श्रीमद्भागवतपुराणम्/स्कन्धः ४/अध्यायः ५

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ४ श्रीमद्भागवतपुराणम्
अध्यायः ५
वेदव्यासः
अध्यायः ६ →


मैत्रेय उवाच -
भवो भवान्या निधनं प्रजापतेः
     असत्कृताया अवगम्य नारदात् ।
स्वपार्षदसैन्यं च तदध्वरर्भुभिः
     विद्रावितं क्रोधमपारमादधे ॥ १ ॥
क्रुद्धः सुदष्टौष्ठपुटः स धूर्जटिः
     जटां तडिद् वह्निसटोग्ररोचिषम् ।
उत्कृत्य रुद्रः सहसोत्थितो हसन्
     गम्भीरनादो विससर्ज तां भुवि ॥ २ ॥
ततोऽतिकायस्तनुवा स्पृशन्दिवं
     सहस्रबाहुर्घनरुक् त्रिसूर्यदृक् ।
करालदंष्ट्रो ज्वलदग्निमूर्धजः
     कपालमाली विविधोद्यतायुधः ॥ ३ ॥
तं किं करोमीति गृणन्तमाह
     बद्धाञ्जलिं भगवान् भूतनाथः ।
दक्षं सयज्ञं जहि मद्‍भटानां
     त्वमग्रणी रुद्र भटांशको मे ॥ ४ ॥
आज्ञप्त एवं कुपितेन मन्युना
     स देवदेवं परिचक्रमे विभुम् ।
मेनेतदात्मानमसङ्‌गरंहसा
     महीयसां तात सहः सहिष्णुम् ॥ ५ ॥
अन्वीयमानः स तु रुद्रपार्षदैः
     भृशं नदद्‌भिर्व्यनदत्सुभैरवम् ।
उद्यम्य शूलं जगदन्तकान्तकं
     स प्राद्रवद् घोषणभूषणाङ्‌घ्रिः ॥ ॥ ६ ॥
अथर्त्विजो यजमानः सदस्याः
     ककुभ्युदीच्यां प्रसमीक्ष्य रेणुम् ।
तमः किमेतत्कुत एतद्रजोऽभू
     दिति द्विजा द्विजपत्‍न्यश्च दध्युः ॥ ७ ॥
वाता न वान्ति न हि सन्ति दस्यवः
     प्राचीनबर्हिर्जीवति होग्रदण्डः ।
गावो न काल्यन्त इदं कुतो रजो
     लोकोऽधुना किं प्रलयाय कल्पते ॥ ८ ॥
प्रसूतिमिश्राः स्त्रिय उद्विग्नचित्ता
     ऊचुर्विपाको वृजिनस्यैव तस्य ।
यत्पश्यन्तीनां दुहितॄणां प्रजेशः
     सुतां सतीमवदध्यावनागाम् ॥ ९ ॥
यस्त्वन्तकाले व्युप्तजटाकलापः
     स्वशूलसूच्यर्पितदिग्गजेन्द्रः ।
वितत्य नृत्यत्युदितास्त्रदोर्ध्वजान्
     उच्चाट्टहास स्तनयित्‍नुभिन्नदिक् ॥ १० ॥
अमर्षयित्वा तमसह्यतेजसं
     मन्युप्लुतं दुर्निरीक्ष्यं भ्रुकुट्या ।
करालदंष्ट्राभिरुदस्तभागणं
     स्यात् स्वस्ति किं कोपयतो विधातुः ॥ ११ ॥
बह्वेवमुद्विग्न दृशोच्यमाने
     जनेन दक्षस्य मुहुर्महात्मनः ।
उत्पेतुरुत्पाततमाः सहस्रशो
     भयावहा दिवि भूमौ च पर्यक् ॥ १२ ॥
तावत्स रुद्रानुचरैर्मखो महान्
     नानायुधैर्वामनकैरुदायुधैः ।
पिङ्‌गैः पिशङ्‌गैर्मकरोदराननैः
     पर्याद्रवद्‌भिः विदुरान्वरुध्यत ॥ १३ ॥
(अनुष्टुप्)
केचिद्‍बभञ्जुः प्राग्वंशं पत्‍नीशालां तथापरे ।
सद आग्नीध्रशालां च तद्विहारं महानसम् ॥ १४ ॥
रुरुजुर्यज्ञपात्राणि तथैकेऽग्नीननाशयन् ।
कुण्डेष्वमूत्रयन्केचिद् बिभिदुर्वेदिमेखलाः ॥ १५ ॥
अबाधन्त मुनीनन्ये एके पत्‍नीरतर्जयन् ।
अपरे जगृहुर्देवान् प्रत्यासन्नान् पलायितान् ॥ १६ ॥
भृगुं बबन्ध मणिमान् वीरभद्रः प्रजापतिम् ।
चण्डेशः पूषणं देवं भगं नन्दीश्वरोऽग्रहीत् ॥ १७ ॥
सर्व एवर्त्विजो दृष्ट्वा सदस्याः सदिवौकसः ।
तैरर्द्यमानाः सुभृशं ग्रावभिर्नैकधाद्रवन् ॥ १८ ॥
जुह्वतः स्रुवहस्तस्य श्मश्रूणि भगवान्भवः ।
भृगोर्लुलुञ्चे सदसि योऽहसत् श्मश्रु दर्शयन् ॥ १९ ॥
भगस्य नेत्रे भगवान् पातितस्य रुषा भुवि ।
उज्जहार सदःस्थोऽक्ष्णा यः शपन्तं असूसुचत् ॥ २० ॥
पूष्णो ह्यपातयद् दन्तान् कालिङ्‌गस्य यथा बलः ।
शप्यमाने गरिमणि योऽहसद् दर्शयन्दतः ॥ २१ ॥
आक्रम्योरसि दक्षस्य शितधारेण हेतिना ।
छिन्दन्नपि तदुद्धर्तुं नाशक्नोत् त्र्यम्बकस्तदा ॥ २२ ॥
शस्त्रैरस्त्रान्वितैरेवं अनिर्भिन्नत्वचं हरः ।
विस्मयं परमापन्नो दध्यौ पशुपतिश्चिरम् ॥ २३ ॥
दृष्ट्वा संज्ञपनं योगं पशूनां स पतिर्मखे ।
यजमानपशोः कस्य कायात्तेनाहरच्छिरः ॥ २४ ॥
साधुवादस्तदा तेषां कर्म तत्तस्य शंसताम् ।
भूतप्रेतपिशाचानां अन्येषां तद्विपर्ययः ॥ २५ ॥
जुहावैतच्छिरस्तस्मिन् दक्षिणाग्नावमर्षितः ।
तद्देवयजनं दग्ध्वा प्रातिष्ठद् गुह्यकालयम् ॥ २६ ॥

इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां
चतुर्थस्कन्धे दक्षयज्ञविध्वंसो नाम पञ्चमोऽध्यायः ॥ ५ ॥