श्रीमद्भागवतपुराणम्/स्कन्धः १०/उत्तरार्धः/अध्यायः ८७

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ८६ श्रीमद्भागवतपुराणम्
स्कन्धः १०/उत्तरार्धः/अध्यायः ८७
[[लेखकः :|]]
अध्यायः ८८ →



वेदस्तुति -

श्रीपरीक्षिदुवाच -
( अनुष्टुप् )
ब्रह्मन् ब्रह्मण्यनिर्देश्ये निर्गुणे गुणवृत्तयः ।
 कथं चरन्ति श्रुतयः साक्षात् सदसतः परे ॥ १ ॥
 श्रीशुक उवाच -
बुद्धीन्द्रियमनःप्राणान् जनानां असृजत् प्रभुः ।
 मात्रार्थं च भवार्थं च आत्मनेऽकल्पनाय च ॥ २ ॥
 सैषा ह्युपनिषद्‌ ब्राह्मी पूर्वेशां पूर्वजैर्धृता ।
 श्र्रद्धया धारयेद् यस्तां क्षेमं गच्छेदकिञ्चनः ॥ ३ ॥
 अत्र ते वर्णयिष्यामि गाथां नारायणान्विताम् ।
 नारदस्य च संवादं ऋषेर्नारायणस्य च ॥ ४ ॥
 एकदा नारदो लोकान् पर्यटन् भगवत्प्रियः ।
 सनातनमृषिं द्रष्टुं ययौ नारायणाश्रमम् ॥ ५ ॥
 यो वै भारतवर्षेऽस्मिन् क्शेमाय स्वस्तये नृणाम् ।
 धर्मज्ञानशमोपेतं आकल्पादास्थितस्तपः ॥ ६ ॥
 तत्रोपविष्टं ऋषिभिः कलापग्रामवासिभिः ।
 परीतं प्रणतोऽपृच्छद् इदमेव कुरूद्वह ॥ ७ ॥
 तस्मै ह्यवोचद्‌भगवान् ऋषीणां श्रृणतामिदम् ।
 यो ब्रह्मवादः पूर्वेषां जनलोकनिवासिनाम् ॥ ८ ॥
 श्रीभगवानुवाच -
स्वायम्भुव ब्रह्मसत्रं जनलोकेऽभवत् पुरा ।
 तत्रस्थानां मानसानां मुनीनां ऊर्ध्वरेतसाम् ॥ ९ ॥
 श्वेतद्वीपं गतवति त्वयि द्रष्टुं तदीश्वरम् ।
 ब्रह्मवादः सुसंवृत्तः श्रुतयो यत्र शेरते ।
 तत्र हायमभूत्प्रश्नस्त्वं मां यमनुपृच्छसि ॥ १० ॥
 तुल्यश्रुततपःशीलाः तुल्यस्वीयारिमध्यमाः ।
 अपि चक्रुः प्रवचनं एकं शुश्रूषवोऽपरे ॥ ११ ॥
 श्रीसनन्दन उवाच -
स्वसृष्टमिदमापीय शयानं सह शक्तिभिः ।
 तदन्ते बोधयां चक्रुः तल्लिङ्गैः श्रुतयः परम् ॥ १२ ॥
 यथा शयानं सम्राजं वन्दिनस्तत्पराक्रमैः ।
 प्रत्यूषेऽभेत्य सुश्लोकैः बोधयन्त्यनुजीविनः ॥ १३ ॥
 श्रीश्रुतय ऊचुः -
( अवितथ गाथा -
पुढील, म्हणजे १४ ते ४१ या श्लोकांना वेदस्तुति म्हणतात )
जय जय जह्यजामजित दोषगृभीतगुणां
     त्वमसि यदात्मना समवरुद्धसमस्तभगः ।
 अगजगदोकसामखिलशक्त्यवबोधक ते
     क्वचिदजयाऽऽत्मना च चरतोऽनुचरेन्निगमः ॥ १४ ॥
 बृहदुपलब्धमेतदवयन्त्यवशेषतया
     यत उदयास्तमयौ विकृतेर्मृदि वाविकृतात् ।
 अत ऋषयो दधुस्त्वयि मनोवचनाचरितं
     कथमयथा भवन्ति भुवि दत्तपदानि नृणाम् ॥ १५ ॥
 इति तव सूरयस्त्र्यधिपतेऽखिललोकमल
     क्षपणकथामृताब्धिमवगाह्य तपांसि जहुः ।
 किमुत पुनः स्वधामविधुताशयकालगुणाः
     परम भजन्ति ये पदमजस्रसुखानुभवम् ॥ १६ ॥
 दृतय इव श्वसन्त्यसुभृतो यदि तेऽनुविधा
     महदहमादयोऽण्डमसृजन् यदनुग्रहतः
 पुरुषविधोऽन्वयोऽत्र चरमोऽन्नमयादिषु यः
     सदसतः परं त्वमथ यदेष्ववशेषमृतम् ॥ १७ ॥
 उदरमुपासते य ऋषिवर्त्मसु कूर्पदृशः
     परिसरपद्धतिं हृदयमारुणयो दहरम् ।
 तत उदगादनन्त तव धाम शिरः परमं
     पुनरिह यत्समेत्य न पतन्ति कृतान्तमुखे ॥ १८ ॥
 स्वकृतविचित्रयोनिषु विशन्निव हेतुतया
     तरतमतश्चकास्स्यनलवत् स्वकृतानुकृतिः ।
 अथ वितथास्वमूष्ववितथां तव धाम समं
     विरजधियोऽनुयन्त्यभिविपण्यव एकरसम् ॥ १९ ॥
 स्वकृतपुरेष्वमीष्वबहिरन्तरसंवरणं
     तव पुरुषं वदन्त्यखिलशक्तिधृतोंऽशकृतम् ।
 इति नृगतिं विविच्य कवयो निगमावपनं
     भवत उपासतेऽङ्‌घ्रिमभवम्भुवि विश्वसिताः ॥ २० ॥
 दुरवगमात्मतत्त्वनिगमाय तवात्ततनोः
     चरितमहामृताब्धिपरिवर्तपरिश्रमणाः ।
 न परिलषन्ति केचिदपवर्गमपीश्वर ते
     चरणसरोजहंसकुलसङ्गविसृष्टगृहाः ॥ २१ ॥
 त्वदनुपथं कुलायमिदमात्मसुहृत्प्रियवत्
     चरति तथोन्मुखे त्वयि हिते प्रिय आत्मनि च ।
 न बत रमन्त्यहो असदुपासनयात्महनो
     यदनुशया भ्रमन्त्युरुभये कुशरीरभृतः ॥ २२ ॥
 निभृतमरुन्मनोऽक्षदृढयोगयुजो हृदि यत्
     मुनय उपासते तदरयोऽपि ययुः स्मरणात् ।
 स्त्रिय उरगेन्द्रभोगभुजदण्डविषक्तधियो
     वयमपि ते समाः समदृशोऽङ्‌घ्रिसरोजसुधाः ॥ २३ ॥
 क इह नु वेद बतावरजन्मलयोऽग्रसरं
     यत उदगादृषिर्यमनु देवगणा उभये ।
 तर्हि न सन्न चासदुभयं न च कालजवः
     किमपि न तत्र शास्त्रमवकृष्य शयीत यदा ॥ २४ ॥
 जनिमसतः सतो मृतिमुतात्मनि ये च भिदां
     विपणमृतं स्मरन्त्युपदिशन्ति त आरुपितैः ।
 त्रिगुणमयः पुमानिति भिदा यदबोधकृता
     त्वयि न ततः परत्र स भवेदवबोधरसे ॥ २५ ॥
 सदिव मनस्त्रिवृत्त्वयि विभात्यसदामनुजात्
     सदभिमृशन्त्यशेषमिदमात्मतयाऽत्मविदः ।
 न हि विकृतिं त्यजन्ति कनकस्य तदात्मतया
     स्वकृतमनुप्रविष्टमिदमात्मतयावसितम् ॥ २६ ॥
 तव परि ये चरन्त्यखिलसत्त्वनिकेततया
     त उत पदाक्रमन्त्यविगणय्य शिरो निर्‌ऋतेः ।
 परिवयसे पशूनिव गिरा विबुधानपि तान्
     त्वयि कृतसौहृदाः खलु पुनन्ति न ये विमुखाः ॥ २७ ॥
 त्वमकरणः स्वराडखिलकारकशक्तिधरः
     तव बलिमुद्वहन्ति समदन्त्यजयानिमिषाः ।
 वर्षभुजोऽखिलक्षितिपतेरिव विश्वसृजो
     विदधति यत्र ये त्वधिकृता भवतश्चकिताः ॥ २८ ॥
 स्थिरचरजातयः स्युरजयोत्थनिमित्तयुजो
     विहर उदीक्षया यदि परस्य विमुक्त ततः ।
 न हि परमस्य कश्चिदपरो न परश्च भवेद्
     वियत इवापदस्य तव शून्यतुलां दधतः ॥ २९ ॥
 अपरिमिता ध्रुवास्तनुभृतो यदि सर्वगताः
     तर्हि न शास्यतेति नियमो ध्रव नेतरथा ।
 अजनि च यन्मयं तदविमुच्य नियन्तृ भवेत्
     सममनुजानतां यदमतं मतदुष्टतया ॥ ३० ॥
 न घटत उद्‌भवः प्रकृतिपूरुषयोरजयोः
     उभययुजा भवन्त्यसुभृतो जलबुद्‌बुदवत् ।
 त्वयि त इमे ततो विविधनामगुणैः परमे
     सरित इवार्णवे मधुनि लिल्युरशेषरसाः ॥ ३१ ॥
 नृषु तव मयया भ्रमममीष्ववगत्य भृशं
     त्वयि सुधियोऽभवे दधति भावमनुप्रभवम् ।
 कथमनुवर्ततां भवभयं तव यद्‌भ्रुकुटिः
     सृजति मुहुस्त्रिणमिरभवच्छरणेषु भयम् ॥ ३२ ॥
 विजितहृषीकवायुभिरदान्तमनस्तुरगं
     य इह यतन्ति यन्तुमतिलोलमुपायखिदः ।
 व्यसनशतान्विताः समवहाय गुरोश्चरणं
     वणिज इवाज सन्त्यकृतकर्णधरा जलधौ ॥ ३३ ॥
 स्वजनसुतात्मदारधनधामधरासुरथैः
     त्वयि सति किं नृणां श्रयत आत्मनि सर्वरसे ।
 इति सदजानतां मिथुनतो रतये चरतां
     सुखयति को न्विह स्वविहते स्वनिरस्तभगे ॥ ३४ ॥
 भुवि पुरुपुण्यतीर्थसदनान्यृषयो विमदाः
     त उत भवत्पदाम्बुजहृदोऽघभिदङ्‌घ्रिजलाः ।
 दधति सकृन्मनस्त्वयि य आत्मनि नित्यसुखे
     न पुनरुपासते पुरुषसारहरावसथान् ॥ ३५ ॥
 सत इदं उत्थितं सदिति चेन्ननु तर्कहतं
     व्यभिचरति क्व च क्व च मृषा न तथोभययुक् ।
 व्यवहृतये विकल्प इषितोऽन्धपरम्परया
     भ्रमयति भारती त उरुवृत्तिभिरुक्थजडान् ॥ ३६ ॥
 न यदिदमग्र आस न भविष्यदतो निधनाद्
     अनु मितमन्तरा त्वयि विभाति मृषैकरसे ।
 अत उपमीयते द्रविणजातिविकल्पपथैः
     वितथमनोविलासमृतमित्यवयन्त्यबुधाः ॥ ३७ ॥
 स यदजया त्वजामनुशयीत गुणांश्च जुषन्
     भजति सरूपतां तदनु मृत्युमपेतभगः ।
 त्वमुत जहासि तामहिरिव त्वचमात्तभगो
     महसि महीयसेऽष्टगुणितेऽपरिमेयभगः ॥ ३८ ॥
 यदि न समुद्धरन्ति यतयो हृदि कामजटा
     दुरधिगमोऽसतां हृदि गतोऽस्मृतकण्ठमणिः ।
 असुतृपयोगिनामुभयतोऽप्यसुखं भगवन्न्
     अनपगतान्तकादनधिरूढपदाद्‌भवतः ॥ ३९ ॥
 त्वदवगमी न वेत्ति भवदुत्थशुभाशुभयोः
     गुणविगुणान्वयांस्तर्हि देहभृतां च गिरः ।
 अनुयुगमन्वहं सगुण गीतपरम्परया
     श्रवणभृतो यतस्त्वमपवर्गगतिर्मनुजैः ॥ ४० ॥
 द्युपतय एव ते न ययुरन्तमनन्ततया
     त्वमपि यदन्तराण्डनिचया ननु सावरणाः ।
 ख इव रजांसि वान्ति वयसा सह यत् श्रुतयः
     त्वयि हि फलन्त्यतन्निरसनेन भवन्निधनाः ॥ ४१ ॥
 श्रीभगवानुवाच -
( अनुष्टुप् )
इत्येतद्‌ब्रह्मणः पुत्रा आश्रुत्यात्मानुशासनम् ।
 सनन्दनमथानर्चुः सिद्धा ज्ञात्वाऽऽत्मनो गतिम् ॥ ४२ ॥
 इत्यशेषसमाम्नाय पुराणोपनिषद्रसः ।
 समुद्धृतः पूर्वजातैः व्योमयानैर्महात्मभिः ॥ ४३ ॥
 त्वं चैतद्‌ब्रह्मदायाद श्रद्धयाऽऽत्मानुशासनम् ।
 धारयंश्चर गां कामं कामानां भर्जनं नृणाम् ॥ ४४ ॥
 श्रीशुक उवाच -
एवं स ऋषिणाऽऽदिष्टं गृहीत्वा श्रद्धयात्मवान् ।
 पूर्णः श्रुतधरो राजन् आह वीरव्रतो मुनिः ॥ ४५ ॥
 श्रीनारद उवाच -
नमस्तस्मै भगवते कृष्णायामलकीर्तये ।
 यो धत्ते सर्वभूतानां अभवायोशतीः कलाः ॥ ४६ ॥
 इत्याद्यमृषिमानम्य तच्छिष्यांश्च महात्मनः ।
 ततोऽगाद् आश्रमं साक्षात् पितुर्द्वैपायनस्य मे ॥ ४७ ॥
 सभाजितो भगवता कृतासनपरिग्रहः ।
 तस्मै तद् वर्णयामास नारायणमुखाच्छ्रुतम् ॥ ४८ ॥
 इत्येतद् वर्णितं राजन् यन्नः प्रश्नः कृतस्त्वया ।
 यथा ब्रह्मण्यनिर्देश्ये नीऋगुणेऽपि मनश्चरेत् ॥ ४९ ॥
( शार्दूलविक्रीडित )
योऽस्योत्प्रेक्षक आदिमध्यनिधने योऽव्यक्तजीवेश्वरो
     यः सृष्ट्वेदमनुप्रविश्य ऋषिणा चक्रे पुरः शास्ति ताः ।
 यं सम्पद्य जहात्यजामनुशयी सुप्तः कुलायं यथा
     तं कैवल्यनिरस्तयोनिमभयं ध्यायेदजस्रं हरिम् ॥ ५० ॥


इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां
संहितायां दशमस्कन्धे उत्तरार्धे
 वेदस्तुति नाम सप्ताशीतितमोऽध्यायः ॥ ८७ ॥
 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥