श्रीमद्भागवतपुराणम्/स्कन्धः १०/पूर्वार्धः/अध्यायः ४९

विकिस्रोतः तः
← अध्यायः ४८ श्रीमद्भागवतपुराणम्/स्कन्धः १०/पूर्वार्धः/अध्यायः ४९
[[लेखकः :|]]
अध्यायः ५० →




अक्रूरस्य हस्तिनापुरे गमनं; कुन्त्याः करुणोद्‌गारः; अक्रूरधृतराष्ट संवादः; अक्रूरस्य पुनर्यदुपूर्यामागमनंच -

श्रीशुक उवाच -
( अनुष्टुप् )
स गत्वा हास्तिनपुरं पौरवेन्द्रयशोऽङ्‌कितम् ।
 ददर्श तत्राम्बिकेयं सभीष्मं विदुरं पृथाम् ॥ १ ॥
 सहपुत्रं च बाह्लीकं भारद्वाजं सगौतमम् ।
 कर्णं सुयोधनं द्रौणिं पाण्डवान्सुहृदोऽपरान् ॥ २ ॥
 यथावद् उपसङ्‌गम्य बन्धुभिर्गान्दिनीसुतः ।
 सम्पृष्टस्तैः सुहृद्वार्तां स्वयं चापृच्छदव्ययम् ॥ ३ ॥
 उवास कतिचिन्मासान् राज्ञो वृत्तविवित्सया ।
 दुष्प्रजस्याल्पसारस्य खलच्छन्दानुवर्तिनः ॥ ४ ॥
 तेज ओजो बलं वीर्यं प्रश्रयादींश्च सद्‍गुणान् ।
 प्रजानुरागं पार्थेषु न सहद्‌भिश्चिकीर्षितम् ॥ ५ ॥
 कृतं च धार्तराष्ट्रैर्यद् गरदानाद्यपेशलम् ।
 आचख्यौ सर्वमेवास्मै पृथा विदुर एव च ॥ ६ ॥
 पृथा तु भ्रातरं प्राप्तं अक्रूरमुपसृत्य तम् ।
 उवाच जन्मनिलयं स्मरन्त्यश्रुकलेक्षणा ॥ ७ ॥
 अपि स्मरन्ति नः सौम्य पितरौ भ्रातरश्च मे ।
 भगिन्यौ भ्रातृपुत्राश्च जामयः सख्य एव च ॥ ८ ॥
 भ्रात्रेयो भगवान् कृष्णः शरण्यो भक्तवत्सलः ।
 पैतृष्वसेयान् स्मरति रामश्चाम्बुरुहेक्षणः ॥ ९ ॥
 सपत्‍नमध्ये शोचन्तीं वृकानां हरिणीमिव ।
 सान्त्वयिष्यति मां वाक्यैः पितृहीनांश्च बालकान् ॥ १० ॥
 कृष्ण कृष्ण महायोगिन् विश्वात्मन् विश्वभावन ।
 प्रपन्नां पाहि गोविन्द शिशुभिश्चावसीदतीम् ॥ ११ ॥
 नान्यत्तव पदाम्भोजात् पश्यामि शरणं नृणाम् ।
 बिभ्यतां मृत्युसंसाराद् ईस्वरस्यापवर्गिकात् ॥ १२ ॥
 नमः कृष्णाय शुद्धाय ब्रह्मणे परमात्मने ।
 योगेश्वराय योगाय त्वामहं शरणं गता ॥ १३ ॥
 श्रीशुक उवाच -
इत्यनुस्मृत्य स्वजनं कृष्णं च जगदीश्वरम् ।
 प्रारुदद् दुखिता राजन् भवतां प्रपितामही ॥ १४ ॥
 समदुःखसुखोऽक्रूरो विदुरश्च महायशाः ।
 सान्त्वयामासतुः कुन्तीं तत्पुत्रोत्पत्तिहेतुभिः ॥ १५ ॥
 यास्यन् राजानमभ्येत्य विषमं पुत्रलालसम् ।
 अवदत्सुहृदां मध्ये बन्धुभिः सौहृदोदितम् ॥ १६ ॥
 अक्रूर उवाच -
भो भो वैचित्रवीर्य त्वं कुरूणां कीर्तिवर्धन ।
 भ्रातर्युपरते पाण्डौ अधुनाऽऽसनमास्थितः ॥ १७ ॥
 धर्मेण पालयन् उर्वीं प्रजाः शीलेन रञ्जयन् ।
 वर्तमानः समः स्वेषु श्रेयः कीर्तिमवाप्स्यसि ॥ १८ ॥
 अन्यथा त्वाचरँल्लोके गर्हितो यास्यसे तमः ।
 तस्मात्समत्वे वर्तस्व पाण्डवेष्वात्मजेषु च ॥ १९ ॥
 नेह चात्यन्तसंवासः कस्यचित् केनचित् सह ।
 राजन् स्वेनापि देहेन किमु जायात्मजादिभिः ॥ २० ॥
 एकः प्रसूयते जन्तुः एक एव प्रलीयते ।
 एकोऽनुभुङ्‌क्ते सुकृतं एक एव च दुष्कृतम् ॥ २१ ॥
 अधर्मोपचितं वित्तं हरन्त्यन्येऽल्पमेधसः ।
 सम्भोजनीयापदेशैः जलानीव जलौकसः ॥ २२ ॥
 पुष्णाति यानधर्मेण स्वबुद्ध्या तमपण्डितम् ।
 तेऽकृतार्थं प्रहिण्वन्ति प्राणा रायः सुतादयः ॥ २३ ॥
 स्वयं किल्बिषमादाय तैस्त्यक्तो नार्थकोविदः ।
 असिद्धार्थो विशत्यन्धं स्वधर्मविमुखस्तमः ॥ २४ ॥
 तस्माल्लोकमिमं राजन् स्वप्नमायामनोरथम् ।
 वीक्ष्यायम्यात्मनात्मानं समः शान्तो भव प्रभो ॥ २५ ॥
 धृतराष्ट्र उवाच -
यथा वदति कल्याणीं वाचं दानपते भवान् ।
 तथानया न तृप्यामि मर्त्यः प्राप्य यथामृतम् ॥ २६ ॥
 तथापि सूनृता सौम्य हृदि न स्थीयते चले ।
 पुत्रानुरागविषमे विद्युत् सौदामनी यथा ॥ २७ ॥
 ईश्वरस्य विधिं को नु विधुनोत्यन्यथा पुमान् ।
 भूमेर्भारावताराय योऽवतीर्णो यदोः कुले ॥ २८ ॥
( वसंततिलका )
यो दुर्विमर्शपथया निजमाययेदं
     सृष्ट्वा गुणान् विभजते तदनुप्रविष्टः ।
 तस्मै नमो दुरवबोधविहारतन्त्र
     संसारचक्रगतये परमेश्वराय ॥ २९ ॥
 श्रीशुक उवाच -
( अनुष्टुप् )
इत्यभिप्रेत्य नृपतेः अभिप्रायं स यादवः ।
 सुहृद्‌भिः समनुज्ञातः पुनर्यदुपुरीमगात् ॥ ३० ॥
 शशंस रामकृष्णाभ्यां धृतराष्ट्रविचेष्टितम् ।
 पाण्डवान् प्रति कौरव्य यदर्थं प्रेषितः स्वयम् ॥ ३१ ॥


इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां
संहितायां दशमस्कन्धे पूर्वार्धे एकोनपञ्चाशोऽध्यायः ॥ ४९ ॥
 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥