श्रीमद्भागवतपुराणम्/स्कन्धः ५/अध्यायः २३

विकिस्रोतः तः
Jump to navigation Jump to search

श्रीमद्‌भागवत महापुराण

पञ्चमः स्कन्धः - त्रयोविंशोऽध्यायः[सम्पाद्यताम्]

शिशुमारसंस्थावर्णनम् -[सम्पाद्यताम्]

श्रीशुक उवाच 

अथ तस्मात्परतस्त्रयोदशलक्षयोजनान्तरतो 

यत्तद्विष्णोः परमं पदमभिवदन्ति यत्र ह महाभागवतो 

धुव औत्तानपादिरग्निनेन्द्रेण प्रजापतिना कश्यपेन 

धर्मेण च समकालयुग्भिः सबहुमानं दक्षिणतः 

क्रियमाण इदानीमपि कल्पजीविनामाजीव्य 

उपास्ते तस्येहानुभाव उपवर्णितः ॥ १ ॥ 

स हि सर्वेषां ज्योतिर्गणानां ग्रहनक्षत्रादीना- 

मनिमिषेणाव्यक्तरंहसा भगवता कालेन 

भ्राम्यमाणानां स्थाणुरिवावष्टम्भ ईश्वरेण विहितः 

शश्वदवभासते ॥ २ ॥ 

यथा मेढीस्तम्भ आक्रमणपशवः संयोजिता- 

स्त्रिभिस्त्रिभिः सवनैर्यथास्थानं मण्डलानि चरन्त्येवं 

भगणा ग्रहादय एतस्मिन्नन्तर्बहिर्योगेन कालचक्र 

आयोजिता ब्रुवमेवावलम्ब्य वायुनोदीर्यमाणा 

आकल्पान्तं परिचङ्क्रमन्ति नभसि यथा मेघाः 

श्येनादयो वायुवशाः कर्मसारथयः परिवर्तन्ते 

एवं ज्योतिर्गणाः प्रकृतिपुरुषसंयोगानुगृहीताः 

कर्मनिर्मितगतयो भुवि न पतन्ति ॥ ३ ॥ 

केचनैतज्योतिरनीकं शिशुमारसंस्थानेन भगवतो 

वासुदेवस्य योगधारणायामनुवर्णयन्ति ॥ ४ ॥ 

यस्य पुच्छाग्रेऽवाक्‌शिरसः कुण्डलीभूतदेहस्य 

ध्रुव उपकल्पितस्तस्य लाङ्‌गूले प्रजापतिरग्निरिन्द्रो 

धर्म इति पुच्छमूले धाता विधाता च कट्यां 

सप्तर्षयः । तस्य दक्षिणावर्तकुण्डलीभूतशरीरस्य 

यान्युदगयनानि दक्षिणपार्श्वे तु नक्षत्राण्युपकल्पयन्ति 

दक्षिणायनानि तु सव्ये । यथा शिशुमारस्य 

कुण्डलाभोगसन्निवेशस्य पार्श्वयोरुभयोरप्यवयवाः 

समसंख्या भवन्ति । पृष्ठे त्वजवीथी आकाशगङ्गा 

चोदरतः ॥ ५ ॥ 

पुनर्वसुपुष्यौ दक्षिणवामयोः श्रोण्योरार्द्राश्लेषे 

च दक्षिणवामयोः पश्चिमयोः पादयोरभिजि- 

दुत्तराषाढे दशि क्षणवामयोर्नासिकयोर्यथासंख्यं 

श्रवणपूर्वाषाढे दक्षिणवामयोर्लोचनयोर्धनिष्ठा मूलं 

च दक्षिणवामयोः कर्णयोर्मघादीन्यष्ट नक्षत्राणि 

दक्षिणायनानि वामपार्श्ववङ्क्रिषु युञ्जीत तथैव 

मृगशीर्षादीन्युदगयनानि दशि क्षणपार्श्ववङ्क्रिषु 

प्रातिलोम्येन प्रयुञ्जीत शतभिषाज्येष्ठे स्कन्धयो- 

र्दक्षिणवामयोर्न्यसेत् ॥ ६ ॥ 

उत्तराहनावगस्तिरधराहनौ यमो मुखेषु 

चाङ्गारकः शनैश्चर उपस्थे बृहस्पतिः ककुदि 

व क्षस्यादित्यो हृदये नारायणो मनसि चन्द्रो 

नाभ्यामुशना स्तनयोरश्विनौबुधः प्राणापानयो 

राहुर्गले केतवः सर्वाङ्गेषु रोमसु सर्वे तारागणाः ॥ ७ ॥ 

एतदु हैव भगवतो विष्णोः सर्वदेवतामयं 

रूपमहरहः सन्ध्यायां प्रयतो वाग्यतो निरीक्षमाण 

उपतिष्ठेत नमो ज्योतिर्लोकाय कालायनाया - 

निमिषां पतये महापुरुषायाभिधीमहीति ॥ ८ ॥ 

ग्रहर्क्षतारामयमाधिदैविकं 

     पापापहं मन्त्रकृतां त्रिकालम् । 

नमस्यतः स्मरतो वा त्रिकालं 

     नश्येत तत्कालजमाशु पापम् ॥ ९ ॥ 

इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां [सम्पाद्यताम्]

पञ्चमस्कन्धे शिशुमारसंस्थावर्णनं नाम त्रयोविंशोऽध्यायः ॥ २३ ॥ [सम्पाद्यताम्]

हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥[सम्पाद्यताम्]