श्रीमद्भागवतपुराणम्/स्कन्धः ४/अध्यायः ४

विकिस्रोतः तः
Jump to navigation Jump to search
← स्कन्धः ४, अध्यायः ३ श्रीमद्भागवतपुराणम्
अध्यायः ४
वेदव्यासः
स्कन्धः ४, अध्यायः ५ →


मैत्रेय उवाच -
एतावदुक्त्वा विरराम शङ्‌करः
     पत्‍न्यङ्‌गनाशं ह्युभयत्र चिन्तयन् ।
सुहृद् दिदृक्षुः परिशङ्‌किता भवान्
     निष्क्रामती निर्विशती द्विधाऽऽस सा ॥ १ ॥
सुहृद् दिदृक्षाप्रतिघातदुर्मनाः
     स्नेहाद्रुदत्यश्रुकलातिविह्वला ।
भवं भवान्यप्रतिपूरुषं रुषा
     प्रधक्ष्यतीवैक्षत जातवेपथुः ॥ २ ॥
ततो विनिःश्वस्य सती विहाय तं
     शोकेन रोषेण च दूयता हृदा ।
पित्रोरगात् स्त्रैणविमूढधीर्गृहान्
     प्रेम्णात्मनो योऽर्धमदात्सतां प्रियः ॥ ३ ॥
तामन्वगच्छन् द्रुतविक्रमां सतीं
     एकां त्रिनेत्रानुचराः सहस्रशः ।
सपार्षदयक्षा मणिमन्मदादयः
     पुरोवृषेन्द्रास्तरसा गतव्यथाः ॥ ४ ॥
तां सारिका कन्दुकदर्पणाम्बुज
     श्वेतातपत्र व्यजनस्रगादिभिः ।
गीतायनैः दुन्दुभिशङ्‌खवेणुभिः
     वृषेन्द्रमारोप्य विटङ्‌किता ययुः ॥ ५ ॥
आब्रह्मघोषोर्जितयज्ञवैशसं
     विप्रर्षिजुष्टं विबुधैश्च सर्वशः ।
मृद्दार्वयःकाञ्चनदर्भचर्मभिः
     निसृष्टभाण्डं यजनं समाविशत् ॥ ॥ ६ ॥
तामागतां तत्र न कश्चनाद्रियद्
     विमानितां यज्ञकृतो भयाज्जनः ।
ऋते स्वसॄर्वै जननीं च सादराः
     प्रेमाश्रुकण्ठ्यः परिषस्वजुर्मुदा ॥ ७ ॥
सौदर्यसम्प्रश्नसमर्थवार्तया
     मात्रा च मातृष्वसृभिश्च सादरम् ।
दत्तां सपर्यां वरमासनं च सा
     नादत्त पित्राप्रतिनन्दिता सती ॥ ८ ॥
अरुद्रभागं तमवेक्ष्य चाध्वरं
     पित्रा च देवे कृतहेलनं विभौ ।
अनादृता यज्ञसदस्यधीश्वरी
     चुकोप लोकानिव धक्ष्यती रुषा ॥ ९ ॥
जगर्ह सामर्षविपन्नया गिरा
     शिवद्विषं धूमपथश्रमस्मयम् ।
स्वतेजसा भूतगणान् समुत्थितान्
     निगृह्य देवी जगतोऽभिशृण्वतः ॥ १० ॥
देव्युवाच -
न यस्य लोकेऽस्त्यतिशायनः प्रियः
     तथाप्रियो देहभृतां प्रियात्मनः ।
तस्मिन् समस्तात्मनि मुक्तवैरके
     ऋते भवन्तं कतमः प्रतीपयेत् ॥ ११ ॥
दोषान् परेषां हि गुणेषु साधवो
     गृह्णन्ति केचिन्न भवादृशो द्विज ।
गुणांश्च फल्गून् बहुलीकरिष्णवो
     महत्तमास्तेष्वविदद्‍भवानघम् ॥ १२ ॥
नाश्चर्यमेतद्यदसत्सु सर्वदा
     महद्विनिन्दा कुणपात्मवादिषु ।
सेर्ष्यं महापूरुषपादपांसुभिः
     निरस्ततेजःसु तदेव शोभनम् ॥ १३ ॥
यद् द्व्यक्षरं नाम गिरेरितं नृणां
     सकृत्प्रसङ्‌गादघमाशु हन्ति तत् ।
पवित्रकीर्तिं तमलङ्‌घ्यशासनं
     भवानहो द्वेष्टि शिवं शिवेतरः ॥ १४ ॥
यत्पादपद्मं महतां मनोऽलिभिः
     निषेवितं ब्रह्मरसासवार्थिभिः ।
लोकस्य यद्वर्षति चाशिषोऽर्थिनः
     तस्मै भवान् द्रुह्यति विश्वबन्धवे ॥ १५ ॥
किं वा शिवाख्यमशिवं न विदुस्त्वदन्ये
     ब्रह्मादयस्तमवकीर्य जटाः श्मशाने ।
तन्माल्यभस्मनृकपाल्यवसत्पिशाचैः
     ये मूर्धभिर्दधति तच्चरणावसृष्टम् ॥ १६ ॥
कर्णौ पिधाय निरयाद्यदकल्प ईशे
     धर्मावितर्यसृणिभिर्नृभिरस्यमाने ।
छिन्द्यात्प्रसह्य रुशतीमसतीं प्रभुश्चेत्
     जिह्वामसूनपि ततो विसृजेत्स धर्मः ॥ १७ ॥
अतस्तवोत्पन्नमिदं कलेवरं
     न धारयिष्ये शितिकण्ठगर्हिणः ।
जग्धस्य मोहाद्धि विशुद्धिमन्धसो
     जुगुप्सितस्योद्धरणं प्रचक्षते ॥ १८ ॥
न वेदवादान् अनुवर्तते मतिः
     स्व एव लोके रमतो महामुनेः ।
यथा गतिर्देवमनुष्ययोः पृथक्
     स्व एव धर्मे न परं क्षिपेत्स्थितः ॥ १९ ॥
कर्म प्रवृत्तं च निवृत्तमप्यृतं
     वेदे विविच्योभयलिङ्‌गमाश्रितम् ।
विरोधि तद्यौगपदैककर्तरि
     द्वयं तथा ब्रह्मणि कर्म नर्च्छति ॥ २० ॥
मा वः पदव्यः पितरस्मदास्थिता
     या यज्ञशालासु न धूमवर्त्मभिः ।
तदन्नतृप्तैरसुभृद्‌भिरीडिता
     अव्यक्तलिङ्‌गा अवधूतसेविताः ॥ २१ ॥
नैतेन देहेन हरे कृतागसो
     देहोद्‍भवेनालमलं कुजन्मना ।
व्रीडा ममाभूत्कुजनप्रसङ्‌गतः
     तज्जन्म धिग् यो महतामवद्यकृत् ॥ २२ ॥
गोत्रं त्वदीयं भगवान्वृषध्वजो
     दाक्षायणीत्याह यदा सुदुर्मनाः ।
व्यपेतनर्मस्मितमाशु तद्ध्यहं
     व्युत्स्रक्ष्य एतत्कुणपं त्वदङ्‌गजम् ॥ २३ ॥
मैत्रेय उवाच -
इत्यध्वरे दक्षमनूद्य शत्रुहन्
     क्षितावुदीचीं निषसाद शान्तवाक् ।
स्पृष्ट्वा जलं पीतदुकूलसंवृता
     निमील्य दृग्योगपथं समाविशत् ॥ २४ ॥
कृत्वा समानावनिलौ जितासना
     सोदानमुत्थाप्य च नाभिचक्रतः ।
शनैर्हृदि स्थाप्य धियोरसि स्थितं
     कण्ठाद् भ्रुवोर्मध्यमनिन्दितानयत् ॥ २५ ॥
एवं स्वदेहं महतां महीयसा
     मुहुः समारोपितमङ्‌कमादरात् ।
जिहासती दक्षरुषा मनस्विनी
     दधार गात्रेष्वनिलाग्निधारणाम् ॥ २६ ॥
ततः स्वभर्तुश्चरणाम्बुजासवं
     जगद्‍गुरोश्चिन्तयती न चापरम् ।
ददर्श देहो हतकल्मषः सती
     सद्यः प्रजज्वाल समाधिजाग्निना ॥ २७ ॥
तत्पश्यतां खे भुवि चाद्‍भुतं महत्
     हा हेति वादः सुमहान् अजायत ।
हन्त प्रिया दैवतमस्य देवी
     जहावसून्केन सती प्रकोपिता ॥ २८ ॥
अहो अनात्म्यं महदस्य पश्यत
     प्रजापतेर्यस्य चराचरं प्रजाः ।
जहावसून्यद्विमताऽऽत्मजा
     सती मनस्विनी मानमभीक्ष्णमर्हति ॥ २९ ॥
सोऽयं दुर्मर्षहृदयो ब्रह्मध्रुक् च
     लोकेऽपकीर्तिं महतीमवाप्स्यति ।
यदङ्‌गजां स्वां पुरुषद्‌विडुद्यतां
     न प्रत्यषेधन्मृतयेऽपराधतः ॥ ३० ॥
(अनुष्टुप्)
वदत्येवं जने सत्या दृष्ट्वासुत्यागमद्‍भुतम् ।
दक्षं तत्पार्षदा हन्तुं उदतिष्ठन्नुदायुधाः ॥ ३१ ॥
तेषां आपततां वेगं निशाम्य भगवान् भृगुः ।
यज्ञघ्नघ्नेन यजुषा दक्षिणाग्नौ जुहाव ह ॥ ३२ ॥
अध्वर्युणा हूयमाने देवा उत्पेतुरोजसा ।
ऋभवो नाम तपसा सोमं प्राप्ताः सहस्रशः ॥ ३३ ॥
तैरलातायुधैः सर्वे प्रमथाः सहगुह्यकाः ।
हन्यमाना दिशो भेजुः उशद्‌भिर्ब्रह्मतेजसा ॥ ३४ ॥

इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां
चतुर्थस्कन्धे सतीदेहोत्सर्गो नाम चतुर्थोऽध्यायः ॥ ४ ॥