श्रीमद्भागवतपुराणम्/स्कन्धः १०/उत्तरार्धः/अध्यायः ६८

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ६७ श्रीमद्भागवतपुराणम्
स्कन्धः १०/उत्तरार्धः/अध्यायः ६८
[[लेखकः :|]]
अध्यायः ६९ →


सांबविवाहः; बलरामेण हस्तिनापुरकर्षणं च

श्रीशुक उवाच -
( अनुष्टुप् )
दुर्योधनसुतां राजन् लक्ष्मणां समितिंजयः ।
 स्वयंवरस्थामहरत् सांबो जाम्बवतीसुतः ॥ १ ॥
 कौरवाः कुपिता ऊचुः दुर्विनीतोऽयमर्भकः ।
 कदर्थीकृत्य नः कन्यां अकामां अहरद् बलात् ॥ २ ॥
 बध्नीतेमं दुर्विनीतं किं करिष्यन्ति वृष्णयः ।
 येऽस्मत् प्रसादोपचितां दत्तां नो भुञ्जते महीम् ॥ ३ ॥
 निगृहीतं सुतं श्रुत्वा यद्येष्यन्तीह वृष्णयः ।
 भग्नदर्पाः शमं यान्ति प्राणा इव सुसंयताः ॥ ४ ॥
 इति कर्णः शलो भूरिः यज्ञकेतुः सुयोधनः ।
 साम्बमारेभिरे बद्धुं कुरुवृद्धानुमोदिताः ॥ ५ ॥
 दृष्ट्वानुधावतः साम्बो धार्तराष्ट्रान् महारथः ।
 प्रगृह्य रुचिरं चापं तस्थौ सिंह इवैकलः ॥ ६ ॥
 तं ते जिघृक्षवः क्रुद्धाः तिष्ठ तिष्ठेति भाषिणः ।
 आसाद्य धन्विनो बाणैः कर्णाग्रण्यः समाकिरन् ॥ ७ ॥
 सोऽपविद्धः कुरुश्रेष्ठ कुरुभिर्यदुनन्दनः ।
 नामृष्यत् तदचिन्त्यार्भः सिंह क्षुद्रमृगैरिव ॥ ८ ॥
 विस्फूर्ज्य रुचिरं चापं सर्वान् विव्याध सायकैः ।
 कर्णादीन् षड्रथान् वीरः तावद्‌भिर्युगपत् पृथक् ॥ ९ ॥
 चतुर्भिश्चतुरो वाहान् एकैकेन च सारथीन् ।
 रथिनश्च महेष्वासान् तस्य तत्तेऽभ्यपूजयन् ॥ १० ॥
 तं तु ते विरथं चक्रुः चत्वारश्चतुरो हयान् ।
 एकस्तु सारथिं जघ्ने चिच्छेदान्यः शरासनम् ॥ ११ ॥
 तं बद्ध्वा विरथीकृत्य कृच्छ्रेण कुरवो युधि ।
 कुमारं स्वस्य कन्यां च स्वपुरं जयिनोऽविशन् ॥ १२ ॥
 तच्छ्रुत्वा नारदोक्तेन राजन् सञ्जातमन्यवः ।
 कुरून् प्रत्युद्यमं चक्रुः उग्रसेनप्रचोदिताः ॥ १३ ॥
 सान्त्वयित्वा तु तान् रामः सन्नद्धान् वृष्णिपुङ्गवान् ।
 नैच्छय् कुरूणां वृष्णीनां कलिं कलिमलापहः ॥ १४ ॥
 जगाम हास्तिनपुरं रथेनादित्यवर्चसा ।
 ब्राह्मणैः कुलवृद्धैश्च वृतश्चन्द्र इव ग्रहैः ॥ १५ ॥
 गत्वा गजाह्वयं रामो बाह्योपवनमास्थितः ।
 उद्धवं प्रेषयामास धृतराष्ट्रं बुभुत्सया ॥ १६ ॥
 सोऽभिवन्द्याम्बिकापुत्रं भीष्मं द्रोणं च बाह्लिकम् ।
 दुर्योधनं च विधिवद् राममागतमब्रवीत् ॥ १७ ॥
 तेऽतिप्रीतास्तमाकर्ण्य प्राप्तं रामं सुहृत्तमम् ।
 तमर्चयित्वाभिययुः सर्वे मङ्गलपाणयः ॥ १८ ॥
 तं सङ्गम्य यथान्यायं गामर्घ्यं च न्यवेदयन् ।
 तेषां ये तत्प्रभावज्ञाः प्रणेमुः शिरसा बलम् ॥ १९ ॥
 बन्धून् कुशलिनः श्रुत्वा पृष्ट्वा शिवमनामयम् ।
 परस्परमथो रामो बभाषेऽविक्लवं वचः ॥ २० ॥
 उग्रसेनः क्षितीशेशो यद् व आज्ञापयत् प्रभुः ।
 तद् अव्यग्रधियः श्रुत्वा कुरुध्वं माविलम्बितम् ॥ २१ ॥
 यद् यूयं बहवस्त्वेकं जित्वाधर्मेण धार्मिकम् ।
 अबध्नीताथ तन्मृष्ये बन्धूनामैक्यकाम्यया ॥ २२ ॥
 वीर्यशौर्यबलोन्नद्धं आत्मशक्तिसमं वचः ।
 कुरवो बलदेवस्य निशम्योचुः प्रकोपिताः ॥ २३ ॥
 अहो महच्चित्रमिदं कालगत्या दुरत्यया ।
 आरुरुक्षत्युपानद् वै शिरो मुकुटसेवितम् ॥ २४ ॥
 एते यौनेन संबद्धाः सहशय्यासनाशनाः ।
 वृष्णयस्तुल्यतां नीता अस्मद् दत्तनृपासनाः ॥ २५ ॥
 चामरव्यजने शङ्खं आतपत्रं च पाण्डुरम् ।
 किरीटमासनं शय्यां भुञ्जन्त्यस्मदुपेक्षया ॥ २६ ॥
( इंद्रवंशा )
अलं यदूनां नरदेवलाञ्छनैः
     दातुः प्रतीपैः फणिनामिवामृतम् ।
 येऽस्मत्प्रसादोपचिता हि यादवा
     आज्ञापयन्त्यद्य गतत्रपा बत ॥ २७ ॥
( अनुष्टुप् )
कथमिन्द्रोऽपि कुरुभिः भीष्मद्रोणार्जुनादिभिः ।
 अदत्तमवरुन्धीत सिंहग्रस्तमिवोरणः ॥ २८ ॥
 श्रीबादरायणिरुवाच -
जन्मबन्धुश्रीयोन्नद्ध मदास्ते भरतर्षभ ।
 आश्राव्य रामं दुर्वाच्यं असभ्याः पुरमाविशन् ॥ २९ ॥
 दृष्ट्वा कुरूनां दौःशील्यं श्रुत्वावाच्यानि चाच्युतः ।
 अवोचत् कोपसंरब्धो दुष्प्रेक्ष्यः प्रहसन् मुहुः ॥ ३० ॥
 नूनं नानामदोन्नद्धाः शान्तिं नेच्छन्त्यसाधवः ।
 तेषां हि प्रशमो दण्डः पशूनां लगुडो यथा ॥ ३१ ॥
 अहो यदून् सुसंरब्धाम् कृष्णं च कुपितं शनैः ।
 सान्त्वयित्वाहमेतेषां शममिच्छन् इहागतः ॥ ३२ ॥
 त इमे मन्दमतयः कलहाभिरताः खलाः ।
 तं मामवज्ञाय मुहुः दुर्भाषान् मानिनोऽब्रुवन् ॥ ३३ ॥
 नोग्रसेनः किल विभुः भोजवृष्ण्यन्धकेश्वरः ।
 शक्रादयो लोकपाला यस्यादेशानुवर्तिनः ॥ ३४ ॥
 सुधर्माऽऽक्रम्यते येन पारिजातोऽमराङ्‌घ्रिपः ।
 आनीय भुज्यते सोऽसौ न किलाध्यासनार्हणः ॥ ३५ ॥
 यस्य पादयुगं साक्षात् श्रीरुपास्तेऽखिलेश्वरी ।
 स नार्हति किल श्रीशो नरदेवपरिच्छदान् ॥ ३६ ॥
( वसंततिलका )
यस्याङ्‌घ्रिपङ्कजरजोऽखिललोकपालैः
     मौल्युत्तमैर्धृतमुपासिततीर्थतीर्थम् ।
 ब्रह्मा भवोऽहमपि यस्य कलाः कलायाः
     श्रीश्चोद्वहेम चिरमस्य नृपासनं क्व ॥ ३७ ॥
( अनुष्टुप् )
भुञ्जते कुरुभिर्दत्तं भूखण्डं वृष्णयः किल ।
 उपानहः किल वयं स्वयं तु कुरवः शिरः ॥ ३८ ॥
 अहो ऐश्वर्यमत्तानां मत्तानामिव मानिनाम् ।
 असंबद्धा गिरो रुक्षाः कः सहेतानुशासीता ॥ ३९ ॥
 अद्य निष्कौरवं पृथ्वीं करिष्यामीत्यमर्षितः ।
 गृहीत्वा हलमुत्तस्थौ दहन्निव जगत्त्रयम् ॥ ४० ॥
 लाङ्गलाग्रेण नगरं उद्विदार्य गजाह्वयम् ।
 विचकर्ष स गङ्गायां प्रहरिष्यन्नमर्षितः ॥ ४१ ॥
 जलयानमिवाघूर्णं गङ्गायां नगरं पतत् ।
 आकृष्यमाणमालोक्य कौरवाः जातसंभ्रमाः ॥ ४२ ॥
 तमेव शरणं जग्मुः सकुटुम्बा जिजीविषवः ।
 सलक्ष्मणं पुरस्कृत्य साम्बं प्राञ्जलयः प्रभुम् ॥ ४३ ॥
 राम रामाखिलाधार प्रभावं न विदाम ते ।
 मूढानां नः कुबुद्धीनां क्षन्तुमर्हस्यतिक्रमम् ॥ ४४ ॥
 स्थित्युत्पत्त्यप्ययानां त्वमेको हेतुर्निराश्रयः ।
 लोकान् क्रीडनकानीश क्रीडतस्ते वदन्ति हि ॥ ४५ ॥
( मिश्र )
त्वमेव मूर्ध्नीदमनन्त लीलया
     भूमण्डलं बिभर्षि सहस्रमूर्धन् ।
 अन्ते च यः स्वात्मनि रुद्धविश्वः
     शेषेऽद्वितीयः परिशिष्यमाणः ॥ ४६ ॥
( अनुष्टुप् )
कोपस्तेऽखिलशिक्षार्थं न द्वेषान्न च मत्सरात् ।
 बिभ्रतो भगवन् सत्त्वं स्थितिपालनतत्परः ॥ ४७ ॥
 नमस्ते सर्वभूतात्मन् सर्वशक्तिधराव्यय ।
 विश्वकर्मन् नमस्तेऽस्तु त्वां वयं शरणं गताः ॥ ४८ ॥
 श्रीशुक उवाच -
एवं प्रपन्नैः संविग्नैः वेपमानायनैर्बलः ।
 प्रसादितः सुप्रसन्नो मा भैष्टेत्यभयं ददौ ॥ ४९ ॥
 दुर्योधनः पारिबर्हं कुञ्जरान् षष्टिहायनान् ।
 ददौ च द्वादशशतानि अयुतानि तुरङ्गमान् ॥ ५० ॥
 रथानां षट्सहस्राणि रौक्माणां सूर्यवर्चसाम् ।
 दासीनां निष्ककण्ठीनां सहस्रं दुहितृवत्सलः ॥ ५१ ॥
 प्रतिगृह्य तु तत्सर्वं भगवान् सात्वतर्षभः ।
 ससुतः सस्नुषः प्रायात् सुहृद्‌भिरभिनन्दितः ॥ ५२ ॥
( मिश्र )
ततः प्रविष्टः स्वपुरं हलायुधः
     समेत्य बन्धूननुरक्तचेतसः ।
 शशंस सर्वं यदुपुङ्गवानां
     मध्ये सभायां कुरुषु स्वचेष्टितम् ॥ ५३ ॥
( अनुष्टुप् )
अद्यापि च पुरं ह्येतत् सूचयद् रामविक्रमम् ।
 समुन्नतं दक्षिणतो गङ्गायां अनुदृश्यते ॥ ५४ ॥


इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां
संहितायां दशमस्कन्धे उत्तरार्धे
 हस्तिनपुरकर्षणरूपसंकर्षणविजयो नाम अष्टषष्टितमोऽध्यायः ॥ ६८ ॥
 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥