहावजः ।
 कण्टकं कण्टकेनेव द्वयं चापीशितुः समम् ॥ ३४ ॥
 यथा मत्स्यादिरूपाणि धत्ते जह्याद् यथा नटः ।
 भूभारः क्षपितो येन जहौ तच्च कलेवरम् ॥ ३५ ॥
 यदा मुकुन्दो भगवानिमां महीं
     जहौ स्वतन्वा श्रवणीयसत्कथः ।
 तदाहरेवाप्रतिबुद्धचेतसां
     अधर्महेतुः कलिरन्ववर्तत ॥ ३६ ॥
 युधिष्ठिरस्तत्परिसर्पणं बुधः
     पुरे च राष्ट्रे च गृहे तथाऽऽत्मनि ।
 विभाव्य लोभानृतजिह्महिंसनादि
     अधर्मचक्रं गमनाय पर्यधात् ॥ ३७ ॥
 स्वराट् पौत्रं विनयिनं आत्मनः सुसमं गुणैः ।
 तोयनीव्याः पतिं भूमेः अभ्यषिञ्चद् गजाह्वये ॥ ३८ ॥
 मथुरायां तथा वज्रं शूरसेनपतिं ततः ।
 प्राजापत्यां निरूप्येष्टिं अग्नीनपिबदीश्वरः ॥ ३९ ॥
 विसृज्य तत्र तत्सर्वं दुकूलवलयादिकम् ।
 निर्ममो निरहङ्‌कारः सञ्छिन्नाशेषबन्धनः ॥ ४० ॥
 वाचं जुहाव मनसि तत्प्राण इतरे च तम् ।
 मृत्यावपानं सोत्सर्गं तं पञ्चत्वे ह्यजोहवीत् ॥ ४१ ॥
 त्रित्वे हुत्वा च पञ्चत्वं तच्चैकत्वेऽजुहोन्मुनिः ।
 सर्वमात्मन्यजुहवीद् ब्रह्मण्यात्मानमव्यये ॥ ४२ ॥
 चीरवासा निराहारो बद्धवाङ्‌ मुक्तमूर्धजः ।
 दर्शयन् आत्मनो रूपं जडोन्मत्त पिशाचवत् ॥ ४३ ॥
 अनवेक्षमाणो निरगाद् अशृण्वन् बधिरो यथा ।
 उदीचीं प्रविवेशाशां गतपूर्वां महात्मभिः ।
 हृदि ब्रह्म परं ध्यायन् आवर्तेत यतो गतः ॥ ४४ ॥
 सर्वे तमनुनिर्जग्मुः भ्रातरः कृतनिश्चयाः ।
 कलिना अधर्ममित्रेण दृष्ट्वा स्पृष्टाः प्रजा भुवि ॥ ४५ ॥
 ते साधुकृतसर्वार्था ज्ञात्वा आत्यन्तिकमात्मनः ।
 मनसा धारयामासुः वैकुण्ठ चरणाम्बुजम् ॥ ४६ ॥
 तद्ध्यानोद्रिक्तया भक्त्या विशुद्धधिषणाः परे ।
 तस्मिन् नारायणपदे एकान्तमतयो गतिम् ॥ ४७ ॥
 अवापुः दुरवापां ते असद्‌भिर्विषयात्मभिः ।
 विधूतकल्मषा स्थानं विरजेनात्मनैव हि ॥ ४८ ॥
 विदुरोऽपि परित्यज्य प्रभासे देहमात्मनः ।
 कृष्णावेशेन तच्चित्तः पितृभिः स्वक्षयं ययौ ॥ ४९ ॥
 द्रौपदी च तदाज्ञाय पतीनां अनपेक्षताम् ।
 वासुदेवे भगवति ह्येकान्तमतिराप तम् ॥ ५० ॥
 यः श्रद्धयैतद्‍भगवत्प्रियाणां
     पाण्डोः सुतानामिति सम्प्रयाणम् ।
 श्रृणोत्यलं स्वस्त्ययनं पवित्रं
     लब्ध्वा हरौ भक्तिमुपैति सिद्धिम् ॥ ५१ ॥


इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां
प्रथमस्कन्धे पाण्डवस्वर्गारोहणं नाम पञ्चदशोऽध्यायः ॥ १५ ॥

 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥