श्रीमद्भागवतपुराणम्/स्कन्धः ५/अध्यायः २३

विकिस्रोतः तः

श्रीमद्‌भागवत महापुराण

पञ्चमः स्कन्धः - त्रयोविंशोऽध्यायः[सम्पाद्यताम्]

शिशुमारसंस्थावर्णनम् -[सम्पाद्यताम्]

श्रीशुक उवाच
अथ तस्मात्परतस्त्रयोदशलक्षयोजनान्तरतो
यत्तद्विष्णोः परमं पदमभिवदन्ति यत्र ह महाभागवतो
धुव औत्तानपादिरग्निनेन्द्रेण प्रजापतिना कश्यपेन
धर्मेण च समकालयुग्भिः सबहुमानं दक्षिणतः
क्रियमाण इदानीमपि कल्पजीविनामाजीव्य
उपास्ते तस्येहानुभाव उपवर्णितः ॥ १ ॥
स हि सर्वेषां ज्योतिर्गणानां ग्रहनक्षत्रादीना-
मनिमिषेणाव्यक्तरंहसा भगवता कालेन
भ्राम्यमाणानां स्थाणुरिवावष्टम्भ ईश्वरेण विहितः
शश्वदवभासते ॥ २ ॥
यथा मेढीस्तम्भ आक्रमणपशवः संयोजिता-
स्त्रिभिस्त्रिभिः सवनैर्यथास्थानं मण्डलानि चरन्त्येवं
भगणा ग्रहादय एतस्मिन्नन्तर्बहिर्योगेन कालचक्र
आयोजिता ध्रुवमेवावलम्ब्य वायुनोदीर्यमाणा
आकल्पान्तं परिचङ्क्रमन्ति नभसि यथा मेघाः
श्येनादयो वायुवशाः कर्मसारथयः परिवर्तन्ते
एवं ज्योतिर्गणाः प्रकृतिपुरुषसंयोगानुगृहीताः
कर्मनिर्मितगतयो भुवि न पतन्ति ॥ ३ ॥
केचनैतज्योतिरनीकं शिशुमारसंस्थानेन भगवतो
वासुदेवस्य योगधारणायामनुवर्णयन्ति ॥ ४ ॥
यस्य पुच्छाग्रेऽवाक्‌शिरसः कुण्डलीभूतदेहस्य
ध्रुव उपकल्पितस्तस्य लाङ्गूले प्रजापतिरग्निरिन्द्रो
धर्म इति पुच्छमूले धाता विधाता च कट्यां
सप्तर्षयः । तस्य दक्षिणावर्तकुण्डलीभूतशरीरस्य
यान्युदगयनानि दक्षिणपार्श्वे तु नक्षत्राण्युपकल्पयन्ति
दक्षिणायनानि तु सव्ये । यथा शिशुमारस्य
कुण्डलाभोगसन्निवेशस्य पार्श्वयोरुभयोरप्यवयवाः
समसंख्या भवन्ति । पृष्ठे त्वजवीथी आकाशगङ्गा
चोदरतः ॥ ५ ॥
पुनर्वसुपुष्यौ दक्षिणवामयोः श्रोण्योरार्द्राश्लेषे
च दक्षिणवामयोः पश्चिमयोः पादयोरभिजि-
दुत्तराषाढे दक्षिणवामयोर्नासिकयोर्यथासंख्यं
श्रवणपूर्वाषाढे दक्षिणवामयोर्लोचनयोर्धनिष्ठा मूलं
च दक्षिणवामयोः कर्णयोर्मघादीन्यष्ट नक्षत्राणि
दक्षिणायनानि वामपार्श्ववङ्क्रिषु युञ्जीत तथैव
मृगशीर्षादीन्युदगयनानि दक्षिणपार्श्ववङ्क्रिषु
प्रातिलोम्येन प्रयुञ्जीत शतभिषाज्येष्ठे स्कन्धयो-
र्दक्षिणवामयोर्न्यसेत् ॥ ६ ॥
उत्तराहनावगस्तिरधराहनौ यमो मुखेषु
चाङ्गारकः शनैश्चर उपस्थे बृहस्पतिः ककुदि
वक्षस्यादित्यो हृदये नारायणो मनसि चन्द्रो
नाभ्यामुशना स्तनयोरश्विनौ बुधः प्राणापानयो
राहुर्गले केतवः सर्वाङ्गेषु रोमसु सर्वे तारागणाः ॥ ७ ॥
एतदु हैव भगवतो विष्णोः सर्वदेवतामयं
रूपमहरहः सन्ध्यायां प्रयतो वाग्यतो निरीक्षमाण
उपतिष्ठेत नमो ज्योतिर्लोकाय कालायनाया -
निमिषां पतये महापुरुषायाभिधीमहीति ॥ ८ ॥
ग्रहर्क्षतारामयमाधिदैविकं
     पापापहं मन्त्रकृतां त्रिकालम् ।
नमस्यतः स्मरतो वा त्रिकालं
     नश्येत तत्कालजमाशु पापम् ॥ ९ ॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां पञ्चमस्कन्धे शिशुमारसंस्थावर्णनं नाम त्रयोविंशोऽध्यायः ॥ २३ ॥ 

हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥[सम्पाद्यताम्]