सामग्री पर जाएँ

श्रीभागवतसन्दर्भः/द्वितीयः सन्दर्भः

विकिस्रोतः तः
← प्रथमः सन्दर्भः श्रीभागवतसन्दर्भः
द्वितीयः सन्दर्भः
[[लेखकः :|]]
तृतीयः सन्दर्भः →

श्रीभागवतसन्दर्भे द्वितीयः

भगवत्सन्दर्भः

श्रीश्रीराधागोविन्दो जयतः ।

तौ सन्तोषयता सन्तौ श्रीलरूपसनातनौ ।
दाक्षिणात्येन भट्टेन प्नुअरेतद्विविच्यते ॥ो॥
तस्याद्यं ग्रन्थनालेखं क्रान्तमुत्क्रान्तखण्डितम् ।
पर्यालोच्याथ पर्यायं कृत्वा लिखति जीवकः ॥ो॥[*Eण्ड्ण्Oट्E ॰१]

[१]

अथैवमद्वयज्ञानलक्षणं तत्तत्त्वं सामान्यतो लक्षयित्वा पुनर्
उपासकयोग्यतावैशिष्ट्येन प्रकटितनिजसत्ताविशेषं विशेषतो निरूपयति
वदन्तीत्यस्यैवोत्तरार्धेन

ब्रह्मेति परमात्मेति भगवानिति शब्द्यते । [भागवतम् १.२.११]

अथ श्रीमद्भागवताख्य एव शास्त्रे क्वचिदनयत्रापि तदेकं तत्त्वं
त्रिधा शब्द्यते । क्वचिद्ब्रह्मेति क्वचित्परमात्मेति क्वचिद्भगवानिति च
। किन्त्वत्र श्रीमद्व्याससमाधिलब्धाद्भेदाज्जीव इति च शब्द्यते इति
स्वयमेव व्याख्यातो भवतीति प्रथमतस्तावेव प्रस्तूयते । मूले तु
क्रमाद्वैशिष्ट्यद्योतनाय तथा विन्यासः । अयमर्थः तदेकम्
एवाखण्डानन्दस्वरूपं तत्त्वं थुत्कृतपारमेष्ठ्यादिकानन्द
समुदयानां परमहंसानां साधनवशात्तादात्म्यमापन्ने सत्याम्
अपि तदीयस्वरूपशक्तिवैचित्र्यां तद्ग्रहणासामर्थ्ये चेतसि यथा
सामान्यतो लक्षितं तथैव स्फुरद्वा तद्वदेवाविविक्तशक्ति
शक्तिमत्ताभेदतया प्रतिपाद्यमानं वा ब्रह्मेति शब्द्यते ।

अथ तदेकं तत्त्वं स्वरूपभूतयैव शक्त्या कमपि विशेषं धर्तुं
परासामपि शक्तीनां मूलाश्रयरूपं तद्अनुभावानन्दसन्दोहान्तर्
भाविततादृशब्रह्मानन्दानां भागवतपरमहंसानां
तथानुभवैकसाधकतमतदीयस्वरूपानन्दशक्तिविशेषात्मक
भक्तिभावितेष्वन्तर्बहिरपीन्द्रियेषु परिस्फुरद्वा तद्वदेव विविक्त
तादृशशक्तिशक्तिमत्ताभेदेन प्रतिपाद्यमानं वा भगवानिति शब्द्यते


एवमेवोक्तं श्रीजडभरतेन

ज्ञानं विशुद्धं परमार्थमेकम्
अनन्तरं त्वबहिर्ब्रह्म सत्यम्
प्रत्यक्प्रशान्तं भगवच्छब्दसंज्ञं
यद्वासुदेवं कवयो वदन्ति ॥ [भागवतम् ५.१२.११] इति ।

श्रीध्रुवं प्रति श्रीमनुना च

त्वं प्रत्यग्आत्मनि तदा भगवत्यनन्त ।
आनन्दमात्र उपपन्नसमस्तशक्तौ ॥ [भागवतम् ४.११.३०] इति ।

एवं चानन्दमात्रं विशेष्यं समस्ताः शक्तयो विशेषणानि विशिष्टो
भगवानित्यायातम् । तथा चैवं विशिष्टये प्राप्ते
पूर्णाविर्भावत्वेनाखण्डतत्त्वरूपोऽसौ भगवान् । ब्रह्म तु स्फुटम्
अप्रकटितवैशिष्ट्याकारत्वेन तस्यवासम्यगाविर्भाव इत्यागतम् । इदं तु
पुरस्ताद्विस्तरेण विवेचनीयम् । भगवच्छब्दार्थः श्रीविष्णुपुराणे
[६.५.६६६९, ७३७५, ७९] प्रोक्तः ।

यत्तदव्यक्तमजरमचिन्त्यमजमक्षयम् ।
अनिर्देश्यमरूपं च पाणिपादाद्य्असंयुतम् ॥
विभुं सर्वगतं नित्यं भूतयोनिमकारणम् ।
व्याप्य्अव्याप्तं यतः सर्वं तद्वै पश्यन्ति सूरयः ॥
तद्ब्रह्म परमं धाम तद्ध्येयं मोक्षकाङ्क्षिणाम् ।
श्रुतिवाक्योदितं सूक्ष्मं तद्विष्णोः परमं पदम् ॥
तदेतद्भगवद्वाच्यं स्वरूपं परमात्मनः ।
वाचको भगवच्छब्दस्तस्याद्यस्याक्षरात्मनः ॥ इत्य्आद्युक्त्वा

सम्भर्तेति तथा भर्ता भकारोऽर्थद्वयान्वितः ।
नेता गमयिता स्रष्टा गकारार्थस्तथा मुने ॥
ऐश्वर्यस्य समग्रस्य वीर्यस्य यशसः श्रियः ।
ज्ञानवैराग्ययोश्चैव षण्णां भग इतीङ्गना ॥
वसन्ति तत्र भूतानि भूतात्मन्यखिलात्मनि ।
स च भूतेष्वशेषेषु वकारार्थस्ततोऽव्ययः ॥ इति चोक्त्वा

ज्ञानशक्तिबलैश्वर्यवीर्यतेजांस्यशेषतः ।
भगवच्छब्दवाच्यानि विना हेयैर्गुणादिभिः ॥ इति [Vइড়् ६.५.७९] पर्यन्तेन


पूर्ववदत्र विशेष्यविशेषणविशिष्टता विवेचनीया । विशेषणस्याप्य्
अहेयत्वं व्यक्तीभविष्यतीति । अरूपं पाणिपादाद्य्असंयुतमितीदं
ब्रह्माख्यकेवलविशेष्याविर्भावनिष्ठम् । विभुं सर्वगतमित्य्
आदिकं तु विशिष्टनिष्ठम् । अथवा अरूपमित्यादिकं प्राकृतरूपादि
निषेधनिष्ठम् । अतएव पाणिपादाद्यसंयुतमिति संयोगसम्बन्ध एव
परिह्रियते न तु समवायसम्बन्ध इति ज्ञेयम् । विभुमिति सर्ववैभव
युक्तमित्यर्थः । व्यापीति सर्वव्यापकम् । अव्याप्तमिति अन्येन व्याप्तुम्
अशक्यम् । तदेतद्ब्रह्मस्वरूपं भगवच्छब्देन वाच्यम् । न तु
लक्ष्यम् । तदेव निर्धार्यति भगवच्छब्दोऽयं तस्य नदीविशेषस्य
गङ्गाशब्दवद्वाचक एव, न तु तटशब्दवल्लक्षकः । एवं सत्यक्षर
साम्यान्निर्ब्रूयादिति निरुक्तमतमाश्रित्य भगादिशब्दानामर्थमाह
सम्भर्तेति. नेतास्वभक्तिफलस्य प्रेम्णः प्रापकः । गमयिता स्वलोक
प्रापकः । स्रष्टा स्वभक्तेषु तत्तद्गुणस्योद्गमयिता । जगत्
पोषकत्वादिकं तु तस्य परम्परयैव न तु साक्षादिति ज्ञेयम् ।

ऐश्वर्यं सर्ववशीकारित्वम् । समग्रस्येति सर्वत्रान्वेति । वीर्यं मणि
मन्त्रादेरिव प्रभावः । यशो वाङ्मनःशरीराणां साद्गुण्यख्यातिः ।
श्रीः सर्वप्रकारा सम्पत् । ज्ञानं सर्वज्ञत्वम् । वैराग्यं प्रपञ्चवस्त्व्
अनासक्तिः । इङ्गना संज्ञा । अक्षरसाम्यपक्षे भगवानिति वक्तव्ये
मतुपो वलोपश्छान्दसः । सम्भर्तेय्आदिषु सम्भर्तृत्वादिष्वेव
तात्पर्यम् । यथा सुप्तिङ्अन्तचयो वाक्यमित्यत्र पचति भवतीत्यस्य
वाक्यस्य पाको भवतीत्यर्थः क्रियते यथा वा सत्तायामस्ति भवतीत्यत्र
धात्व्अर्थ एव विवक्षितः । तदेवमेव भगवानित्यत्र मतुब्अर्थो
योजयितुं शक्यते । प्रकारान्तरेण षड्भगान् दर्शयति ज्ञानशक्ती ज्ञानम्
अन्तःकरणस्य । शक्तिरिन्द्रियाणाम् । ऐश्वर्यवीर्ये व्याख्याते । तेजः कान्तिः
। अशेषतः सामग्र्येणेत्यर्थः । भगवच्छब्दवाच्यानीति । भगवतो
विशेषणान्येवैतानि न तूपलक्षआनीत्यर्थः । अत्र भगवानिति नित्ययोगे
मतुप् ।

अथ तथाविधभगवद्रूपपूर्णाविर्भावं तत्तत्त्वं पूर्ववज्जीवादि
नियन्तृत्वेन स्फुरद्वा प्रतिपाद्यमानं वा परमात्मेति शब्द्यत इति ।
यद्यप्येतए ब्रह्मादिशब्दाः प्रायो मिथोऽर्थेषु वर्तन्ते तथापि तत्र तत्र
सङ्केतप्राधान्यविवक्षयेदमुक्तम् ॥ श्रीसुतः ॥

[२]

एवमेव प्रश्नोत्त्तराभ्यां विवृणोति । राजोवाच

नारायणाभिधानस्य ब्रह्मणः परमात्मनः ।
निष्ठामर्हथ नो वक्तुं यूयं हि ब्रह्मवित्तमाः ॥ [भागवतम् ११.३.३५]

श्रीपिप्पलायन उवाच

स्थित्य्उद्भवप्रलयहेतुरहेतुरस्य
यत्स्वप्नजागरसुषुप्तिषु यद्बहिश्च ।
देहेन्द्रियासुहृदयानि चरन्ति येन
सञ्जीवितानि तदवेहि परं नरेन्द्र ॥ [भागवतम् ११.३.३६]

अत्र प्रश्नस्यार्थः । नारायणाभिधानस्य भगवतः । ब्रह्मेति
परमात्मेत्यादिप्रसिद्धतत्समुदायतृतीयतया पाठात् । नारायणे
तुरीयाख्ये भगवच्छबशब्दिते इत्यत्र स्पष्टीभावित्वाच्च । निष्ठां
तत्त्वम् । प्रश्नक्रमेणैवोत्तरमाह स्थितीति । यत्स्थित्यादिहेतुरहेतुश्च
भवति । यच्च जागरादिषु यद्बहिश्च भवति । येन च देहादीनि
सञ्जीवितानि सन्ति चरन्ति । तदेकमेव परं तत्त्वं प्रश्नक्रमेण
नारायणादिरूपं विद्धीति योजनीयम् । तथापि भ्रमत्वस्पष्टीकरणाय
विपर्ययेन व्याख्यायते । तत्रैकस्यैव विशेषणभेदेन तद्अविशिष्टत्वेन
च प्रतिपादनात्तथैव तत्तदुपासकपुरुषानुभवभेदाच्
चाविर्भावनाम्भोदेर्भेद इत्युत्तरवाक्यतात्पर्यम् ।

एतदुक्तं भवति । स्वयमहेतुः स्वरूपशक्त्यैकविलासमयत्वेन
तत्रोदासीनमपि प्रकृतिजीवप्रवर्तकावस्थपरमात्मापरपर्याय
स्वांशलक्षणपुरुषद्वारा यदस्य सर्गस्थित्य्आदिहेतुर्भवति तद्
भगवद्रूपं विद्धि । परमात्मता चैवमुपतिष्ठतीत्याह येन हेतु
कर्त्रा आत्मांशभूतजीवप्रवेशनद्वारा सञ्जीवितानि सन्ति देहादीनि तद्
उपलक्षणानि प्रधानादिसर्वाण्येव तत्त्वानि येनैव प्रेरिततयैव चरन्ति
स्वस्वकार्ये प्रवर्तन्ते तत्परअमात्मरूपं विद्धि ।

तस्मै नमो भगवते ब्रह्मणे परमात्मने [भागवतम् १०.२८.६] इत्यत्र वरुण
कृतश्रीकृष्णस्तुतौ टीका च परमात्मने सर्वजीवनियन्त्रे इत्येषा ।
जीवस्यात्मत्वं तद्अपेक्षया तस्य परमत्वमित्यतः परमात्मशब्देन
तत्सहयोगी स एव व्यज्यते इति । तत्तदविशिष्टत्वेन ब्रह्मत्वमात्रं
चैवमुपतिष्ठतीत्याह, स्वप्नेति । यदेव तत्तत्त्वं स्वप्नादौ अन्वयेन
स्थितं यच्च तद्बहिः शुद्धायां जीवाख्यशक्तौ तथा स्थितं चकारात्
ततः परत्रापि व्यतिरेकेण स्थितं स्वयमविशिष्टं तद्ब्रह्मरूपं
विद्धीति ॥ श्रीनारदः? ॥ श्रीनारदः॥२॥

[३]

इदमेव त्रयं सिद्धिप्रसङ्गेऽप्याह त्रिभिः ।

विष्णौ त्र्यधीश्वरे चित्तं धारयेत्कालविग्रहे ।
स ईशित्वमवाप्नोति क्षेत्रं क्षेत्रज्ञचोदनम् ॥
नारायणे तुरीयाख्ये भगवच्छब्दशब्दिते ।
मनो मय्यादधद्योगी मद्धर्मावशितामियात् ॥
निर्गुणे ब्रह्मणि मयि धारयन् विशदं मनः ।
परानन्दमवाप्नोति यत्र कामोऽवसीयते ॥ [भागवतम् ११.१५.१५१७]

टीका च । त्र्य्अधीश्वरे त्रिगुणमायानियन्तरि । अतएव कालविग्रहे
आकलयिऋरूपे अन्तर्यामिणि । तुरीयाख्ये

विराठिरण्यगर्भश्च कारणं चेत्युपाधयः ।
ईशस्य यन्त्रिभिर्हीनः तुरीयं तत्पदं विदुः ॥ इत्येवं लक्षणे ।

ऐश्वर्यस्य समग्रस्य वीर्यस्य यशसः श्रियः ।
ज्ञानवैराग्ययोश्चैव षण्णां भग इतीङ्गना ॥ [Vइড়् ६.५.७४]
तद्वति भगवच्छब्दशब्दिते । इत्येषा ॥

श्रीभगवान् ॥३॥

[४]

अथ वदन्तीत्याद्यस्य पद्यस्य प्रत्यवस्थानं यावत्तृतीयसन्दर्भम्
उद्भाव्यते । यत्र योग्यतावैशिष्ट्येनाविर्भाववैशिष्ट्यं वक्तुं
ब्रह्माविर्भावे तावद्योग्यतामाह

तथापि भूमन्महिमागुणस्य ते
विबोध्हुमर्हत्यमलान्तरात्मभिः ।
अविक्रियात्स्वानुभवादरूपतो
ह्यनन्यबोध्यात्मयतया न चान्यथा ॥ [भागवतम् १०.१४.६]

यद्यपि ब्रह्मत्वे भगवत्त्वे च दुर्ज्ञेयत्वमुक्तम्, तथापि हे भूमन्
स्वरूपेण गुणेन चानन्त ते तवागुणस्य अनाविष्कृतस्वरूपभूतगुणस्य
यो महिमा महत्त्वं बृहत्त्वं ब्रह्मत्वमिति यावत् । अथ कस्मादुच्यते
ब्रह्म बृंहति बृंहयति चेति श्रुतेः । स तव महिमा अमलान्तरात्मभिः
शुद्धान्तःकरणैर्गुणैर्विबोद्धुमर्हति । तेषां बोधे प्रकाशितुम्
अर्हति समर्थो भवतीत्यर्थः ।

कस्मान्निमित्तात्? तत्राह स्वानुभवात्शुद्धत्वं पदार्थस्य बोधात् ।
नन्वनुभवः खल्वन्तःकरणस्य वृत्तिः, सा च स्थूलसूक्ष्मदेह
विकारमय्येव सती कथं निर्विकारत्वम्पदार्थः विषयं कुर्वीत ।
तत्राह अविक्रियात्त्यक्ततत्तद्विकारात् ।

ननु विषयाकार एवानुभवो विषयमुपाददीत शुद्धत्वम्पदार्थस्तु
न कस्यापि विषयः स्यात्प्रत्यग्रूपत्वात् । तत्राह अरूपतः रूप्यते भाव्यते
इति रूपो विषयः तदाकारतारहितात् । देहद्वयावेशविषयाकारताराहित्ये
सति स्वयं शुद्धत्वंपदार्थः प्रकाशत इति भावः ।

ननु सूक्ष्मचिद्रूपत्वम्पदार्थानुभवे कथं पूर्णचिदाकाररूप
मदीयब्रह्मस्वरूपं स्फुरतु । तत्राह अनन्यबोध्यात्मतया चिद्
आकारतासाम्येन शुद्धत्वंपदार्थैक्यबोध्यस्वरूपतया । यद्यपि
तादृग्आत्मानुभवानन्तरं तद्अनन्यबोध्यताकृतौ साधकशक्तिर्नास्ति
तथापि पूर्वं तद्अर्थमेव कृतया सर्वत्राप्युपजीव्यया साधनभक्त्य्
आराधितस्य श्रीभगवतः प्रभावादेव तदपि तत्रोदयत इति भावः ।

तदुक्तं वदन्तीत्यादिपद्यानन्तरमेव

तच्छ्रद्दधाना मुनयो
ज्ञानवैराग्ययुक्तया ।
पश्यन्त्यात्मनि चात्मानं
भक्त्या श्रुतगृहीतया ॥ [भागवतम् १.२.१२] इति.

सत्यव्रतं प्रति श्रीमत्स्यदेवोपदेशे च

मदीयं महिमानं च
परं ब्रह्मेति शब्दितम् ।
वेत्स्यस्यनुगृहीतं मे
सम्प्रश्नैर्विवृतं हृदि ॥ [भागवतम् ८.२४.३८] इति.

ब्रह्मा श्रीभगवन्तम् ॥४॥

[५]

तादृशाविर्भावमाह, सार्धेन

शश्वत्प्रशान्तमभयं प्रतिबोधमात्रं
शुद्धं समं सद्असतः परमात्मतत्त्वम् ।
शब्दो न यत्र पुरुकारकवान् क्रियार्थो
माया परैत्यभिमुखे च विलज्जमाना ।
तद्वै पदं भगवतः परमस्य पुंसो
ब्रह्मेति यद्विदुरजस्रसुखं विशोकम् ॥ [भागवतम् २.७.४७]

अयमर्थः । सर्वतो बृहत्तमत्वाद्ब्रह्मेति यद्विदुस्तत्खलु परमस्य
पुंसो भगवतः पदमेव । निर्विकल्पतया साक्षात्कृतेः प्राथमिकत्वात्
ब्रह्मणश्च भगवत एव निर्विकल्पसत्तारूपत्वात् । विचित्ररूपादिविकल्प
विशेषविशिष्टस्य भगवतस्तु साक्षात्कृतेस्तद्अनन्तरजत्वात् । तदीय
स्वरूपभूतं तद्ब्रह्म तत्साक्षात्कारास्पदं भवतीत्यर्थः ।
निर्विकल्पब्रह्मणस्तस्य स्वरूपलक्षणमाह प्रतिबोधमात्रमिति ।
अजस्रसुखमिति च । जडस्य दुःखस्य च प्रतियोगितया प्रतीयते यद्वस्तु
यच्च नित्यं तदेकरूपं तद्रूपमित्यर्थः । यतात्मतत्त्वं सर्वेषाम्
आत्मत्नां मूलम् । आत्मा हि स्वप्रकाशरूपतया निरुपाधिपरम
प्रेमास्पदतया च तत्तद्रूपेण प्रतीयत इत्यर्थः ।

अथ तस्य सुखरूपस्य अजस्रत्वे हेतुमाह शाश्वत्प्रशान्तं नित्यमेव
क्षोभरहितं तद्वदभयं भयशून्यं विशोकं शोकरहितं चेति । न
च सुखरूपत्वे तस्य पुण्यजन्यत्वं स्यादित्याह शब्दो न यत्रेति । यत्र
क्रियार्थो यज्ञाद्य्अर्थः पुरुकारकवान् शब्दो न प्रवर्तते इत्यर्थः ।
त्वं त्वौपनिषदं पुरुषमित्यादि रीत्या केवलमुपनिषदेव प्रकाशिका
भवतीत्यर्थः । पुनः सुखस्वरूपत्वे चेन्द्रियजन्यत्वं व्यावर्तयति
शुद्धमित्यादिना । तत्र शुद्धं दोषरहितम् । सममुच्चावचताशून्यम्
। सदसतः परं कारणकार्यवर्गादुपरिस्थितम् । किं बहुनेत्याह माया
च यस्याभिमुखे यदुन्मुखतया स्थिते जीवन्मुक्तगणे विलज्जमानैव
परैति पलायते ततो दूरं गच्छतीत्यर्थः ॥ श्री ब्रह्मा नारदम् ॥५॥

[६]

व्यञ्जिते भगवत्तत्त्वे ब्रह्म च व्यज्यते स्वयम् ।
अतोऽत्र ब्रह्मसन्दर्भोऽप्यवान्तरतया मतः ॥

अथ भगवद्आविर्भावे योग्यतामाह

भक्तियोगेन मनसि सम्यक्प्रणिहितेऽमले
अपश्यत्पुरुषं पूर्णम् ॥ [भागवतम् १.७.४] इति । व्याख्यातमेव ॥६॥

[७]

तदित्थं ब्रह्मणा चोक्तम्

त्वं भक्तियोगपरिभावितहृत्सरोज
आस्से श्रुतेक्षितपथो ननु नाथ पुंसाम् ॥ इति ॥ [भागवतम् ३.९.११] ॥ श्रीसुतः
॥७॥[*Eण्ड्ण्Oट्E ॰२]

[८]
तद्आविर्भावमाह सार्धदशभिः

तस्मै स्वलोकं भगवान् सभाजितः
सन्दर्शयामास परं न यत्परम् ।
व्यपेतसङ्क्लेशविमोहसाध्वसं
स्वदृष्टवद्भिर्पुरुषैरभिष्टुतम् ॥९॥

प्रवर्तते यत्र रजस्तमस्तयोः
सत्त्वं च मिश्रं न च कालविक्रमः ।
न यत्र माया किमुतापरे हरेर्
अनुव्रता यत्र सुरासुरार्चिताः ॥१०॥

श्यामावदाताः शतपत्रलोचनाः
पिशङ्गवस्त्राः सुरुचः सुपेशसः ।
सर्वे चतुर्बाहव उन्मिषन्मणि
प्रवेकनिष्काभरणाः सुवर्चसः ।
प्रवालवैदूर्यमृणालवर्चसः
परिस्फुरत्कुण्डलमौलिमालिनः ॥११॥

भ्राजिष्णुभिर्यः परितो विराजते
लसद्विमानावलिभिर्महात्मनाम् ।
विद्योतमानः प्रमदोत्तमाद्युभिः
सविद्युदभ्रावलिभिर्यथा नभः ॥१२॥

श्रीर्यत्र रूपिण्युरुगायपादयोः
करोति मानं बहुधा विभूतिभिः ।
प्रेङ्खं श्रिता या कुसुमाकरानुगैर्
विगीयमाना प्रियकर्म गायती ॥१३॥

ददर्श तत्राखिलसात्वतां पतिं
श्रियः पतिं यज्ञपतिं जगत्पतिम् ।
सुनन्दनन्दप्रबलार्हणादिभिः
स्वपार्षदाग्रैः परिसेवितं विभुम् ॥१४॥

भृत्यप्रसादाभिमुखं दृग्आसवं
प्रसन्नहासारुणलोचनाननम् ।
किरींिनं कुण्डलिनं चतुर्भुजं
पीतांशुकं वक्षसि लक्षितं श्रिया ॥१५॥

अध्यर्हणीयासनमास्थितं परं
वृतं चतुःषोडशपञ्चशक्तिभिः ।
युक्तं भगैः स्वैरितरत्र चाध्रुवैः
स्व एव धामन् रममाणमीश्वरम् ॥१६॥

तद्दर्शनाह्लादपरिप्लुतान्तरो
हृष्यत्तनुः प्रेमभराश्रुलोचनः ।
ननाम पादाम्बुजमस्य विश्वसृग्
यत्पारमहंस्येन पथाधिगम्यते ॥१७॥
तं प्रीयमाणं समुपस्थितं कविं
प्रजाविसर्गे निजशासनार्हणम् ।
बभाष ईषत्स्मितशोचिषा गिरा
प्रियः प्रियं प्रीतमनाः करे स्पृशन् ॥१८ [भागवतम् २.९.९१८] ॥

तस्मै भगवद्आज्ञापुरस्कारेण श्रीनारायणाह्वयपुरुषनाभि
पङ्कजे स्थित्यैव तत्तोषणैस्तपोभिर्भजते ब्रह्मणे सभाजितस्तेन
भजनेन वशीकृतः सन् स्वलोकं वैकुण्ठं भुवनोत्तमं भगवान्
सम्यग्दर्शयामास । यद्यतो विअकुण्ठात्परमन्यद्वैकुण्ठं परं
श्रेष्ठं न विद्यते परमभगवद्वैकुण्ठत्वात् । यद्वा, यद्यतो
वैकुण्ठात्परं ब्रह्माख्यं तत्त्वं परं भिन्नं न भवति । स्वरूप
शक्तिविशेषाविष्कारेण माययानावृतं तदेव तद्रूपमित्यर्थः । अग्रे त्व्
इदं व्यक्तीकरिष्यते । तादृशत्वे हेतुः व्यपेतेति स्वदृष्टेतो च ।
अविद्यास्मितारागद्वेषाभिनिवेशाः पञ्च क्लेशाः विइमोहस्तैः वैचित्र्यं
साध्वसं भयं व्यपेतानि सङ्क्लेशादीनि यत्र तम् । स्वस्य दृष्टं दर्शनं
तद्विद्यते येषां तैरात्मविद्भिरपि अभितः सर्वांशेनैव स्तुतं श्लाघितम्


अथ ते मुनयो दृष्ट्वा नयनानन्दभाजनम् ।
वैकुण्ठं तद्अधिष्ठानं विकुण्ठं च स्वयंप्रभम् ॥
भगवन्तं परिक्रम्य प्रणिपत्यानुमान्य च ।
प्रतिजग्मुः प्रमुदिताः शंसन्तो वैष्णवीं श्रियम् ॥ [भागवतम् ३.१६.२७८]

पुनस्तादृशत्वमेव व्यनक्ति, प्रवर्तते इति । यत्र वैकुण्ठे रजस्तमश्च
न प्रवर्तते । तयोर्मिश्रं सहचरं जडं यत्सत्त्वं न तदपि । किन्तु
अन्यदेव । तच्च या सुष्ठु स्थापयिष्यमाणा मायातः परा भगवत्
स्वरूपशक्तिः तस्याः वृत्तित्वेन चिद्रूपं शुद्धसत्त्वाख्यं सत्त्वमिति
तदीयप्रकरण एव स्थापयिष्यते । तदेव च यत्र प्रवर्तते इत्यर्थः ।

तथा च नारदपञ्चरात्रे जितन्तेस्तोत्रे

लोकं वैकुण्ठनामानं
दिव्यषड्गुणसंयुतम् ।
अवैष्णवानामप्राप्यं
गुणत्रयविवर्जितम् ॥

पाद्मोत्तरखण्डे तु वैकुण्ढनिरूपशो तस्य सत्त्वस्याप्राकृतत्वं
स्फुटमेवं दर्शितम् । यतः प्रकृतिविभूतिवर्णनानन्तरम्

एवं प्राकृतरूपाया विभूते रूपमुत्तमम् ।
त्रिपाद्विभूतिरूपं तु शृणु भूधरनन्दिनि ॥
प्रधानपरमव्योम्नोरन्तरे विरजा नदी ।
वेदाङ्गस्वेदजनिततोयैः प्रस्राविता शुभा ॥
तस्याः पारे परव्योम्नि त्रिपाद्भूतं सनातनम् ।
अमृतं शाश्वतं नित्यमनन्तं परं पदम् ॥
शुद्धसत्त्वमयं दिव्यमक्षरं ब्रह्मणः पदम् ॥ इत्यादि ॥

प्राकृतगुणानां परस्पराव्यभिचारित्वं तूक्तं साङ्ख्यकौमुद्यां
अन्योन्यमिथुनवृत्तय इति । तट्टीकायां च अन्योन्यसहचरा अविनाभाव
वर्तिन इति यावत् । भवति चात्रागमः

अन्योन्यमिथुनाः सर्वे
सर्वे सर्वत्रगामिनः ।
रजसो मिथुनं सत्त्वम् ॥ इत्याद्युपक्रम्य

नैषामादिश्च संयोगो
वियोगो चोपलभ्यते ॥ इतीति ॥

तस्मादत्र रजसोऽसद्भावादसृज्यत्वं तमसोऽसद्भावादनाश्यत्वं
प्राकृतसत्त्वाभावाच्च सच्चिदानन्दरूपत्वं तस्य दर्शितम् । तत्र हेतुर्
न च कालविक्रमः इति । कालविक्रमेण हि प्रकृतिक्षोभात्सत्त्वादयः
पृथक्क्रियन्ते । तस्माद्यत्रासौ षड्भावविकारहेतुः कालविक्रम एव
न प्रवर्तते तत्र तेषामभावः सुतरामेवेति भावः । किं च तेषां मूलत
एव कुठार इत्याह न यत्र मायेति । मायात्र जगत्सृष्ट्य्आदिहेतुर्
भगवच्छक्तिर्न तु कापट्यमात्रम् । रजादिनिषेधेनैव तद्व्युदासात्
। अथवा यत्र तयोः सम्बन्धि सत्त्वं प्राकृतसत्त्वं यत्तदपि न
प्रवर्तते । मिश्रमपृथग्भूतगुणत्रयं प्रधानं च । अग्रे माया
प्रधानयोर्भेदो विवेचनीयः ।

कैमुत्येनोक्तमेवार्थं द्रढयति । किमुतापरे इति । तयोर्विमिश्रं किञ्चिद्
रजस्तमोमिश्रं सत्त्वं च नेति व्याख्या तु पिष्टपेषणमेव । सामान्यतो
रजस्तमोनिषेधेनैव तत्प्रतिपत्तेः । वक्ष्यते च तस्य सत्त्वस्य प्राकृताद्
अन्य्तमत्वं द्वादशे श्रीनारायणर्षिं प्रति मार्कण्डेयेन

सत्त्वं रजस्तम इतीश तवात्मबन्धो
मायामयाः स्थित्लयोद्भवहेतवोऽस्य ।
लीलाधृता यदपि सत्त्वमयी प्रशान्त्यै
नान्ये नॄणां व्यसनमोहभियश्च याभ्याम् ॥

तस्मात्तवेह भगवन्नथ तावकानां
शुक्लां तनुं स्वदयितां कुशला भजन्ति ।
यत्सात्वताः पुरुषरूपमुशन्ति सत्त्वं
लोको यतोऽभयमुतात्मसुखं न चान्यद् ॥ [भागवतम् १२.८.३९४०] इति ॥

अनयोरर्थः । हे ईश यदपि सत्त्वं रजस्तम इति तवैव मायाकृता लीलाः
। कथम्भूताः अस्य विश्वस्य स्थित्यादिहेतवः तथापि या सत्त्वमयी सैव
प्रशान्त्यै प्रकृष्टसुखाय भवति । नान्ये रजस्तमोमय्यौ । न केवलं
प्रशान्त्यभावमात्रमनयोः । किन्त्वनिष्टं चेत्याह व्यसनेति । हे
भगवन् तस्मात्तव शुक्लां सत्त्वमयलीलाधिष्ठात्रीं तनुं श्रीविष्णु
रूपां कुशला निपुणा भजन्ति सेवन्ते न त्वन्यां ब्रह्मरुद्ररूपां ते
भजन्ति अनुसरन्ति । न तु दक्षभैरवादिरूपाम् । कथम्भूतां स्वस्य
तवापि दयितां लोकशान्तिकरत्वात् ।

ननु मम रूपमपि सत्त्वात्मकमिति प्रसिद्धम् । तर्हि कथं तस्यापि
मायामयत्वमेव । नहि नहीत्याह सात्वताः श्रीभागवता यत्सत्त्वं
पुरुषस्य तव रूपं प्रकाशमुशन्ति मन्यन्ते यतश्च सत्त्वात्लोको
वैकुण्ठाख्यः प्रकाशते तदभयमात्मसुखं परब्रह्मानन्द
स्वरूपमेवलक्षणस्वरूपशक्तिवृत्तिविशेष उच्यते ।

सत्त्वं विशुद्धं वसुदेवशब्दितं
यदीयते तत्र पुमानपावृतः । [भागवतम् ४.३.२३]

इत्याद्युदाहरिष्यमाणानुसारात् । अगोचरत्वे हेतुः प्रकृतिगुणः । सत्त्वमित्य्
अशुद्धसत्त्वलक्षणप्रसिद्ध्य्अनुसारेण तथाभूतश्चिच्छक्तिवृत्ति
विशेषः सत्त्वमिति सङ्गतिलाभाच्च । ततश्च तस्य स्वरूपशक्तिवृत्तित्वेन
स्वरूपात्मतैवेत्युक्तं तदभयमात्मसुखमिति । अर्थान्तरे
भगवद्विग्रहं प्रति रूपं यदेतद्[भागवतम् २.८.२] इत्यादौ शुद्धसत्त्व
स्वरूपमात्रत्वप्रतिज्ञाभङ्गः । अभयमित्यादौ प्राञ्जलताहानिश्च
भवति । अन्यत्पदस्यैकस्यैव रजस्तमश्चेति द्विर्आवृत्तौ प्रतिपत्ति
गौरवं चोत्पद्यते । पूर्वमपि नान्ये इति द्विवचनेनैव परामृष्टे ।
तस्मादस्ति प्रसिद्धादन्यत्स्वरूपभूतं सत्त्वम् ।

यदेवैकादशे यत्काय एष भुवनत्रयसन्निवेश [भागवतम् ११.४.४] इत्यादौ
ज्ञानं स्वत इत्यत्र टीकाकृन्मतं यस्य स्वरूपभूतात्सत्त्वात्तनु
भृतां ज्ञानमित्यनेन । तथा परो रजः सवितुर्जातवेदा देवस्य भर्ग
[भागवतम् ५.७.१४] इत्यादौ श्रीभरतजाप्ये तन्मतं परो रजः रजसः प्रकृतेः
परं शुद्धसत्त्वात्मकमित्यादिना । अतएव प्राकृताः सत्त्वादयो गुणा
जीवस्यैव न त्वीशस्येति श्रूयते । अथैकादशे सत्त्वं रजस्तम इति गुणा
जीवस्य नैव मे [भागवतम् ११.२५.१२] इति ।

श्रीभगवद्उपनिषत्सु च

ये चैव सात्त्विका भावा राजसास्तामसाश्च ये ।
मत्त एवेति तान् विद्धि न त्वहं तेषु ते मयि ॥
त्रिभिर्गुणमयैर्भावैरेभिः सर्वमिदं जगत् ।
मोहितं नाभिजानाति मामेभ्यः परमव्ययम् ॥
दैवी ह्येषा गुणमयी मम माया दुरत्यया ।
मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते ॥ इति [गीता ७.१२४]

यथा दशमे

हरिर्हि निर्गुणः साक्षात्
पुरुषः प्रकृतेः परः ।
स सर्वदृगुपद्रष्टा
तं भजन्निर्गुणो भवेत् ॥ इति [भागवतम् १०.८८.५]

श्रीविष्णुपुराणे च

सत्त्वादयो न सन्तीशे
यत्र च प्राकृता गुणाः ।
स शुद्धः सर्वशुद्धेभ्यः
पुमानाद्यः प्रसीदतु ॥ इति [Vइড়् १.९.४४]

अत्र प्राकृता इति विशिष्य अप्राकृतास्त्वन्ये गुणास्तस्मिन् सन्त्येवेति व्यञ्जितं
तत्रैव ।

ह्लादिनी सन्धिनी संवित्
त्वय्येका सर्वसंश्रये ।
ह्लादतापकरी मिश्रा
त्वयि नो गुणवर्जिते ॥ इति [Vइড়् १.१२.६९]

तथा च दशमे देवेन्द्रेणोक्तम्

विशुद्धसत्त्वं तव धाम शान्तं
तपोमयं ध्वस्तरजस्तमस्कम् ।
मायामयोऽयं गुणसंप्रवाहो
न विद्यते तेऽग्रणानुबन्ध ॥ इति [भागवतम् १०.२७.४]

अयमर्थः । धाम स्वरूपभूतप्रकाशशक्तिः । विशुद्धत्वमाह
विशेषणद्वयेन । ध्वस्तरजस्तमस्कं तपोमयमिति च । तपोऽत्र ज्ञानं
स तपोऽतप्यतेति श्रुतेः । तपोमयं प्रचुरज्ञानस्वरूपम् । जाड्यांशेनापि
रहितमित्यर्थः । आत्मा ज्ञानमयः शुद्ध इतिवत् । अतः प्राकृतसत्त्वम्
अपि व्यावृत्तम् । अत एव मायामयोऽयं सत्त्वादिगुणप्रवाहस्ते तव न
विद्यते । यतोऽसावज्ञानेनैवानुबन्ध इति ।

अतएव श्रीभगवन्तं प्रति ब्रह्मादीनां सयुक्तिकम्

सत्त्वं विशुद्धं श्रयते भवान् स्थितौ
शरीरिणां श्रेयोपायनं वपुः ।
वेदक्रियायोगतपःसमाधिभिस्
तवार्हणं येन जनः समीहते ॥

सत्त्वं न चेद्धातरिदं निजं भवेद्
विज्ञानमज्ञानभिदापमार्जनम् ।
गुणप्रकाशैरनुमीयते भवान्
प्रकाशते यस्य च येन वा गुणः ॥ [भागवतम् १०.२.३४३५]

अयमर्थः । सत्त्वं तेन प्रकाशमानत्वात्तद्अभिन्नतया रूपितं वपुर्
भवान् श्रयते प्रकटयति । कथम्भूतं सत्त्वं विशुद्धम् । अन्यस्य
रजस्तमोभ्याममिश्रस्यापि प्राकृतत्वेन जाड्यांशसंवलितत्वान्न
विशेषेण शुद्धत्वम् । एतत्तु स्वरूपशक्त्य्आत्मत्वेन तद्अंशस्याप्य्
अस्पर्शादतीव शुद्धमित्यर्थः । किमर्थं श्रये । शरीरिणां स्थितौ निज
चरणारविन्दे मनःस्थैर्याय सर्वत्र भक्तिसुखादनस्यैव त्वदीय
मुख्यप्रयोजनत्वादिति भावः । भक्तियोगविधानार्थम् इति [भागवतम् १.८.१९]
श्रीकुन्तीवाक्यात् ।

कथम्भूतं वपुः श्रेयसां सर्वेषां पुरुषार्थानामुपायनमाश्रयम्
। नित्यानन्दपरमानन्दरूपमित्यर्थः । अतो वपुषस्तव च भेद
निर्देशोऽयमौपचारिक एवेति भावः । अतएव येन वपुषा यद्वपुर्
आलम्बनेनैव जनस्तवार्हणं पूजां करोति । कैः साधनैः वेदादिभिस्
त्वद्आलम्बकैरित्यर्थः । साधारणैस्त्वर्पितैरेव त्वद्अर्हण
प्रायतासिद्धावपि । वपुषोऽनपेक्षत्वात् । तादृशवपुःप्रकाशहेतुत्वेन
स्वरूपात्मकत्वं स्पष्टयन्ति ।

हे धातश्चेद्यदि इदं सत्त्वं यत्तव निजं विज्ञानमनुभवं तदात्मिका
स्वप्रकाशताशक्तिरित्यर्थः । तन्न भवेत् । तर्हि तु अज्ञानभिदा स्व
प्रकाशस्य तवानुभवप्रकार एव मार्जनं शुद्धिमवाप । सैव जगति
पर्यवसीयते न तु तवानुभवलेशोऽपीत्यर्थः ।

ननु प्राकृतसत्त्वगुणेनैष भवतु किं निजेनेत्याह । प्राकृतगुण
प्रकाशैर्भवान् केवलमनुमीयते न तु साक्षात्क्रियत इत्यर्थः । अथवा
तव विज्ञानरूपमज्ञानभिदाया अपमार्जनं च यन्निजं सत्त्वं तद्यदि
न भवेन्नाविर्भवति तदैव प्राकृतसत्त्वादिगुणप्रकाशैर्भवान्
अनुमीयते त्वन्निजसत्ताविर्भावेण तु साक्षात्क्रियत एवेत्यर्थः । तदेव
स्पष्टयितुं तत्रानुमाने द्वैविध्यमाहुर्यस्य गुणः प्रकाशत इति ।
अस्वरूपभूतस्यैव सत्त्वादिगुणस्य त्वद्अव्यभिचारि सम्बन्धित्वमात्रेण
वा त्वदेव प्रकाश्यमानतामात्रेण वा त्वल्लिङ्गत्वमित्यर्थः । यथा
अरुणोदयस्य सूर्योदयसान्निध्यलिङ्गत्वं यथा वा धूमस्याग्नि
लिङ्गत्वमिति तत उभयथापि तव साक्षात्कारे तस्य साधकतमत्वाभावो
युक्त इति भावः ।

तदेवमप्राकृतसत्त्वस्य तदीयस्वप्रकाशतारूपत्वं येन
स्वप्रकाशस्य तव साक्षात्कारो भवतीति स्थापितम् । अत्र ये विशुद्धसत्त्वं
नाम प्राकृतमेव रजस्तमःशून्यं मत्वा तत्कार्यं भगवद्
विग्रहादिकं मन्यन्ते ते तु न केनाप्यनुगृहीताः । रजः
सम्बन्धाभावेन स्वतः प्रशान्तस्वभावस्य सर्वत्रोदासीनताकृतिहेतोस्
तस्य क्षोभासम्भवात्विद्यामयत्वेन यथावस्थितवस्तुप्रकाशितामात्र
धर्मत्वात्, तस्य कल्पनान्तरायोग्यत्वाच्च । तदुक्तमपि अगोचरस्य
गोचरत्वे हेतुः प्रकृतिगुणः सत्त्वम् । गोचरस्य बहुरूपत्वे रजः ।
बहुरूपस्य तिरोहितत्वे रजः । तथा परस्परोदासीनत्वे सत्त्वम् । उपकारित्वे
रजः । अपकारित्वे तमः । गोचरत्वादीनि स्थित्सृष्टिसंहाराः उदासीनत्वादीनि
चेति ।

अथ रजोलेशे तत्र मन्तव्ये विशुद्धपदवैयर्थ्यमित्यलं तन्मत
रजोघटप्रघट्टनयेति । पाद्मोत्तरखण्डे तु वैकुण्ठनिरूपणे
तस्य सत्त्वस्याप्राकृतत्वं स्फुटमेव दर्शितम् । यत उक्तं प्रकृतिविभूति
वर्णनानन्तरम् ।

एवं प्राकृतरूपाय विभूतेर्रूपमुत्तमम् ।
त्रिपाद्विभूतिरूपं तु शृणु भूधरनन्दिनि ॥
प्रधानपरमव्योम्नोरन्तरे विरजा नदी ।
वेदाङ्गस्वेदजनिततोयैः प्रस्राविता शुभा ॥
तस्याः पारे परव्योम्नि त्रिपाद्भूतं सनातनम् ।
अमृतं शाश्वतं नित्यमनन्तं परं पदम् ॥
शुद्धसत्त्वमयं दिव्यमक्षरं ब्रह्मणः पदम् ॥ इत्यादि ।

तदेतत्समाप्तं प्रासङ्गिकं शुद्धसत्त्वविवेचनम् । अथ प्रवर्तते
इत्यादि प्रकृतमेव पद्यं व्याख्यायते ।

ननु गुणाद्य्अभावान्निर्विशेष एवासौ लोक इत्याशङ्क्य तत्र विशेषस्तस्याः
शुद्धसत्त्वात्मिकायाः स्वरूपानतिरिक्तशक्तेरेव विलासरूप इति द्योतयंस्
तमेव विशेषं दर्शयति हरेरिति । सुराः सत्त्वप्रभवाः असुराः रजस्
तमःप्रभवाः तैरर्चिताः । तेभ्योऽर्हत्तमा इत्यर्थः । गुणातीतत्वादेवेति
भावः ।

तानेव वर्णयति श्यामावदाता इति । श्यामाश्च अवदाता उज्ज्वलाश्च ते ।
पीतवस्त्राः सुपेशसोऽतिसुकुमाराः उन्मिषन्त इव प्रभावन्तो मणिप्रवेका
मण्य्उत्तमा येषु तानि निष्काणि पदकान्याभरणानि येषां ते सुवर्चसस्
तेजस्विनः ।

प्रवालेति [२.९.११] । केऽपि तेभ्यः श्रीभगवत्सारूप्यं लब्धवद्भ्योऽन्ये
प्रवालादिसमवर्णाः । पुनरपि लोकं वर्णयति भ्राजिष्णुभिरिति । श्रीर्
यत्रेति श्रीः स्वरूपशक्तिः रूपिणी तत्प्रेयसीरूपा मानं पूजां विभूतिभिः
रूपिणी तत्प्रेयसीरूपा मानं पूजां विभूतिभिः स्वसखीरूपाभिः ।
प्रेङ्खमान्दोलनं श्रिता विलासेन । कुसुमाकारो वसन्तस्तद्अनुगा
भ्रमरास्तैर्विविधं गीयमाना । स्वयं प्रियस्य हरेः कर्म गायन्ती
भवति । ददर्शेति तत्र लोक इति प्राक्तनानां यच्छब्दानां विशेष्यमखिल
सात्वतां सर्वेषां सात्वतानां यादववीराणां पतिः

श्रियः पतिर्यज्ञपतिः प्रजापतिर्
धियां पतिर्लोकपतिर्धरापतिः ।
पतिर्गतिश्चान्धकवृष्णिसात्वतां
प्रसीदतां मे भगवन् सतां पतिः ॥

इत्य्[भागवतम् २.४.२०] एतद्वाक्यसंवादित्वात् । श्रीभागवतमते श्रीकृष्णस्यैव
स्वयंभगवत्त्वेन प्रतिपादयिष्यमानत्वात् । तच्चैतदनन्तरं ब्रह्मणे
चतुःश्लोकीरूपं भागवतं श्रीभगवतोपदिष्टम् । तत्र च

पुरा मया प्रोक्तमजाय नाभ्ये
पद्मे निषण्णाय ममादिसर्गे ।
ज्ञानं परं मन्महिमावभासं
यत्सूरयो भागवतं वदन्ति ॥

इति तृतीये [भागवतम् ३.४.१३] उद्धवं प्रति श्रीकृष्णवाक्यानुसारेण ॥

यो ब्रह्माणं विदधाति पूर्वं
यो वै वेदांश्च प्रहिणोति तस्मै ।
तं ह देवमात्मबुद्धिप्रकाशं
मुमुक्षुर्वै शरणममुं व्रजेत् ॥ इति [ङ्टू १.२२]

श्रीगोपालतापन्य्अनुसारेण च तस्मै वोपदेष्टृत्वश्रुतेः ॥

तदु होवाच ब्रह्मसवनं चरतो मे ध्यातः स्तुतः परार्धान्ते
सोऽबुध्यत गोपवेशो मे पुरुषः पुरस्तादाविर्बभूवेति श्रीगोपालतापन्य्
अनुसारेणैव क्वचित्कल्पे श्रीगोपालरूपेण च सृष्ट्यादावित्थमेव
ब्रह्मणे दर्शितनिजरूपतां तद्धाम्नो महावैकुण्ठत्वेन श्रीकृष्ण
सन्दर्भे साधयिष्यमाणत्वाच्च द्वारकायां प्राकट्यावसरे श्रुत
सुनन्दनन्दादिसाहचर्येण श्रीप्रबलादयोऽपि ज्ञेयाः । यथोक्तं प्रथमे
सुनन्दनन्दशीर्षण्या ये चान्ये सात्वतर्षभा इति [भागवतम् १.१४.३२]।

भृत्यप्रसादेति [२.९.१५] । दृगेवासव इव द्रष्टॄणां मदकरी यस्य तम् ।
श्रिया वक्षोवामभागे स्वर्णरेखाकारया । अध्यर्हणीयेति चतस्रः
शक्तयो धर्माद्याः । पाद्मोत्तरखण्डे योगपीठे त एव कथिताः । न
बहिरङ्गा अधर्माद्या इति । तथा हि,

धर्मज्ञान तथैश्वर्य
वैराग्यैः पादविग्रहैः ।
ऋग्यजुःसामाथर्वाण
रूपैर्नित्यं वृतं क्रमाद् ॥ इति ।

समस्तान्तस्तथा शब्दप्रयोगस्त्वार्षः । षोडशशक्तयश्चण्डाद्याः ।
तथा च तत्रैव चण्डादिद्वारपालैस्तु कुमुदाद्यैः सुरक्षिता इति ।
नगरीति पूर्वेणान्वयः । ते च

चण्डप्रचण्डौ प्राग्द्वारे याम्ये भद्रसुभद्रकौ ।
वारुण्यां जयविजयौ सौम्ये धातृविधातरौ ॥
कुमुदः कुमुदाक्षश्च पुण्डरीकोऽथ वामनः ।
शङ्के कर्णः सर्वनेत्रः सुमुखः सुप्रतिष्ठितः ॥
एते दिक्पतयः प्रोक्ताः पुर्यामत्र सुशोभने ॥ इति ।

कुमुदादयस्तु द्वौ द्वावाग्नेयादिदिक्पतय इति शेषः । पञ्चशक्तयः
कूर्माद्याः । तथा च तत्रैव

कूर्मश्च नागराजश्च वनतेयस्त्रयीश्वरः ।
छन्दांसि सर्वमन्त्राश्च पीठरूपत्वमास्थिता ॥ इति ॥

त्रयीश्वर इति वैनतेयविशेषणम् । तस्य छन्दोमयत्वात् ।

यद्यप्युत्तरखण्डवचनं तत्परमव्योमपरं तथापि तत्
सादृश्यागमादिप्रसिद्धेश्च श्रीकृष्णयोगपीठमपि च तद्वज्ज्ञेयम्
। अत्र षोडशशक्तयः साक्षात्श्रीकृष्ण एव श्रीकृष्णसन्दर्भे पुरस्ताद्
उदाहरिष्यमाणप्रभासखण्डवचनात्श्रुतालम्बिन्यादय एव वा ज्ञेया
इति । स्वैः स्वरूपभूतैरैश्वर्यादिभिर्युक्तम् । इतरत्र योगिषु अध्रुवैः
प्राप्तैरित्यर्थः । स्वस्वरूप एव धामानि श्रीवैकुण्ठे रममाणं
अतएवेश्वरम् । कथमपि पराधीनसिद्धत्वाभावात् ।

तद्दर्शनेति [२.९.१७] । यत्पदाम्बुजं पारमहंस्येन पथाधिगम्यत इति
सच्चिदानन्दघनत्वं तस्य व्यनक्ति । त्वं प्रीयमाणमिति तं ब्रह्माणं
भगवान् बभाषे । प्रजाविसर्गे कार्ये निजस्य स्वांशभूतस्य पुरुषस्य
शासनेऽर्हणं योग्यम् ।

नन्वसौ पुरुष एव तमनुगृह्णातु श्रीभगवतस्तु परावस्थत्वात्तेन
प्राकृतसृष्टिकर्त्रा सम्बन्धोऽपि न सम्बन्ध इत्याशङ्क्य तस्य भक्त
वात्सल्यातिशय एवायमित्याह, प्रियं तस्मिन् प्रेमवन्तम् ।

यतः सोऽपि प्रियः प्रेमवशः । तत्रापि प्रीयमाणामिति प्रीतमना इति च
विशेषणं तदानीं प्रेमोल्लासातिशयद्योतकम् । तं प्रति भगवच्चिह्न
दर्शनेन तस्यापि तत्र प्रीत्य्अतिशयं व्यञ्जयति ईषत्स्मितरोचिषा गिरेति करे
स्पृशन्निति च । अस्य श्रीकृष्णोपासकत्वं श्रीगोपालतापनीवाक्येन
दर्शितम् ।

तथा च ब्रह्मसंहितायां [५.२२५]

तत्र ब्रह्माभवद्भूयश्चतुर्वेदी चतुर्मुखः ।
स जातो भगवच्छक्त्या तत्कालं किल चोदितः ॥
सिसृक्षायां मतिं चक्रे पूर्वसंस्कारसंस्कृताम् ।
ददर्श केवलं ध्वान्तं नान्यत्किमपि सर्वतः ॥
उवाच पुरतस्तस्मै तस्य दिव्या सरस्वती ।
कामः कृष्णाय गोविन्दाय गोपीजन इत्यपि ॥
वल्लभाय प्रिया वह्नेरयं ते दास्यति प्रियम् ।
तप त्वं तप एतेन तव सिद्धिर्भविष्यति ॥
अथ तेपे स सुचिरं प्रीणन् गोविन्दमव्ययम् ॥ इत्यादि ॥

श्रीशुकः ॥८॥

[९]

अथ सा भगवत्ता च नारोपिता किन्तु स्वरूपभूतैवेत्येतमर्थं पुनर्
विशेषतः स्थापयितुं प्रकरणान्तरमारभ्यते । तत्र वस्तुनस्तस्य
शक्तित्वमाह ।

वेद्यं वास्तवमत्र वस्त्वित्यस्य विशेषणाभ्यामेव
शिवदं तापत्रयोन्मूलनमिति । [भागवतम् १.१.२]

शिवं परमानन्दः तद्दानं स्वरूपशक्त्या । तापत्रयं मायाशक्ति
कार्यं तद्उन्मूलनं च तयैवेत ॥ श्रीव्यासः ॥९॥

[१०]

ते च मायाशक्तिस्वरूपशक्ती परस्परविरुद्धे तथा तयोर्वृत्तयश्च
स्वस्वगण एव परस्परविरुद्धा अपि बह्व्यः । तथापि तासामेकं
निधानं तदेवेत्याह ।

यच्छक्तयो वदतां वादिनां वै
विवादसंवादभुवो भवन्ति ।
कुर्वन्ति चैषां मुहुरात्ममोहं
तस्मै नमो ‘नन्तगुणाय भूम्ने ॥ [भागवतम् ६.४.२६]

स्पष्टम् ॥ दक्सः श्रीपुरुषोत्तमम् ॥१०॥
[११]

तथा

यस्मिन् विरुद्धगतयो ह्यनिशं पतन्ति
विद्यादयो विविधशक्तय आनुपूर्व्यात् ।
तद्ब्रह्म विश्वभवमेकमनन्तमाद्यम्
आनन्दमात्रमविकारमहं प्रपद्ये ॥ [भागवतम् ४.९.१६]

आनुपूर्व्या स्वस्ववर्गे उत्तममध्यमकनिष्ठभावेन वर्तमाना
विविधशक्तयः प्रायः परस्परं विरुद्धगतयोऽपि यस्मिन् यदाश्रित्य
अनिशं पतन्ति स्वस्वव्यापारं कुर्वन्ति ॥ ध्रुवः श्रीपृश्निगर्भम् ॥११॥

[१२]

सर्गादि यो ‘स्यानुरुणद्धि शक्तिभिर्
द्रव्यक्रियाकारकचेतनात्मभिः ।
तस्मै समुन्नद्धनिरुद्धशक्तये
नमः परस्मै पुरुषाय वेधसे ॥ [भागवतम् ४.१७.१८]

अनुरुणद्धि करोति । श्रीमैत्रेयो विदुरम् ॥१२॥

[१३]

तासामचिन्त्यत्वमाह ।

आत्मेश्वरोऽतर्क्यसहस्रशक्तिरिति ॥ [भागवतम् ३.३३.३]

स्पष्टम् ॥ उक्तं चाचिन्त्यत्वं श्रुतेस्तु शब्दमूलत्वादित्य्[Vस्२.१.२७] आदौ
। आत्मनि चैवं विचित्राश्च हीत्य्[?] आदौ च ॥ श्रीदेवहूतिः कपिलदेवम् ॥१३॥

[१४]

शक्तेस्तु स्वाभाविकरूपत्वमाह

सत्त्वं रजस्तम इति त्रिवृदेकमादौ
सूत्रं महानहमिति प्रवदन्ति जीवम् ।
ज्ञानक्रियार्थफलस्वरूपतयोरुशक्तिर्
ब्रह्मैव भाति सदसच्च तयोः परं यत् ॥ [भागवतम् ११.३.३८]

ब्रह्मैव उरूशक्तिरनेकात्मकशक्तिमद्भाति । एवकारेण ब्रह्मण एव
सा शक्तिर्न तु कल्पितेति स्वाभाविकरूपत्वं शक्तेर्बोधयति । तत्र हेतुः ।
यद्ब्रह्म यत्स्थूलं कार्यं पृथिव्यादिरूपमसत्सूक्ष्मं कारणं
प्रकृत्यादिरूपं तयोर्बहिरङ्गवैभवयोः परं स्वरूपवैभवं श्री
वैकुण्ठादिरूपं तटस्थवैभवं शुद्धजीवरूपं च । अन्यथा तत्
तद्भावासिद्धिः ।

किंरूपतया तत्तद्रूपम् । तत्राह ज्ञानक्रियार्थफलरूपतया महद्
आदिलक्षणज्ञानशक्तिरूपत्वेन, सूत्रादिलक्षणक्रियाशक्तिरूपत्वेन,
तन्मात्रादिलक्षणार्थरूपत्वेन, प्रकृतिलक्षणतत्तत्सर्वैक्य
रूपत्वेन सद्असद्रूपम् । फलरूपत्वेन तयोः परम् । तत्र फलं
पुरुषार्थस्वरूपं सवैभवं भगवद्आख्यं चिद्वस्तु तद्
अनुमतत्वात्शुद्धजीवाख्यं चिद्वस्तु च । एतेन ज्ञानक्रियादिरूपेणोरू
शक्तित्वं व्यञ्जितम् । शक्तेः स्वाभाविकरूपत्वं सप्रमाणं स्पष्टयति ।

आदौ यदेकं ब्रह्म तदेव सत्त्वं रजस्तम इति त्रिवृत्प्रधानं ततः
क्रियाशक्त्या सूत्रं ज्ञानशक्त्या महानिति । ततोऽहमहङ्कार इति । तदेव
च जीवं शुद्धस्वरूपं जीवात्मानं तद्उपलक्षणकं वैकुण्ठादि
वैभवं च प्रवदन्ति वेदाः । ते च सदैव सौम्येदमग्र आसीदित्य्
आद्याः [Cहाऊ ६.२.१] ।

आदावेकं ततस्तत्तद्रूपमिति शक्तेः स्वाभाविकत्वमायातम्
अन्यस्यासद्भावेनौपाधिकत्वायोगात् । स्वरूपवैभवस्याङ्गप्रत्यङ्गवन्
नित्यसिद्धत्वेऽपि, सूर्यसत्तया तद्रश्मिपरमाणुवृन्दस्येव, तत्सत्तया
लब्धसत्ताकत्वात्तद्उपादानत्वं तदादिकत्वं च स्यात् । तस्य भासा सर्वम्
इदं विभातीति [Kअठ २.२.१५] श्रुतेः ।

शक्तेरचिन्त्यत्वं स्वाभाविकत्वं चोक्तं श्रीविष्णुपुराणे

निर्गुणस्याप्रमेयस्य
शुद्धस्याप्यमलात्मनः ।
कथं सर्गादिकर्तादिकर्तृत्वं
ब्रह्मणोऽभ्युपगम्यत ॥ [Vइড়् १.३.१]

इति मैत्रेयप्रश्नानन्तरं श्रीपराशर उवाच

शक्तयः सर्वभावानाम्
अचिन्त्यज्ञानगोचराः ।
यतोऽतो ब्रह्मणस्तास्तु
सर्गाद्या भावशक्तयः ।
भवन्ति तपसां श्रेष्ठ
पावकस्य यतोष्णता ॥ [Vइড়् १.३.२]

अत्र श्रीधरस्वामिटीका च
तदेवं ब्रह्मणः सृष्ट्य्आदिकर्तृत्वमुक्तम् । तत्र शङ्कते निर्गुणस्येति
। सत्त्वादिगुणरहितस्य, अप्रमेयस्य देशकालाद्य्अपरिच्छिन्नस्य शुद्धस्य
अदेहस्य सहकारिशून्यस्येति वा, अमलात्मनः पुण्यपापसंस्कार
शून्यस्य, रागादिशून्यस्येति वा । एवम्भूतस्य ब्रह्मणः कथं सर्गादि
कर्तृत्वमिष्यते, एतद्विलक्षणस्यैव लोके घटादिषु कर्तृत्वादिदर्शनाद्
इत्यर्थः । परिहरति शक्तय इति सार्धेन । लोके हि सर्वेषां भावानां मणि
मन्त्रादीनां शक्तयः अचिन्त्यज्ञानगोचराः । अचिन्त्यं तर्कासहं यज्
ज्ञानं कार्यान्यथानुपपत्तिप्रमाणकं तस्य गोचराः सन्ति ।

यद्वा अचिन्त्या भिन्नाभिन्नत्वादिविकल्पैश्चिन्तयितुमशक्याः केवलम्
अर्थापत्तिज्ञानगोचराः सन्ति । यदेवमतो ब्रह्मणोऽपि तास्तथाविधाः
शक्तयः सर्गादिहेतुभूताः भावशक्तयः स्वभावसिद्धाः शक्तयः
सन्त्येव । पावकस्य दाहकत्वादिशक्तिवत् । अतो गुणादिहीनस्याप्यचिन्त्य
शक्तिमत्त्वाद्ब्रह्मणः सर्गादिकर्तृत्वं घटत इत्यर्थः । श्रुतिश्च

न तस्य कार्यं करणं च विद्यते
न तत्समश्चाभ्यधिकश्च दृश्यते ।
परास्य शक्तिर्विविधैव श्रूयते
स्वाभाविकी ज्ञानबलक्रिया च ॥ [श्वेतू ६.८]

मायां तु प्रकृतिं विद्यान्
मायिनं तु महेश्वरम् ॥ [श्वेतू ४.१०]

यद्वा एवं योजना सर्वेषां भावानां पावकस्योष्णताशक्तिवद्अचिन्त्य
ज्ञानगोचराः शक्तयः सन्त्येव । ब्रह्मणः पुनस्ताः स्वभावभूताः
स्वरूपादभिन्नाः शक्तयः । परास्य शक्तिर्विविधैव श्रूयते इति श्रुतेः ।

अतो मणिमन्त्रादिभिरग्नौष्ण्यवन्न केनचिद्विहन्तुं शक्यन्ते । अत एव
तस्य निरङ्कुशमैश्वर्यम् । तथा च श्रुतिः

स वा अयमस्य सर्वस्य वशी सर्वस्येशानः सर्वस्याधिपतिरित्यादिः [Bआऊ
४.४.२२] ।

यत एवमतो ब्रह्मणो हेतोः सर्गाद्या भवन्ति नात्र काचिदनुपपत्तिः इत्य्
एषा ।

अत्र प्रश्नः सोऽयं ब्रह्म खलु निर्विशेषमेवेति पक्षमाश्रित्य, परिहारस्
तु सविशेषमेवेति पक्षमाश्रित्य कृत इति ज्ञेयम् । अत एव प्रश्ने
शुद्धस्येत्यपि व्याख्यातम् । शुद्धत्वं ह्यत्र केवलत्वं मतम्, तच्च
युक्तं, परिहारे ब्रह्मणि शक्तिस्थापनात् । पूर्वपक्षिमते ब्रह्मणि शक्तिर्
अपि नास्तीति गम्यते । ततः प्रश्नवाक्येऽप्येवमर्थान्तरं ज्ञेयम्
निर्गुणस्य प्राकृताप्राकृतगुणरहितस्य, अतएव प्रमाणागोचरस्य तत
एवामलात्मनोऽपि शुद्धस्य, न तु स्फटिकादेरिव परच्छाययान्यथा
दृष्टस्य । तदेवं निर्विशेषतामवलम्ब्य प्रश्ने सिद्धे । परिहारे तु
प्रथमयोजनायां निर्विशेषपक्षमनादृत्य ब्रह्मणि कर्तृत्वप्रतिपत्त्य्
अर्थं शक्तयः साधिताः । द्वितीययोजनायां तत्र च विशेषप्रतिपत्त्य्अर्थं
यथा जलादिषु कदाचिदुष्णतादिकमागन्तुकं स्यात्तथा ब्रह्मणि न स्याद्
इति निर्धारितम् । न तत्समश्चाभ्यधिकश्च दृश्यते इति श्रुतेः ।

तथा मणिमन्त्रादिभिरिति व्यतिरेक एव दृष्टान्त इत्यतो ब्रह्मशक्तयस्तु
नान्येन पराभूता इत्येतच्च दर्शितम् । किं च, ब्रह्मपदेन सर्वं खल्व्
इदं ब्रह्मेति प्रसिद्धिं व्यज्य सत्त्वादिगुणमयमायायास्तद्अन्यत्वेऽपि,
निर्गुणस्येति प्राकृतगुणैरस्पृष्टत्वमङ्गीकृत्य तेषां बहिरङ्गत्वं
स्वीकृतम् ।

तदेतदेव मायां च प्रकृतिं विद्यादित्येषा श्रुतिः स्वीचकार । मायां च
तदपाश्रयामितिवन्महेश्वरत्वान्मायाया बहिरङ्गाया आश्रय इति तां
पराभूय स्थितमिति च लभ्यते । तस्मात्पूर्ववदत्रापि शक्तिमात्रस्य
स्वाभाविकत्वं मायादोषास्पृष्टत्वं च साधितम् । अतएव श्रीगीतोपनिषत्सु


ज्ञेयं यत्तत्प्रवक्ष्यामि यज्ज्ञात्वाऽमृतमश्नुते ।
अनादिमत्परं ब्रह्म न सत्तन्नासदुच्यते ॥
सर्वतः पाणिपादं तदित्यादि । [गीता १३.१२१३]

अत्रेयं प्रक्रिया एकमेव तत्परमतत्त्वं स्वाभाविकाचिन्त्यशक्त्या
सर्वदैव स्वरूपतद्रूपवैभवजीवप्रधानरूपेण
चतुर्धावतिष्ठते । सूर्यान्तर्मण्डलस्थतेज इव मण्डलतद्बहिर्गत
रश्मितत्प्रतिच्छविरूपेण । एवमेव श्रीविष्णुपुराणे

एकदेशस्थितस्याग्नेर्ज्योत्स्ना विस्तारिणी यथा ।
परस्य ब्रह्मणः शक्तिस्तथेदमखिलं जगद् ॥ इति ॥ [Vइড়् १.२२.५६]

यस्य भासा सर्वमिदं विभातीति श्रुतेः । अत्र व्यापकत्वादिना तत्तत्
समावेशाद्य्अनुपपत्तिश्च शक्तेरचिन्त्यत्वेनैव पराहता । दुर्घट
घटत्वं ह्यचिन्त्यत्वम् । शक्तिश्च सा त्रिधा अन्तरङ्गा बहिरङ्गा
तटस्था च । तत्रान्तरङ्गया स्वरूपशक्त्याख्यया पूर्णेनैव स्वरूपेण
वैकुण्ठादिस्वरूपवैभवरूपेण च तदवतिष्ठते । तटस्थया रश्मि
स्थानीयचिद्एकात्मशुद्धजीवरूपेण, बहिरङ्गया मायाख्यया
प्रतिच्छविगतवर्णशावल्यस्थानीयतदीयबहिरङ्गवैभवजडात्म
प्रधानरूपेण चेति चतुर्ध्वात्वम् । अतएव तदात्मकत्वेन जीवस्येव
तटस्थशक्तित्वं प्रधानस्य च मायान्तर्भूतत्वमभिप्रेत्य शक्ति
त्रयं श्रीविष्णुपुराणे गणितम्

विष्णुशक्तिः परा प्रोक्ता क्षेत्रज्ञाख्या तथापरा ।
अविद्याकर्मसंज्ञान्या तृतीया शक्तिरिष्यते ॥ [Vइড়् ६.७.६१]
तया तिरोहितत्वाच्च शक्तिः क्षेत्रज्ञसंज्ञिता ।
सर्वभूतेषु भूपाल तारतम्येन वर्तते ॥[Vइড়् ६.७.६३] इति ॥

अविद्या कर्म कार्यं यस्याः सा तत्संज्ञा मायेत्यर्थः । यद्यपीयं
बहिरङ्गा तथाप्यस्यास्तटस्थशक्तिमयमपि जीवमावरितुं
सामर्थ्यमस्तीत्याह तयेति । तारतम्येन तत्कृतावरणस्य ब्रह्मादि
स्थावरान्तेषु देहेषु लघुगुरुभावेन वर्तते इत्यर्थः । तदुक्तम्
यथा सम्मोहितो जीव इति [भागवतम् १.७.५] । ययैवाचिन्त्यमायया ज्ञेयम् ।
प्रधानस्य मायाव्यङ्ग्यत्वं चाग्रे दर्शयिष्यते । अत्रान्तरङ्गत्व
तटस्थत्वबहिरङ्गत्वादिनैव तेषामेकात्मकानां तत्तत्साम्यम्, न तु
सर्वात्मनेति तत्तत्स्थानीयत्वमेवोक्तम् । न तु तत्तद्रूपत्वं ततस्तत्
तद्दोषा अपि नावकाशं लभन्ते इति ॥ श्रीपिप्पलायनो निमिम् ॥१४॥

[१५]

तदेवं सर्वाभिर्मिलित्वा चिद्अचिच्छक्तिर्भगवान् । एवमेव
परमेश्वरत्वेन स्तूयमानं ब्रह्माणं प्रति हिरण्यकशिपुनाप्युक्तम्
चिद्अचिच्छक्तियुक्तायेति [भागवतम् ७.३.३४] ।

चिद्वस्तुनश्चिद्वस्त्व्अन्तराश्रयत्वं, रश्म्य्आभासादिज्योतिषो ज्योतिर्
मण्डलाश्रयत्वमिव । तत्र तटस्थाख्या जीवशक्तिर्यथावसरं
परमात्मसन्दर्भे विवरणीया ।

अथ अन्तरङ्गाख्याविवरणाय बहिरङ्गाप्युद्दिश्यते ये चापरा परा चेति
। श्रीविष्णुपुराणे श्रूयते

सर्वभूतेषु सर्वात्मन् या शक्तिरपरा तव ।
गुणाश्रया नमस्तस्यै शाश्वतायै सुरेश्वर ॥
यातीतगोचरा वाचां मनसां चाविशेषणा ।
ज्ञानिज्ञानपरिच्छेद्या वन्दे तामीश्वरीं पराम् ॥ इति ॥ [Vइড়् १.१९.७६७]

सैषा बहुवृत्तिकैव ज्ञेया, परास्य शक्तिर्बहुधैव श्रूयते इति श्रुतेः ॥१५॥

[१६]

तत्र बहिरङ्गामाह

ऋतेऽर्थं यत्प्रतीयेत
न प्रतीयेत चात्मनि ।
तद्विद्यादात्मनो मायां
यथाभासो यथा तमः ॥ [भागवतम् २.९.३३]

अर्थं परमार्थभूतं मां विना यत्प्रतीयेत, मत्प्रतीतौ तत्प्रतीत्य्
अभावात् । मत्तो बहिरेव यस्य प्रतीतिरित्यर्थः । यच्चात्मनि न प्रतीयते,
यस्य च मद्आश्रयत्वं विना स्वतः प्रतीतिर्नास्तीत्यर्थः । तथा लक्षणं
वस्तु आत्मनो मम परमेश्वरस्य मायां जीवमाया गुणमायेति द्व्य्
आत्मिकां मायाख्यशक्तिं विद्यात् । अत्र शुद्धजीवस्यापि चिद्
रूपत्वाविशेषेण तदीयरश्मिस्थानीयत्वेन च स्वान्तःपात एव विवक्षितः
। तत्रास्या द्व्य्आत्मिकत्वेनाभिधानं दृष्टान्तद्वैविध्येन लभ्यते । तत्र
जीवमायाख्यस्य प्रथमांशस्य तादृशत्वं दृष्टान्तेन स्पष्टयन्न्
असम्भावनां निरस्यति यथाभास इति । आभासो ज्योतिर्बिम्बस्य स्वीय
प्रकाशाद्व्यवहितप्रदेशे कथञ्चिदुच्छलितप्रतिच्छविविशेषः । स यथा
तस्माद्बहिरेव प्रतीयते, न च तं विना तस्य प्रतीतिस्तथा सापीत्यर्थः
। अनेन प्रतिच्छविपर्यायाभासधर्मत्वेन तस्यामाभासाख्यत्वमपि
ध्वनितम् । अतस्तत्कार्यस्याभासाख्यत्वं क्वचिताभासश्च निरोधश्चेत्य्
आदौ [भागवतम् २.१०.७] । अत्र स यथा क्वचिदत्यन्तोद्भटात्मा स्वचाक्चिक्य
च्छटापतितनेत्राणां नेत्रप्रकाशमावृणोति । तमावृत्य च
स्वेनात्यन्तोद्भटतेजस्त्वेनैव द्रष्टृनेत्रं व्याकुलयन् स्वोपकण्ठे
वर्णशावल्यमुद्गिरति । कदाचित्तदेव पृथग्भावेन नानाकारतया
परिणमयति । तथेयमपि जीवज्ञानमावृणोति । सत्त्वादिगुणसाम्यरूपां
गुणमायाख्यां जडां प्रकृतिमुद्गिरति । कदाचित्पृथग्भूतान् सत्त्वादि
गुणान्नानाकारतया परिणमयति चेति ज्ञेयम् । तदुक्तम् एकदेश
स्थितस्याग्नेर्[Vइড়् १.२२.५६] इत्यादि ।
तथा चायुर्वेदविदः

जगद्योनेरनिच्छस्य चिद्आनन्दैकरूपिणः ।
पुंसोऽस्ति प्रकृतिर्नित्या प्रतिच्छायेव भास्वतः ॥
अचेतनापि चैतन्ययोगेन परमात्मनः ।
अकरोद्विश्वमखिलमनित्यं नाटकाकृतिर् ॥ इति ॥

तदेवं निमित्तांशो जीवमाया उपादानांशो गुणमायेत्यग्रेऽपि
विवेचनीयम् । अथैवं सिद्धं गुणमायाख्यं द्वितीयमप्यंशं
दृष्टान्तेन स्पष्टयति, यथा तम इति । तमःशब्देनात्र पूर्वोक्तं तमः
प्रायं वर्णशावल्यमुच्यते । तद्यथा तन्मूलज्योतिष्य्असदपि तद्
आश्रयत्वं विना न सम्भवति तद्वदियमपीति । अथवा मायामात्र
निरूपण एव पृथक्दृष्टान्तद्वयम् । तत्राभासदृष्टान्तो व्याख्यातः ।

तमोदृष्टान्तश्च । यथान्धकारे ज्योतिषोऽन्यत्रैव प्रतीयते, ज्योतिर्विना च
न प्रतीयते ज्योतिरात्मना चक्षुषैव तत्प्रतीतेर्न पृष्ठादिनेति तथेयम्
अपीत्येवं ज्ञेयम् । ततश्चांशद्वयं तु प्रवृत्तिभेदेनैवोह्यं न तु
दृष्टान्तभेदेन । प्राक्तनदृष्टान्तद्वेधाभिप्रायेण तु पूर्वस्या
आभासपर्यायच्छायाशब्देन क्वचित्प्रयोगः उत्तरस्यास्तमः शब्देनैव
चेति । यथा ससर्ज छाययाविद्यां पञ्चपर्वाणमग्रतः [भागवतम् ३.२०.१८] इत्य्
अत्र । यथा च क्वाहं तमो महदहम् [भागवतम् १०.१४.११] इत्यादौ ।
पूर्वत्राविद्याविद्याख्यनिमित्तशक्तिवृत्तिकत्वाज्जीव्विषयकत्वेन जीव
मायात्वम् ।

तथा ससर्जेत्यादौ छायाशक्तिं मायामवलम्ब्य सृष्ट्यारम्भे ब्रह्मा
स्वयमविद्यामाविर्भावितवानित्यर्थः ।

विद्याविद्ये मम तनू व्द्ध्युद्धव शरीरिणाम् ।
बन्धमोक्षकरी आद्ये मायया मे विनिर्मित्ते ॥ [भागवतम् ११.११.३] इत्युक्तत्वात्


अनयोराविर्भावभेदश्च श्रूयते । तत्र पूर्वस्याः पाद्मे श्रीकृष्ण
सत्यभामासंवादीयकार्त्तिकमाहात्म्ये देवगणकृतमायास्तुतौ

इति स्तुतवन्तस्ते देवास्तेजोमण्डलसंस्थितम् ।
ददृशुर्गगने तत्र तेजोव्याप्तदिग्अन्तरम् ॥
तन्मध्याद्भारतीं सर्वे शुश्रुवुर्व्योमचारिणीम् ।
अहमेव त्रिधा भिन्ना तिष्ठामि त्रिविधैर्गुणैः ॥ इत्यादि ॥

उत्तरस्याः पाद्मोत्तरखण्डे असङ्ख्यं प्रकृतिस्थानं निविडध्वान्तम्
अवययमिति ॥ श्रीभगवान् ब्रह्माणम् ॥१६॥

[१७]

अथ स्वरूपभूताख्यामन्तरङ्गां शक्तिं सर्वस्यापि प्रवृत्त्य्
अन्यथानुपपत्त्या तावदाह द्वाभ्याम्

यन्न स्पृशन्ति न विदुर्मनोबुद्धीन्द्रियासवः ।
अन्तर्बहिश्च विततं व्योमवत्तन्नतोऽस्म्यहम् ॥ [भागवतम् ६.१६.२३]

देहेन्द्रियप्राणमनोधियोऽमी
यद्अंशबिद्धाः प्रचरन्ति कर्मसु ।
नैवान्यदा लोहमिवाप्रतप्तं
स्थानेषु तद्द्रष्ट्र्उपदेशमेति ॥ [भागवतम् ६.१६.२४]

टीका च यद्ब्रह्म व्योमवद्विततमपि असवः प्राणाः क्रियाशक्त्य न
स्पृशन्ति, मनादीनि च ज्ञानशक्त्या न विदुः, तद्ब्रह्म नतोऽस्मि । तेषं
तज्ज्ञाने हेतुमाह । देहेन्द्रियादयोऽमी यद्अंशबिद्धा यच्
चैतन्यांशेनाविष्टाः सन्तः कर्मसु स्वस्वविषयेषु प्रचरन्ति । यथा
अप्राप्तं लोहं न दहति । अतो यथा लोहमग्निशक्त्यैव दाहकं सतग्निं
न दहति, एवं ब्रह्मगतज्ञानक्रियाशक्तिभ्यां प्रवर्तमाना देहादयस्
तन्न स्पृशन्ति न विदुश्चेति भावः । इत्येषा ।

अत्राद्वैतशारीरकेऽपि साङ्ख्यमाक्षिप्योक्तम्, यथा अथ पुनः साक्षि
निमित्तमीक्षितृत्वं प्रधानस्य कल्प्येत यथाग्निनिमित्तमयःपिण्डादेर्
दग्धृत्वं, तथा सति यन्निमित्तमीक्षिततृत्वं प्रधानस्य, तदेव
सर्वज्ञं मुख्यं जगतः कारणमिति [शङ्करभाष्य, १.१.५] ।

श्रुतिश्चात्र

तमेव भान्तमनुभाति [Kअठऊ २.२.१५]

को ह्येवान्यात्कः प्राण्यात्यदेष आकाश आनन्दो न स्यात्, चक्षुषश्
चक्षुरूत श्रोत्रस्य श्रोत्रमित्याद्या । [टैत्तू २.७]

अथ प्रकृतस्यावशिष्टता टीका जीवस्तर्हि दष्टृत्वाज्जानातु, नेत्याह
स्थानेषु जाग्रद्आदिषु द्रष्ट्र्अपदेशं द्रष्टृसंज्ञां तदेवैति प्राप्नोति
। नान्यो जीवो नामास्ति नान्योऽतोऽस्ति द्रष्टेत्यादि श्रुतेः [Bआऊ ३.१७.२३] । यद्वा
द्रष्ट्र्अपदेशं द्रष्टृसंज्ञं जीवमपि तदैवेति जानाति, न तु जीवस्तज्
जानातीत्यर्थः इत्येषा ।

तदुक्तम्

त्रितयं तत्र यो वेद स आत्मा स्वाश्रयाश्रय इति । [भागवतम् २.१०.९]

श्रुतौ च जीवो नामातोऽन्यः स्वयं सिद्धो नास्ति परन्तु तदात्मक एवेत्य्
अर्थः । तथातोऽन्यो द्रष्टा नास्ति, सर्वद्रष्टुस्तस्यापरो द्रष्टा नास्तीत्य्
अर्थः इति व्याख्येयम् ॥

श्रीनारदश्चित्रकेतुम् ॥१७॥

[१८]

किं च

देहोऽसवोऽक्षा मनवो भूतमात्रा
नात्मनमन्यं च विदुः परं यत् ।
सर्वं पुमान् वेद गुणांश्च तज्ज्ञो
न वेद सर्वज्ञमनन्तमीडे ॥ [भागवतम् ६.४.२५]

देहश्चासवश्च प्राणा अक्षाणीन्द्रियाणि च, मनवोऽन्तःकरणानि, भूतानि
च, मात्राश्च तन्मात्राणि, आत्मानं स्वस्वरूपम्, अन्यं स्वस्वविषय
वर्गं, तयोः परं देवतावर्गं च न विदुः । पुमान् जीवस्तु सर्वम्
आत्मानं स्वस्वरूपं, तदन्यं प्रमातारं, तयोः पदं देहाद्य्अर्थ
जातं तद्अधिष्ठातृदेवतावर्गं च वेद, तथा देहादिमूलभूतान्
गुणांश्च सत्त्वादीन् वेद ।

तत्तज्ज्ञोऽप्यसौ यं सर्वज्ञं देहादिजीवान्ताशेषज्ञातारं न वेद तम्
अनन्तं महद्गुणत्वाद्यमनन्तमाहुर्[भागवतम् १.१८.१९] इति । अतएव हि यत्र
हि द्वैतमिव भवति तदितर इतरं पश्यतीत्यारभ्य [Bआऊ ४.५.१५]
जीवस्येतरदृष्टत्वमुक्त्वा, यत्र स्वस्य सर्वमात्मैवाभूत्तत्केन कः
पश्येदित्यादिना तस्य परमात्मद्रष्टृत्वं निषिध्य परमात्मनस्तु तत्
तत्सर्वद्रष्टृत्वं स्वद्रष्टृत्वमप्यस्तीति, विज्ञातारमरे केन
विजानीयादित्य्[Bआऊ २.४.१४] अनेनाह ।

अयमर्थः । यत्र मायावैभवे द्वैतमिव भवति, तन्मूलकत्वात्तद्
अनन्यदपि मायाख्याचिन्त्यशक्तिहेतुकतया जडमलिननश्वरत्वेन तद्
विलक्षणतया समादितं ततः स्वतन्त्रसत्ताकमिव मुहुर्जायते, तत्तत्र
इतरो जीव इतरं पदार्थं पश्यति, तस्य करणदृश्ययोर्मिथो योग्यत्वादिति
भावः । यत्र तु स्वरूपवैभवे तस्य जीवस्य रश्मिस्थानीयस्य मण्डल
स्थानीयो य आत्मा परमात्मा, स एव स्वरूपशक्त्या सर्वमभूत्,
अनादितएव भवन्नास्ते, न तु तत्प्रवेशेन, तत्तत्र इतरः स जीवः
केनेतरेण करणभूतेन कं पदार्थं पश्येत्, न केनापि कमपि पश्येद्
इत्यर्थः । न हि रश्मयः स्वशक्त्या सूर्यमण्डलान्तर्गतवैभवं
प्रकाशयेयुर्न चार्चिषो वह्निं निर्दहेयुरिति भावः । तदेवं सति यस्य
खल्वेवमनन्तं स्वरूपवैभवं तं विज्ञातारं सर्वज्ञं
परमात्मानं केनेतरेण करणेन विजानीयात्न केनापीत्यर्थः । तदेवं
ज्ञानशक्तौ तत्र सिद्धायां क्रियेच्छाशक्ती च लक्ष्येते ॥ दक्षः श्री
पुरुषोत्तमम् ॥१८॥

[१९]

वशीकृतमायत्वेनापि तामाह

स त्वं हि नित्यविजितात्मगुणः स्वधाम्ना
कालो वशीकृतविसृज्यविसर्गशक्तिः । इति [भागवतम् ७.९.२२]

स्वधाम्ना चिच्छक्त्या । यतः कालो मायाप्रेरकः इति टीका च । आत्मा त्व्
अत्र जीवः, तस्य गुणाः सत्त्वादयः, सत्त्वं रजस्तम इति गुणा जीवस्य नैव
मे
इत्य्[भागवतम् ११.२५.१२] उक्तत्वात् ॥ प्रह्लादः श्रीनरसिंहम् ॥१९॥

[२०]

तथा च
करोति विश्वस्थितिसंयमोदयं
यस्येप्सितं नेप्सितमीक्षितुर्गुणैः ।
माया यथायो भ्रमते तद्आश्रयं
ग्राव्णो नमस्ते गुणकर्मसाक्षिणे ॥ [भागवतम् ५.१८.३८]

टीका च यस्येक्षितुर्जीवार्थमीप्सितम् । अत्यन्तानिच्छायामीक्षणायोगात्
। स्वार्थं तु नेप्सितम् । विश्वस्थित्य्आदिस्वगुणैर्माया करोति । तस्या
जडत्वेऽपीश्वरसन्निधानात्प्रवृत्तिदृष्टान्तेनाह, यथायो लोहं
ग्राव्णोऽयस्कान्तान्निमित्ताद्भ्रमति । तद्आश्रयं तद्अभिमुखं सत् ।
गुणानां कर्मणां च जीवादृष्टानां साक्षिणं तस्मै नमः इत्येषा ॥ भूः
श्रीवराहदेवम् ॥२०॥

[२१]

अथ मायाशक्तिशावल्ये कैवल्यानुपपत्तेः कैवल्येऽप्यनुभवाभावे तद्
आनन्दस्यार्थतानुपपत्तेश्चान्यथानुपपत्तिप्रमाणतस्तामेवाह

त्वमाद्यः पुरुषः साक्षाद्
ईश्वरः प्रकृतेः परः ।
मायां व्युदस्य चिच्छक्त्या
कैवल्ये स्थित आत्मनि ॥ [भागवतम् १.७.२३]

त्वं साक्षात्स्वयमेवाद्यः पुरुषो भगवान् । तथा य ईश्वरः अन्तर्याम्य्
आख्यः पुरुषः सोऽपि त्वमेव । तदेवमुभयस्मिन्नपि प्रकाशे प्रकृतेः
परस्तद्असङ्गी ।

ननु कथं केवलानुभवानन्दस्यापि तद्अनुभवित्वं यतो भगवत्वम्
अपि लक्ष्यते, कथं चेश्वरत्वात्प्रकृत्य्अधिष्ठातृत्वेऽपि तद्असङ्गित्वम् ।
तत्राह, मायां व्युदस्येति । अव्यभिचारिण्या स्वरूपशक्त्या तामाभास
शक्तिं दूरे विधाय तथैव स्वरूपशक्त्या कैवल्ये

परावराणां परम आस्ते कैवल्यसंज्ञितः ।
केवलानुभवानन्दसन्दोहो निरुपाधिकः ॥ [भागवतम् ११.९.१८]

इत्येकादशोक्तरीत्या कैवल्याख्ये केवलानुभवानन्दे आत्मनि स्वस्वरूपे
स्थितः अनुभूतस्वरूपसुख इत्यर्थः । तदुक्तं षष्ठे देवैरपि
स्वयमुपलब्धनिजसुखानुभवो भवानिति [भागवतम् ६.९.३३] ।

सन्दोहशब्देन चैकादशे वैचित्री दर्शिता, सा च शक्तिवैचित्र्यादेव
भवतीति । अतएवमस्त्येव स्वरूपशक्तिः । प्रकृतिर्नामात्र मायायास्
त्रैगुण्यम् । एवमेव शक्तित्रयविवृतिः स्वामिभिरेव दर्शिता । तथा हि श्री
देवहूतिवाक्ये

परं प्रधानं पुरुषं महान्तं
कालं कविं त्रिवृतं लोकपालम् ।
आत्मानुभूत्यानुगतप्रपञ्चं
स्वच्छन्दशक्तिं कपिलं प्रपद्ये ॥ [भागवतम् ३.२४.३३] इत्यत्र ।

परं परमेश्वरम् । तत्र हेतुः स्वच्छन्दाः शक्तयो यस्य । ता एवाह,
प्रधानं प्रकृतिरूपं, पुरुषं तद्अधिष्ठातारं, महान्तं महत्
तत्त्वस्वरूपं, कालं तेषां क्षोभकं, त्रिवृत्महङ्कारभूतं,
लोकात्मकं तत्पालात्मकं च । तदेवं मायया प्रधानादिरूपतामुक्त्वा
चिच्छक्त्या निष्प्रपञ्चतामाह । आत्मानुभूत्या चिच्छक्त्यानुगतः स्वस्मिन्
लीनः प्रपञ्चो यस्य तं, कविं सर्वज्ञं प्रधानाद्याविर्भावसाक्षिणम्
इत्यर्थः इति ।

अत्र पुरुषस्यापि मायान्तःपातित्वं तद्अधिष्ठातृतयोपचर्यत एव । वस्तुतस्
तस्य तु तस्याः परत्वम् । तथा श्रीकपिलदेववाक्ये

अनादिरात्मा पुरुषो निर्गुणः प्रकृतेः परः ।
प्रत्यग्धामा स्वयंज्योतिर्विश्वं येन समन्वितम् ॥ [भागवतम् ३.२६.३] इति

नामस्वरूपयोर्निरूपणेन महासंहितायामपि विविक्तं तत्त्रिशक्ति

श्रीर्भूर्दुर्गेति या भिन्ना जीवमाया महात्मनः ।
आत्ममाया तद्इच्छा स्यात्गुणमाया जडात्मिका ॥ इति [?]

अस्यार्थः । श्रीरत्र जगत्पालनशक्तिः, भूस्तत्सृष्टिशक्तिः, दुर्गा तत्
प्रलयशक्तिः । तत्तद्रूपेन या भेदं प्राप्ता, सा जीवविषया तच्छक्तिर्
जीवमायेत्युच्यते । पाद्मे श्रीकृष्णसत्यभामासंवादे

अहमेव त्रिधा भिन्ना तिष्ठामि त्रिविधैर्गुणैरित्येतद्वाक्यानन्तरं

ततः सर्वेऽपि ते देवाः श्रुत्वा तद्वाक्यचोदिताः ।
गौरीं लक्ष्मीं धरां चैव प्रणेमुर्भक्तितत्पराः ॥ इति ॥

एकादशे च

एषा माया भगवतः सृष्टिस्थित्य्अन्तकारिणी ।
त्रिवर्णा वर्णितास्माभिः किं भूयः श्रोतुमिच्छसि ॥ इति ॥ [भागवतम् ११.३.१६]

आत्ममाया स्वरूपशक्तिः । मीयतेऽनयेति मायाशब्देन शक्तिमात्रमपि
भण्यते

तस्यां तमोवन्नैहारं खद्योतार्चिरिवाहनि ।
महतीतरमायैश्यं निहन्त्यात्मनि युञ्जत ॥ इति [भागवतम् १०.१३.४५]

ब्रह्मवाक्यं तथैव सङ्गच्छते । शक्तिमात्रस्य तारतम्यं हि तत्र
विवक्षितम् । स्वल्पा शक्तिः खल्वनृतस्य सत्यस्य वा व्यञ्जिका भवतु नाम
। पराभवाय कल्पत एवेति हि तत्र गम्यते । दृष्टान्ताभ्यां च तथैव
प्रकटितं तस्यां तमोवदित्यादिभ्याम् । तथा युद्धेष मायामय
शस्त्रादिना बहवश्छिन्नभिन्ना जाता इति पुराणादिषु श्रूयते ।

ततः सा च माया मिथ्याकल्पिका च भवतीति गम्यते । न हि मरुमरीचिका
जलेन केचिदार्द्रा भवन्तीति ।

स्वरूपभूतया नित्यशक्त्या मायाख्यया युतः ।
अतो मायामयं विष्णुं प्रवदन्ति सनातनम् ॥ इति चतुर्वेदशिखाद्या श्रुतिश्
च ।

ततश्च आत्ममाया तद्इच्छा स्यातित्यत्र ज्ञानक्रिये अपि लक्ष्येते । माया
वयुनं ज्ञनमिति निघण्टौ च पर्यायशब्दाः ।

त्रिगुणात्मिकाथ ज्ञानं च विष्णुशक्तिस्तथैव च ।
मायाशब्देन भण्यते शब्दतत्त्वार्थवेदिभिः ॥ इति त्रिकाण्डशेषे ।

माया दम्भे कृपायां चेति विश्वप्रकाशे । व्याख्यातं च टीकाकृद्भिर्
एकादशे कालो मायामये जीवे इत्यत्र [भागवतम् ११.२४.२७] मायाप्रवर्तके ज्ञान
मये वा इति । तृतीयेऽपि आपुः परां मुदमित्यादौ [भागवतम् ३.१५.२६] योगमाय
शब्देन सनकादावष्टाङ्गयोगप्रभावं व्याख्याय परमेश्वरे तु चिच्
छक्तिविलासो व्याख्यातः ।

ततस्त्रिभेदैवात्ममायेति सिद्धम् । यथा वा त्वमाद्यः पुरुषः [भागवतम्
१.७.२३] इत्यादिमूलपदामेवमवतार्यम् । श्रीवैकुण्ठे मायं
निषेधन्नपि साक्षात्तामेवाह त्वमाद्य इति । कैवल्ये मोक्षाख्ये श्री
वैकुण्ठलक्षणे आत्मनि स्वांश एव स्थितः । किं कृत्वा ? तत्राति
विराजमानया चिच्छक्त्या मायां दूरे स्थितामपि तिरस्कृत्यैव । मतं
चैतम्मायादिकं निषेधता श्रीशुकदेवेन ।

प्रवर्तते यत्र रजस्तमस्तयोः
सत्त्वं च मिश्रं न च कालविक्रमः ।
न यत्र माया किमुतापरे हरेर्
अनुव्रता यत्र सुरासुरार्चिताः ॥ [भागवतम् २.९.१०] इति ।

मोक्सं परं पदं लिङ्गममृतं विष्णुमन्दिरम् । इति पाद्मोत्तरखण्डे
विअकुण्ठपर्यायशब्दाः ॥ अर्जुनः श्रीभगवन्तम् ॥२१॥

[२२]

अत ऊर्ध्वं गुणादीनां स्वरूपात्मतानिगमनात्स्वरूपशक्तिरेव पुनर्
अपि विव्रियते यावत्सन्दर्भसमाप्तिः ।[*Eण्ड्ण्Oट्E ॰३] तत्र गुणानां
स्वरूपात्मतामाहुः ।

स यदजया त्वजामनुशयीत गुणांश्च जुषन्
भजति सरूपतां तदनु मृत्युमपेतभगः ।
त्वमुत जहासि तामहिरिव त्वचमात्तभगो
महसि महीयसेऽष्टगुणितेऽपरिमेयभगः ॥[भागवतम् १०.८७.३८]

टीका च स तु जीवो यद्यस्मातजया मायया अजामविद्यामनुशयीत
आलिङ्गेत् । ततश्च गुणांश्च देहेन्द्रियादीन् जुषन् सेवमानः आत्मतया
अध्यस्यन् । तदनु तद्अनन्तरं सरूपतां तद्धर्मयोगं च जुषनपेत
भगः पिहितानन्दादिगुणः सन्मृत्युं संसारं भजति प्राप्नोति । त्वमुत
त्वं तु जहासि तां मायाम् ।

ननु सा मय्येवास्ति कथं त्यागस्तत्राह अहिरिव त्वचमिति । अयं भावः
यथा भुजङ्गः स्वगतमपि कञ्चुकं गुणबुद्ध्या नाभिमन्यते तथा
त्वमजां मायाम् । न हि निरन्तराह्लादसंवित्कामधेनुवृन्दपतेरजया
कृत्यमिति तामुपेक्षसे ।

कुत एतत्तदाह । आत्मभगनित्यप्राप्तैश्वर्यः । महसि परमैश्वर्ये
अष्टगुणिते अणिमाद्य्अष्टविभूतिमति । महीयसे पूज्यसे विराजसे ।

कथम्भूतः ? अपरिमेयभगः अपरिमेयैश्वर्यः । न त्वन्येषामिव
देशकालपरिच्छिन्नं तवाष्टगुणितमैश्वर्यम् । अपि तु परिपूर्ण
स्वरूपानुबन्धित्वादपरिमितमित्यर्थः । इत्येषा ।

तथा च तत्रैव पूर्वमुक्तं त्वमसि यदात्मना समवरुद्धसमस्त
भग इति [भागवतम् १०.८७.१४] । यद्वा अहिरिव त्वचमित्यत्र त्वक्शब्देन
परित्यक्ता जीर्णत्वगेवोच्यते । स यथा तां जहातीति तत्समीपमपि न
व्रजति, तथा त्वमपि मायासमीपं न यासीत्यर्थः ।

अन्यत्र च

विशुद्धविज्ञानघनं स्वसंस्थया
समाप्तसर्वार्थममोघवाञ्छितम् ॥ इति [भागवतम् १०.३७.२२] ।

तथोद्धवं प्रति श्रीभगवद्वाक्यं

सिद्धयोऽष्टादश प्रोक्ता धारणा योगपारगैः ।
तासामष्टौ मत्प्रधाना दशैव गुणहेतवः ॥ [भागवतम् ११.१५.३] इति ।

अग्रे च एता मे सिद्धयः सौम्य अष्टावौत्पत्तिका मताः । इति [भागवतम् ११.१५.५]


अतएव दैत्यबालकान् प्रति श्रीप्रह्लादवाक्यम्

केवलानुभवानन्दस्वरूपः परमेश्वरः ।
माययान्तर्हितैश्वर्य ईयते गुणसर्गया ॥[भागवतम् ७.६.२०]

टीका च ननु स एव चेत्सर्वत्र तर्हि सर्वत्र सर्वज्ञताद्युपलभ्यते ।
तत्राह गुणात्मकः सर्गो यस्यास्तया मायया अन्तर्हितमैश्वर्यं येन
इत्येषा ।

अत्र भगवदैश्वर्यस्य माययान्तर्हितत्वेन गुणसर्गयेति मायाया
विशेषणविन्यासेन च तद्अतीतत्वं बोधयति स्वरूपवत् । अतः परमेश्वर
इति विशेषणमपि तत्सहयोगेन पूर्वमेव दत्तमिति ज्ञेयम् । श्रुतयश्

अजामेकां लोहितशुक्लकृष्णां
वह्वीः प्रजाः सृजमानां सरूपाः ।
अजो ह्येको जुषमाणोऽनुशेते
जहात्येनां भुक्तभोगामजोऽन्यः ॥ [श्वेतू ४.५]
यद्आत्मको भगवांस्तद्आत्मिका व्यक्तिः । किमात्मको भगवान् ?
ज्ञानात्मक ऐश्वर्यात्मकः शक्त्य्आत्मकश्च । दैवात्मशक्तिं स्वगुणैर्
निगूढामित्याद्याः [श्वेतू १.३] । अत्र स्वगुणैरिति यातीतगोचरा वाचामित्य्
उक्तैः स्वीयस्वभावैरित्यर्थः ॥ श्रुतयः श्रीभगवन्तम् ॥२२॥

[२३]

मां भजन्ति गुणाः सर्वे
निर्गुणं निरपेक्षकम् ।
सुहृदं प्रियमात्मानं
साम्यासङ्गादयोऽगुणाः ॥ [भागवतम् ११.१३.४०]

टीका च कथम्भूताः ? अगुणाः, गुणपरिणामरूपा न भवन्ति किन्तु
नित्या इत्यर्थः । इत्येषा ।

तथा च नारदपञ्चरात्रे जितं ते स्तोत्रे

नमः सर्वगुणातीतषड्गुणायादिवेधसे । इति ।

यदुक्तं ब्रह्मतर्के

गुणैः स्वरूपभूतैस्तु गुण्यसौ हरिरीश्वरः ।
न विष्णोर्न च मुक्तानां क्वापि भिन्नो गुणो मतः ॥

कालिकापुराणे देवीकृतविष्णुस्तवे

यस्य ब्रह्मादयो देवा मुनयश्च तपधनाः ।
न विवृण्वन्ति रूपाणि वर्णनीयः कथं स मे ॥
स्त्रिया मया ते किं ज्ञेया निर्गुणस्य गुणाः प्रभो ।
नैव जानन्ति यद्रूपं सेन्द्रा अपि सुरासुराः ॥ इति ॥

श्रीहंसदेवः सनकादीन् ॥२३॥

[२४]

अन्यत्र श्रीहंसवाक्यस्थितादिग्रहणक्रोडीकृतान् तान् बहूनेव सत्यं
शौचमित्यादिभिर्गणयित्वाह

एते चान्ये च भगवन्
नित्या यत्र महागुणाः ।
प्रार्थ्या महत्त्वमिच्छद्भिर्
न वियन्ति स्म कर्हिचित् ॥ [भागवतम् १.१६.२६]

टीका च एते एकोनचत्वारिंशत् । अन्ये च ब्रह्मण्यत्वशरण्यत्वादयो
महान्तो गुणा यस्मिन्नित्याः सहजा न वियन्ति न क्षीयन्ते स्म । इत्येषा ।

अत्र श्रीविष्णुपुराणम्

कलामुहूर्तादिमयश्च कालो
न यद्विभूतेः परिणामहेतुः ॥ इति [Vइড়् ४.१.८४] ।

श्रीपृथिवी श्रीधर्मम् ॥२४।

[२५]
अत एव आह

नमस्तुभ्यं भगवते
ब्रह्मणे परमात्मने ।
न यत्र श्रूयते माया
लोकसृष्टिविकल्पना ॥ [भागवतम् १०.२८.६]

यत्र भगवद्आदित्वेन त्रिधैव स्फुरति स्वरूपे माया न श्रूयते । तस्य
तथा तथा स्फूर्तिर्मायया न भवतीत्यर्थः । तत्र हेतुः लोकसृष्टाव्
एव विकल्पितुं सृष्टिस्थितिसंहारैर्विविधमीशितुं शीलं यस्याः सा । अतएव
भूगोलप्रश्ने हेतुत्वेन राज्ञाप्युक्तम्

भगवतो गुणमये स्थूलरूप आवेशितं मनो ह्यगुणेऽपि सूक्ष्मतम
आत्मज्योतिषि परे ब्रह्मणि भगवति वासुदेवाख्ये क्षममावेशितुमिति
[भागवतम् ५.१६.३] ।
वरुणः श्रीभगवन्तम् ॥२५॥

[२६]

तथा

तस्मै नमो भगवते वासुदेवाय धीमहि ।
यन्मायया दुर्जयया मां वदन्ति जगद्गुरुम् ॥
विलज्जमानया यस्य स्थातुमीक्षापथेऽमुया ।
विमोहिता विकत्थन्ते ममाहमिति दुर्धियः ॥ [भागवतम् २.५.१२१३]

तमादिमयत्वेन स्वस्य सदोषत्वात्, सच्चिदानन्दघनत्वेन यस्य
निर्दोषस्य नेत्रगोचरे विलज्जमानया अमुषा मायया विमोहिता अस्मद्आदयो
दुर्धियः ॥ श्रीब्रह्मा श्रीनारदम् ॥२६॥

[२७]

तदेवमैश्वर्यादिषट्कस्य स्वरूपभूतत्वमुक्त्वा, श्रीविग्रहस्य
पूर्णस्वरूपभूतत्वं वक्तुं प्रकरणमारभ्यते । तत्र तस्य तादृशत्व
सचिवं नित्यत्वं तावत्पूर्वदर्शिततादृशवैकुण्ठाधिष्ठातृत्वेन
सिद्धमेव । प्रपञ्चावतीर्णत्वेऽप्याह त्रिभिः

नष्टे लोके द्विपरार्धावसाने
महाभूतेष्वादिभूतं गतेषु ।
व्यक्तेऽव्यक्तं कालवेगेन याते
भवानेकः शिष्यतेऽशेषसंज्ञः ॥ [भागवतम् १०.३.२५]
अतः शेषसंज्ञः । तत्र युक्तिः

योऽयं कालस्तस्य तेऽव्यक्तबन्धो
चेष्टामाहुश्चेष्टते येन विश्वम् ।
निमेषादिर्वत्सरान्तो महीयांस्
तं त्वेशानं क्षेमधाम प्रपद्ये ॥ [भागवतम् १०.३.२६]

हे अव्यक्तबन्धो सान्निध्यमात्रेण प्रकृतिप्रवर्तक चेष्टा
निमेषोन्मेषरूपाम् । श्रुतिश्च सर्वे निमेषा जज्ञिरे विद्युतः
पुरुषादधीति [ंहानारायणऊ १.८] । सर्वे निमेषादयः कालावयवाः
विशेषेण द्योतते विद्युत् । पुरुषः परमात्मेति श्रुतिपदार्थः । सर्वत्र
सृष्टिसंहारयोर्निमित्तं काल एव, तस्य तु तद्अङ्गचेष्टारूपत्वात्तौ
तत्र न सम्भवत एवेति भावः । तत्र हेत्व्अन्तरं क्षेमधामेति । त्वा
त्वाम् ।

अत्र स्वाभीष्टात्तस्मादाविर्भावादेव कंसभयं कैमुत्येन वारितवती
। तथैव स्पष्टं पुनराह

मर्त्यो मृत्युव्यालभीतः पलायन्
लोकान् सर्वान्निर्भयं नाध्यगच्छत् ।
त्वत्पदाब्जं प्राप्य यदृच्छयाद्य
स्वस्थः शेते मृत्युरस्मादपैति ॥ [भागवतम् १०.३.२७]

लोकान् प्राप्य निर्भयं भयाभावम् । त्वत्पादाब्जं तु प्राप्येत्य्
उभयत्राप्यन्वयः । अत्र त्वत्पादाब्जमिति श्रीविग्रहमेव तथापि
विस्पष्टं साधितवती । अतएवामृतवपुरिति सहस्रनामस्तोत्रे । मृतं
मरणं तद्रहितं वपुरस्येत्यमृतवपुरिति शङ्करभाष्येऽपि । आद्येति
जन्माभावोऽपि दर्शितः, सजन्मनि सर्वत्र सादित्वअस्यैव सिद्धेः । तदुक्तम्
 प्रादुरासीद्यथा प्राच्यां दिशीन्दुरिव पुष्कलः । इति । [भागवतम् १०.३.८]

श्रुतिश्चात्र स ब्रह्मणा सृजति स रुद्रेण विलापयति सोऽनुत्पत्तिरलय एव
हरिः परः परमानन्द इति महोपनिषदि[*Eण्ड्ण्Oट्E ॰४] ॥

श्रीदेवकीदेवी श्रीभगवन्तम् ॥२७॥

[२८]

तथा उत्पत्तिस्थितिलयेत्य्आदिपद्ये यद्रूपं ध्रुवमकृतमिति । [भागवतम्
५.२५.९]

यस्य श्रीसङ्कर्षणस्य रूपं ध्रुवमनन्तमकृतं चानादि । अतएव
वर्षाधिपोपासनावर्णने भवेनापि तद्रूपमधिकृत्योक्तम्

न यस्य मायागुणचित्तवृत्तिभिर्
निरीक्षतो ह्यण्वपि दृष्टिरज्यते । इति [भागवतम् ५.१७.१९]

यत्तु तत्र तदेव रूपमधिकृत्य श्रीशुकेन या वै कला भगवतस्
तामसीति [भागवतम् ५.२५.१] । तथा भवानीनाथैरिति गद्ये [भागवतम् ५.१७.१६] तामसीं
मूर्तिमित्युक्तम्, तन्निजांशशिवद्वारा तमोगुणोपकारकत्वेन ज्ञेयम्
। उत्पत्तिस्थितिलयेत्य्आदिपद्यानन्तरं श्रीशुकेनैव श्रीनारदवाक्यम्
अनुक्तम् मूर्तिं न पुरुकृपया बभार सत्त्वं संशुद्धं सदसदिदं
विभाति यत्र । [भागवतम् ५.२५.१०] । तस्मान्नित्यमेव सर्वं भगवद्रूपम् ।

तथा च पाद्मोत्तरखण्डे तत्स्तुतिः अनादिनिधनानन्तवपुषे विश्व
रूपिणे । इति ।

यदत्र स्कान्दादौ क्वचिद्भ्रामकमस्ति तत्तु तत्तत्पुराणानां तामस
कल्पकथामयत्वात्तत्तत्कल्पेषु च भगवता स्वमहिमावरणाद्
युक्तमेव तदिति । श्रीभागवतेनापि एवं वदन्ति राजर्षे [भागवतम् १०.७७.३०]
इत्यादिना तादृशं मतं न मतम् । तदिदं तु श्रीकृष्णसन्दर्भे विशिष्य
स्थापयिष्यामः । स्वमतं तु सत्यं शौचं दया क्षान्तिरित्यादिना [भागवतम्
१.१६.२७] श्रीपृथिवीवाक्येन कान्तिमहौजोबलानामपि स्वाभाविकत्वम्
अव्यभिचारित्वं दर्शयता दर्शितम् । नष्टे लोक[*Eण्ड्ण्Oट्E ॰५] इत्यादिना
[भागवतम् १०.३.२५] श्रीदेवकीवाक्येन च । तस्मात्साधूक्तं यद्रूपं ध्रुवम्
अकृतमिति ॥ श्रीशुकः ॥२८॥

[२९]

विभुत्वमाह

न चान्तर्न बहिर्यस्य न पूर्वं नापि चापरम् ।
पूर्वापरं बहिश्चान्तर्जगतो यो जगच्च यः ॥
तं मत्वात्मजमव्यक्तं मर्त्यलिङ्गमधोक्षजम् ।
गोपिकोलूखले दाम्ना बबन्ध प्राकृतं यथा ॥ [भागवतम् १०.९.१३१४]

टीका च बन्धनं हि बहिःपरीतेन दाम्ना अन्तरावृतस्य भवति । तथा
पूर्वापरविभागवतो वस्तुनः पूर्वतो दाम धृत्वा परतः परिवेष्टनेन
भवति । न त्वेतदस्तीत्याह न चान्तरिति । किं च व्यापकेन व्याप्यस्य
बन्धो भवति । तच्चात्र विपरीतमित्याह पूर्वापरमिति । किं च तद्
व्यतिरिक्तस्य चाभावान्न बन्ध इत्याह जगच्च यः इति । तं मर्त्य
लिङ्गमधोक्षजमात्मजं मत्वा बबन्धेति । इत्येषा ॥

जगच्च य इत्यत्र यस्य कारणस्य व्यतिरेकेण कार्यस्य जगतो व्यतिरेकः
स्यादिति । तदनन्यस्य जगतस्तच्छक्त्येव शक्तेस्तद्अंशांशरूपया रज्ज्वा
कथं बन्धः स्यात् । न हि वह्निमर्चिषो दहेयुरिति भावः ।

तं मर्त्यलिङ्गमित्यादौ । टीकाकृतामयमभिप्रायः । ननु सर्व
व्यापकं कथं बबन्ध, न हि ब्रह्माण्डगोलकादिकमपि कश्चिद्
बध्नाति । तत्राह मर्त्यलिङ्गं मनुष्यविग्रहम् । तर्हि कथं
व्यापकत्वम् ? तत्राह, अधोक्षजमधः कृतमिन्द्रियजं ज्ञानं येन तं
सर्वेन्द्रियज्ञानागोचरं प्रत्यक्षादिप्रमाणैरचिन्त्यस्वरूपमित्यर्थः
। तस्मात्तद्आकारत्वेऽपि तस्मिन् विभुत्वमस्त्येवेति भावः । अधोक्षजत्वाद्
एवाव्यक्तत्वमपि व्याख्यातमिति तन्नोद्धृतम् ।

ननु मनुष्यविग्रहत्वेऽप्यपरित्यक्तविभुत्वं कथं मातुर्नास्फुरत्
? तत्राह आत्मजं मत्वेति । वत्सलाद्य्अभिधप्रेमरसविशेषस्य
स्वभावोऽयम् । यदसौ स्वानन्दपूरेण तस्य तादृशत्वं प्रत्यनुभव
पद्धतिमावृणोतीत्यर्थः । इत्थं चातद्वीर्यकोविदत्वं तस्या
माहात्म्यमेव तं रज्जुभिर्बद्धमपि कर्तुस्तस्य प्रेम
रसस्यानुभावरूपत्वात् । तदुक्तम् नेमं विरिञ्चो न भव इत्यादि [भागवतम्
१०.९.२०] । प्राकृतं यथा इत्यनेन अधोक्षजमित्यनेन च, वस्तुनो
व्यापकत्वं मायया तु मर्त्यलिङ्गत्वमित्यपि परिहृतम् ।

यद्धि तर्कगोचरो भवति, तत्रैव कदाचिदसम्भवरीतिदर्शनेन
साभ्युपगम्यते, यत्तु स्वत एव तद्अतीतं, तत्र तत्स्वीकृतिरतीव
मूर्खता । यथा बाडवनाम्नो वह्नेर्जलनिधिमध्य एव
देदीप्यमानतायामैन्द्रजालिकत्तास्वीकरणम् । श्रुतिश्च अर्वाग्देवा अस्य
विसर्जनेनाथ को वेद यत आबभूवेत्याद्या ।

किं च यद्गतं बन्धनं तस्य श्रीविग्रहस्यैव व्यापकत्वं विवक्षितं
यत्तदोः [?] सामानाधिकरण्यात्तस्यास्तत्राकोविदत्वोपपादनत्वाच्च । तत्र
विग्रहत्वं परिच्छिन्नायामेव सम्भवति । करचरणाद्य्आकारसन्निवेशात्
। तस्मादस्यैव तस्मिन् परिच्छिन्नत्वं विभुत्वं च युगपदेव । मूल
सिद्धान्त एव परस्परविरोधिशक्तिशतनिधानत्वं तस्य दर्शितम् ।
दृश्यतेऽपि लोके त्रिदोषघ्नमहौषधीनां तादृशत्वम् ।

तथैव विभुत्वमुक्तं ब्रह्मसंहितायां

पन्थास्तु कोटिशतवत्सरसंप्रगम्यो
वायोरथापि मनसो मुनिपुङ्गवानाम् ।
सोऽप्यस्ति यत्प्रपदसीम्न्यविचिन्त्यतत्त्वे
गोविन्दमादिपुरुषं तमहं भजामि ॥ इति [Bरह्मष्५.४०] ॥

श्रुतिश्च मध्वभाष्यप्रमाणिता अस्थूलोऽनणुरमध्यमो
मध्यमोऽव्यापको व्यापको हरिरादिरनादिरविश्वो विश्वः सगुणो निर्गुण
इति ।

तथैव नृसिंहतापनी च तुरीयमतुरीयमात्मानमनात्मानमुग्रम्
अनुग्रं वीरमवीरं महान्तममहान्तं विष्णुमविष्णुं ज्वलन्तम्
अज्वलन्तं सर्वतोमुखमसर्वतोमुखमित्य्[ण्टू २.३] आदिका ।

ब्रह्मपुराणे

अस्थूलोऽनुरूपोऽसावविश्वो विश्व एव च ।
विरुद्धधर्मरूपेऽसावैश्वर्यात्पुरुषोत्तम ॥ इति ॥

तथैव दृष्टं श्रीविष्णुधर्मे

परमाण्व्अन्तपर्यन्त
सहस्रांशाणुमूर्तये ।
जठरान्तायुतांशान्त
स्थितब्रह्माण्डधारिणे ॥ इति ॥

अतः श्रीगीतोपनिषदश्च
मया ततमिदं सर्वं
जगदव्यक्तमूर्तिना ।
मत्स्थानि सर्वभूतानि
न चाहं तेष्ववस्थितः ॥

न च मत्स्थानि भूतानि
पश्य मे योगमैश्वरम् ।
भूतभृन्न च भूतस्थो
ममात्मा भूतभावनः ॥ इति । [गीता ९.४५]

अव्यक्तमूर्तिनेति तादृशरूपत्वाद्बुद्धिवैभवागोचरस्वभाव
विग्रहेणेत्यर्थः ॥ श्रीशुकः ॥२९॥

[३०]

तदेवं परिच्छिन्नस्यैव तद्आकारस्य विभुत्वं पुनर्विद्वद्
अनुभ्वएनोक्तन्यायेन दर्शयितुं प्रकरणमारभ्यते । तत्रैकादश
पद्यान्याह

क्वाहं तमोमहद्अहंखचराग्निवार्भू
संवेष्टिताण्डघटसप्तवितस्तिकायः ।
क्वेदृग्विधाविगणिताण्डपराणुचर्या
वाताध्वरोमविवरस्य च ते महित्वम् ॥ [भागवतम् १०.१४.११]

स्पष्टम् ॥

[३१]

उत्क्षेपणं गर्भगतस्य पादयोः
किं कल्पते मातुरधोक्षजागमे ।
किमास्तिनास्तिव्यपदेशभूषितं
तवास्ति कुक्षेः कियदप्यनन्तः ॥ [भागवतम् १०.१४.१२]

अतः सर्वस्य तव कुक्षिगतत्वेन ममापि तथात्वान्मातृवदपराधः
सोढव्य इति भावः ।

[३२]

किं च विशेषतस्तु त्वत्तो यज्जन्म प्रसिद्धमित्याह

जगत्त्रयान्तोदधिसम्प्लवोदे
नारायणस्योदरनाभिनालात् ।
विनिर्गतोऽजस्त्विति वाङ्न वै मृषा
किन्त्वीश्वर त्वन्न विनिर्गतोऽस्मि ॥ [भागवतम् १०.१४.१३]

तथापि त्वत्त्वत्तः किं तु नोत्पन्नोऽस्मि ह अपि तु त्वत्त एवोत्पन्नोऽस्मीत्य्
अर्थः ।

[३३]

ननु यद्यहं प्रलयोदधिशायी नारायणः स्यां, तर्हि मत्तस्त्वम्
उत्पन्नोऽसीत्यपि घटते । तत्त्वन्यथैवेत्याशङ्क्याह

नारायणस्त्वं न हि सर्वदेहिनाम्
आत्मास्यधीशाखिललोकसाक्षी ।
नारायणोऽङ्गं नरभूजलायनात्
तच्चापि सत्यं न तवैव माया ॥ [भागवतम् १०.१४.१४]

हे अधीश ईशस्य सर्वान्तर्यामिणो नारायणस्याप्युपरि वर्तमान, हे
भगवन्नित्यर्थः । हि निश्चितं स नारायणस्त्वं, नासि, किन्तु नारायणोऽसौ
तविवाङ्गमंशः । यद्यप्येवमथापि मम तद्अङ्गोत्पन्नत्वादङ्गिनस्
त्वत्त एवोत्पत्तिरिति भावः । कथमसौ नारायण उच्यते । कथं वा मम
तस्माद्वैलक्षण्यम् ? तत्रह

योऽसौ देहिनामात्मा अन्तर्यामिपुरुषः । अतएव नारस्य जीवसमूहस्य
अयमाश्रयो यत्रेति तस्य नारायणत्वं, साक्साद्भगवतस्तव तु तद्
अन्तर्यामितायामप्यौदासीन्यमिति भावः । किं च, अखिललोकसाक्षी,
यस्मातखिलं लोकं साक्षात्पश्यति, तस्मात् । नारमयते जानातीति
नारायणोऽसौ, त्वं पुनस्तेनांशेनैव तद्द्रष्टा, न तु साक्षादिति तस्माद्
विलक्षण इत्यर्थः । तर्हि स नारायणस्त्वं न भवसीति ममाप्यन्यथा
नारायणत्वमस्तीति भवताभिप्रेतं, तत्कथम् ? इत्यस्योत्तरं तेनैव
सम्बोधनेन व्यञ्जयति, अधीशेति । ईशः प्रवर्तकः ।

ततश्च नारस्य अयनं प्रवृत्तिर्यस्मात्स नारायणः । ततोऽप्य्
अधिकैश्वर्यादधीशस्त्वमपि नारायणः । यथा मण्डलेश्वरोऽपि नृपतिस्
तेषामधिपोऽपि नृपतिरिति । श्रीकृष्णस्यैव साक्षात्स्वयं भगवत्त्वेन
तस्मादपि परत्वम् । कृष्णसन्दर्भे प्रबन्धेन दर्शयिष्यते ।

ननु, नराज्जातानि तत्त्वानि नाराणीति विदुर्बुधाः । तस्य तान्ययनं पूर्वं
तेन नारायणः स्मृतः इति । तथा,

आपो नारा इति प्रोक्ता आपो वै नरसूनवः ।
अयनं तस्य ताः पूर्वं तेन नारायणः स्मृतः ॥

इति तस्यापि नारायणत्वमन्मथाप्रसिद्धमित्याशङ्क्याह नरभू
जलायनात्तच्चापीति । नरादुद्भूतयेऽर्थास्तथा नराज्जातं यज्जलं, तद्
अयनात्यच्च तच्चापि नारायणत्वं भवति तर्हि कथं प्रसिद्धि
परित्यागेनान्यथा निर्वक्षीत्यत आह सत्यं नेति । तत्प्रलयोदधिजलाद्य्
आश्रयत्वं सत्यं न, किन्तु तथा ज्ञानं तवैव मायेत्यर्थः । मायात्र
प्रतारणशक्तिः, माया दम्भे कृपायां चेति विश्वप्रकाशात् । दुर्वितर्क
स्वरूपशक्त्यैव परिच्छिन्नापरिच्छिन्नायास्त्वन्मूर्तेर्जलादिभिर्
अपरिच्छेदादिति भावः ।

श्लोकचतुष्टयेऽस्मिन् यस्य नारायणस्यान्ततं मद्आदिकं सर्वमेव जगत्,
सोऽपि तवान्तर्भूत इति तात्पर्यम् । नारायणस्य तादृशत्वे मन्त्रवर्णः

यच्च किञ्चिज्जगत्सर्वं दृश्यते श्रूयतेऽपि वा ।
अन्तर्बहिश्च तत्सर्वं व्याप्य नारायणः स्थितः ॥ इति ॥

[३४]

तन्मूर्तेर्जलादिभिरपरिच्छेदे स्वानुभवं प्रमाणयति

तच्चेज्जलस्थं तव सज्जगद्वपुः
किं मे न दृष्टं भगवंस्तदैव ।
किं वा सुदृष्टं हृदि मे तदैव
किं नो सपद्येव पुनर्व्यदर्शि ॥ [भागवतम् १०.१४.१५]

जगद्आश्रयभूतं नारायणाभिधं तव तद्वपुः जलस्थमेवेत्येवं
यदि सत्सत्यं स्यात्तर्हि तदैव कमलनालमार्गेणान्तः प्रविश्य
संवत्सरशतं विचिन्वतापि मया हे भगवन्नचिन्त्यैश्वर्य तत्किमिति न
दृष्टम् ।

यदि च तद्वपुर्मायामात्रं, माया स्याच्छाम्बरीबुद्ध्योरिति
त्रिकाण्डशेषरीत्या मिथ्याभिव्यञ्जककलाविशेषदर्शितमात्रं स्यात्तर्हि
किं वा रूढसमाधियोगविरूढबोधेन मया हृदि तदैव सुष्ठु
सच्चिदानन्दघनत्वेन दृष्टं, समाध्य्अनन्तरं किं वा पुनः सपद्य्
एव नो व्यदर्शि न दृष्टम् । अतस्त्वन्मूर्तेर्मायामयत्वं देशविशेष
कृतपरिच्छेदश्च सत्यो न भवतीत्यर्थः । एतद्व्याख्याननिदानं
तृतीयस्कन्धेतिहासो द्रष्टव्यः ।

[३५]

अत्र तच्चापि सत्यमित्यत्र, तच्चापि अङ्गं सत्यमेव, न तु विराड्
अवन्मायेति तच्चेज्जलस्थमित्यत्र च, तज्जलस्थं सद्रूपं तव वपुर्यदि
जगत्स्यात्, प्रपञ्चान्तःपाति स्यातिति व्याकुर्वन्ति । तस्मादेवं
नारायणाङ्गकस्य भग्वद्विग्रहस्य विश्वोऽपि प्रपञ्चोऽन्तर्भूत इति स्वयं
भगवता दर्शितम् । श्रीमत्या जनन्यैवानुभूतमित्याह

अत्रैव मायाधमनावतारे
ह्यस्य प्रपञ्चस्य बहिःस्फुटस्य ।
कृत्स्नस्य चान्तर्जठरे जनन्या
मायात्वमेव प्रकटीकृतं ते ॥ [भागवतम् १०.१४.१६]

अत्रैव तावत्श्रीकृष्णाख्ये मायोपशमनेऽवतारे प्रादुर्भावे, बहिश्
चान्तर्जठरे च स्फुटस्य दृष्टस्य कृत्स्नस्य जगतः सम्बन्धे पूर्वोक्तं
यन्मायात्वम्, पर्पञ्चकृतत्वत्परिच्छेद्यत्वस्य मिथ्यात्वम् । तज्जनन्या
जनन्यै ते त्वया प्रकटीकृतं दर्शितम् । तस्माद्भवान् जगद्अन्तःस्थ एव,
जगत्तु भवबहिर्भूतमित्येवं मायाधर्मः । वस्तुतस्तु दुर्वितर्क
स्वरूपशक्त्या मध्यमत्वेऽपि व्यापकोऽसीति भावः ।

[३६]

मायाधर्मेनेति यद्भवता कृपया दृष्टप्रमाणेऽपि श्रीविग्रहे सर्वोऽपि
प्रपञ्चोऽन्तर्भूत इति दर्शितं तत्सत्यमेवेति द्योतनार्थं भगवत्यप्य्
अन्यथा प्रतीतिनिरसनार्थं च पूर्वमेवार्थमुपपादयति

यस्य कुक्षाविदं सर्वं
सात्मं भाति यथा तथा ।
तत्त्वय्यपीह तत्सर्वं
किमिदं मायया विना ॥ [भागवतम् १०.१४.१७]

यस्य तव कुक्षौ सर्वमिदं सात्मं त्वत्सहितं यथा भाति, तत्सर्वमिह
बहिरपि तथैव त्वयि भाति इत्यन्वयः ।

अयमर्थः स्वस्य व्रजेऽन्तर्भूततादर्शनेनैव समं व्रजस्य स्वस्मिन्न्
अन्तर्भूततां दर्शयन् तच्चान्तर्बहिर्दर्शनं किं स्वप्न एतदुत
देवमाया इत्यादौ [भागवतम् १०.८.४०] श्रीजनन्या एव विचारे स्वाप्निकत्व
मायोलत्वबिम्बप्रतिबिम्बत्वानामयोग्यत्वादेकमेवेत्यभिज्ञापयन्, किं
स्वप्न इत्यादावेव यः कश्चन औत्पत्तिक आत्मयोग इत्य्[भागवतम् १०.८.४०] अनेन
चरमपक्षावसितया दुर्वितर्कस्वरूपशक्त्यैव मध्यमपरिमाण
विशेष एव सर्वव्यापकोऽस्मीति स्वयमेव भवान् जननीं प्रति युगपद्
उभयात्मकं निजधर्मविशेषं दर्शितवान् । अतएव द्वितीये गृह्णीत यद्
यदुपबन्धममुष्य माता इत्यादौ [भागवतम् २.७.३०] प्रतिबोधितासीदित्य्
उक्तम् । तस्मात्तव कुक्षौ सर्वमिदं यथा भाति, इह बहिरपि तथा, तद्
अन्तर्भूतोऽपि तद्व्यापकोऽसीति प्रकारेणैव तव मायया स्व
याथार्थ्यावरणशक्त्या विना किं सम्भवति ? नैव सम्भवतीत्यर्थः


[३७]

मयाप्येवमेवानुभूतमित्याह

अद्यैव त्वदृतेऽस्य किं मम न ते मायात्वमादर्शितम्
एकोऽसि प्रथमं ततो व्रजसुहृद्वत्साः समस्ता अपि ।
तावन्तोऽसि चतुर्भुजास्तदखिलैः साकं मयोपासितास्
तावन्त्येव जगन्त्यभूस्तदमितं ब्रह्माद्वयं शिष्यते ॥ [भागवतम् १०.१४.१८]

अद्यैव ते त्वया किमस्य विश्वस्य त्वद्ऋते त्वत्तो बहिर्मायात्वं माययैव
स्फुरणं भवतीति मम मां प्रति न दर्शितम् ? अपि तु दर्शितमेव । एतन्
नराकाररूपात्त्वत्तो भैरेवेदं जगदिति यन्मुग्धानां भाति । तन्
माययिवेत्यर्थः । कथमेतदाकाररूपस्य मम तादृशत्वम् ? तत्राह,
एकोऽसि इति । व्रजसुहृदादिरूपं यद्यस्मादाविर्भूतं तत्तदखिलम्
अधुना तिरोधानसमये येन पुनरनेन श्रीविग्रहरूपेणावशिष्यते । तद्
द्वयं ब्रह्मैवेत्यर्थः । अशेषप्रापञ्चिकवस्तूनां प्रादुर्भावस्थिति
तिरोभावदर्शनेन तल्लक्षणाक्रान्तत्वादिति भावः । ततश्चास्य ब्रह्मत्वे
सिद्धे व्यापकत्वमपि सिध्यतीति तात्पर्यम् ।

[३८]

ननु, सृष्ट्य्आदौ ब्रह्मविष्णुमहेश्वरा भिन्ना एव कारणभूतास्तथा
स्थितौ केचिदन्येऽवताराश्च, तत्कथं ममैवं सर्वकारणत्वमुच्यते
। तत्राह

अजानतां त्वत्पदवीमनात्मन्य्
आत्मात्मना भासि वितत्य मायाम् ।
सृष्टाविवाहं जगतो विधान इव
त्वमेषोऽन्त इव त्रिनेत्रः ॥ [भागवतम् १०.१४.१९]

त्वमित्यस्य भासीत्यनेनान्वयः । कर्तृक्रिययोरन्वयस्यैव
प्राथमिकत्वात् । कर्त्रा चात्र त्वमित्येव मधमपुरुषेण युज्यते ।
तस्मादत्र नैव शब्दः सम्बध्यते किन्त्वेष इत्यत्रैव । ततश्च श्री
विग्रहोऽमुः वाच्यः । स्वयं भगवत्त्वेनास्य गुणावतारत्वाभावात् । अद्यैव
त्वद्ऋतेऽस्येत्यनेनाव्य्ववहितवचनेन विरुद्धत्वाच्च ।

तस्मादयमर्थः त्वत्पदवीं तव तथाभूतं स्वरूपमजानताम्
अजानतः प्रति । आत्मा तत्तदंशिस्वरूपस्त्वमेव । आत्मना तत्तद्अंशेन,
मायां सृष्ट्य्आदिनिमित्तशक्तिम् । अनात्मनि जडरूपे महद्आद्य्उपादाने
प्रधाने । वितत्य प्रवर्त्य्, तत्तत्कार्यभेदेन भिन्न इव भासीत्यर्थः
। अन्ते त्रिनेत्र इवेति । वस्तुतस्त्वमेव तत्तद्रूपेण वर्तसे, मूढास्तु
त्वत्तस्तान् पृथक्पश्यन्तीति भावः । यतो द्वितीये ब्रह्मवाक्यम्

सृजामि तन्नियुक्तोऽहं हरो हरति तद्वशः ।
विश्वं पुरुषरूपेण परिपाति त्रिशक्तिधृक् ॥ इति [भागवतम् २.६.३०]

[३९]

अतो भगवत्स्वरूपैकत्वेन न ब्रह्मादिवद्विष्णुरिवेति निर्दिष्टम् । एवं
यथा गुणावतारास्तथान्येऽप्यवतारा इत्याह

सुरेष्वृषिष्वीश तथैव नृष्वपि
तिर्यक्षु यादःस्वपि तेऽजनस्य ।
जन्मायतां दुर्मदनिग्रहाय
विधातः यदनुग्रहाय च ॥ [भागवतम् १०.१४.२०]

अजनस्य जन्मेत्यनेन प्रादुर्भावमात्रं जन्मेति बोधयति । ननु
ब्रह्मन् किमत्र विचारितं भवता, यदेकस्या एव मम मूर्तेर्व्यापकत्वे
सत्यन्यासां दर्शनस्थानं न सम्भवतीति । तथा जडवस्तूनां
घटादीनामेव प्राकट्यप्रकारो लोके दृष्टः । कथं तदितर
स्वभावानां चिद्वस्तूनां मम श्रीमूर्त्यादीनामिति । यथा यावत्यो
विभूतयो मम भवता दृष्टास्तावतीभिरेव भवान् विस्मितो, नापराः
सन्तीति सम्भावयन्निव तत्परिमिततामधिगतवानस्तीति । तथा ये
ममांशाः पूर्वं बालवत्सादिरूपास्त एव चतुर्भुजा अभवन्निति कस्यापि
रूपस्य कदाचिदुद्भवः कस्यापि कदाचिदिति ।

[४०]

किं च, सत्यज्ञानानन्तानन्दैकरसमूर्तित्वात्युगपदेव सर्वमपि तत्
तद्रूपं वर्तत एव, किन्तु यूयं सर्वदा सर्वं न पश्यथेति तत्र च
यौगपद्यं कथमिति तत्राह

को वेत्ति भूमन् भगवन् परात्मन्
योगेश्वरोतीर्भवतस्त्रिलोक्याम् ।
क्व वा कथं वा कति वा कदेति
विस्तारयन् क्रीडसि योगमायाम् ॥ [भागवतम् १०.१४.२१]

क्व वा कथं वा कति वा कदा वा योगमायां दुस्तर्कां चिच्छक्तिं
विस्तारयन् तथा तथा प्रवर्तयन् क्रीडसीति भवत ऊतीर्लीलास्त्रिलोक्यां को
वेत्ति? न कोऽपीत्यर्थः । यस्यामतं तस्य मतं मतं यस्य न वेद स इति
[Kएनऊ २.३] भावः । अत्र दुर्ज्ञेयतापुरस्कृतेनैव सम्बोधनचतुष्टयेन
चतुर्षु युक्तिमाह । हे भूमन् क्रोडीकृतानन्तमूर्त्यात्मकश्रीमूर्ते ।

अयं भावः एकमपि मुख्यं भगवद्रूपं युगपदनन्त
रूपात्मकं भवति । तथैवाक्रूरेण स्तुतं बहुमूर्त्य्एकमूर्तिकमिति
[भागवतम् १०.४०.७] । तथा श्रुतिः एकं सन्तं बहुधा दृश्यमानमिति ।

ततो यदा यादृशं येषामुपासनाफलोदयभूमिकावस्थानं, तदा
तथैव ते पश्यन्ति । तथा च प्रज्ञान्तरपृथक्त्ववद्दृष्टिश्च तदुक्तिम्
इत्यत्र ब्रह्मसूत्रे [Vस्३.३.५०] मध्वभाष्यम् उपासनाभेदाद्दर्शन
भेद इति दृष्टान्तश्च । यथैकमेव पट्टवस्त्रविशेषपिच्छावयव
विशेषादिद्रव्यं नानावर्णमयप्रधानैकवर्णमपि कुतश्चित्स्थान
विशेषाद्दत्तचक्षुषो जनस्य केनापि वर्णविशेषेण प्रतिभातीति ।
अत्राखण्डपट्टवस्त्रविशेषादिस्थानीयं निजप्रधानभासान्तर्
भाविततत्तद्रूपान्तरं श्रीकृष्णरूपं, तत्तद्वर्णच्छविस्थानीयानि
रूपान्तराणीति ज्ञेयम् । यथा श्रीनारदपञ्चरात्रे

मणिर्यथा विभागेन नीलपीतादिभिर्युतः ।
रूपभेदमवाप्नोति ध्यानभेदात्तथा विभुः ॥ इति

मणिरत्र वैदुर्यं नीलपीतादयस्तद्गुणाः । तदेवं क्वेत्यय युक्तिर्
उक्ता । एवमेव श्रीवामनावतारमुपलक्ष्य श्रीशुकवाक्यम्

यत्तद्वपुर्भाति विभूषणायुधैर्
अव्यक्तचिद्व्यक्तम्मधारयद्धरिः ।
बभूव तेनैव स वामनो बटुः
संपश्यतोर्दिव्यगतिर्यथा नटः ॥ [भागवतम् ८.१८.१२]

अर्थश्चायम् यद्वपुः शरीरं न केनापि व्यज्यते या चित्पूर्णानन्दस्तत्
स्वरूपमेव यद्विभूषणायुधैर्भाति । तद्वपुस्तदा प्रपञ्चेऽपि
व्यक्तं यथा स्यात्तथा अधारयत्स्थापितवान् । पुनश्च तेनैव वपुषा
वामनो बटुर्बभूव हरिः । एवकारेण परिणामवेषान्तरयोगादिकं
निषिद्धम् । कदा ? पित्रोः सम्पश्यतोः । तेनैव वपुषा तद्भावे हेतुः ।
दिव्याः परमचिन्त्याः यद्गतं भवच्च भविष्यच्च इत्यादि श्रुतेः ।
स्वस्मिन्नेव नित्यस्थितान्नानासंस्थानां प्रकाशनाप्रकाशनरूपा
गतयश्चेष्टा यस्य सः ।
तत्रालक्सितस्वधर्ममात्रोल्लासांशे दृष्टान्तलेशः, यथा नट इति । नटोऽपि
कश्चिदाश्चर्यतमः दिव्या परमविस्मापिका गतिर्हस्तकरूपा चेष्टा यस्य
तथाभूतः सन् । तेनैव रूपेण वैषम्यादिकमनुरीकृत्यापि नानाकारतां
यथा दर्शयति । स्वर्ग्यो नटो वा दिव्यगतिः । ततश्च तत्तद्अनुकरणं
तस्यात्यन्ततद्आकारमेव भवति । अत्र परमेश्वरं विना अन्यस्य
सर्वांशे तादृशत्वाभावात्न च दृष्टान्ते खण्डत्वदोषः प्रपञ्चनीयः
। यथा भक्षितकीटपरिणामलालाजाततन्तुसाधनोऽप्यूर्णनाभः
परमेश्वरस्य जगत्सृष्टावनन्यसाधकत्वे दृष्टान्तः श्रूयते, यथोर्ण
नाभिर्हृदयादित्यादि [भागवतम् ११.९.२१] तद्वत् ।

तदेवं श्रीब्रह्मणापि सर्वरूपसद्भावाभिर्पायेणैवोक्तम्

त्वं भक्तियोगपरिभावितहृत्सरोज
आस्से श्रुतेक्षितपथो ननु नाथ पुंसाम् ।
यद्यद्धिया त उरुगाय विभावयन्ति
तत्तद्वपुः प्रणयसे सद्अनुग्रहाय ॥ इति [भागवतम् ३.९.११]

प्रणयसे प्रकर्षेण नयसि प्रकटयसि । श्रुतेक्सितपथ इत्यनेन
कल्पनाया निरस्तत्वात् । सर्वरूपत्वेऽपि भक्तानभिरुचितरूपत्वेऽपवादः
श्रीकर्दमवाक्येन

तान्येव तेऽभिरूपाणि रूपाणि भगवंस्तव ।
यानि यानि च रोचन्ते स्वजनानामरूपिणः ॥ [भागवतम् ३.२४.३०]

यानि यानि च त्वदीयस्वभक्तेभ्यो रोचन्ते तानि नान्येव तव रूपाणि ते तव
अभिरूपाणि योग्यानि, नान्यानीत्यर्थः । अन्यानि च, यादृशं रन्तिदेवाय
कुत्सितरूपं प्रपञ्चितं तादृशानि ज्ञेयानि । तादृशस्य च मायिकत्वेअमेव
हि तत्रोक्तम्

तस्य त्रिभुवनाधीशाः फलदाः फलमिच्छताम् ।
आत्मानं दर्शयाञ्चक्रुर्माया विष्णुविनिर्मिता ॥ इति [भागवतम् ९.२१.१५]

टीका च त्रिभुवनाधीशाः ब्रह्मादयः मायास्तदीयधैर्य
परीक्षार्थं प्रथमं मायया वृषलादिरूपेण प्रतीताः सन्त इत्यर्थः
। इत्येषा ।

अनभिरूपत्वे हेतुः । अरूपिण इति । प्राकृतरूपरहितस्येति । टीका च
अप्राकृतत्वेन कुत्सितत्वासम्भवादिति भावः ।

अथ प्रकृतपक्षस्य कथं वेत्यादित्रययुक्तयेऽवशिष्टं सम्बोधन
त्रयं व्याख्यायते । हे भगवन्नचिन्त्यशक्ते! अचिन्त्यस्य भगवन्मूर्त्य्
आद्याविर्भावस्यान्यथानुपपत्तेरचिन्त्या स्वरूपशक्तिरेव कारणमिति
भावः । इयं कथं वेत्यस्य युक्तिः । तथा हे परमात्मन्! परेषां
प्रत्येकमप्यनन्तशक्तीनां पुरुषाद्य्अवताराणामात्मन्नवतारिन् ।
त्वयि तु तासां सुतरामनन्तत्वात् । तद्आविर्भावविभूतयः कति वा वाङ्
मनसोऽगोचरत्वमापयेरन्निति भावः । इयं कति वेत्यस्य युक्तिः । तथा
हे योगेश्वर! एकस्मिन्नपि रूपे नानारूपयोजनालक्षणाया योग
नाम्न्याः स्वरूपशक्तेस्तया वा ईशनशील । अयं भावः यथा तव
प्रधानं रूपमन्तर्भूतानन्तरूपं तथा तवांशरूपं च । ततश्च
यदा तव यत्रांशे तत्तद्उपासनाफलस्य यस्य रूपस्य प्रकाशनेच्छा
तदैव तत्र तद्रूपं प्रकाशसे इति । इयं कदेत्यस्य युक्तिः ।

[४१]

तस्मात्तत्तत्सर्वमपि तस्मिन् श्रीकृष्णरूपेऽन्तर्भूतमित्येवमत्रापि
तात्पर्यमुपसंहरति ।

तस्मादिदं जगदशेषमसत्स्वरूपं
स्वप्नाभमस्तधिषणं पुरुदुःखदुःखम् ।
त्वय्येव नित्यसुखबोधतनावनन्ते
मायात उद्यदपि यत्सदिवावभाति ॥ [भागवतम् १०.१४.२२]

यस्मादेवं प्रपञ्चाप्रपञ्चवस्तूनां सर्वेषामपि तत्त्वविग्रहोऽसि
तस्मादेव नित्यसुखबोधनलक्सणा या तनुस्तत्स्वरूपेऽनन्ते त्वय्येव
शेषमिदं जगदवभातीत्यन्वयः । कथम्भूतं सतुद्यदपि यत्
मुहुरुभवतिरोभवच्च । यद्यस्मिन्मुहुर्जायते लीयते च तत्तस्मिन्न्
एवावभाति भुवि तद्विकारे इवेति भावः । तर्हि किं मम विकारित्वं नेत्य्
आह । मायातो मायया त्वदीयाचिन्त्यशक्तिविशेषेण विकारादितस्यैव श्रुतेस्
तु शब्दमूलत्वादित्य्[Vस्. २.१.१७] आदौ परिणामस्वीकारात् । मुहुरुद्भव
तिरोभवत्वादेव स्वप्नाभं तत्तुल्यं न त्वज्ञानमात्रकल्पितत्वादपि
वैधर्म्याच्च न स्वप्नादिवदिति [Vस्. २.२.२९] न्यायेन तथा अविद्यावृत्तिक
मायाकार्यत्वाच्च अस्तधिषणं जीवपरमात्मज्ञानलोपकर्तृ ।
उभयस्मादपि हेतोः पुरुदुःखदुःखं तदीयसुखाभासस्यापि
वस्तुनो दुःखरूपत्वाद्विना त्वत्सत्तया असत्स्वरूपं शशविषाणतुल्यं
तदेवं भूतमपि सदिवानश्वरमिवाभाति मुग्धानामिति शेषः ।
उपलक्षणं चैतद्व्यवहारज्ञानमयमहद्आद्यात्मकत्वात्
ज्ञानोद्बोधकमिव स्वर्गाद्यात्मकत्वात्मुखमिव च । तदेवमन्यस्य
तत्परिच्छेद्यत्वात्स्वरूपशक्त्यैव परिच्छिन्नमपरिच्छिन्नं च तवेदं
वपुरिति प्रकरणार्थः ॥ १०।१४॥ ब्रह्मा श्रीभगवन्तम् ॥४१॥

[४२]

तदित्थं मध्यमाकार एव सर्वाधारत्वाद्विभुत्वं साधितम् ।
सर्वगतत्वादपि साध्यते

चित्रं बतैतदेकेन
वपुषा युगपत्पृथक् ।
गृहेषु द्व्य्अष्टसाहस्रं
स्त्रिय एक उदावहत् ॥ [भागवतम् १०.६९.२]

एतद्बत अहो चित्रं किं तत् । एक एव श्रीकृष्णो द्व्यष्टसाहस्रं स्त्रीर्यद्
उदावहत्परिणीतवान् । ननु किमत्राश्चर्यं तत्राह । गृहेष्विति तत्
सङ्ख्येषु सर्वेष्विति शेषः । भवतु ततोऽपि किं तत्राह । पृथक्पृथगेव
स्थित्वा पाणिग्रहणादिविवाहविधिं कृतवान् । ननु क्रमश उद्वाहे
नासम्भवमेतत्तत्राह युगपदिति । ननु योगेश्वरोऽपि युगपन्नाना
वपूंषि विधाय तद्विधातुं शक्नोति किमत्र योगेश्वराराध्यचरणानां
युष्माकमपि चित्रं तत्राह । एकेन वपुषा इति । तर्हि कथमनेकबाह्व्
आदिकेन व्यापकेनैकेन वपुषा तत्कृतवान् । मैवम् ।

आसां मुहूर्त एकस्मिन्
नानागारेषु योषिताम् ।
सविधं जगृहे पाणिन्
अनुरूपः स्वमायया ॥ [भागवतम् ३.३.८]

इति श्रीमद्उद्धववाक्यादौ तत्तदनुरूपताप्रसिद्धेः । इत्यभिप्रेत्य
पूर्वकेणैकपदोपन्यासेन परिहरति पृथगिति । एकेन नराकारेण वपुषा
पृथक्पृथक्त्वेन दृश्यमानस्तथा विहितवान् । तस्मादेकमेव नर
वपुर्यतो युगपत्सर्वदेशं सर्वक्रियां च व्याप्नोति तस्मान्महद्
आश्चर्यमिति वाक्यार्थः ।

इत्थमेव पञ्चमे लोकाधिष्ठातुः श्रीभगवद्विग्रहस्य तेषामित्यादि
गद्योपदिष्टस्य तादृशत्वं व्याख्यातं श्रीस्वामिचरणैः । महाविभूतेः
पारमैश्वर्यस्य पतित्वादेकयैव मूर्त्या समन्तादास्त इति ।

अथो मुहूर्त एकस्मिन्
नानागारेषु ताः स्त्रियः ।
यथोपयेमे भगवान्
तावद्रूपधरो ‘व्ययः ॥ इत्य्[भागवतम् १०.५९.४२]

अत्राप्यतस्तावद्रूपत्वं नाम युगपत्तावत्प्रदेशप्रकाशत्वमेवेति
व्याख्येयम् । न तु नारायणादिवद्भिन्नाकारत्वम् । यथोक्तम्
अनेकत्र प्रकटता
रूपस्यैकस्य यैकदा ।
सर्वथा तत्स्वरूपैव
स प्रकाश इतीर्यते ॥ इति [ळ्Bहाग्१.१.२१][*Eण्ड्ण्Oट्E ॰६]

एष एवान्यत्राकारस्य प्रकाशस्य च भेदो ज्ञेयः ॥ श्रीनारदः ॥४२॥

[४३]

तथैवाह ।

इत्याचरन्तं सद्धर्मान्
पावनान् गृहमेधिनाम् ।
तमेव सर्वगृहेषु
सन्तमेकं ददर्श ह ॥ [भागवतम् १०.६९.२५]

सर्वगृहेषु तमे एव न तु तस्यांशान् । एकमेव सन्तं न तु कायव्यूहेन
बहुरूपम् । एकं सन्तं बहुधा दृश्यमानमिति श्रुतेः । न चान्तर्न
बहिर्यस्येत्यादिना [भागवतम् १०.९.११] विभुत्वसिद्धेश्च ह स्फुटमेव ददर्श
भगवद्दत्तशक्त्या साक्षादेवानुभूतवान्, न तु केवलमनुमितवान्
नारद इति शेषः ।
[४४]

अतएव

कृष्णस्यानन्तवीर्यस्य
योगमायामहोदयम् ।
मुहुर्दृष्ट्वा ऋषिरभूद्
विस्मितो जातकौतुकः ॥ [भागवतम् १०.६९.२५]

तत्र च योगमाया दुर्घटघटनी चिच्छक्तिः । तृतीये [भागवतम् ३.१६.३७]
सनकादीनां वैकुण्ठगमने योगमायाशब्देन परमेश्वरे तु
प्रयुज्यमानेन चिच्छक्तिरुच्यते इति स्वामिभिरपि व्याख्यातमस्ति । जात
कौतुको मुनिर्मुहुर्दृष्ट्वा विस्मितोऽभूत् । कायव्यूहस्तावत्तादृशेष्वपि
बहुष्वेव सम्भवति । तं विनापि मध्यमाकारेऽपि तस्मिन् सर्व
व्यापकत्व अपूर्वमिति तस्यापि विस्मयं हेतुर्नान्यथेति स्पष्टमेव
यथोक्तं ज्ञेयम् । अनेन सर्वतः पाणिपादं तदिति तादृश्यां श्रीमूर्त्याम्
एव व्याख्यातं भवति । अतएव न स्थानतोऽपि परस्योभयलिङ्गं सर्वत्र
हि [Vस्. ३.२.११] इति सूत्रं तत्त्ववादिभिरेवं योजितम् । स्थानापेक्षयापि
परमात्मनो न भिन्नं रूपं हि यस्मात्तद्रूपत्वं सर्वत्रैव । सर्व
भूतेष्वेवमेव ब्रह्म इत्याचक्षत इति श्रुतेः ।

एक एव परो विष्णुः सर्वत्रापि न संशयः ।
ऐश्वर्याद्रूपमेकं च सूर्यवद्बधुधेयते ॥ इति मात्स्यात् ।

प्रतिदृशमिव नैकधार्कमेकं
समधिगतोऽस्मि विधूतभेदमोहः ॥ इति [भागवतम् १.९.४२] भागवताच्चेति ।

एवं न भेदादिति चेन्न प्रत्येकमतद्वचनादित्य्[Vस्. ३.२.१२] एतस्य अपि
चैवमेकमित्य्[Vस्. ३.२.१३] एतस्य च सूत्रस्य व्याख्यानं तद्भाष्ये दृश्यम्
॥ श्रीशुकः॥४३४४॥

[४५]

तमिममहमजं शरीरभाजां
हृदि हृदि धिष्ठितमात्मकल्पितानाम् ।
प्रतिदृशमिव नैकधार्कमेकं
समधिगतोऽस्मि विधूतभेदमोहः ॥ [भागवतम् १.९.४२]

तमिममग्रत एवोपविष्टं श्रीकृष्णं व्यष्ट्य्अन्तर्यामिरूपेण
निजांशेन शरीरभाजां हृदि हृदि धिष्ठितम् ।

केचित्स्वदेहान्तर्हृदयावकाशे
प्रादेशमात्रं पुरुषं वसन्तम् ॥ [भागवतम् २.२.८] इत्य्उक्तदिशा तत्तद्रूपेण
भिन्नमूर्तिबद्धसन्तमपि एकमभिन्नमूर्तिमेव समधिगतोऽस्मि
। अयं परमानन्दविग्रह एव व्यापकः । स्वान्तर्भूतेन निजाकार
विशेषणान्तर्यामितया तत्र तत्र स्फुरतीति विज्ञानवानस्मि । यतोऽहं
विधूतभेदमोहः । अस्यैव कृपया दुरीकृतो भेदमोहः । भगवद्
विग्रहस्य व्यापकत्वासम्भावनाजनिततन्नानात्वविज्ञानलक्षणो मोहो
यस्य तथाभूतोऽहम् । तेषु व्यापकत्वे हेतुरात्मकल्पितानामात्मन्येव
परमाश्रये प्रादुष्कृतानामवलोकनं प्रति यथैक एवार्को वृक्ष
कुड्याद्य्उपरिगतत्वेन तत्रापि कुत्रचिदव्यवधानं सम्पूर्णत्वेन
सव्यवधानस्त्वसम्पूर्णत्वेनानेकधा दृश्यते तथेत्यर्थः ।

दृष्टान्तोऽयमेकस्यैव तत्र तत्रोदय इत्येतन्मात्रांशे । वस्तुतस्तु श्री
भगवद्विग्रहोऽचिन्त्यशक्त्या तथा भासते । सूर्यस्तु दूरस्य
विस्तीर्णात्मनास्वभावेनेति विशेषः । अथवा तं पूर्ववर्णितस्वरूपम्
इममग्रत एवोपविष्टं शरीरभाजां हृदि हृदि सन्तमपि
समधिगतोऽस्मि । यद्यप्यन्तर्यामिरूपमेतस्माद्रूपादन्याकारं
तथाप्येतद्रूपमेवाधुना तत्र तत्र पश्यामि । सर्वतो महा
प्रभावस्यैतस्य रूपस्यादेशभेदेऽप्यभेदबोधनाय ज्ञेयः । न तु
पूर्णापूर्णत्वविवक्षायै । अमीलितदृग्व्यधारयदिति कृष्ण एवं
भगवति मनोवाक्कायवृत्तिभिरित्युपक्रमोपसंहारादिभिरत्र श्री
विग्रह एव प्रस्तूयते । ततो नेदं पद्यं ब्रह्मपरं व्याख्येयम् । तद्
एवं परिच्छिन्नत्वापरिच्छिन्नत्वयोर्युगपत्स्थितेरचरं चरमेव चेत्य्
एतदप्यत्र सुसङ्गच्छते । अतो विभुत्वेऽपि लीलया याथाथ्यं सिद्ध्यति ॥
भीष्मः श्रीभगवन्तम् ॥४५॥

[४६]

एवं तस्य नित्यत्वविभुत्वे साधिते । तथैव व्याख्यातं श्रीस्वामिभिर्
अष्टमस्य षष्ठे । अनाविराविरासेयं नाभूताभूदिति ब्रुवन् ।
ब्रह्माभिप्रैति नित्यत्वविभुत्वे भगवत्तनोरिति । तथा हि श्लोकद्वयं
तट्टीका च

अजातजन्मस्थितिसंयमाया
गुणाय निर्वाणसुखार्णवाय ।
अणोरणिम्नेऽपरिगण्यधाम्ने
महानुभावाय नमो नमस्ते ॥

रूपं तवैतत्पुरुषर्षभेज्यं
श्रेयोऽर्थिभिर्वैदिकतान्त्रिकेण ।
योगेन धातः सह नस्त्रिलोकान्
पश्याम्यमुष्मिन्नु ह विश्वमूर्तौ ॥ [भागवतम् ८.६.८९] इतीदम् ।

श्रीमूर्तेरयमाविर्भाव एव नत्वस्मद्_अदिवज्जन्मादि तदास्तीत्याह
न जाता जन्मादयो यस्य । कुतः ? अगुणाय अतो निर्वाणसुखस्यार्णवाय
अप्¸अरमोक्षसुखरूपायेत्यर्थः । तथापि अणोरणिम्न अतिसूक्ष्माय
दुर्ज्ञातत्वात् । वस्तुतस्तु अपरिगण्यमियत्तातीतं धाम मूर्तिर्यस्य तस्मै
। न चैतदसम्भावितम् । यतो महानचिन्त्योऽनुभावो यस्य । तन्मूर्तेः
सनातनत्वमपरिमेयत्वं चोपपादयत्ति रूपमिति ।

हे पुरुषर्षभ! हे धातः ! एतत्तव रूपं वैदेकेन तान्त्रिकेण च
उपायेन श्रेयोभिः सदा इज्यं पूज्यमतो नेदमपूर्वं जातमिति भावः ।

ननु यूयं देवाः पूज्यत्वेन प्रसिद्धाः सत्यं सर्वेऽप्यत्रैवान्तर्भूता इत्य्
आह । उ अहो ह स्फुटममुष्मिंस्त्वयि नोऽस्मांस्त्रिलोकांश्च सह पश्यामि
। तत्र हेतुः । विश्वं मूर्तौ यस्य अतस्तवैतद्रूपं परिच्छिन्नमपि न
भवतीत्यर्थः । इत्येषा ।

अत्र निर्वाणसुखार्णवायेति अर्णवत्वरूपकेण निर्वाणसुखमात्रत्वं
निरस्य ततोऽप्यधिकसहासुखत्वं दर्शितम् । तदुक्तं श्रीध्रुवेन

या निर्वृतिस्तनुभृतां तव पादपद्म
ध्यानाद्भवज्जनकथाश्रवणेन वा स्यात् ।
सा ब्रह्मणि स्वमहिमन्यपि नाथ मा भूत्
किं त्वन्तकासिलुलितात्पततां विमानात् ॥ इति [भागवतम् ४.९.१०]

तथा अणोरणिम्ने इति प्रोच्य अपरिमेयधाम्न इत्युक्तेरचिन्त्यशक्तित्व
रूपेण महानुभावत्वेन सर्वपरिणामाधारत्वं तव दर्शितमिति ज्ञेयम्


[४७]

अथ स्थूलसूक्ष्मातिरिक्ततामाह द्वाभ्याम् ।

स वै न देवासुरमर्त्यतिर्यङ्
न स्त्री न षण्ढो न पुमान्न जन्तुः
नायं गुणः कर्म न सन्न चासन्
निषेधशेषो जयतादशेषः ॥ [भागवतम् ८.६.२४]

एवं गजेन्द्रमुपवर्णितनिर्विशेषं
ब्रह्मादयो विविधलिङ्गभिदाभिमानाः
नैते यदोपससृपुर्निखिलात्मकत्वात्
तत्राखिलामरमयो हरिराविरासीत् ॥ [भागवतम् ८.६.३०]

यस्य ब्रह्मादयो देवा[*Eण्ड्ण्Oट्E ॰७] इत्यादि प्राक्तनपद्यद्वयेन
यस्मात्सर्वकारणकारणत्वं व्यञ्जितं तस्माद्देवादीनां मध्ये कोऽपि
न भवति । वैलक्षण्यं सात्त्विकत्वभौतिकत्वादिहीनतैव स्त्रीत्व
पुरुषत्वहीनता च प्राकृततत्तद्धर्मराहित्यम् । अतएव न षण्ड इत्य्
उक्तम् । तस्मान्न कोऽपि जन्तुः । कारणभूतः सत्त्वादिर्गुणः पुण्यपाप
लक्षणं कर्म च नेत्याह । नायं गुणः कर्मेति । तयोरपि प्रवर्तकत्वाद्
इति भावः । किं बहुना, यदत्र सत्स्थूलमसत्सूक्ष्मं तदेकमपि न
भ्वति स्वप्रकाशरूपत्वादिति भावः । किन्तु सर्वस्य निषेधेऽवधित्वेन
शिष्यत इति शेषः । मायया तत्तद्अशेषात्मकश्च । जयतात्मद्
विमोक्षणायाविर्भवत्विति ।

टीका च एवमुपवर्णितं निर्विशेषं देवादिरूपं विना परं तत्त्वं येन
तं गजेन्द्रम् । विविधलिङ्गभिदाभिमानाः । विविधा चासौ लिङ्गभिदा
देवादिरूपभेदश्च तस्याभिमानो येषामतएव ते ब्रह्मादयो यदा
नोपजग्मुस्तत्र तदा निखिलात्मकत्वात्निखिलानां तेषां परमात्मसुख
रूपत्वात्तद्विलक्षणो मायया अशेषात्मकत्वादखिलामरमयो हरिर्
आविरासीदिति ।

एवमाविर्भावं प्रार्थयमाने श्रीगजेन्द्रे यद्रूपेणाविर्भूतं तत्खलु
तादृशमेव भवितुमर्हतीति साधूक्तं स्थूलसूक्ष्मवस्त्व्अतिरिक्तस्तव
श्रीविग्रह इति । अन्यथा त्वपाणिपादरूपत्वेनैव तच्चेतस्याविर्भूय तद्
विदध्यात् । तदुक्तं स्वेच्छामयस्येति । श्लोकद्वयमिदं
श्लोकान्तरव्यवहितमप्यर्थेनाव्यवहितत्वाद्युगलतयोपदध्रे ॥

प्रथमं गजेन्द्रः श्रीहरिम्, द्वितीयं श्रीशुकः ॥४७॥

[४८]

अथ प्रत्यग्रूपतत्वमप्याह

स त्वं कथं मम विभोऽक्षपथः
परात्मा योगेश्वरैः श्रुतिदृशामलहृदिभाव्यः ।
साक्षादधोक्षज उरुव्यवसनान्धबुद्धेः
स्यान्मेऽनुदृश्य इह यस्य भवापवर्गः ॥ [भागवतम् १०.६४.१८]

टीका च हे विभो स त्वं ममाक्षपथः लोचनगोचरः एतच्चित्रमित्य्
अर्थः । किमत्राश्चर्यं तदाह पर आत्मा अतएव योगेश्वरैरपि श्रुतिदृशा
अमलहृदि विभाव्यश्चिन्त्यः । यतोऽधोक्षजः अक्षजमैन्द्रियकं ज्ञानं
तदधः अर्वागेव यस्य सः । यस्य हि भवापवर्गो भवेत्तस्य भवान्
अनुदृश्यः स्यातुरुव्यसनेन कृकलासभवदुःखेन अन्धबुद्धेस्तु
मम एतच्चित्रमित्यर्थः । इत्येषा ।

दर्शनकारणं तूक्तं नारायणाध्यात्मे

नित्याव्यक्तोऽपि भगवानीक्ष्यते निजशक्तितः ।
तामृते परमात्मानं कः पश्येतामृतं प्रभुम् ॥ इति ।

तादृशशक्तेरप्युल्लासे तत्कृपैव कारणम् । तदुक्तं श्रुतौ

न चक्षुषा पश्यति रूपमस्य
यमेवैष वृणुते तेन लभ्यस्
तस्यैष आत्मा विवृणुते तनुं स्वाम् ॥ [Kअठऊ १.२.२३]

न सन्दृशे तिष्ठति रूपमस्य । इत्यादिकं च कुत्रचित् । एवमेव मोक्ष
धर्मे नारायणीये नारदं प्रति श्रीश्वेतद्वीपपतिनोक्तम्

एतत्त्वया न विज्ञेयं रूपवानिति दृश्यते ।
इच्छन्मुहूर्तान्नश्येयमीशोऽहं जगतो गुरुः ॥
माया ह्येषा मया सृष्टा यन्मां पश्यसि नारद ।
सर्वभूतगुणैर्युक्तं नैवं त्वं ज्ञातुमर्हसि ॥ [ंBह्१२.३०६.४२४३]

यथाऽन्यो रूपवानिति हेतोर्दृश्यते तथायमपीत्येतत्त्वया न ज्ञेयम् ।
ततश्च स्वय रूपित्वेऽप्यदृश्यत्वमुक्त्वा निजरूपस्याप्राकृतत्वमेव
दर्शितम् । तद्दर्शने च परमकृपामय्यकुण्ढा ममेच्छैव कारणम्
इत्याह । इ

इच्छन्निति । नश्येयमदृश्यतामापद्येयम् । तत्र स्वातन्त्र्यं जगद्
विलक्षणत्वं च हेतुमाह ईश इत्यादि । तथापि मां सर्वभूतगणैर्
युक्तं यत्पश्यसि तद्युक्तत्वेन यत्प्रत्येषि एषा माया मयैव सृष्टा
मम माययैव तथा भानमित्यर्थः । तस्मिन्नैवमित्यादि । मयात्र
प्रतारणशक्तिः । तथा हि तत्रैव श्रीभाष्यवचनम् ।

प्रीतस्ततोऽस्य भगवान् देवदेवः सनातनः ।
साक्षात्तं दर्शयामास दृश्यो नान्येन केनचिद् ॥ इति । [ंBह्१२.३२३.११]

तमुपरिचरं वसुं प्रति स्वात्मानमिति शेषः । तद्अग्रे च वस्व्आदि
वाक्यम् ।

न शक्यः स त्वया द्रष्टुमस्माभिर्वा बृहस्पते ।
यस्य प्रसादं कुरुते स वै तं द्रष्टुमर्हति ॥ इति । [ंBह्१२.३२३.१८]

तदेवं श्रुताव् अप्यदृश्यत्वादयो धर्माः श्रीविग्रहस्यैवोक्ताः ।
श्रुत्यन्तरं च न चक्षुषा पश्यति रूपमस्य । इति ॥

नृपः श्रीभगवन्तम् ॥४८॥

[४९]

अतएव प्राकृतानि रूपादीनि निषिध्य अन्यानि सम्प्रतिपाद्यन्ते ।

न विद्यते यस्य च जन्म कर्म वा
न नामरूपे गुणदोष एव वा
तथापि लोकाप्ययसम्भवाय यः
स्वमायया तान्यनुकालमृच्छति ॥ [भागवतम् ८.३.८]

अयमर्थः । अवस्थान्तरप्राप्तिर्विकारः । तत्र प्रथमविकारो जन्मेति
। अपूर्णस्य निजपूर्त्य्अर्था चेष्टा कर्मेति । मनोग्राह्यस्य वस्तुनो
व्यवहारार्थं केनापि सङ्केतितः शब्दो नामेति । चक्षुषा ग्राह्यो गुणो
रूपमिति । सत्त्वादिप्राकृतगुणनिदानो द्रव्यस्योत्कर्षहेतुर्धर्म
विशेषो गुण इति प्रकृतिजे लोके दृश्यते । यस्य च सर्वदा स्वरूपस्थत्वात्
पूर्णत्वात्मनसोऽप्यगोचरत्वात्स्वप्रकाशत्वात्प्रकृत्य्अतीत्वात्तानि न
विद्यन्ते ।

तथापि यस्तानि ऋच्छति प्राप्नोति तस्मै नम इत्य्[भागवतम् ८.३.९] उत्तर
श्लोकेनान्वयः । अतएव श्रुत्यापि निष्कलं निष्क्रियं शान्तमित्यादौ [श्वेतू
६.१९], अशब्दमस्पर्शमरूपमव्ययमित्यादौ [Kअठऊ १.३.१५] च तन्
निषिध्यापि सर्वकर्मा सर्वकामः सर्वगन्धः सर्वरस इत्य्[Cहाऊ
३.१४.४] आदौ विधीयते । गुणदोष इति अपरमार्थत्वाद्गुण एव दोष इत्य्
अर्थः । ततो रूढदोषस्तु सर्वथा न सम्भवत्येवेति वक्ष्यते । तथा च
कौर्मे

ऐश्वर्ययोगाद्भगवान् विरुद्धार्थोऽभिधीयते ।
तथापि दोषाः परमे नैवाहार्यः कथञ्चन ।
गुणा विरुद्धा अपि तु समाहार्याश्च सर्वतः ॥ इति ।
अयमात्मापहतपाप्मा । इत्याद्याः [Cहाऊ ८.७.१] श्रुतयश्च ।

एतं संयद्वाम इत्यावक्षते एतं सर्वाणि वामानि नयति एष उ एव
भामणीः एष सर्वेषु वेदेषु भातीत्य्[Cहा ४.१५.२] आद्या च । अतएव सर्व
गन्ध इत्यादौ गन्धादिशब्देन सौगन्ध्यादिकमेवोच्यते । यदा तु
ऋच्छतिनान्वयस्तु गुणस्य दोषत्वेन रूपकमविवक्षितं श्रुतिविरुद्धत्वात्
परमार्थत्वेन प्रतिपादयिष्यमाणत्वाच्च ।

नन्वेकत्र तेषां जन्मादीनां भावाभावयोर्विरोध इत्याशङ्क्य तद्
विरोधे हेतुमाह स्वमायया इति । अन्यथानुपपत्तिप्रमिता दुस्तर्क्या
स्वरूपशक्तिरेव तत्र हेतुः । अतएव स्वरूपभूतत्वेन तेभ्यः
प्राकृतेभ्यो विलक्षणत्वात्तान्यपि न विद्यन्त इति च वक्तुं शक्यत इति
भावः । यथा शाङ्करशारीररके समाकर्षादित्य्[Vस्. १.४.१५] अत्र नाम
रूपव्याकृतवस्तुविषयः स्वच्छन्दः प्रायेण प्रसिद्ध इति तद्
व्यकरणाभावापेक्षया प्राग्उत्पत्तेः सदेव ब्रह्मश्रुतावसदित्युच्यते
इत्युक्तं तथैव ज्ञेयम् ।

अतएव श्रीविष्णुपुराणे गुणांश्च दोषांश्च मुने व्यतीत इत्य्[Vइড়् ६.५.८३]
उक्त्वा पुनराह समस्तकल्याणगुणात्मको हीति [Vइড়् ६.५.८४] । तथा
ज्ञानशक्तिबलैश्वर्यवीर्यतेजांस्यशेषतः ।
भगवच्छब्दवाच्यानि विना हेयैर्गुणादिभिः ॥ इति [Vइড়् ६.५.७९]

पाद्मोत्तरखण्डे च

योऽसौ निर्गुण इत्युक्तः शास्त्रेषु जगद्ईश्वरः ।
प्राकृतैर्हेयसंयुक्तैर्गुणैर्हीनत्वमुच्यते ॥ इति ।

न च स्वमाययेत्यन्यथार्थं मन्तव्यम् ।

विशुद्धविज्ञानघनं स्वसंस्थया
समाप्तसर्वार्थमयी वाञ्छितम् ।
स्वतेजसा नित्यनिवृत्तमाया
गुणप्रवाहं भगवन्तमीमहि ॥ इति [?][*Eण्ड्ण्Oट्E ॰८] श्रीनारद
वाक्यात् ।

स्वसुखनिभृतेद्यादि[*Eण्ड्ण्Oट्E ॰९] । वक्तृहृदयविरोधाच्च । ततः
सर्वथा चिच्छक्त्या इत्यर्थः । अतः स्वामिभिरपि योगमायाशब्देन चिच्
छक्तिर्व्याख्याता ।
ननु प्राप्नोति कदाचित्कत्वमप्यवगम्यते, तत्राह अनुकालं नित्यमेव
प्राप्नोति, कदाचिदपि न त्यजतीत्यर्थः । स्वरूपशक्तिप्रकाशित्वस्य च
मिथो हेतुमत्ता ज्ञेया ।

ननु कथं जन्मकर्मणोर्नित्यत्वम् ? ते हि क्रिये । क्रियात्वं च प्रति
निजांशमप्यारम्भपरिसमाप्तिभ्यामेव सिध्यतीति ते विना स्वस्वरूप
हान्य्आपत्तिः । नैष दोषः । श्रीभगवति सदिवाकारानन्त्यात्
प्रकाशानन्त्यात्जन्मकर्मलक्षणलीलानन्त्यादनन्तप्रपञ्चानन्त
वैकुण्ठगततत्तल्लीलास्थानतत्तल्लीलापरिकराणां व्यक्तिप्रकाशयोर्
आनन्त्याच्च । यत एवं सत्योरपि तत्तद्आकारप्रकाशगतयोस्तद्आरम्भ
समाप्त्योरेकत्रिकत्र ते जन्मकर्मणोरंशा यावत्समाप्यन्ते न
समाप्यन्ते वा तावदेवान्यत्राप्यारब्धा भवतीत्येवं श्रीभगवति
विच्छेदाभावान्नित्ये एव तत्र ते जन्मकर्मणी वर्तेते । तत्र ते क्वचित्
किञ्चिद्विलक्षणत्वेनारभ्येते ते क्वचिदैकरूप्येण चेति ज्ञेयम् । विशेषण
भेदाद्विशेषणैक्याच्च । एक एवाकारः प्रकाशभेदेन पृथक्क्रियास्पदं
भवतीति । चित्रं बतैतदेकेन वपुषा इत्यादौ प्रतिपादितम् ।

ततः क्रियाभेदात्तत्तत्क्रियात्मकेषु प्रकाशभेदेष्वभिमानभेदश्
च गम्यते । तथा सति एकत्रैकत्र लीलाक्रमजनितरसोद्बोधश्च जायते


ननु कथं ते एव जन्मकर्मणी वर्तेते इत्युक्तं पृथग्आरब्धत्वादन्ये
एव ते । उच्यते । कालभेदेनोदितानामपि समानरूपाणां क्रियाणाम्
एकत्वम् । यथा शङ्करशारीरके । द्विर्गोशब्दोभयमुच्चरितो न तु द्वौ
गोशब्दाविति । तथैव द्विः पाकः कृतोऽनेन न तु द्विधा पाकः कृतोऽनेनेति
प्रतीत्या भविष्यति । ततो जन्मकर्मणोरपि नित्यता युक्तैव ।
अतएवागमादावपि भूतपूर्वलीलोपासनविधानं युक्तम् । तथा चोक्तम्
मध्वभाष्ये परमात्मसम्बन्धित्वेन नित्यत्वात्त्रिविक्रमत्वादिष्वप्य्
उपसंहार्यत्वं युज्यते इति । अनुमतं चैतत्श्रुत्या यद्गतं भवच्च
भविष्यच्चेत्यनयैव । उपसंहार्यत्वमुपासनायामुपादेयत्वमित्य्
अर्थः । तत्र तस्य जन्मनः प्राकृतात्तस्माद्विलक्षणत्वं प्राकृत
जन्मानुकरणेनाविर्भावमात्रत्वं क्वचित्तद्अननुकरणेन वा ।
अजायमाना बहुधा विजायत इति श्रुतेः ।

तद्यथा

देवक्यां देवरूपिण्यां विष्णुः सर्वगुहाशयः ।
आविरासीद्यथा प्राच्यां दिशीन्दुरिव पुष्कलः ॥ इति [भागवतम् १०.३.८]

तथा च

सत्यं विधातुं निजभृत्यभाषितं
व्याप्तित्वं च भूतेष्वखिलेषु चात्मनः ।
अदृश्यतात्य्अद्भूतरूपमुद्वहन्
स्तम्भे सभायां न मृगं न मानुषम् ॥ इति [भागवतम् ७.८.१७]

कार्दमं वीर्यमापन्न इत्यत्र [भागवतम् ३.२४.६] श्रीकपिलदेवावतार
प्रसङ्गे कर्दमस्य भक्तिसामर्थ्यवशीभूत इत्येव व्याख्येयम् ।
वीर्यशब्दन्यासस्तु प्रसिद्धं पुत्रत्वमपि श्लिष्टं भवतीत्येवम्
अर्थः । तथा कर्मणो वैलक्षण्यं स्वरूपानन्दविलासमात्रत्वम् । तद्
यथा लोकवत्तु लीलाकैवल्यमिति [Vस्२.१.३३] । व्याख्यातं च तत्त्ववादिभिः
। यथा लोके मत्तस्य सुखोद्रेकादेव नृत्यादिलीला न तु प्रयोजनापेक्षया
एवमेवेश्वरस्य । नारायणसंहितायां च

सृष्ट्यादिकं हरिर्नैव प्रयोजनमपेक्ष्य तु ।
कुरुते केवलानन्दाद्यथा मत्तस्य नर्तनम् ॥
पूर्णानन्दस्य तस्येह प्रयोजनमतिः कुतः ।
मुक्ता अव्याप्तकामाः स्युः किमुतास्यखिलात्मनः ॥ इति ।

न चोन्मत्तदृष्टान्तेनासर्वज्ञत्व प्रसञ्जयितव्यम् । स्वरूपानन्दोद्रेकेण
स्वप्रयोजनमननुसन्धायैव लीलायते इत्येतदंशेनैव स्वीकारात् ।
उच्छ्वासप्रश्वासदृष्टान्तेऽपि सुष्प्त्य्आदौ तद्दोषापातात् । तस्मात्
स्वरूपानन्दस्वाभाविक्येन तल्लीला । श्रुतिश्च देवस्यैव स्वभावोऽयम्
आप्तकामस्य का स्पृहा । इति ।

अत्र प्राकृतसृष्ट्य्आदिगतस्य साक्षाद्भगवच्चेष्टात्मकस्य वीक्षणादि
कर्मणो वस्तुतस्तु तथाविधत्वे वैकुण्ठादिगतस्य कैमुत्यम्
एवापतितम् । यथोक्तं नागपत्नीभिः अव्याकृतविहाराय इति [भागवतम् १०.१६.४७]
। अतएव श्रीशुकादीनामपि तल्लीलाश्रवणे रागतः प्रवृत्तिर्युज्यते ।

अतश्च

एवं च जन्मानि कर्माणि ह्यकर्तुरजनस्य च ।
वर्णयन्ति स्म कवयो वेदगुह्यानि हृत्पतेः ॥ इति [भागवतम् १.३.३५]

अत्र जन्मगुह्याध्यायपद्येऽप्येवमेव व्याख्येयम् । यत्रेमे सद्असद्
रूपे [भागवतम् १.३.३३४] इत्यादिभ्यामव्यवहितपद्याभ्यां यथा स्वरूप
सम्यग्ज्ञानेनैव कृतस्याविद्याकृतात्माध्याससद्असद्रूपनिषेधस्य
हेतोर्ब्रह्मदर्शनं भवति । यथा च मायोपरतावेव स्वरूप
सम्पत्तिर्भवति इत्युक्तम् । एवमेव कवय आत्मारामा हृत्पतेः
परमात्मनो जन्मानि कर्माणि च वर्णयन्ति । तत्तत्प्रतिषेधे तद्उपरतौ
चैव सत्यां तज्जन्मकर्मानुभवसम्पत्ती भवत इत्यर्थः । सम्पत्तिर्
अत्र साक्षाद्दर्शनम् । तस्मात्स्वरूपानन्दातिशयितभगवद्आनन्द
विलासरूपाण्येव तानीति भावः । अतएव प्राकृतवैलक्षण्यादकर्तुर्
अजनस्य इत्युक्तम् । अतएव वेदगुह्यान्यपि तानीति । यथा अक्रूरस्तुतौ
त्वयोदितः [भागवतम् १०.४८.२३२४] इत्यादि द्वयं टीकायामेवेत्थमुत्थापितम् ।
ननु तर्हि ममावतारास्तच्चरितानि च शुक्तिरजतवदविद्याकल्पितान्येव
किम् ? नहि नहि इयं तु तव लीलेत्याह द्वयेन त्वयोदित इतीति ।

तथैव च भगवत्स्वरूपसाम्येनोक्तं वैष्णवे

नामकर्मस्वरूपाणि न परिच्छेदगोचरे ।
यस्याखिलप्रमाणानं स विष्णुर्गर्भगस्तव ॥ इति । [Vइড়् ५.२.१९]

रूपकर्मेति वा पाठान्तरम्[*Eण्ड्ण्Oट्E ॰१०] । इत्थमेवाभिप्रेतं श्री
गीतोपनिषद्भिः

जन्मकर्म च मे दिव्यमेवं यो वेत्ति तत्त्वतः । इति । [गीता ४.९]

तथा नाम्नो वैलक्षण्यं वाङ्मनसागोचरगुणावलम्बित्वेन स्वतः
सिद्धत्वम् । तद्यथा वासुदेवाध्यात्मे अप्रसिद्धेस्तद्गुणानाम्
अनामासौ प्रकीर्तितः इति । ब्राह्मे अनामा सोऽप्रसिद्धत्वादरूपो भूत
वर्जनातिति ।

न यत्र नाथ विद्यन्ते नामजात्यादिकल्पनाः ।
तद्ब्रह्म परमं नित्यमविकारि भवानज ॥
न कल्पनामृतेऽर्थस्य सर्वस्याधिगमो यथः ।
ततः कृष्णाच्युतानन्तविष्णुनामभिरीड्यसे ॥ इति ॥ [Vइড়् ५.१८.५३५४]

एतद्वैष्णववचनानन्तरमपि न विरुद्धम् । तथा हि । अत्रापाततः
प्रतीतार्थतायां कल्पनाशब्दो व्यर्थः स्यात् । नामजात्य्आदयो न विद्यन्ते
। इत्यनेनैव विवक्षितार्थसिद्धेः । स्वयमेव ब्रह्माजादिशब्दानां
परमार्थप्रतिपादकनामतया स्वीकृतश्च । अजामेकां लोहितशुक्ल
कृष्णाम् [श्वेतू ४.५] इत्यादिष्वजायमानत्वलक्षणजातिश्च दृश्यत एव ।
तथा नामादिकल्पना न विद्यन्ते इत्युक्ता स्वयं कृष्णादिनामकल्पनोक्तिर्
विरुद्धा स्यात्कल्पनया वा कथमीडयता स्यात्कल्पनाया अनियतत्वाच्च
कथं कृष्णादिनामनियत्यमुच्यते । तस्मान्नामकर्मस्वरूपाणीत्य्
अनुसाराच्चायमर्थः । यथा यत्र नामजात्य्आदीनां नामनि कृष्णादीनि
जातयो देवत्वमनुष्यत्वक्षत्रियत्वादिलीलाः तदादीनां कल्पना न
विद्यन्ते ।

किन्तु स्वसंस्थया समाप्तसर्वार्थमित्युक्तदिशा स्वरूपसिद्धनित्य
शक्तिविलासरूपाण्येव तानीत्यर्थः । ततश्च यतो यस्मात्सर्वस्यापि
दृष्टस्य वस्तुनः कल्पनां नामादिरचनामृते अधिगमो व्यवहारिक
बोधो न भवति । ततस्तस्मादेव हेतोः कल्पनामयं नाम तन्नामिनं
चार्थ सर्वमवज्ञाय निखिलप्रमाणपरिच्छेदागोचरत्वेन वेदात्मतया
स्वतःसिद्धैः कृष्णादिनामोपलक्षणैः प्रसिद्धैरेव नामभिः स्वतः
सिद्धस्त्वमेवेड्यसे मुनिभिर्वेदैश्च श्लाघ्यसे । न तु कल्पनामयैर्
अन्यैस्त्वमपि श्लाघ्यसे तादृशमहिमभिस्तैरेव तव महिमा
व्यक्तीभवतीति । यद्वा । तैरेवेड्यसे व्यक्तमाहात्मीक्रियस इति ।

अत्र यैः शास्त्रेऽतिप्रसिद्धैः श्रीभगवानेव झटिति प्रतीतो भवति । येषां
च साङ्केत्यादावपि तादृशप्रभावः श्रूयते । तेषां स्वतः सिद्धत्वम्
अन्येषां कल्पनामयत्वं ज्ञेयम् । अथवा हे नाथ। यत्र नामजात्यादीनां
कल्पना न विद्यन्ते तत्कवलविशेषरूपं परमं ब्रह्म भवान् ।

तत्तत्कल्पनाया अविषयत्वे हेतुः । विशेषेण करोति लीलायत इति विकारि तथा
न भवतीत्यविकारि इति । तद्रूपेण न जायते न प्रकटीभवतीति हे अजेति ।
ततः किमवलम्ब्य तत्र नामजात्य्आदिकल्पनाः क्रियन्तामिति भावः । तत्
तत्कल्पनां विना च सर्वस्याप्यर्थस्य वस्तुमात्रस्याधिगममात्रं न
भवेत् । किमुत तादृशब्रह्मस्वरूपस्य भवतः । कल्पनामयनाम
जात्य्आदयस्तु न कस्यापि स्वरूपधर्मा भवन्ति यत एवं ततः
साङ्केत्यादिना भावितैरपि भवद्वत्सर्वपुरुषार्थप्रदैस्तत्तद्
विशेषप्रतिपादकैः कृष्णादिनामभिरेव त्वमीड्यसे नित्यसिद्धश्रुति
पुराणादिभिः श्लाघ्यसे न तु निर्विशेषताप्रतिपादकैर्नितरां
कल्पनामयैरित्यर्थः ।

किन्तु कृष्णादीनां चतुर्णां नाम्नामुपलक्सणत्वमेव ज्ञेयम् ।
नारायणादिनाम्नामपि साङ्केत्यादौ तथा प्रभावश्रवणात् । वर्ण एव
तु शब्द इति भगवानुपवर्ष इत्यनेन तस्य च नित्यत्वादित्यनेन च
न्यायेन वर्णतयैव नित्यत्वमस्य वेदसारवर्णात्मकनाम्नः सिध्यति
। तथैव गोपालतापनीश्रुतौ नाममयाष्टदशाक्षरप्रसङ्गे ब्रह्म
वाक्यम् तेष्वक्षरेषु भविष्यज्जगद्रूपं प्रकाशयन्न् [ङ्टू १.२६] इति
। अत्रावतारकालजातशब्दादिमयजगत्कारणत्वेन तद्वैलक्षण्यात्
स्वतःसिद्धत्वं तथा भगवत्स्वरूपाभिन्नत्वं च तद्वैलक्षण्यं
नाम्नः । तद्यथा श्रुतौ

ओमास्य जानन्तो नाम चिद्विविक्तन्महस्ते विष्णो सुमतिं भजामहे । ओं तत्
सदित्यादि ।

अयमर्थः । हे विष्णो! ते तव नाम चित्चित्स्वरूपमतएव महः स्व
प्रकाशरूपम् । तस्मादस्य नाम्नः आ ईषदपि जानन्तः न तु सम्यग्
उच्चारमाहात्म्यादिपुरस्कारेण । तथापि विवक्तन् ब्रुवाणाः केवलं तद्
अक्षराभ्यासमात्रं कुर्वाणाः सुमतिं तद्विषयां विद्यां भजामहे
प्राप्नुमः । यतस्तदेव प्रणवव्यञ्जितं वस्तु सत्स्वतःसिद्धमिति ।
अतएव भयद्वेषादौ श्रीमूर्तेः स्फूर्तेरिव साङ्केत्यादावप्यस्य
मुक्तिदत्वं श्रूयते । तथा चोक्तं पाद्मे

अप्यन्यचित्तः क्रुद्धो वा यः सदा कीर्तयेद्धरिम् ।
सोऽपि बन्धक्सयान्मुक्तिं लभेच्चेदिपतिर्यथा ॥ इति ।

तथा श्रीभगवत इव तस्य नाम्नः सकृदपि साक्षात्कारः संसार
ध्वंसको भवति । यथा स्कान्दे

सकृदुच्चारितं येन हरिरित्यक्षरद्वयम् ।
बद्धः परिकरस्तेन मोक्षाय गमनं प्रति ॥

इति श्रुतौ च प्रणवमुद्दिश्य । ओमित्येतत्ब्रह्मणो नेदिष्टं नाम
यस्मादुच्चार्यमाण एव संसारभयात्तारयति तस्मादुच्यते तार इत्यादि
बहुतरम् । न चास्यार्थवादत्वं चिन्त्यम् ।

तथार्थवादो हरिनाम्नि कल्पनमिति पद्मपुराणानुसारेणापराधापातात्
। यस्य तु गृहीतनाम्नोऽपि पुनः संसारस्तस्य नानुव्रजति यो मोहाद्
व्रजन्तं परमेश्वरम् । ज्ञानाग्निदग्धकर्मापि स भवेद्ब्रह्म
राक्षस इति श्रीविष्णुभक्तिचन्द्रोदयादिप्रमाणितपुराणवचनवन्
महदपराधतद्अर्थवादकल्पनादिकं प्रतिबन्धकं ज्ञेयम् ।
अतएवानन्दरूपत्वमस्य महद्धृदयसाक्षिकं प्रतिबन्धकं ज्ञेयम्


अतएवानन्दरूपत्वमस्य म्हद्धृदयसाक्षिकं यथा श्रीविग्रहस्य ।
तदुक्तं श्रीशौनकेन

तदश्मसारं हृदयं बतेदं
यद्गृह्यमाणैर्हरिनामधेयैः ।
न विक्रियेताथ यदा विकारो
नेत्रे जलं गात्ररुहेषु हर्षः ॥ [भागवतम् २.३.२४]

अतएव प्रभासपुराणे कण्ठोक्त्या कथितैर्हेतुभिः सकलवेदफलत्वेन
च भगवत्स्वरूपत्वमेव प्रतिपादितम् ।

मधुरमधुरमेतन्मङ्गलं मङ्गलानां
सकलनिगमवल्लीसत्फलं चित्स्वरूपम् ।
सकृदपि परिगीतं श्रद्धया हेलया वा
भृगुवर नरमात्रं तारयेत्कृष्णनाम ॥ इति ॥

तस्माद्भगवत्स्वरूपमेव नाम । स्पष्टं चोक्तं श्रीनारद
पञ्चरात्रेऽष्टादशाक्षरमुद्दिश्य

व्यक्तं हि भगवानेव साक्षान्नारायणः स्वयम् ।
अष्टाक्षरस्वरूपेन मुखेषु परिवर्तते ॥ इति ।

माण्डुक्योपनिषत्सु च प्रणवमुद्दिश्य ओमित्येतदक्षरमिदं सर्वं
[ंाण्डू १] । ओंकार एवेदं सर्वम् [Cहाऊ २.२३.३] ।

प्रणवो ह्यपरं ब्रह्म प्रणवश्च परं स्मृतम् ।
अपूर्वोऽनन्तरोऽबाह्योऽनपरः प्रणवोऽव्ययः ॥
सर्वस्य प्रणवो ह्यादिर्मध्यमन्तस्तथैव च ।
एवं हि प्रणवं ज्ञात्वा व्यश्नुते तद्अनन्तरम् ॥
प्रणवं हीश्वरं विद्यात्सर्वस्य हृदये स्थितम् ।
सर्वव्यापिनमोङ्कारं मत्वा धीरो न शोचति ॥
अमात्रोऽनन्तमात्रश्च द्वैतस्योपशमः शिवः ।
ओङ्कारो विदितो येन स मुनिर्नेतरो जनः ॥ इति [ंाण्डूक्यकारिका २६२९]

न तु परमेश्वरस्यैव तत्तद्योग्यतास्मभवाद्वर्णमात्रस्य तथोक्तिः
स्तुतिरूपैवेति मन्तव्यम् । अवतारान्तरवत्परमेश्वरस्यैव वर्ण
रूपेणावतारोऽयमिति अस्मिन्नर्थे तेनैव श्रुतिबलेनाङ्गीकृते तद्अभेदेन
तत्सम्भवात् । तस्मान्नामनामिनोरभेद एव । तदुक्तं पाद्मे

नाम चिन्तामणिः कृष्णश्चैतन्यरसविग्रहः ।
पूर्णः शुद्धो नित्यमुक्तोऽभिन्नत्वान्नामनामिनोः ॥ इति ॥

अस्यार्थः नामैव चिन्तामणिः सर्वार्थदातृत्वात् । न केवलं तादृशमेव
अपि तु चैतन्यादिलक्षणो यः कृष्णः स एव साक्षात् । तत्र हेतुरभिन्नत्वाद्
इतीति । ननु, तथाविधं नामादिकं कथं पुरुषेन्द्रियजन्यं भवति । न,
वेदमात्रस्य भगवतिव पुरुषेन्द्रियादिष्वाविर्भावनात् । यथोक्तम्
एकादशे स्वयं श्रीभगवता शब्दब्रह्म सुदुर्बोधमित्य्[भागवतम् ११.२१.३६]
आरभ्य,

मयोपबृंहितं भूम्ना ब्रह्मणानन्तशक्तिना ।
भूतेषु घोषरूपेण विशेषपूर्णेव लक्ष्यते ॥ [भागवतम् ११.२१.३७] इति ॥

द्वादशस्य षष्ठे वेदव्यसनप्रसङ्गे क्षीणायुषः इत्यादौ [भागवतम् १२.६.४७]
। टीका च तर्हि पुरुषबुद्धिप्रभवत्वान्नादरणीयं स्यादित्य्
आशङ्क्याह हृदिस्थाच्युतचोदिता इति ।

कस्मै येन विभासितोऽयमित्यादौ [भागवतम् १२.१३.१९] तद्रूपेणेत्यादिवत् । एतत्
सर्वमभिप्रेत्य गर्भस्तुतावुक्तम्

न नामरूपे गुणजन्मकर्मभिर्
निरूपितव्ये तव तस्य साक्षिणः ।
मनोवचोभ्यामनुमेयवर्त्मनो
देव क्रियायां प्रतियन्त्यथापि हि ॥ [भागवतम् १०.२.३६] इति ॥

तथारूपस्यापि वैलक्षण्यं स्वप्रकाशतालक्षणस्वरूप
शक्त्यैवाविर्भावित्वम् । तच्च पूर्वदर्शितम् । अतएव द्वितीये,

आत्मतत्त्वविशुद्ध्य्अर्थं यदाह भगवानृतम् ।
ब्रह्मणे दर्शयन् रूपमव्यलीकव्रतादृतः ॥ इत्य्[भागवतम् २.९.४] अत्र ।

टीका च यच्चोक्तमष्टमाध्यये परमेश्वरस्यापि देह
सम्बन्धाविशेषात्कथं तद्भक्त्या मोक्षः स्यादिति । आसीद्यदुदरात्
पद्ममित्यादिना [भागवतम् २.८.८] तत्राह आत्मतत्त्वविशुद्ध्य्अर्थमिति ।
आत्मनो जीवस्य तत्त्वविशुद्ध्य्अर्थं तत्त्वज्ञानार्थं तद्भवेदेव । किं
तद्यत्तप्आदिना स्वभजनं भगवान् ब्रह्मण आह । किं कुर्वन्, ऋतं
सत्यं चिद्घनं रूपं दर्शयन् । दर्शने हेतुरव्यलीकेन तपसादृतः
सेवितः सन् । अयं भावः । जीवस्याविद्यया मिथाभूतदेहसम्बन्धः ।
ईश्वरस्य तु योगमायया चिद्घनविग्रहाविर्भाव इति महान् विशेषः । अतस्
तद्भजने म्क्सोपपत्तिरिति । इत्येषा ॥

अतएव, स त्वं त्रिलोकस्थितये [भागवतम् १०.३.१७१८][*Eण्ड्ण्Oट्E ॰११] इत्यादिद्वये
श्रीमद्आनकदुन्दुभिनापि समाहितम् । अत्र ह्ययमर्थः स
प्रपञ्चस्य सृष्टिस्थितिप्रलयकर्ता त्वं त्रिलोकस्थितये यदा तस्य स्थितम्
इच्छसि । तदा स्वमायया स्वाश्रितया मायाशक्त्या कृत्वा आत्मनः शुक्लं
वर्णं स्वेन सृष्टां धर्मपरां विप्रादिजातिं बिभर्षि पालयसि । अत्र
सत्त्वमय्येव स्वमाया ज्ञेया निष्कृष्टत्वादुपयुक्तत्वाच्च ।

अथ यदा सर्गमिच्छसि तदा रजसा रजोमय्या स्वमायया कृत्वा उपबृंहितं
रक्तं कामिनं विप्रादिवर्णं बिभर्षि । यदा च जनात्ययमिच्छसि तदा
तमोमय्या कृत्वा कृष्णं मलिनं पापरतं तं बिभर्षि ।

अथवा यदा स्थितिमिच्छसि तदात्मनः श्रीविष्णुरूपस्य शुक्लं शुद्धं
गुणसङ्कररहितमित्यर्थः । शिवब्रह्मवत्तस्य तत्सङ्गाभावात् ।
तथैव सिद्धान्तितं श्रीशुकदेवेन शिवः शक्तियुतः शश्वत्त्रिलिङ्गो
गुणसंवृतः [भागवतम् १०.८८.३] इत्यादौ, हरिर्हि निर्गुणः साक्षात्पुरुषः
प्रकृतेः परः [भागवतम् १०.८८.५] इत्यादि । अतएव

चन्द्रिकाविशदस्मेरैः
सारुणापाङ्गवीक्षितैः ।
स्वकार्थानामिव रजः
सत्त्वाभ्यां स्रष्ंृपालकाः ॥ [भागवतम् १०.१३.५०] इति ।

अत्र सात्त्विकत्वराजसत्त्वे उत्प्रेक्षिते एव, न तु वस्तुतया निरूपिते । वर्णं
रूपं, न तु कान्तिमात्रम् । गुणमयत्वस्वीकारेऽपि तत्तद्गुण
व्यञ्जकाकारस्याप्यपेक्ष्यत्वात्न तु श्वेतं वर्णमिति व्याख्येयम् । श्री
विष्णुरूपस्य पालनार्थं गुणावतारस्य परमात्मसन्दर्भे क्षीरोद
शायित्वेन स्थापयिष्यमाणस्य तत्र श्यामत्वेनातिप्रसिद्धेः । जनात्यय
हेतो रुद्रस्य श्वेततातिप्रसिद्ध्या तद्वैपरीत्यपातात् ।

तथैव हि गोभिलोक्तसन्ध्योपासनायाम् अतोऽत्र ब्रह्मणो न शोणवर्णत्वे
तात्पर्यम् । न च तत्तद्गुणानां तत्तद्वर्णनियमः । परमतामसानां
बकादीनां श्यामत्वश्रवणात् । स्वमायया भक्तेषु कृपया बिभर्षि जगति
धारयसि प्रकटयसीत्यर्थः । रक्तं रजोमयत्वेन सिसृक्सादिराग
बहुलम् । कृष्णं तमोमयत्वेन स्वरूपप्रकाशरहितमित्यर्थः ।

पार्थिवाद्दारुणो धूमस्
तस्मादग्निस्त्रयीमयः ।
तमसस्तु रजस्तस्मात्
सत्त्वं यद्ब्रह्मदर्शनम् ॥ [भागवतम् १.२.२४] इत्युक्तेः ।

ननु, कथमन्यार्थेन वाक्येन लोकभ्रामकं वर्णयसि, यतः सम्प्रति
जनात्ययआर्थं कृष्णोऽयं वर्णो मया तमसा गृहीत इत्यर्थोऽप्यायाति तद्
एतदाशङ्क्य परिहरन्नाह त्वमस्य इति [भागवतम् १०.३.२१][*Eण्ड्ण्Oट्E ॰१२]
। निर्व्यूह्यमाना इतस्ततश्चाल्यमानाः । अयं भावः आस्तां तावद्ब्रह्म
घनत्वशुद्धसत्त्वमयत्वबोधकं प्रमाणान्तरं, गुणानुरूप
रूपाङ्गीकारेऽपि यथा प्रलयस्य दुःखमात्रहेतुत्वात्सुषुप्तिरूपत्वाच्च
तत्र तद्अर्थावसरो भवति तथास्य तु कालस्य त्वकृतरक्षया जगत्सुख
हेतुत्वात्तमोमयासुरविनाशयोग्यत्वात्तेषामसुराणामपि हनन
व्याजेन सर्वगुणातीतमोक्षात्मकप्रसादलाभात्तद्अर्थावसरो न
भवति, सैन्धवमानवेतिवत् । तथैवोक्तम्

जयकाले तु सत्त्वस्य देवर्षीन् रजसोऽसुरान् ।
तमसो यक्षरक्षांसि तत्कालानुगुणोऽभजत् ॥ इति [भागवतम् ७.१.८]

तस्मान्न तमःकृतोऽयं वर्ण इति रजःसत्त्वाभ्यां रक्तशुक्लावेव
भवत इति पूर्वपक्षिमतम् । ततश्च पारिशेष्यप्रमाणेन स्वरूपशक्ति
व्यञ्जितत्वमेवात्रापि पर्यवस्यति इति भावः । तथैव तमेवार्थं श्री
देवकीदेव्यपि सम्भ्रमेण प्रागेव विवृतवती रूपं यत्तत्प्राहुर्…
अव्यक्तमाद्यामिति [भागवतम् १०.३.२४] ।

अथ प्रकृतमनुसरामः । तथा गुणस्य वैलक्षण्यमात्मारामाणामप्य्
आकर्षणलिङ्गगम्याद्भूतरूपत्वम् । तद्यथा श्रीसूतोक्तौ
आत्मारामाश्च मुनय [भागवतम् १.७.१०] इत्यादौ । हरेर्गुणाक्षिप्तमतिर्[भागवतम्
१.७.११] इत्यादि च । अतएवोक्तं विष्णुधर्मोत्तरे

गुणाः सर्वेऽपि युज्यन्ते ह्यैश्वर्यात्पुरुषोत्तमे ।
दोषाः कथञ्चिन्नैवात्र युज्यन्ते परमो हि सः ॥
गुणदोषौ माययैव केचिदाहुरपण्डिताः ।
न तत्र माया मायी वा तदीयौ तौ कुतो ह्यतः ॥
तस्मान्न मायया सर्वं सर्वमैश्वर्यसम्भवम् ।
अमायो हीश्वरो यस्मात्तस्मात्तं परमं विदुः ॥ इति ॥

अथ न विद्यते इत्यस्य प्रकृतश्लोकस्य व्याख्यातावशेषः । तदेवं
स्वरूपशक्तिविलासरूपत्वेन तेषां प्राकृताद्वैलक्षण्यं साधितम् । तत्र
आशङ्कते ।

ननु भवन्तु स्वस्वरूपभूतान्येव तानि तथापि स्वरुपस्यैव पूर्णत्वात्
तत्तत्प्राप्तौ किं प्रयोजनं तत्राह लोकाप्ययसम्भवाय । लोको भक्त
जनः तस्याप्ययः संसारध्वंसस् तत्पूर्वकः सम्भवो भक्तिसुख
प्राप्तिः । भू प्राप्तौ तदर्थमेतदप्युपलक्षणं नित्यपार्षदानाम्
अपि भक्तिसुखोत्कर्षार्थम् । तदुक्तं श्रीमद्अर्जुनेन प्रथमे

तथायं चावतारस्ते भुवो भारजिहीर्षया ।
स्वानां चानन्यभावानामनुध्यानाय चासकृत् ॥ इति [भागवतम् १.७.२५] ।

अस्यार्थः यथान्ये पुरुषादयोऽवतारास्तथायं चावतारः साक्षाद्
भगवतः श्रीकृष्णाख्यस्य तवैव प्राकट्यं, परमभक्ताया भुवो
भारजिहीर्षया जातोऽपि । अन्येषां स्वानां भक्तानामसकृच्च मुहुरप्य्
अनुध्यानाय निजभजनसौख्याय भवति ।

ननु तर्हि भक्तसौख्यमेव प्रयोजनं जातमिति पूर्णानन्दस्य तस्येह
प्रयोजनमतिः कुत इत्येतत्कथमुपपद्येत । तत्राह अनन्यभावानाम्
इति । अन्यथा सर्वज्ञशिरोमणेर्निर्दोषस्य तस्य तन्मात्रापेक्षकानां
तेषामुपेक्षायामकारुण्यदोषः प्रयुज्येत इति भावः । आत्मारामेऽपि
कारुण्यगुणावकाशो गुणा विरुद्धा अपि तु समाखार्याश्च सर्वत इति
स्मरणात्विचित्रगुणनिधाने श्रीभगवत्येव सम्भवति । ततोऽन्यत्र तु
सञ्चरिततद्गुणांशे तदीय एव यः प्रतिपदमेव साश्चर्यं श्रुत्य्आदिभिर्
उच्चैर्गीयते । यश्चाविरिञ्चिमापामरजनमाकर्षन्नेव वर्तते । तद्
उक्तं स्वयमेव

भजतोऽपि न वै केचिद्भजन्त्यभजतः कुतः ।
आत्मारामा ह्याप्तकामा अकृतज्ञा गुरुद्रुहः ॥

नाहं तु सख्यो भजतोऽपि जन्तून्
भजाम्यमीषामनुवृत्तिवृत्तये ॥ इत्यादि [भागवतम् १०.३२.१९२०] ।

तस्मात्परमसमर्थस्य तस्य कृपालक्षणं भक्तजनसुख
प्रयोजनकत्वं नाम कोऽपि स्वरूपानन्दविलासभूतपरमाश्चर्य
स्वभावविशेष इति मूलपद्येऽप्यनुकालमृच्छतीत्यनेनैव [भागवतम् ८.३.८]
दर्शितम् । अतः प्रयोजनान्तरमतित्वं तु तस्मिन्नास्त्येव । तत्
प्रयोजनत्वं च तस्य परमसमर्थस्यानन्दविलास एवेति दिक् । यथोक्तम्

कृपालोरसमर्थस्य दुःखायैव कृपालुता ।
समर्थस्य तु तस्यैव सुखायैव कृपालुता ॥ इति ॥

गजेन्द्रः श्रीहरिम् ॥ ४९ ॥

[५०]

तस्मादपाणिपादश्रुतेरपि यदनन्तस्वप्रकाशानन्दविग्रह एव
भगवति तात्पर्यं नान्यत्रेति प्रतिपादयन्ति ।

त्वमकरणः स्वराडखिलकारकशक्तिधरस्
तव बलिमुद्वहन्ति समदन्त्यजयानिमिषाः ।
वर्षभुजोऽखिलक्सितिपतेरिव विश्वसृजो विदधति
यत्र ये त्वधिकृता भवतश्चकिताः ॥ [भागवतम् १०.८७.२८]


अयमर्थः । अत्र करणं नाम वास्यादिवत्कर्तृशक्तिप्रेरिततया
कार्यकरं कर्तुर्भिन्नतमं केवलकरणत्वापन्नमेव वस्त्वङ्गीकृतं,
न तु स्वरूपत्वापन्नमपि यत्तदपि । यथा दहनादौ तच्छक्त्यादिकम्
। गौणार्थत्वात्स्वराट्पदनिरुक्तौ स्वेनेति तृतीयान्तपदस्य स्वरूप
शक्तावेव पर्यवसानाच्च । ततो जीवस्य चिद्रूपत्वात्पाण्यादीनां स्वतो
जडत्वात्तद्अधीनशक्तीनां तेषां भिन्नतमानां करणत्वं
मुख्यार्थमेव । ततोऽसौ तद्आसक्तत्वात्सकरणः त्वं तु तद्अन्तर्यामी
तद्अनासक्तत्वात्तद्अनपेक्षो यतः स्वराट्स्वरूपशक्त्यैव राजसे इति ।
तथा प्रलयकालावसाने ।

स्त्रिय उरुगेन्द्रभोगभुजदण्डविषक्तधियो
वयमपि ते समाः समदृशोऽङ्घ्रिसरोजसुधाः ॥ [भागवतम् १०.८७.२३]

इति विद्वद्गणगुरुभिरस्माभिरपि निजालम्बनत्वेन वर्ण्यमानपरम
दिव्यकरणगणविचित्रोऽप्यसौ अकरण एव । कुतः स्वराट्स्वेन स्वरूप
शक्तिविशेषसिद्धप्रादुर्भावविशेषेषेण स्वरूपेणैव तत्तत्करणतया
राजसे । तेषां स्वरूपभूतत्वेन मुख्यकरणत्वायोगादिति भावः ।
अन्यथौपाधिकवस्तुद्वारा तवापि प्रकाशे कथं नाम स्वराट्त्वं
सिध्येदिति च ।

आनन्दमात्रमजरं पुराणमेकं सन्तं बहुधा दृश्यमानं नेह
नानास्ति किञ्चन इत्यादि श्रुतेः [Bआऊ ४.४.१९] । आनन्दमात्रकरपाद
मुखोदरादिरित्यादि स्मृतेश्[णार्ড়ञ्च्] च ।

ननु, मयि तथाभूतस्वरूपशक्तीनामस्तितायां किं प्रमाणम् । तत्राहुर्
अखिलकारकशक्तिधर इति । अखिलेभ्यः प्राणिभ्यः कारकाणि करणानि
चकुषुर्आदिगोलकानि तेषु शक्तीश्चेन्द्रियाणि धरसि ददासीति तथा । सर्वेषु
तेषु तत्तद्धारणात् । तास्तु त्वयि स्वतःसिद्धा अव्ययाः पूर्णा एव सन्तीति
भावः । तथा च श्रुतिः प्राणस्य प्राणमुत चक्षुषश्चक्षुरिति आद्या
[Kएनऊ १.२] । स्वाभाविकी ज्ञानबलक्रिया च इत्याद्या च [श्वेतू ६.८] ।

तदुक्तमेकादशे

यस्येन्द्रियस्तनुभृतामुभयेन्द्रियाणि
ज्ञानं स्वतः श्वसनतो बलभोज ईहा ॥ इति [भागवतम् ११.४.४]

अतएव विकरणत्वान्नेति चेत्तदुक्तमित्य्[Vस्२.१.३२] अत्र सूत्रकारोऽपि तद्
उक्तमित्यनेन श्रुतेस्तु शब्दमूलत्वादित्य्[Vस्. २.१.२७] उक्तरीत्यैव श्रुत्य्
एकगम्यं तर्कातीतं तस्य विकरणत्वं सकरणत्वं च साधितवान् । श्रुतिश्
च न तस्य कार्यं करणं च विद्यते इत्य्[श्वेतू ६.८] आद्या ।

अथवा, अखिलकारकशक्तिधरोऽपि त्वमसावकरण एवेत्यन्वयः । कुतः
? स्वराडित्यादि । अतः सर्वतो विलक्षणमहिमत्वादनिमिषा देवा
इन्द्रादयस्तत्पूज्या विश्वसृजो ब्रह्मादयोऽपि तव तुभ्यं बलिमुपहारं
तदुच्चैः शिरोभिर्वहन्ति । अजया तेषामधिकारिण्या माययापि सहिताः ।

सापि आभासशक्तिरूपा स्वरूपानन्दशक्तिमयाय तुभ्यमात्मसम्पद्
उद्भावार्थं बलिम् हरतीत्यर्थः । समदन्ति च मौष्यैर्दत्तं हव्य
कव्य्आदिलक्षणं बलिं भक्षयन्ति च । अत्र दृष्टान्तः वर्षभुज इति ।
वर्षं खण्डमण्डलम् ।

कथं बलिमुद्वहन्ति ? तदाहुः विदधतीति । त्वाज्ञापालनमेव बलि
हरणमित्यर्थः । भीषास्माद्वातः पवते भीसोदेति सूर्यः भीषास्माद्
अग्निश्चेन्द्रश्च मृत्युर्धावति पञ्चमः इति [Kअठ २.३.३] श्रुतेः ।

अथवा, ननु मम पाण्य्आदिकरणानां स्वरूपभूतत्वे युक्ति कथयत्यत
आहुः अनिमिषाः करणाधिष्ठातृदेवास्तव बलिमुद्वनतीति । आज्ञान
देवत्वाद्विश्वसृजः विश्वेषां सृष्टिहेतवः । अन्ये तत्तद्अधिष्ठातृ
देवताश्रयादेव करणैर्विषयं प्रकाशयितुं शक्नुवन्ति । त्वं पुनस्
तेषामप्याश्रय इति त्वत्करणानां स्वप्रकाशतापत्तेः स्वरूपभूतत्वम्
एवेति ।

अथाप्यास्तां महाशक्तिर्मायैवाश्रय इत्यत आहुः अजयेति । ननु जीवा अपि
निजेन्द्रियाधिष्ठातातॄणामाश्रया भवन्ति । तत्राहुः विदधतीति । विषय
भोगद्वारेएष्विन्द्रियेषु भवता विश्वपतिना दत्ताधिकाराणां देवानाम्
एवाधिकार्याः कतिपयग्रामभौमिका इव जीवा इति न तेषामाश्रयाः ।
किन्तु भवानेव तेषामधिकारकत्वादाश्रय इति भावः ॥

१०।८७॥ श्रुतयः श्रीभगवन्तम् ॥५०॥

[५१]

तस्माद्विलक्षणपाणिपादादित्वेनैवापाणिपादादित्वम् । यथाह

त्वक्श्मश्रुरोमनखकेशपिनद्धमन्तर्
मांसास्थिरक्तकृमिविट्कफपित्तवातम् ।
जीवच्छवं भजति कान्तमतिविमूढा
या ते पदाब्जमकरन्दमजिघ्रती स्त्री ॥ [भागवतम् १०.६०.४५]

अथ श्रीभगवति केशादीनां श्रूयमाणानामानन्दस्वरूपत्वमन्येषां
त्वभाव एवेति वैलक्षण्यं स्पष्टमेव । अतएव हि हिरण्यकशिपुं प्रति
तन्मारकजननिषेधलक्षणब्रह्मवरदानमपि सङ्गच्छते ।
व्यसुभिर्वासुमद्भिर्वा सुरासुरमहोरगैरिति [भागवतम् ७.३.३७] । न चैतत्
करणस्य निषेधपरं, किन्तु कर्तुरेव । कर्तृप्रकरणातप्राणिभिः
प्राणिभिर्वेत्युक्तेस्तस्यैव प्राप्तत्वात् । हन्तुर्जीवद्[*Eण्ड्ण्Oट्E ॰१३]
देहसाम्येऽपि सप्राणभागान्निष्क्रान्तस्य कर्तनीय[*Eण्ड्ण्Oट्E ॰१४]
नखाग्रभागस्य त्यक्तप्राणत्वाच्च ।

तस्मादस्माकमप्राणो ह्यमनाः शुभ्र इति । अस्य महतो भूतस्य
निःश्वसितमेतदिति [Bआऊ २.४.१०] च श्रुतिर्नासङ्गतेति । अतएव वाराहे

न यस्य प्राकृता मूर्तिर्मेदोमज्जास्थिसम्भवा ।
न योगित्वादीश्वरत्वात्सत्यरूपोऽच्युतो विभुर् ॥ इति ॥

तच्चाप्राकृतमूर्तित्वं तस्य महायोगित्वादिच्छाकृतमिति न, किन्त्व्
ईश्वरत्वान्नित्यमेवेत्यर्थः । तथा च प्रयोगः । ईश्वरः सविग्रहः
ज्ञानेच्छाप्रयत्नवत्कर्तृत्वात्कुलालादिवत् । स च विग्रहो नित्यः ईश्वर
करर्णत्वात्तज्ज्ञानादिवदिति । अतएव विलक्षणत्वमपि । जीवच्छवमिति
चैतन्ययोगेन जीवन्तं स्वतस्तु शवम् । ततः श्रीभगवद्विग्रहस्तु चिद्
एकरसत्वात्सदा जीवन्नेवेति वैलक्षण्यं युक्तं नित्यानन्दचिद्रूपत्वाद्
भजनीयत्वं च युक्तमिति भावः ॥

॥ १०.६० ॥ श्रीरुक्मिणी श्रीभगवन्तम् ॥५१॥

[५२]

नामरूपित्वविधिनिषेधश्रुतिभिर्विवदमानानां विवादावसरे तदेव
ह्यपपादयति ।

अस्तीति नास्तीति च वस्तुनिष्ठयोर्
एकस्थयोर्भिन्नविरुद्धधर्मणोः
अवेक्षितं किञ्चन योगसाङ्ख्ययोः
समं परं ह्यनुकूलं बृहत्तत् ॥ [भागवतम् ६.४.३२]

अस्तीति योगः स्थूलोपासनाशास्त्रं, तत्र हि यद्भगवतो नामरूपित्वं
श्रूयते तद्दृष्टकल्पनालाघवात्घटपटादिलक्षणाखिलनाम
धेयत्वं पातालपादादिकत्वं चेति विधीयते । नास्तीति साङ्ख्यं ज्ञान
शास्त्रं तत्र हि निषेधश्रुतिभिस्तस्य नामरूपित्वं यन्निषिध्यते तत्
प्रापञ्चिकनामरूपित्वस्य कल्पितत्वात्सर्वथैव नास्तीति निश्चीयते । तद्
उक्तमुभयमतस्यैव प्राक् । स सर्वनामा स च विश्वरूपः इत्यादिना
यद्यन्निरुक्तं वचसा निरूपितमित्यादिना च [भागवतम् ६.४.२८२९] ।

अस्तीति नास्तीति च वस्तुनि निष्ठा ययोः । तमेव विवादं स्फुटयति, भिन्नौ
अस्तीति नास्तीत्येवम्भूतौ विरुद्धौ धर्मौ ययोस्तयोः ।

नन्वास्तामनयोर्भिन्नविषयत्वं नेत्याह एकस्थयोः समानविषयोः ।
तदेवं विवादे सति यत्किञ्चित्समं समञ्जसत्वेनैव अवेक्षितं प्रतीतं
वस्तु तद्द्वयोरपि बृहन्महदनुकूलं भवति । किं तत्समञ्जसं ? यत्
परं नामरूपादत्यन्ततद्अभावाच्च विलक्षणं किमपि नामरूप
लक्षणमेव वस्त्वित्यर्थः ।

एतदुक्तं भवति । एकस्मिन्नेव वस्तुनि नामरूपित्वविधिनिषेधाभ्यां
परस्परं श्रुतयः पराहतार्थाः स्युः । अत्र तु परत्वेनोभयत्रापि
प्राक्तनयुक्त्या समञ्जसमप्राकृतनामरूपित्वमेव विधिनिषेध
श्रुतितात्पर्येनोपस्थाप्यत इति तत्तन्मतं विवादमात्रम् ।

इत्थमेवात्र श्रीध्रुवेण निर्विवादत्वमुक्तम्

तिर्यङ्नगद्विजसरीसृपदेवदैत्य
मर्त्यादिभिः परिचितं सद्असद्विशेषम्
रूपं स्थविष्ठमज ते महद्आद्य्अनेकं
नातः परं परम वेद्मि न यत्र वादः ॥ इति [भागवतम् ४.९.१३] ।

अत्र रूपशब्दस्यैवोभयत्र विशेष्यत्वेन । भूप रूपमरूपं च परं
चापरमेव च इति [Vइড়् ६.७.४७] वैष्णववाक्यानुसारेण च । अतः परं
चतुर्भुजादित्वलक्षणं रूपं वपुरित्यर्थः । तच्चाग्रे दर्शयिष्यते ।

[५२]

तन्न वेद्मि एतत्पर्यन्तं कालं नाज्ञासिषमित्यर्थः । तदेव व्यनक्ति ।

योऽनुग्रहार्थं भजतां पादमूलम्
अनामरूपो भगवाननन्तः ।
नामानि रूपाणि च जन्मकर्मभिर्
भेजे स मह्यं परमः प्रसीदतु ॥ [भागवतम् ६.४.३३]

यो नामरूपरहित एव नामानि रूपाणि च भेजे प्रकटितवान् । जन्म
कर्मभिः सह तानि च प्रकटितवानित्यर्थः । व्यतिरेके दोषमाह अनन्त
इति । यदि तस्मिन्नामरूपित्वादिकं नास्ति तर्हि तच्छक्तिमत्त्वं प्रति
सान्तत्वमेव प्रसज्येतेति । तदुक्तं प्रचेतोभिः न ह्यन्तस्त्वद्
विभूतीनां सोऽनन्त इति गीयसे इति [भागवतम् ४.३०.३१] । तत्तत्प्रकाशने हेतुः ।
भगवान् भगात्मकशक्तिमान् । तस्याः शक्तेर्मायात्वम् निषेधति
परमः । पराख्यशक्तिरूपा मा लक्ष्मीर्यस्मिन् । अन्यथा परमत्व
व्याघातः स्यादिति भावः ।

तस्मान्न मायया सर्वं सर्वमैश्वर्यसम्भवम् ।
अमायो हीश्वरो यस्मात्तस्मात्तं परमं विदुः ॥ इत्युक्तेः ।

ननु, सर्वनामविश्वरूपत्वे तद्राहित्ये च सन्त्येव तत्तद्उपासकाः
प्रमाणम् । अत्र तु के स्युरित्याशङ्क्याह पादमूलं भजताम्
अनुग्रहार्थमिति । योगसाङ्ख्ययोस्तत्तत्त्वं न सम्यक्प्रकाशते, किन्तु
भक्तावेव । भक्तिरेवैनं दर्शयति इत्यादि श्रुतेः । तस्माद्युक्तं तयोर्
विवादमात्रत्वमिति भावः । अतएव वक्ष्यतेऽनन्तरमेव

इति संस्तुवतस्तस्य स तस्मिन्नघमर्षणे ।
प्रादुरासीत्कुरुश्रेष्ठ भगवान् भक्तवत्सलः ॥
कृतपादः सुपर्णांस इत्यादेः [भागवतम् ६.४.३५६]

पादमूलं भजतामित्यनेन तान् प्रति रूपप्राकट्यात्पूर्वमपि रूपम्
अस्त्येवेति व्यञ्जितम् । चरणं पवित्रं विततं पुराणमित्यादि श्रुतेः । भेज
इत्यतीतनिर्देशः प्रामाण्यदार्ढ्यायानादित्वं बोधयति । अनन्तपदस्य
च नामानि रूपाणि चानन्तान्येवेति भावः । अत्र प्राकृतनामरूपरहितोऽपि
इति टीका च ॥

॥ ६.४ ॥ दक्षः श्रीपुरुषोत्तमम् ॥५२॥

[५३]

तदेवं नित्यत्वाद्विभुत्वात्सर्वाश्रयत्वात्स्थूलसॣक्ष्माप्राकृतवस्त्व्
अतिरिक्तत्वात्प्रत्यरूपत्वात्स्वप्रकाशत्वात्सर्वश्रुतिसमन्वयसिद्धत्वात्
तद्रूपं परमतत्त्वरूपमेवेति सिद्धम् । तथैव हि परम्
वैदुष्येणानुभूतं स्पष्टमेवाह त्रिभिः

रूपं यदेतदवबोधरसोदयेन
शश्वन्निवृत्ततमसः सद्अनुग्रहाय ।
आदौ गृहीतमवतारशतैकबीजं
यन्नाभिपद्मभवनादहमाविरासम् ॥

नातः परं परम यद्भवतः स्वरूपम्
आनन्दमात्रमविकल्पमविद्धवर्चः ।
पश्यामि विश्वसृजमेकमविश्वमात्मन्
भूतेन्द्रियात्मकमदस्त उपाश्रितोऽस्मि ॥

तद्वा इदं भुवनमङ्गल मङ्गलाय
ध्याने स्म नो दर्शितं त उपासकानाम् ।
तस्मै नमो भगवतेऽनुविधेम तुभ्यं
योऽनादृतो नरकभाग्भिरसत्प्रसङ्गैः ॥[भागवतम् ३.९.२४]

टीका च ननु त्वमपि सम्यक्न जानासि यत्त्वया दृष्टं रूपमेतदपि
गुणात्मकमेव निर्गुणं ब्रह्मैव तु सत्यं तत्राह रूपमिति द्वाभ्याम्
। अवबोधरसोदयेन शश्वन्निभृतं तमो यस्मात्तस्य तव यदेतद्
रूपं त्वयैव स्वातन्त्र्येण सतामुपासकानामनुग्रहाय गृहीतम्
आविष्कृतम् । अवतारशतस्य शुद्धसत्त्वात्मकस्य यदेकं बीजं मूलम्,
तत्प्रकाशनार्थं गुणावतारबीजत्वं दर्शयति यन्माभातीति । हे परम
अबिद्धवर्चः अनावृतप्रकाशमविकल्पं निर्भेदमतएवानन्दमात्रम्
। एवम्भूतं यद्भवतः स्वरूपं तततो रूपात्परं भिन्नं न पश्यामि
किन्तु इदमेव तत् । अतः कारणात्ते तव अद इदं रूपमाश्रितोऽस्मि ।
योग्यत्वादपीत्याह एकमुपास्येषु मुख्यं यद्विश्वसृजम् । अतएव
अविश्वं विश्वस्मादन्यत् । किं च, भॣतेन्द्रियात्मकं भूतानामिन्द्रियाणां
चात्मानं कारणमित्यर्थः ।

नन्वेवमपि सोपाधिकमेतदर्वाचीनमेवेत्याशङ्क्याह तदेवेदं हे
भुवनमङ्गल यतस्ते त्वया अस्माकमुपासकानां मङ्गलाय ध्याने
दर्शितम् । न ह्यव्यक्तवर्त्माभिनिवेशितचित्तानामस्माकं सोपाधिकं
दर्शनं युक्तमिति भावः । अतस्तुभ्यं नमोऽनुविधेम अनुवृत्त्या
करवाम । तर्हि किमिति केचिन् मां नाद्रियन्ते, तत्राह योऽनादृत इति । असत्
प्रसङ्गैर्निरीश्वरकुतर्कनिष्ठैः । इत्येषा ॥

अत्र कल्पितमप्यर्थान्तरं यस्य विद्वद्गुणगुरुत्वान्न सम्भवत्य्
एवेति व्यञ्जितम् । न ह्यव्यक्तवर्त्मेति । उक्तं चैतत्स्तुतितः प्राकव्यक्त
वर्त्माभिनिवेशितात्मा [भागवतम् ३.८.३३] इति । मां नाद्रियन्ते इति विग्रहरूपं माम्
इत्येवार्थः । विग्रह्यैव परब्रह्मत्वेन स्थापितत्वात् । अतएव ये विग्रहम्
एतादृशतया न मन्यन्ते ते विद्वदनुभवविरुद्धमतयो नेश्वरमपि
मन्यन्त इत्यत आह निरीश्वर इति । यत एव

ये तु त्वदीयचरणाम्बुजकोषगन्धं
जिघ्रन्ति कर्णविवरैः श्रुतिवातनीतम् ।
भक्त्या गृहीतचरणः परया च तेषां
नापैषि नाथ हृदयाम्बुरुहात्स्वपुंसाम् ॥ [भागवतम् ३.९.५]

इत्यनन्तरपद्ये तुशब्देन योऽनादृत इत्य्आद्य्उक्तेभ्यो बहिर्मुख
जनेभ्यो विलक्षणत्वेन निर्दिष्टानां तादृशश्रीभगवद्रूपनिष्ठानाम्
एव श्रुतिवातनीतमिति शब्देन प्रमाणेन भक्त्या गृहीतचरण इत्य्
अनुभवेन च प्राशस्त्यमुक्तम् ॥ ३.९ ॥ ब्रह्मा श्रीनारायणम् ॥५३॥

[५४]

आवेशावतारतया प्रतीतस्य श्र्यृषभदेवस्यापि विग्रह एवं योज्यते, यथा


इदं शरीरं मम दुर्विभाव्यं
सत्त्वं हि मे हृदयं यत्र धर्मः ।
पृष्ठे कृतो मे यदधर्म आराद्
अतो हि मामृषभं प्राहुरार्याः ॥ [भागवतम् ५.५.१९]

इदं मनुष्याकारशरीरं हि निश्चितं दुर्विभाव्यं दुर्वितर्क्यं यत्तत्त्वं
तदेव । यत्रैव धर्मो भागवतलक्षणस्तत्रैव मे हृदयं मनः । यद्
यस्मात्तद्विपरीतादिलक्षणोऽधर्मो मया पृष्ठे कृतः । ततः पराङ्
मुखोऽहमित्यर्थः । अतएव वक्तुरस्य ऋषभदेवस्य च सर्वान्तिमलीलापि
व्याजेनान्तर्धानमेव प्राकृतलोकप्रतीत्य्अनुसारेणैव तु तथा वर्णितम्
। आत्मारामतारीतिदर्शनार्थम् । तदुक्तम् योगिनां साम्परायविधिम्
अनुशिक्षयनिति [भागवतम् ५.६.६] । अतः स्वकलेवरं जिहासुरित्यत्र कएवर
शब्दस्य प्रपञ्च एवार्थः । उपासनाशास्त्रे तस्य तथा प्रसिद्धेः ।

तथा अथ समीरवेगविधूतवेणुविकर्षणजातोग्रदावानलस्तद्
वनमालेलिहानः सह तेन ददाह इत्य्[भागवतम् ५.६.८] अस्य वास्तवार्थे तु तेन
सहेति कर्तृसाहाय्ये तृतीया । गौणमुख्यन्यायेन कर्तर्येव प्राथमिक
प्रवृत्तेः । ततश्च दावानलस्तद्वनवर्तितर्वादिजीवानां स्थूलं देहं
ददाह, ऋषभदेवस्तु सूक्ष्मं देहमिति तस्य सर्व्=मोक्सदत्वम्
अनुसन्धेयम् ।

स यैः स्पृष्टोऽभिदृष्टो वा संविष्टोऽनुगतोऽपि वा ।
कोसलास्ते ययुः स्थानं यत्र गच्छन्ति योगिनः ॥ [भागवतम् ९.११.२२] इतिवत् ।

ततोऽनलसाधर्म्यं वर्णयित्वा तद्वदन्तर्धानमेव तस्येति च व्यञ्जितम्
। अतएव ऋषभदेवाविर्भावस्तृतीयोऽध्याय इत्येवोक्तं न तु तज्जन्मेति ॥
५।५॥ श्र्यृषभदेवः स्वपुत्रान् ॥५४॥

[५५]

तदेवमृषभस्यापि विग्रहे तादृशता चेत्किमुत स्वयं भगवत इत्याह


मुनिगणनृपवर्यसङ्कुलेऽन्तः
सदसि युधिष्ठिरराजसूय एषाम् ।
अर्हणमुपपेद ईक्षणीयो
मम दृशिगोचर एष आविरात्मा ॥ [भागवतम् १.९.४१]

टीका च एष जगतामात्मा मम दृशिगोचरो दृष्टिपथः सन्नाविः
प्रकटो वर्तते । अहो भाग्यमिति भावः इत्येषा ॥ १।९॥ श्रीभीष्मः श्री
भगवन्तम् ॥५५॥

[५६]

तथैव च रूपं यत्तदित्यादौ स त्वं साक्षाद्विष्णुरध्यात्मदीपः
[भागवतम् १०.३.२४] इति ।[*Eण्ड्ण्Oट्E ॰१५]

यत्तत्किमपि रूपं वस्तु प्राहुर्वेदाः । किं तद्वस्तु, तदाह अव्यक्तम्
इत्यादि । एवम्भूतं किमपि कार्यकल्पं वस्तु यत्स एव साक्षादैषि
गोचरस्त्वं विष्णुरिति । तथा च पाद्मे निर्माणखण्डे श्रीभगवन्तं
प्रति श्रीवेदव्यासवाक्यम्

त्वामहं द्रष्टुमिच्छामि चक्षुर्भ्यां मधुसूदन ।
यत्तत्सत्यं परं ब्रह्म जगद्योनिं जगत्पतिम् ।
वदन्ति वेदशिरसश्चाक्षुषं नाथ मेऽस्तु तद् ॥ इति ।

तत्र हेतुः अध्यात्मदीपः देहि तत्कारणकार्यसङ्घ
प्रकाशकत्वेनावभासन इत्यर्थः । एवम्भूतस्य न तव भयशङ्केति
भावः । इत्येष प्रकरणानुरूपः श्रीस्वामिदर्शितभावार्थोऽपि श्री
विग्रहपर एव । अन्यत्र भयसम्भावनानुत्पत्तेः ॥

१०.३ श्रीदेवकी श्रीभगवन्तम् ॥५६॥

[५७]

अतस्तद्अंशानामपि तादृशत्वमाह

सत्यज्ञानानन्तानन्द
मात्रैकरसमूर्तयः ।
अस्पृष्टभूरिमाहात्म्या
अपि ह्युपनिषद्दृशाम् ॥ [भागवतम् १०.१३.५४]

टीका च सर्वेषां मूर्तिमत्त्वेऽप्यविशेषमाह सत्यज्ञानेति । सत्याश्च
ज्ञानरूपाश्च अनन्ताश्च आनन्दरूपाश्च । तत्रापि तद्एकमात्रा विजातीय
सम्भेदरहिताः । तत्रापि च एकरसाः सदैकरूपा मूर्तयो येषां ते । यद्
वा सत्यज्ञानादिमात्रैकरसं यद्ब्रह्म तदेव मूर्तिर्येषामिति । अतएव
उपनिषतात्मज्ञानं सैव दृक्चक्षुर्येषां तेषामपि हि निश्चितम् ।
अस्पृष्टभूर्माहात्म्याः न स्पृष्टं स्पर्शयोग्यं भूरिमाहात्म्यं
येषां ते तथाभूताः सर्वे व्यदृश्यन्तेति । इत्येषा ।

अत्र मात्रपदं तद्वर्णादीनां स्वरूपान्तरङ्गधर्मत्वं बोधयति ।
न ह्यत्रापरस्मिन्नर्थे मूर्तिशब्दः केवलात्मपर इति स्वामिनः श्री
शुकदेवस्य वा मतम्, लक्षणायाः कष्टकल्पनामयत्वात् । अस्पृष्टेत्यत्र
अस्पृष्टेति भूरिमाहात्म्येति अपीति उपनिषद्दृगिति पदचतुष्टयस्यैव
व्यस्तस्य समस्तस्य च स्वारस्यभङ्गप्रसङ्गातुक्तप्रकारानुरोधात्
तेऽचक्षताक्षविषयं स्वसमाधिभाग्यमित्यद्य्उदाहरिष्यमाणानुसारात्
[भागवतम् ३.१५.३८] स्वसुखेत्यादि [भागवतम् १२.१२.६८] श्रीशुकहृदयविरोधाच्च ।
अतएव विशुद्धविज्ञानघनं [भागवतम् १०.३७.२०] विशुद्धज्ञानमूर्तये [भागवतम्
१०.२७.२१] त्वय्येव नित्यसुखबोधतनाव्[भागवतम् १०.१४.२२] इत्यादि वाक्यानि च
न लाक्षणिकतया कदर्थनीयानि ।

तथैव आनन्दमूर्तिमुपगुह्य दृशात्मलब्धमित्यादौ [भागवतम् १०.४१.२५]

दोर्भ्यां स्तनान्तरगतं परिरभ्य कान्तम्
आनन्दमूर्तिमजहादतिदीर्घतापम् । इत्यादौ [भागवतम् १०.४८.६] च
दर्शनालिङ्गनाब्यामन्यार्थत्वं व्यवच्छिद्यते । उक्तं च महावाराहे

सर्वे नित्याः शाश्वताश्च देहास्तस्य परात्मनः ।
हेयोपादेयरहिता नैव प्रकृतिजाः क्वचित् ॥
परमानन्दसन्दोहा ज्ञानमात्राश्च सर्वतः ।
देहदेहिभिदा चात्र नेश्वरे विद्यते क्वचित् ॥ इति ॥

१०.१३ ॥ श्रीशुकः ॥५७॥

[५८]

इत्थमेवाभिप्रेत्याह

कृष्णमेनमवेहि त्वमात्मानमखिलात्मनाम् ।
जगद्धिताय सोऽप्यत्र देहीवाभाति मायया ॥ [भागवतम् १०.१४.५५]

एनं नौमीड्य तेऽभ्रवपुषे इत्य्[भागवतम् १०.१४.१] आदिवर्णितरूपमवेहि मत्
प्रसादलब्धविद्वत्तयैवानुभवो न तु तर्कादीनां विचारयेत्यर्थः ।
एवम्भूतोऽपि मायया कृपया जगद्धिताय सर्वस्यापि स्वात्मानं प्रति
चित्ताकर्षणाय देहीव जीव इवाभाति क्रीडति । इवशब्देन श्रीकृष्णस्तु
जीववत्पृथग्देहं प्रविष्टवानिति गम्यते । अतएव श्रीविग्रहस्य परम
पुरुषार्थलक्षणत्वमुक्तं श्रीध्रुवेण

सत्याशिषो हि भगवंस्तव पादपद्मम्
आशीस्तथानुभजतः पुरुषार्थमूर्तेः [भागवतम् ४.९.१७] इत्यत्र ।

टीका च हे भगवन् पुरुषार्थः परमानन्दः स एव मूर्तिर्यस्य तस्य्
अतव पादपद्ममाशिषो राज्यादेः सकाशात्सत्या । आशीः परमार्थफलं
हि निश्चितं कस्य तेन प्रकारेण त्वमेव पुरुषार्थ इत्येवं निष्कामतया
अनुभ्जतः । इत्येषा ॥

१०.१४ ॥ श्रीशुकः ॥५८॥

[५९]

अतः शब्दप्रतिपाद्यं यद्ब्रह्म तच्छ्रीविग्रह एवेत्युपसंहारयोग्यं
वाक्यमाह

तावत्प्रसन्नो भगवान्
पुष्कराक्षः कृते युगे ।
दर्शयामास तं क्षत्तः
शाब्दं ब्रह्म दधद्वपुः ॥ [भागवतम् ३.२१.७]

तद्वपुर्दधत्प्रकाशयन्नसौ शुक्लाख्यो भगवान् कृते युगे वर्तते ।
तदेव शब्दप्रतिपाद्यं ब्रह्म परमतत्त्वं तं कर्दमं प्रति
दर्शयामासेत्यर्थः ॥

॥ ३.२१ ॥ श्रीमैत्रेयः ॥५९॥

[६०]

तदेवं सिद्धे भगवतस्तादृशे वैलक्षण्ये दृश्यत्वात्घटवदित्याद्य
सद्अनुमानं न सम्भवति कालात्ययोपदिष्टत्वात् । तदेतदभिप्रेत्य
तस्मिन् सत्यतापुरस्कृतं षड्भावविकाराद्यभावं स्थापयन् पूर्ण
स्वरूपत्वमभुपगच्छति ।

एकस्त्वमात्मा पुरुषः पुराणः
सत्यः स्वयं ज्योतिरनन्त आद्यः ।
नित्योऽक्षरोऽजस्रसुखो निरञ्जनः
पूर्णोऽद्वयो मुक्त उपाधितोऽमृतः ॥ [भागवतम् १०.१४.२०]

नौमीड्य ते [भागवतम् १०.१४.१] इत्यादिना स्तुत्यत्वेन प्रतिज्ञारूपोऽयमभ्र
वपुर्आदिलक्षणत्वमेक एव सर्वेषामात्मा परमाश्रयः । तदुक्तम्
एकोऽसि प्रथममिति [भागवतम् १०.१४.१८] इति च । कृष्णमेनमवेहि त्वमात्मानम्
अखिलात्मनामिति च [भागवतम् १०.१४.५५] । यतस्त्वमात्मा तत एव सत्यः ।
परमाश्रयस्य सत्यतामबलम्ब्यैवान्येषां सत्यत्वात्त्वय्येव सत्यत्वस्य
मुख्या विश्रान्तिरिति भावः । तदुक्तम् सत्यव्रतं सत्यपरमित्यादि
[भागवतम् १०.२.२६] ।

सत्ये प्रतिष्ठितः कृष्णः सत्यमत्र प्रतिष्ठितम् ।
सत्यात्सत्यं च गोविन्दस्तस्मात्सत्यो हि नामतः ॥ इत्युद्यमपर्वणि [ंBह्
५.६८.१२] च ।

न च त्वयि जन्मादयो विकाराः सन्तीत्याह आद्यः कारणम् । एकोऽसि
प्रथममित्यादौ [भागवतम् १०.१४.१८] तादृशत्वदृष्टेः । अतो न जन्म, किन्तु
प्रत्यक्षत्वं हरेर्जन्म न विकारः कथञ्चन इति पाद्मरीतिकमेव ।
अतएव स्कान्दे

अविज्ञाय परं देहमानन्दात्मानमव्ययम् ।
आरोपयन्ति जनिमत्पञ्चभूतात्मकं जडम् ॥ इति ॥

आद्यत्वे हेतुः । पुरुषः पुरुषाकार एव सन् पुराणः पुरापि नवः कार्यात्
पूर्वमपि वर्तमान इत्यर्थः । श्रुतिश्च आत्मैवेदमग्र आसीत्पुरुष
विध [आइतू १.१.१] इति । अतएव जन्मान्तरास्तित्वलक्षणं विकारं वारयति
नित्यः सनातनमूर्तिः । तथा पूर्ववन्मध्यमाकारत्वेऽपि पूर्ण इति
वृद्धिम् । अजस्रसुखो नित्यमेव सुखरूप इति परिणामम् । सुखस्य
पुंस्त्वं छान्दसं विज्ञानमानन्दं ब्रह्म [Bआऊ ३.९.२८] इत्यत्रानन्दस्य
नपुंसकत्ववत् ।

तथा अक्षर इत्यपक्षयम् । अमृत इति विनाशम् । पूर्णत्वे हेतुः । अनन्त
अद्वय इति देशकालपरिच्छेदरहितः । वस्तुपरिच्छेदरहितोऽपि । अन्यस्य
तच्छक्तित्वात्तं विनानवस्थानात् । अत्रामृतत्वोपपादनाय चतुर्विध
क्रियाफलत्वं च वारयति । तत्रोत्पत्तिराद्य इत्यनेनैव निराकृता । शिष्ट
त्रयं स्वयंज्योतिर्निरञ्जन उपाधितो मुक्त इति पदत्रयेण । तत्र च
प्राप्तिः क्रियया ज्ञानेन वा भवेत् । क्रियया प्राप्तिरात्मपदेनैव निराकृता,
सर्वप्रत्यग्रूपत्वात् । तथा ज्ञानतः प्राप्तिं वारयति । स्वयंज्योतिरिति । तद्
उक्तं ब्रह्माणं प्रति श्रीभगवता मनीषितानुभावोऽयं मम
लोकावलोकनमिति [भागवतम् २.९.२२] ।

टीका च एतच्च मत्कृपयैव त्वया प्राप्तमित्याह । मनीषितमिच्छा,
तुभ्यं दातव्यमिति या ममेच्छा तस्या अनुभावोऽयम् । कोऽसौ? तमाह
मम लोकस्यावलोकनं यत् । इत्येषा । तदुक्तम् नित्याव्यक्तोऽपि भगवान्
ईक्ष्यते निजशक्तितः । इति ।[*Eण्ड्ण्Oट्E ॰१६]

ननु, श्रीभगवतोद्धवं प्रति वासुदेवो भगवतामित्यादिकं [भागवतम्
११.१६.२९] विभूतिमध्ये गणयित्वा सर्वान्ते मनोविकारा एवैते [भागवतम् ११.१६.४१]
इत्युक्तम् । सत्यम् । तद्गणनं प्राचुर्यविवक्षया क्षत्रिणो गच्छन्तीतिवत्
। तत्रैव हि

पृथिवी वायुराकाश आपो ज्योतिरहं महान् ।
विकारः पुरुषोऽव्यक्तं रजः सत्त्वं तमः परम् ॥ इत्यत्र [भागवतम् ११.१६.३७]

परशब्देन ब्रह्मापि तन्मध्ये गणितमस्ति । तदेवं प्राप्तिर्निषिद्धा
। अथ विकृतिरपि तुषापाकरणेनावधातेन व्रीहीणामिवोपाध्यपाकरेणेन
भवेत् । तच्चासङ्गत्वान्न सम्भवेदित्याह मुक्त उपाधित इति । तदुक्तम्
विशुद्धज्ञानमूर्तये [भागवतम् १०.२७.२१] विशुद्धविज्ञानघनं [भागवतम्
१०.३७.२०] इत्यादौ च । तस्मान्मम निशितशरैर्विभिद्यमानत्वचि
इत्यादिकं तु [भागवतम् १.९.३४] मायिकलीलावर्णनमेव ।

एवं वदन्ति राजर्षे ऋषयः केचनान्विताः ।
यत्स्ववाचो विरुध्येत न नूनं ते समरन्त्यनु ॥ इत्यादि [भागवतम् १०.७७.३०]
न्यायेन वास्तवत्वविरोधात् । तथा हि स्कान्दे

असङ्गश्चाव्ययोऽभेद्योऽनिग्राह्योऽशोष्य एव च ।
विद्धोऽसृग्आचितो बद्ध इति विष्णुः प्रदृश्यते ॥
असुरान्मोहयन् देवः क्रीडत्येष सुरेष्वपि ।
मनुष्यान्मध्यया दृष्ट्या न मुक्तेषु कदाचन ॥ इति ॥

श्रीभीष्मस्य युद्धसमये दैत्याविष्टत्वात्तथा भानं युक्तमेवेति
। किन्त्वधुना दुःस्वप्नदुःखस्येव तस्य निवेदनं कृतमिति ज्ञेयम् ।
संस्कारोऽपि किमतिशयाधानेन मलापाकारेण वा । तत्रातिशयाधानं
पूर्णत्वेनैव निराकृतम् । मलापकरणं वारयति निरञ्जनः निर्मलः
विशुद्धज्ञानमूर्तिरित्यर्थः ॥

१०.१४ ॥ श्रीब्रह्मा ॥६०॥

[६१]

तदेवं पूर्वं तद्ऐश्वर्यादीनां स्वरूपभूतत्वं साधितं तच्च तेषां
स्वरूपान्तरङ्गधर्मत्वाद्युक्तम् । यथा ज्योतिरन्तरङ्गधर्मानां
तदीयशुक्लादिगुणानां ज्योतिर्भूतत्वमेव, न तम आदिरूपत्वं तद्वत् ।

अथ श्रीविग्रहस्य पूर्णस्वरूपलक्षणत्वं तद्वत् । अथ श्रीविग्रहस्य
पूर्णस्वरूपलक्षणत्वं साधितं, तच्च युक्तम्, सर्वशक्तियुक्तपरम
वस्त्व्एकरूपत्वात्तस्य । तत्र यो निजान्तरङ्गनित्यधर्मः श्री
विग्रहतागमस्तत्तत्संस्थानलक्षणस्तद्विशिष्टं परमानन्द
लक्षणं वस्त्वेव श्रीविग्रहः । स एव चान्तरङ्गधर्मान्तराणां,
ऐश्वर्यादीनामपि नित्याश्रयत्वात्स्वयं भगवान्, यथा शुद्धखण्ड
लड्डुकम् । यतो यथा लड्डुकतागमकसंस्थानविशिष्टखण्डमेव
लड्डुकं तदेव खण्डस्वाभाविकसौगन्ध्यादिमच्चेति लोकैः प्रतीयते
प्रयुज्यते च तथा रूपं यदेतत्[भागवतम् ३.९.२] इत्यादिषु परं तत्त्वमेव श्री
विग्रहः स एव च भगवानिति विद्वद्भिः प्रतीयते प्रयुज्यते चैवेति ।

तदेवं श्रीविग्रहस्य पूर्णस्वरूपत्वं साधयित्वा, तोपोषणार्थं
प्रकरणान्तरमारभ्यते । यावत्पार्षदनिरूपणम् । तत्र परिच्छदानां
तत्स्वरूपभूतत्वे तद्अङ्गसहिततयैवाविर्भावदर्शनरूपं लिङ्गम्
आह द्वयेन

तमद्भुतं बालकमम्बुजेक्षणं
चतुर्भुजं शङ्खगदाद्य्उदायुधम् । इत्यादि ॥ [भागवतम् १०.३.९]

स्पष्टम् ॥ १०.३ । श्रीशुकः ॥६१॥

[६२]

एवमभिप्रायेणैवेदमाह

यथैकात्म्यानुभावानां
विकल्परहितः स्वयम् ।
भूषणायुधलिङ्गाख्या
धत्ते शक्तीः स्वमायया ॥

तेनैव सत्यमानेन
सर्वज्ञो भगवान् हरिः ।
पातु सर्वैः स्वरूपैर्नः
सदा सर्वत्र सर्वगः ॥ [भागवतम् ६.८.३२३३]

ऐकास्म्यानुभावानां केवलपरमस्वरूपदृष्टिपराणां विकल्परहितः
परमानन्दैकरसपरमस्वरूपतया स्फुरन्नपि, यथा येन
प्रकारेण, स्वेषु स्वस्वामितया भजत्स्य्या मया कृपा तया हेतुना । स्वयं
विचित्रशक्तिमयेन स्वरूपेणैव कारणभूतेन भूषणाद्य्आख्याः शक्तीः
शक्तिमयाविर्भावात्धत्ते गोचरयति । तेनैव विद्वद्अनुभवलक्षणेन
सत्यप्रमाणेन । तेनैव विद्वद्अनुभवलक्षणेन सत्यप्रमाणेन तद्
यदि सत्यं स्यात्तदेत्यर्थः । तैरेव भूषणादिलक्षणैः सर्वः स्वरूपैर्
विचित्रस्वरूपाविर्भावैर्नः पातु । अतएव श्रीविष्णुधर्मे बलिकृतचक्र
स्तवे

यस्य रूपमनिर्देश्यमपि योगिभिरुत्तमैरित्यादि ।

तद्अनन्तरं च

भ्रमतस्तस्य चक्रस्य नाभिमध्ये महीपते ।
त्रैलोक्यमखिलं दैत्यो दृष्टवान् भूर्भुवादिकम् ॥ इति ॥

तदेवमेव नवमे श्रीमद्अम्बरीषेणापि चक्रमिदं स्तुतमस्ति । लिङ्गानि
गरुडाकारध्वजादीनि । अनेन यत्क्वचिदाकस्मिकत्वमिव श्रूयते । तदपि
श्रीभगवद्आविर्भाववज्ज्ञेयम् । अत्र तृतीये चैत्यस्य तत्त्वममलं
मणिमस्य कण्ठे इत्य्[भागवतम् ३.२८.२८] अपि सहायम् । अतो द्वादशेऽपि कौस्तुभ
व्यपदेशेन स्वात्मज्योतिर्विभर्त्यजः इत्य्[भागवतम् १२.११.१०] आदिकं विराड्
गतत्वेनोपासनार्थमभेददृष्ट्या दर्शितमेव यथासम्भवं साक्षाच्
छ्रीविग्रहत्वेनाप्यनुसन्धेयम् । तथा हि विष्णुपुराणे

आत्मानमस्य जगतो निर्लेपमगुणामलम् ।
बिभर्ति कौस्तुभमणिस्वरूपं भगवान् हरिर् ॥ इति [Vइড়् १.२२.६८] ॥

॥ ६.८ ॥ विश्वरूपो महेन्द्रम् ॥६२॥

[६३]

अथ श्रीवैकुण्ठलोकस्यापि तादृशत्वं तस्मै स्वलोकं भगवान्
सभाजितः इत्यत्र [भागवतम् २.९.९][*Eण्ड्ण्Oट्E ॰१७] साधितमेव । पुनरपि
दुर्धियां प्रतीत्य्अर्थं साध्यते । यतः स कर्मादिभिर्न प्राप्यते
प्रपञ्चितातीतत्वेन श्रूयते, तं लब्धवतामस्खलनगुणसात्म्येन
स्तूयते नैर्गुण्यावस्थायामेव लभ्यते । लौकिकभगवन्निके तस्यापि तद्
आवेशात् । नैर्गुण्यमतिदिश्यत इत्यतः स तु तद्रूपतया सुतरामेव
गम्यते । साक्षादेव प्रकृतेः परतनः श्रूयते नित्यतयोद्घोष्यते मोक्ष
सुखमपि तिरस्कुर्वन्त्या भक्त्यैव लभ्यते सच्चिदानन्द
घनत्वेनाभिधीयत इति ।

तत्र कर्मादिभिरप्राप्यत्वम् । यथा

देवानामेक आसीत्स्वर्भूतानां च भुवः पदम् ।
मर्त्यादीनां च भूर्लोकः सिद्धानां त्रितयात्परम् ॥
अधोऽसुराणां नागानां भूमेरेकोऽसृजत प्रभुः ।
त्रिलोक्यां गतयः सर्वाः कर्मणां त्रिगुणात्मनाम् ॥
योगस्य तपसश्चैव न्यासस्य गतयोऽमलाः ।
महर्जनस्तपःसत्यं भक्तियोगस्य मद्गतिः ॥ [भागवतम् ११.२४.१२१४]

सिद्धानां योगादिभिः त्रितयात्परं महर्लोकादि । भूमेरधश्चातलादि
। त्रिलोक्यां पातालादिकभूर्भुवःस्वश्चेति । कर्मणां गार्हस्थ्य
धर्माणां तपो वानप्रस्थेन ब्रह्मचर्यं च । तत्र
ब्रह्मचर्येणोपकुर्वाणनैष्ठिकभेदेन क्रमान्महर्जनश्च
वानस्थेन तपः न्यासेन सत्यं योगतारतम्येन तु सर्वमिति ज्ञेयम् ।
मद्गतिः श्रीवैकुण्ठलोकः भक्तियोगप्राप्यत्वेन वक्ष्यमाणः यन्
न व्रजन्ति [भागवतम् ३.१५.२३] इत्यादिवाक्यसाहाय्यात्लोकप्रकरणाच्च । उक्तं
च तृतीये देवान् प्रति ब्रह्मणैव तत्[*Eण्ड्ण्Oट्E ॰१८] सङ्कुलं हरिपदान्
अतिमात्रदृष्टैरित्यादि [भागवतम् ३.१५.२०] । टीका च तावन्मात्रेण दृष्टैः
भक्तानां विमानैः न तु कर्मादिप्राप्यैः । इत्येषा ।

एवमेव श्रुतिश्च परीक्ष्य लोकान् कर्मचितान् ब्राह्मणो निर्वेदमायान्
नास्त्यकृतः कृतेन[*Eण्ड्ण्Oट्E ॰१९] [ंुण्डू १.२.१२] इति । अत्राप्यकृत इत्यस्य
विशेष्यं... लोक इत्येव, तत्प्रसक्तेः । ईश्वरः सर्वभूतानामित्यादौ
[गीता १८.६१]

तमेव शरणं गच्छ सर्वभावेन भारत ।
तत्प्रसादात्परां शान्तिं स्थानं प्राप्स्यसि शाश्वतम् ॥ इति [गीता १८.६२] श्री
भगवद्उपनिषत्सु ।

॥ ११.१४ ॥ श्रीभगवान् ॥६३॥

[६४]

प्रपञ्चातीतत्वम्

स्वधर्मनिष्ठः शतजन्मभिः पुमान्
विरिञ्चतामेति ततः परं हि माम् ।
अव्याकृतं भागवतोऽथ वैष्णवं
पदं यथाहं विबुधाः कलात्यये ॥ [भागवतम् ४.१४.३९]

ततो,पि पुण्यातिशयेन मामेति भागवतस्तु अथ देहान्ते अव्याकृतं, नाम
रूपे व्याकरवाणीति श्रुतिप्रसिद्धव्याकरणाविषयं प्रपञ्चातीतं
वैष्णवं पदं वैकुण्ठमेति । यथाहं रुद्रो भूत्वाधिकारिकतया
वर्तमानः विबुधा देवाश्चाधिकारिकाः कलात्यये अधिकारान्ते लिङ्ग
भङ्गे सत्येष्यन्तीति यावदधिकारमवस्थितिराधिकारिकाणामिति न्यायेन


॥ ४.२४ ॥ श्रीरुद्रः प्रचेतसम् ॥६४॥

[६५]

ततोऽस्खलनम् ।

अथो विभूतिं मम मायाविनस्ताम्
ऐश्वर्यमष्टाङ्गमनुप्रवृत्तम् ।
श्रियं भागवतीं वास्पृहयन्ति भद्रां
परस्य मे तेऽश्नुवते तु लोके ॥

न कर्हिचिन्मत्पराः शान्तरूपे
नङ्क्ष्यन्ति नो मेऽनिमिषो लेढि हेतिः ।
येषामहं प्रिय आत्मा सुतश्च
सखा गुरुः सुहृदो दैवमिष्टम् ॥ [भागवतम् ३.२५.३६३७]

अथोऽविद्यानिवृत्त्य्अनन्तरं मम मायया भक्तविषयककृपयाचितां तद्
अर्थं प्रकटितां विभूतिं भोगसम्पत्तिम् । तथा भागवतीं श्रियं
साक्षाद्भगवत्सम्बन्धिनीं सार्ष्टिसंज्ञां सम्पत्तिमपि अस्पृहयन्ति,
भक्तिसुखमात्राभिलाषेण यद्यपि तेभ्यो न स्पृहयन्तीत्यर्थः । तथापि
तु मे मम लोके वैकुण्ठाख्ये अश्नुवते प्राप्नुवन्त्येवेति स्ववात्सल
विशेषो दर्शितः । यथा सुदाममालाकारवरे,

सोऽपि वव्रेऽचलां भक्तिं तस्मिन्नेवाखिलात्मनि ।
तद्भक्तेषु च सौहार्दं भूतेषु च दयां पराम् ।
इति तस्मै वरान् दत्त्वा श्रियश्चान्वयवर्धिनीम् ॥ इति [भागवतम् १०.४१.५२]

अतस्तेषां तत्रानासक्तिश्च द्योतिता । अविद्यानन्तरमिति मम कृपयाचिताम्
इति च तेषामनर्थरूपत्वं खण्डितम् । किं वा माययाचितां ब्रह्म
लोकादिगतां सम्पत्तिमपीति तेषां सर्ववशीकारित्वमेव दर्शितं, न तु
तद्भोगः । तस्यातितुच्छत्वेन तेष्वनर्हत्वात् । श्रुतिश्चात्र तद्यथेह
कर्मजितो लोकः क्षीयते एवमेवामुत्र पुण्यजितो लोकः क्षीयते [Cहाऊ
८.१.६] इत्यनन्तरमथ य इहात्मानमनुविद्य व्रजन्त्येतांश्च सत्य
कामांस्तेषां सर्वेषु लोकेषु कामचारो भवति इति ।

नन्वेवं तर्हि लोकत्वाविशेषात्स्वर्गादिवत्भोक्तृभोग्यानां कदाचिद्
विनाशः स्यात् । तत्राह शान्तरूपे शान्तमविकृतं रूपं यस्य तस्मिन्
वैकुण्ठे मत्परास्तद्वासिनो लोकाः कदाचिदपि न नङ्क्ष्यन्ति भोग्य
हीना न भवन्ति । अनिमिषो मे हेतिः मदीयं कालचक्रं नो लेढि, तान्न
ग्रसते । न स पुनरावर्तते इति श्रुतेः [Cहाऊ ८.१५.१] ।

आब्रह्मभुवनाल्लोकाः
पुनरावर्तिनोऽर्जुन ।
मामुपेत्य तु कौन्तेय
पुनर्जन्म न विद्यते ॥ [गीता ८.१६] इति श्रीगीतोपनिषद्भ्यः ।
सहस्रनामभाष्येऽप्युक्तम् परमुत्कृष्टमयनं स्थानं पुनर्
आवृत्तिशङ्कारहितमिति परायणः । पुंलिङ्गपक्षे बहुव्रीहिरिति । न
केवलमेतावत्तेषां माहात्म्यमित्याह येषामिति । येषां मां विना न
कश्चिदपरः प्रेमभाजनमस्तीत्यर्थः । यद्वा गोलोकादिकम्
अपेक्ष्यैवमुक्तम् । तत्र हि तथाभावा एवं श्रीगोपा नित्या विद्यन्ते ।
अथवा तं लोकं कीदृग्भावा अविद्यानन्तरं प्राप्नुवन्तीति । तत्राह येषाम्
इति । ये केचित्पाद्मोत्तरखण्डे दर्शितमुनिगणसवासनाः आत्मा
ब्रह्मैवायं साक्षादिति मां भावयन्ति, एवमन्ये च ये ये, त एव
प्रापुन्वन्तीत्यर्थः । सुहृद इति बहुत्वं सौदृदस्य नानाभेदापेक्षया
। एवं चतुर्थे श्रीनारदवाक्ये

शान्ताः समदृशः शुद्धाः सर्वभूतानुरञ्जनाः ।
यान्त्यञ्जसाच्युतपदमच्युतप्रियबान्धवाः ॥ इति [भागवतम् ४.१२.३७] ॥

॥ ३.२५ ॥ श्रीकपिलः ॥६५॥

[६६]

प्रपञ्चातीतत्वं ततोऽस्खलनं च युगपदाह

आतपत्रं तु वैकुण्ठं द्विजा धामाकुतोभयम् । इति [भागवतम् १२.११.१९]

प्रपञ्चरूपस्यैवेति प्रकरणात् । द्विजा इति सम्बोधनम् ॥

॥ १२.११ ॥ श्रीसुतः ॥ ६६ ॥

[६७]

सत्त्वे प्रलीनाः स्वर्यान्ति नराः लोकं रजोलयाः ।
तमोलयास्तु निरयं यान्ति मामेव निर्गुणाः ॥ [भागवतम् ११.२५.२२]

लोकप्रसक्तेर्मल्लोकमिति वक्तव्ये तत्प्राप्तिर्नाम मत्प्राप्तिरेवेति
स्वाभेदमभिप्रेत्याह मामेवेति ॥ ११.२५ ॥

श्रीभगवान् ॥ ६७ ॥


[६८]

सुतरां नैर्गुण्याश्रयत्वम् ।

वनं तु सात्त्विको वासो ग्रामो राजस उच्यते ।
तामसं द्यूतसदनं मन्निकेतं तु निर्गुणम् ॥ [भागवतम् ११.२५.२५]

तद्आवेशेनैवास्यापि निर्गुणत्वव्यपदेश इति भावः ॥

॥ ११.२५ ॥ स एव ॥६८॥

[६९]

प्रकृतेः परत्वम्

ततो वैकुण्ठमगमद्भास्वरं तमसः परम् ।
यत्र नारायणः साक्षान्न्यासिनां परमा गतिः ॥
शान्तानां न्यस्तदण्डानां यतो नावर्तते गतः ॥ [भागवतम् १०.८८.२५२६]

अगमत्जगाम शिव इति शेषः ॥

॥ १०.८८ ॥ श्रीशुकः ॥६९॥

[७०]

नित्यत्वम्

ग्रीवायां जनलोकोऽस्य
तपोलोकः स्तनद्वयात्
मूर्धभिः सत्यलोकस्तु
ब्रह्मलोकः सनातनः [भागवतम् २.५.३९]

टीका च ब्रह्मलोकः वैकुण्ठाख्यः सनातनो नित्यः । न तु
सृजाप्रपञ्चान्तर्वर्ति इत्येष । ब्रह्मभूतो लोको ब्रह्मलोकः ॥

॥ २.५ ॥ श्रीब्रह्मा श्रीनारदम् ॥७०॥

[७१]

मोक्षसुखतिरस्कारिभक्त्य्एकलभ्यत्वम्

यन्न व्रजन्त्यघभिदो रचनानुवादाच्
छृण्वन्ति येऽन्यविषयाः कुकथा मतिघ्नीः ।
यास्तु श्रुता हतभगैर्नृभिरात्तसारास्
तांस्तान् क्षिपन्त्यशरणेषु तमःसु हन्त ॥ [भागवतम् ३.१५.२३]

यच्च व्रजन्त्यनिमिषामृषभानुवृत्त्या
दूरे यमा ह्युपरि नः स्पृहणीयशीलाः ।
भर्तुर्मिथः सुयशसः कथनानुराग
वैक्लव्यबाष्पकलया पुलकीकृताङ्गाः ॥ [भागवतम् ३.१५.२५]

यद्वैकुण्ठं यच्च नोऽस्माकमुपरिस्थितं नः स्पृहणीयशीला इति वा
दूरे यमो येषां ते सिद्धत्वेन दूरीकृतयमनियमाः सन्तो वा व्रजन्तीति
। भर्तुर्मिथः सुयशसः इत्यनेन तथाविधाया भक्तेर्मोक्षसुख
तिरस्कारित्वप्रसिद्धिः सूचिता । नात्यन्तिकं विगणयन्त्यपीत्यादौ येऽङ्ग
त्वद्अङ्घ्रिशरणा भवतः कथायां कीर्तन्यतीर्थयशसः कुशला
रसज्ञा [भागवतम् ३.१५.४८] इति सनकाद्य्उक्तेः ।

॥ ३.१५ ॥ श्रीब्रह्मा देवान् ॥ ७१ ॥
[७२]

सच्चिद्आनन्दरूपत्वम् ।

एवमेतान्मयादिष्टा
ननु तिष्ठन्ति मे पथः ।
क्षेमं विन्दन्ति मत्स्थानं
तद्ब्रह्म परमं विदुः ॥ [भागवतम् ११.२०.३७]

मे पथः ज्ञानकर्मभक्तिलक्षणान्मत्प्राप्त्य्उपायान्, ज्ञान
कर्मणोरपि भक्तेषु भक्तेः प्रथमतः क्वचित्कदाचित्किञ्चित्साहाय्य
कारित्वात् । क्षेमं मद्भक्तिमङ्गलमयं यत्स्थानं परमं ब्रह्मेति
विदुर्जानन्ति इत्थमेवोदाहरिष्यते च इति सञ्चिन्त्य भगवान्महाकारुणिको
विभुः ।

दर्शयामास लोकं स्वं गोपानां तमसः परम् ।
सत्यं ज्ञानमनन्तं यद्ब्रह्मज्योतिः सनातनम् ।
यद्धि पश्यन्ति मुनयो गुणापायो समाहिता ॥ [भागवतम् १०.२८.१४१५] इति ।

उभयत्रापि चकाराद्य्अध्याहारादिना त्वर्थान्तरं कष्ठं भवति । तैर्
एव च तमसः प्रकृतेः परमिति वैकुण्ठस्यापि विशेषणत्वेन व्याख्यातम्
इति ॥

॥ ११.२० ॥ श्रीभगवान् ॥७२॥

[७३]

तथैव

न यत्र कालोऽनिमिषां परः प्रभुः
कुतो नु देवा जगतां य ईशिरे ।
न यत्र सत्त्वं न रजस्तमश्च
न वै विकारो न महान् प्रधानम् ॥

परं पदं वैष्णवमामनन्ति तद्
यन्नेति नेतीत्यतदुत्सिसृक्षवः ।
विसृज्य दौरात्म्यमनन्यसौहृदा
हृदोपगुह्यार्हपदं पदे पदे ॥ [भागवतम् २.२.१७१८]

अतत्चिद्व्यतिरिक्तं, नेति नेतीत्येवमुत्स्रष्टुमिच्छवो दौरात्म्यं
भगवद्आत्मनोरभेददृष्टिं विसृज्य, अर्हस्य श्रीभगवतः, पदं
चरणारविन्दं, पदे पदे प्रतिक्षणं हृदा उपगुह्य आश्लिष्य, नान्यस्मिन्
सौहृदं येषां तथाभूताः सन्तो यदामनन्ति जानन्ति, तद्वैष्णवं पदं
श्रीवैकुण्ठमिति ब्रह्मस्वरूपमेव तदिति तात्पर्यम् । अनेन प्रेम
लक्षणसाधनलिङ्गेन निराकाररूपमर्थान्तरं निरस्तम् । अत्र
निराकारपरायणस्यापि मुक्ताफलटीकाकृतो दैवाभिव्यञ्जिता गीर्यथा
तत्परं पदं वैष्णवमामनन्ति । अधिकृताधिष्ठितराजाधिष्ठितत्ववत्
। ब्रह्मादिपदानामपि । विष्णुनाधिष्ठितत्वात्परमित्युक्तम् ।
विष्णुनैवाधिष्ठितमित्यर्थ इति । अतएव श्रुतावपि तस्य स्वमहिमैक
प्रतिष्ठितत्वं स भगवः कस्मिन् प्रतिष्ठित इति स्वे महिम्नि इति [Cहाऊ
७.२४.१]। अतएवोक्तं क इत्था वेद यत्र स इति ॥

॥ २.२ ॥ श्रीशुकः ॥७३॥

[७४]

क इत्थेत्यादिश्रुतेरर्थत्वेनापि स्पष्टमाह

स्वं लोकं न विदुस्ते वै
यत्र देवो जनार्दनः ।
आहुर्धूम्रधियो वेदं
सकर्मकमतद्विदः ॥ [भागवतम् ४.२९.४८]

ये धूम्रधियो वेदं सकर्मकं कर्ममात्रप्रतिपादकमाहुस्ते
जनार्दनस्य स्वं स्वरूपं लोकं न विदुः किन्तु स्वर्गादिकमेव विदुः ।
यत्र लोके ॥ ४.२९ ॥ श्रीनारदः प्राचीनबर्हिषम् ॥७४॥

[७५]

एवं च

ओं नमस्तेऽस्तु भगवनित्यादि गद्ये परमहंसपरिव्राजकैः
परमेणात्मयोगसमाधिना परिभावितपरिस्फुटपारमहंस्य
धर्मेणोद्घाटिततमःकपाटद्वारे चित्तेऽपावृत आत्मलोके स्वयम्
उपलब्धनिजसुखानुभवो भवान् ॥ [भागवतम् ६.९.३३]

तमः प्रकृतिरज्ञानं वा । आत्मलोके स्वस्वरूपे लोके । एष आत्मलोक एष
ब्रह्मलोक इति । दिव्ये ब्रह्मपुरे ह्येष परमात्मा प्रतिष्ठित इत्य्आदि
श्रुतौ[*Eण्ड्ण्Oट्E ॰२०] ॥ यत्तत्सूक्ष्मं परमं वेदितव्यं नित्यं पदं
वैभवमामनन्ति ।

एतल्लोका न विदुर्लोकसारं विदन्ति तत्कवयो योगनिष्ठा इति पिप्पलाद
शाखायाम् । परेण नाकं निहितं गुहायां बिभ्राजते यद्यतयो विशन्ति इति
परस्याम् ।

तद्वा एतत्परं धाम मन्त्रराजाध्यापकस्य यत्र न दुःखादि न सूर्यो
भाति यत्र न मृत्युः प्रविशति यत्र न दोषस्तदानन्दं शाश्वतं शान्तं
सदाशिवं ब्रह्मादिवन्दितं योगिध्येयं यत्र गत्वा न निवर्तन्ते
योगिनः[*Eण्ड्ण्Oट्E ॰२१] तदेतदृचाभ्युक्तं तद्विष्णोः परमं पदं
सदा पश्यन्ति सूरयः दिवीव चक्षुराततम् । तद्विप्रासो विपन्यवो
जागृवांसः समिन्धते । विष्णोर्यत्परमं पदमिति श्रीनृसिंहतापन्याम्
[५.१०] । न त्वियमपि ब्रह्मपुरत्वे नैव व्याख्येया, वन्दितत्वेन यत्र
गत्वेत्यनेन च तद्अनङ्गीकरोत् ।

यतः श्रीविष्णुपुराणे च श्रीविष्णुलोकमुद्दिश्य ऋगियमनुस्मृता, यथा

ऊर्ध्वोत्तरमृषिभ्यस्तु ध्रुवो यत्र व्यवस्थितः ॥
निर्धूतदोषपङ्कानां यतीनां संयतात्मनाम् ।
स्थानं तत्परमं विप्र पुण्यपापपरिक्षये ॥
अपुण्यपुण्योपरमे क्षीणाशोषाप्तिहेतवः ।
यत्र गत्वा न शोचन्ति तद्विष्णोः परमं पदम् ॥
धर्मं ध्रुवाद्यास्तिष्ठन्ति यत्र ते लोकसाक्षिणः ।
तत्सार्ष्ट्योत्पन्नयोगेद्धस्तद्विष्णोः परमं पदम् ॥
यत्रैतदोतं प्रोतं च यद्भूतं सचराचरम् ।
भाव्यं च विश्वं मैत्रेय तद्विष्णोः परमं पदम् ॥ [Vइড়् २.८.९८१०२]

तापनीश्रुतौ[*Eण्ड्ण्Oट्E ॰२२] च यत्र न वायुर्वाती इत्यादिकं प्राकृत
तत्तन्मात्रनिषेधात्मकं तत्रापि तत्तच्छ्रवणात् । यत्तु मातुः
सपत्न्या वाग्वाणैर्हृदि बिद्धस्तु तान् स्मरन् । नैच्छन्मुक्तिपतेर्
मुक्तिं पश्चात्तापमुपेयिवानिति [भागवतम् ४.९.२९] । तथा

अहो बत ममानात्म्यं
मन्दभाग्यस्य पश्यत ।
भवच्छिदः पादमूलं
गत्वा याचे यदन्तवत् ॥ इति [भागवतम् ४.९.३१] श्रीध्रुवस्यापूर्णंमन्यता श्रूयते


तद्उच्चपदकामनयैव तत्प्रार्थितवता तेन लब्धमनोरथातीत
वरेणापि स्वसङ्कल्पमेव तिरस्कर्तुमुक्तमिति घटते । तत्र ह्येवोक्तं
श्रीविदुरेण सुदुर्लभं यत्परमं पदं हरेर्[भागवतम् ४.९.२८] इति । स्वयं
श्रीध्रुवप्रियेण

ततो गन्तासि मत्स्थानं
सर्वलोकनमस्कृतम् ।
उपरिष्टादृषिभ्यस्त्वं
यतो नावर्तते गतः ॥ इति [भागवतम् ४.९.२५]

श्रीपार्षदाभ्यामपि आतिष्ठ जगतां वन्द्यं तद्विष्णोः परमं
पदमिति [भागवतम् ४.१२.२६] । श्रीसुतेन च ध्रुवस्य वैकुण्ठ
पदाधिरोहणमिति [भागवतम् ४.१०.१] । पञ्चमे ज्योतिश्चक्रवर्णने च विष्णोर्यत्
परमं पदं प्रदक्षिणं प्रक्रामन्ति इति [भागवतम् ५.२२.१७] । यद्विष्णोः
परमं पदमभिवदन्तीति च [भागवतम् ५.२३.१] । प्रपञ्चान्तर्गतत्वेऽपि तद्
धर्ममुक्तत्वं विकारावर्ति च तथा हि स्थितिमाह इति न्यायेन । अतोऽस्मिन्
लोके प्रापञ्चिकस्य बहिर्अंशस्यैव प्रलयो ज्ञेयः । तस्य तु तदानीम्
अन्तर्धानमेव । एतदालम्ब्यैव हिरण्यकशिपुनोक्तम् किमन्यैः काल
निर्धूतैः कल्पान्ते वैष्णवादिभिरिति [भागवतम् ७.३.११] । अतोऽद्यापि ये तथा वदन्ति
तेऽपि तत्तुल्या इति भावः ।

अथ श्रीमहावैकुण्ठस्य तादृशत्वं तु सुतरामेव । यथा नानाश्रुति
पथोत्थापनेन पाद्मोत्तरखण्डेऽपि[*Eण्ड्ण्Oट्E ॰२३] प्रकृत्य्अन्तर्गत
विभूतिवर्णनान्तरं तादृशत्वमभिव्यञ्जितं श्रीशिवेन

एवं प्राकृतरूपाया विभूते रूपमुत्तमम् ।
त्रिपाद्विभूतिरूपं तु शृणु भूधरनन्दिनि ॥
प्रधानपरमव्योम्नोरन्तरे विरजा नदी ।
वेदाङ्गस्वेदजनिततोयैः प्रस्राविता शुभा ॥
तस्याः पारे परव्योम त्रिपाद्भुतं सनातनम् ।
अमृतं शाश्वतं नित्यमनन्तं परमं पदम् ॥
शुद्धसत्त्वमयं दिव्यमक्षरं ब्रह्मणः पदम् ।
अनेककोटिसूर्याग्नितुल्यवर्चसमव्ययम् ॥
सर्ववेदमयं शुभ्रं सर्वप्रलयवर्जितम् ।
हिरण्मयं मोक्षपदं ब्रह्मानन्दसुखाह्वयम् ॥
समानाधिक्यरहितमाद्य्अन्तरहितं शुभम् ॥
तेजसात्य्अद्भुतं रम्यं नित्यमानन्दसागरम् ।
एवमादिगुणोपेतं तद्विष्णोः परमं पदम् ॥
न तद्भासयते सूर्यो न शशाङ्को न पावकः ।
यद्गत्वा न निवर्तन्ते तद्धाम परमं हरेः ॥
तद्विष्णोः परमं धाम शाश्वतं नित्यमच्युतम् ।
न हि वर्णयितुं शक्यं कल्पकोटिशतैरपि ॥ (ড়द्मড়् ६.२२७.५७
६५)[*Eण्ड्ण्Oट्E ॰२४]

हरेः पदं वर्णयितुं न शक्यं
मया च धात्रा च मुनीन्द्रवर्यैः ।
यस्मिन् पदे अच्युत ईश्वरो यः
सो अङ्ग वेद यदि वा न वेद ॥

यदक्षरं वेदगुह्यं यस्मिन् देवा अधि विश्वे निषेदुः ।
यस्तं न वेद किमृचा करिष्यति य उ तद्विदुस्त इमे समासते ॥
तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः ।
अक्षरं शाश्वतं नित्यं दिवीव चक्षुराततम् ॥
आ प्रवेष्टुमशक्यं तद्ब्रह्मरुद्रादिदैवतैः ।
ज्ञानेन शास्त्रमार्गेण वीक्ष्यते योगिपुङ्गवैः ॥
अहं ब्रह्मा च देवाश्च न जानन्ति महर्षयः ।
सर्वोपनिषदामर्थं दृष्ट्वा वक्ष्यामि सुव्रते ॥
विष्णोः पदे परमे तु मध्य उत्सः शुभाह्वयः ।
यत्र गावो भूरिशृङ्गा आसते स्वसुखं प्रजाः ॥
अत्राहि तत्परं धाम गीयमानस्य शार्ङ्गिणः ।
तद्भाति परमं धाम गोभिर्गेयैः शुभाह्वयैः ॥
आदित्यवर्णं तमसः परस्तात्ज्योतिरुत्तमम् ।
आधारो ब्रह्मणो लोकः शुद्धः स ह सनातनः ॥
सामान्यावियुते दूरे अन्तेऽस्मिन् शाश्वते पदे ।
तस्थजुर्जागरुकेऽस्मिन् युवानौ श्रीसनातनौ ॥
यतः स्वसारा युवती भूलीले विष्णुवल्लभे ।
अत्र पूर्वे ये च साध्या विश्वदेवाः सनातनाः ॥
ते ह नाकं महिमानः सचन्तः शुभदर्शनाः ।
तत्पदं ज्ञानिनो विप्रा जातृवांसः समिन्धते ॥
तद्विष्णोः परमं पदं मोक्ष इत्यभिधीयते ।
तस्मिन् बन्धविनिर्मुक्ताः प्राप्यन्ते स्वमुखं पदम् ॥
यं प्राप्य न निवर्तन्ते तस्मान्मोक्स उदाहृतः ।
मोक्षः परं पदं लिङ्गममृतं विष्णुमन्दिरम् ॥
अक्षरं परमं धाम वैकुण्ठं शाश्वतं परम् ।
नित्यं च परमव्योम सर्वोत्कृष्टं सनातनम् ॥
पर्यायवाचकन्यस्य परं धाम्नोऽच्युतस्य हि ।
तस्य त्रिपाद्विभूतेस्तु रूपं वक्ष्यामि विस्तरात् ॥ इत्यादि ॥

एतद्रीइतिकश्रुतयो वैदिकेषु प्रायः प्रसिद्धा इति नोदह्रियन्ते । श्रीनारद
पञ्चरात्रे च श्रीब्रह्मनारदसंवादे जितं ते स्तोत्रे च

लोकं वैकुण्ठनामानं दिव्यषड्गुणसंयुतम् ।
अवैष्णवानामप्राप्यं गुणत्रयविवर्जितम् ॥
नित्यसिद्धेः समाकीर्णं तन्मयैः पाञ्चकालिकैः ।
सभाप्रासादजक्तं वनैश्चोपवनैः शुभम् ॥
वापीकूपतडागैश्च वृक्षषण्डैः सुमण्डितम् ।
अप्राकृतं सुरैर्वन्द्यमयुतार्कसमप्रभम् ॥ इति ॥

ब्रह्माण्डपुराणे

तमनन्तगुणावासं महत्तेजो दुरासदम् ।
अप्रत्यक्षं निरुपमं परानन्दमतीन्द्रियम् ॥ इति ॥

इतिहाससमुच्चये मुद्गलोपख्याने

ब्रह्मणः सदनादूर्ध्वं तद्विष्णोः परमं पदम् ।
शुद्धं सनातनं ज्योतिः परं ब्रह्मेति यद्विदुः ॥
निर्ममा निरहङ्कारा निर्द्वन्द्वा ये जितेन्द्रियाः ।
ध्यानयोगपराश्चैव तत्र गच्छन्ति साधवः ॥
येऽर्चयन्ति हरिं विष्णुं कृष्णं जिष्णुं सनातनम् ।
नारायणमजं देवं विष्वक्सेनं चतुर्भुजम् ॥
ध्यायन्ति पुरुषं दिव्यमच्युतं च स्मरन्ति ये ।
लभन्ते तेऽच्युतस्थानं श्रुतिरेषा सनातनी ॥ इति ॥

स्कान्दे श्रीसनत्कुमारमार्कण्डेयसंवादे

यो विष्णुभक्तो विप्रेन्द्र शुद्धचक्रादिचिह्नितः ।
स याति विष्णुलोकं वै दाहप्रलयवर्जितम् ॥ इति ।

अत्र पदधामादिशब्देन स्थानवाचकेन स्वरूपं त्वरूढेन यदि
कश्चित्कथञ्चित्स्वरूपमेव वाचयति । तर्ह्यन्यत्र तत्प्रसङ्गे
तेऽभिगच्छन्ति मत्स्थानं यद्ब्रह्म परमं विदुरित्यादौ साक्षादेव
स्थानशब्दनिगदेन तन्निरसनीयम् । यदि तत्रापि चकाराद्य्अध्याहारादि
दैन्येन पूर्वदर्शितेतिहाससमुच्चयस्य परं ब्रह्मेति यद्विदुरिति
विशेषणविरुद्धं वाक्यभेदमेवाङ्गीकरोति तर्हि स्वमते तत्र तत्रोक्त
लोकशब्दः सहायीकर्तव्यः ।

ततश्च पदधामस्थानलोकरूपाणां तेषां शब्दानामेकत्र वस्तुनि
प्रयोगात्परस्परमन्यार्थं दूरीकुर्वन्तस्ते कं वा न बोधयन्ति स्वम्
अर्थं, यथा भगवान् हरिर्विष्णुरयमिति ।

अथ हन्त तत्रापि चेत्, स्वरूपमात्रवाचकतां भिक्षते तर्हि स्फुटमेव
पाद्मवैष्णवादिवचनैः विपक्षो ह्रेपणीयः । कर्माद्य्अप्राप्यत्वादि
प्रतिपादकवाक्यानि तु विशेषतो वेत्रपाणिरूपाणि सन्त्येवेति वक्तव्यम् ।
तस्मातों नमस्ते [भागवतम् ६.९.३३] इत्यादिपद्यमपि साध्वेव व्याख्यातम् ॥

॥ ६.९ ॥ देवाः श्रीहरिम् ॥७५॥

[७६]

तदेत्च्छ्रीवैकुण्ठस्वरूपं निरूपितम् । तच्च यथा श्रीभगवानेव
क्वचित्पूर्णत्वेन क्वचिदंशत्वेन च वर्तते तथैवेति । बहवस्तस्यापि
भेदाः पाद्मोत्तरखण्डादौ द्रष्टव्याः । येषु श्रीमत्स्यदेवादीनाम्
अपि पदानि वक्ष्यन्ते । तदेव सूचयति

एवं हिरण्याक्षमसह्यविक्रमं
स सादयित्वा हरिरादिसूकरः ।
जगाम लोकं स्वमखण्डितोत्सवं
समीडितः पुष्करविष्टरादिभिः ॥ [भागवतम् ३.१९.२८]

सादयित्वा हत्वा । पवित्रारोपप्रसङ्गे चैवमाह बोधायनः

एवं यः कुरुते विद्वान् वर्षे वर्षे न संशयः ।
स याति परमं स्थानं यत्र देवो नृकेशरी ॥ इति ।

वायुपुराणे तु शिवपुरमपि तद्वत्श्रूयते, यथा

अन्तौघस्य समन्तात्तु सन्निविष्टो घनोदधिः ।
समन्ताद्येन तोयेन धार्यमानः स तिष्ठति ॥
बाह्यतो घनतोयस्य तिर्यगूर्ध्वं च मण्डलम् ।
धारयमाणं समन्तात्तु तिष्ठते घनतेजसा ॥
अयोगुडनिभो वह्निः समन्तात्मण्डलाकृतिः ।
समन्ताद्घनवातेन धार्यमाणः स तिष्ठति ॥
भूतादिश्च तथाकाशं भूतादिं च तथा महान् ।
महान् व्याप्तो ह्यनन्तेन अव्यक्तेन तु धार्यते ॥
अनन्तमपरिव्यक्तमनादिनिधनं च तत् ।
तम एव निरालोकममर्यादमदेशिकम् ॥
तमसोऽन्ते च विख्यातमाकाशान्ते च भास्वरम् ।
यर्यान्तायामतस्तस्य शिवस्यायतनं महत् ।
त्रिदशानामगम्यं तु स्थानं दिव्यमिति श्रुतिर् ॥ इति ॥

॥ ३.१९ ॥ श्रीमैत्रेयः ॥७६॥

[७७]

एवं च यथा श्रीभगवद्वपुर्आविर्भवति लोके तथैव क्वचित्कस्यचित्तत्
पदस्याविर्भावः श्रूयते

पत्नी विकुण्ठा शुभ्रस्य वैकुण्ठैः सुरसत्तमैः ।
तयोः स्वकलया जज्ञे वैकुण्ठो भगवान् स्वयम् ॥
वैकुण्ठः कल्पितो येन लोको लोकनमस्कृतः ।
रमया प्रार्थ्यमानेन देव्या तत्प्रियकाम्यया ॥ [भागवतम् ५.८.४५]

यथा भगवत आविर्भावमात्रं जन्मेति भण्यते । तथैव
वैकुण्ठस्यापि कल्पनम् आविर्भावनमेव न तु प्राकृतवत्कृत्रिमत्वम्
। उभयत्रापि नित्यत्वादित्यभिप्रायेण तत्साम्येनाह, जज्ञ इति । श्री
विकुण्ठासुतस्यैवेदं वैकुण्ठम् । मूलवैकुण्ठं तु सृष्टेः प्राक्श्री
ब्रह्मणा दृष्टमिति द्वितीये प्रसिद्धमेव ।

स तन्निकेतं परिमृश्य शून्यमपश्यमानः कुपितो ननाद इत्य्[भागवतम्
८.१९.११] उक्तम् । तत्स्थानं तु स्वर्गादिगतमेव ज्ञेयम् ॥

॥ ८.५ ॥ श्रीशुकः ॥७७॥

[७८]

देहेन्द्रियासुहीनानां
वैकुण्ठपुरवासिनाम् । [भागवतम् ७.१.३४]

जन्महेतुभूतैः प्राकृतैर्देहेन्द्रियासुभिर्हीनानां शुद्धसत्त्वमय
देहानामित्यर्थः ॥

॥ ७.१ ॥ युधिष्ठिरः श्रीनारदम् ॥ ७८ ॥

[७९]

तथा

आत्मतुल्यैः षोडशभिर्
विना श्रीवत्सकौस्तुभौ ।
पर्युपासितमुन्निद्र
शरद्अम्बुरुहेक्षणम् ॥ [भागवतम् ६.९.२९]

षोडशभिः श्रीसुनन्दादिभिः ॥ ६.९ ॥ श्रीशुकः ॥

[८०]

अतएव कालातीतास्ते परमभक्तानामपि परम्पुरुषार्थसामीप्याश्चेत्य्
आह । तस्मादमूस्तनुभृतामहमाशिषो ज्ञ आयुः श्रियं विभवम्
ऐन्द्रियमाविरिञ्च्यात् ।

नेच्छामि ते विलुलितानुरुविक्रमेण
कालात्मनोपनय मां निजभृत्यपार्श्वम् ॥ [भागवतम् ७.९.२४]

स्पष्टम् ॥ ७.९ ॥ प्रह्लादः श्रीनृसिंहम् ॥ ८० ॥

[८१]

तथा च पाद्मोत्तरखण्डे
त्रिपाद्विभूतेर्लोकास्तु असङ्ख्याः परिकीर्तिताः ।
शुद्धसत्त्वमयाः सर्वे ब्रह्मानन्दसुखाह्वयाः ॥
सर्वे नित्या निर्विकारा हेयरागविवर्जिताः ।
सर्वे हिरण्मयाः शुद्धाः कोटिसूर्यसमप्रभाः ॥
सर्वे वेदमया दिव्याः कामक्रोधादिवर्जिताः ।
नारायणपदाम्भोजभक्त्य्एकरससेविनः ॥
निरन्तरं सामगानपरिपूर्णसुखं श्रिताः ।
सर्वे पञ्चोपनिषदस्वरूपया वेदवर्चसः ॥ इत्यादि ॥

अत्र त्रिपाद्विभुतिशब्देन प्रपञ्चातीतलोकोऽभिधीयते पादविभूति
शब्देन तु प्रपञ्च इति । यथोक्तं तत्रैव

त्रिपाद्व्याप्तिः परं धाम्नि पादोऽस्येहाभवत्पुनः ।
त्रिपाद्विभूतेर्नित्यं स्यातनित्यं पादमैश्वरम् ॥
नित्यं तद्रूपमीशस्य परं धाम्नि स्थितं शुभम् ।
अच्युतं शाश्वतं दिव्यं सदा यौवनमाश्रितम् ॥
नित्यं सम्भोगमीश्वर्या श्रिया भूम्या च संवृत्तम् ॥ इति ॥

अतएव तद्अनुसारेण द्वितीयस्कन्धोऽप्येवं योजनीयः । तत्र

सोऽमृतस्याभयस्येशो
मर्त्यमन्नं यदत्यगात् ।
महिमैष ततो ब्रह्मन्
पुरुषस्य दुरत्ययः ॥ [भागवतम् २.६.१७]

अमृतादिद्वयं तत्तृतीयत्वेअ वक्ष्यमाणस्य क्षेमस्याप्युपलक्षणम् ।
श्रुतौ च उतामृतत्वस्येशान इत्यत्रामृतत्वं तद्युगलोपलक्षम् । अत्र
धर्मिप्रधाननिर्देशः, श्रुतौ तु तत्र धर्ममात्रनिर्देशस्यापि
तत्रैव तात्पर्यम् । तत्रामृतं स्वदृष्टवद्भिर्पुरुषैरभिष्टुतमिति ।
परं न यत्परम् [भागवतम् २.९.९] इत्याद्युक्तानुसारेण परमानन्दः ।

अतएव अमृत विष्णुमन्दिरमिति तत्पर्यायः । अभयं न च कालविक्रम
[भागवतम् २.९.१०] इत्यादि भयमात्राभावः । अतएव द्विजा धामाकुतोभयम्
[भागवतम् १२.११.१९] इत्युक्तम् । क्षेमं न यत्र माया [भागवतम् २.९.१०] इत्याद्य्
उक्तानुसारेण भगवद्बहिर्मुखताकरगुणसम्बन्धाभावाद्
भगवद्भजनमङ्गलाश्रयत्वं ज्ञेयम् । तथा च नारदीये

सर्वमङ्गलमूर्धन्या पूर्णानन्दमयी सदा ।
द्विजेन्द्र तव मय्यस्तु भक्तिरव्यभिचारिणी ॥ इति ॥

अतेव क्षेमं विन्दन्ति मत्स्थानम् [भागवतम् ११.२०.३७] इत्युक्तम् ।

तत्र तत्तच्छब्देन लक्षणामयकष्टकल्पनया जनलोकादिवाच्यतां
निषेधन् हेतुं न्यस्यति मर्त्यं ब्रह्मणोऽपि भयं मत्तो द्विपरार्ध
परायुष [भागवतम् ११.१०.३०] इत्यादि न्यायेन मरणधर्मकम् । अन्नं कर्मादि
फलं त्रिलोक्यादिकं यस्मादत्यगाततिक्रम्यैव तत्र विराजत इति । एषः
अमृताद्यैश्वर्यरूपः । दुरत्ययः ब्रह्मचर्यादिभिः केनचिन्मनसाप्य्
अवरोद्धुमशक्यः ।
[८२]

तदेवममर्त्यमैश्वर्यं त्रिपात्, मर्त्यमेकपातिति तस्य चतुष्पाद्
ऐश्वर्यं पुनर्विवृणोति ॥

पादेषु सर्वभूतानि
पुंसः स्थितिपदो विदुः ।
अमृतं क्षेममभयं
त्रिमूर्ध्नोऽधायि मूर्धसु ॥ [भागवतम् २.६.१८]

तिष्ठन्त्यत्र सर्वभूतानीति स्थितयो मर्ताद्यैश्वर्याणि तानि पादा
इवाधिष्ठानभूतानि यस्य तस्य स्थित्पदः पादेषु चतुर्ष्वेव ऐश्वर्य
भागेषु सर्वभूतानि पार्षदपर्यन्तानि । पादान् दर्शयति । त्रयाणां
सात्त्विकादिपदर्थानां मूर्धैव मूर्धा प्रवृत्तिः तस्य त्रयाणां
मूर्धसु तदुपरि विराजमानेषु श्रीवैकुण्ठलोकेषु अमृतं क्षेमम्
अभयं चाधायि नित्यं धृतमेव तिष्ठतीत्यर्थः ।

ततः पूर्वस्य मर्त्यान्नमात्रात्मकत्वादेकपात्त्वम्, उत्तरस्यामृतादि
त्रयात्मकत्वात्त्रिपात्त्वमिति भावः । तदनेन पादोऽस्य विश्वा भूतानि
त्रिपादस्यामृतं दिवि इत्यस्यार्थो दर्शितः । अस्य पादस्तथास्यैव दिशि
वैकुण्ठे यदमृताद्य्आत्मकं त्रिपात्तच्च विश्वा भूतानीत्यर्थः ।
अत्राधिष्ठानाधिष्ठेययोरैक्योक्तिः ।

[८३]

अथ चतुष्पात्त्वे च त्रिलोकीव्यवस्थावत्पक्षान्तरं दर्शयति ।

पादास्त्रयो बहिश्चासन्न्
अप्रजानां य आश्रमाः ।
अन्तस्त्रिलोक्यास्त्वपरो
गृहमेधोऽबृहद्व्रतः ॥ [भागवतम् २.६.१९]

चशब्दः उक्तसमुच्चयार्थः । प्रपञ्चाद्बहिः पादास्त्रय आसन्नेव
प्रपञ्चात्मकस्य चतुर्थपादस्यैव विभागविपक्षायां तु त्रिलोक्या बहिश्
चान्ये पादास्त्रय आसन्नित्येवं मन्त्रोऽपि हि तथैव पुनः शब्दः । ते के?
अप्रजानां ब्रह्मचारिवनस्थयतीनामाश्रमाः प्राप्या ये लोकाः ।

[८४]

अतएव धर्मत्रयप्राप्यत्वात्चतुर्णामपि त्रिपात्त्वम् । अपरस्तु चतुर्थः
पादस्त्रिलोक्या अन्तरिति गृहमेधस्तत्प्राप्यः अतएवोभयथापि पुरुषश्
चतुष्पादित्याह ।

सृती विचक्रमे विश्वम्
साशनानशने उभे ।
यदविद्या च विद्या च
पुरुषस्तूभयाश्रयः ॥ [भागवतम् २.६.२०]

विष्वङ्सर्वव्यापी । पुरुषः पुरुषोत्तमः । एते सृती ते प्रपञ्चाप्रपञ्च
लक्षणे जीवस्य गती । विचक्रमे आक्रम्य स्थितः । कथम्भूते ?
साशनानशने कर्मादिफलभोगतद्अतिक्रमयुक्ते । तस्यैव एतद्
आक्रमणे हेतुः । यत्ययोः सृत्योः अविद्या मायैकत्र विद्या चिच्छक्तिर्
अन्यत्राश्रय इत्यर्थः । पुरुषोत्तमस्तु तयोर्द्वयोरप्याश्रयः ।

वक्ष्यते च यस्माद्दण्डं विराड्जज्ञे [भागवतम् २.६.२१] इत्यादिना । तस्मात्
सर्वैश्वर्येणैकदेशैश्वर्येण च चतुष्पात्त्वमिति भावः ॥

॥ २.६ ॥ श्रीब्रह्मा श्रीनारदम् ॥ ८४ ॥

[८५]

एवं शान्तरङ्गवैभवस्य भगवतः स्वरूपभूतयैव शक्त्या
प्रकाशमानत्वात्स्वरूपभूतत्वम् । सा च शक्तिविशिष्टस्यैव स्वरूपत्वात्
स्वरूपान्तःपातेऽपि भेदलक्षणां वृत्तिं भजन्ती तत्र प्रकाशविशेषं
वैचित्रीवृन्दं च प्रकटयति । तत्र तत्र तादृशत्वे भ्रमोपासनासिद्ध
गुरव एवास्माकं प्रमाणम् । तदेतदाह चतुर्दशभिः

एवं तदैव भगवानरविन्दनाभः
स्वानां विबुध्य सद्अतिक्रममार्यहृद्यः ।
तस्मिन् ययौ परमहंसमहामुनीनाम्
अन्वेषणीयचरणौ चलयन् सहश्रीः ॥ [भागवतम् ३.१५.३७]

तं त्वागतं प्रतिहृतौपयिकं स्वपुम्भिस्
ते ञ्चक्षताक्षविषयं स्वसमाधिभाग्यम् ।
हंसश्रियोर्व्यजनयोः शिववायुलोलच्
छुभ्रातपत्रशशिकेसरशीकराम्बुम् ॥ [भागवतम् ३.१५.३८]

कृत्स्नप्रसादसुमुखं स्पृहणीयधाम
स्नेहावलोककलया हृदि संस्पृशन्तम् ।
श्यामे पृथावुरसि शोभितया श्रिया स्वश्
चूडामणिं सुभगयन्तमिवात्मधिष्ण्यम् ॥ [भागवतम् ३.१५.३९]

पीतांशुके पृथुनितम्बिनि विस्फुरन्त्या
काञ्च्यालिभिर्विरुतया वनमालया च ।
वल्गुप्रकोष्ठवलयं विनतासुतांसे
विन्यस्तहस्तमितरेण धुनानमब्जम् ॥ [भागवतम् ३.१५.४०]

विद्युत्क्षिपन्मकरकुण्डलमण्डनार्ह
गण्डस्थलोन्नसमुखं मणिमत्किरीटम् ।
दोर्दण्डषण्डविवरे हरता परार्ध्य
हारेण कन्धरगतेन च कौस्तुभेन ॥ [भागवतम् ३.१५.४१]

अत्रोपसृष्टमिति चोत्स्मितमिन्दिरायाः
स्वानां धिया विरचितं बहुसौष्ठवाढ्यम् ।
मह्यं भवस्य भवतां च भजन्तमङ्गं
नेमुर्निरीक्ष्य न वितृप्तदृशो मुदा कैः ॥ [भागवतम् ३.१५.४२]
तस्यारविन्दनयनस्य पदारविन्द
किञ्जल्कमिश्रतुलसीमकरन्दवायुः ।
अन्तर्गतः स्वविवरेण चकार तेषां
सङ्क्षोभमक्षरजुषामपि चित्ततन्वोः ॥ [भागवतम् ३.१५.४३]

ते वा अमुष्य वदनासितपद्मकोशम्
उद्वीक्ष्य सुन्दरतराधरकुन्दहासम् ।
लब्धाशिषः पुनरवेक्ष्य तदीयमङ्घ्रि
द्वन्द्वं नखारुणमणिश्रयणं निदध्युः ॥ [भागवतम् ३.१५.४४]

पुंसां गतिं मृगयतामिह योगमार्गैर्
ध्यानास्पदं बहुमतं नयनाभिरामम् ।
पौंसं वपुर्दर्शयानमनन्यसिद्धैर्
औत्पत्तिकैः समगृणन् युतमष्टभोगैः ॥ [भागवतम् ३.१५.४५]

श्रीकुमारा ऊचुः
योऽन्तर्हितो हृदि गतोऽपि दुरात्मनां त्वं
सोऽद्यैव नो नयनमूलमनन्त राद्धः ।
यर्ह्येव कर्णविवरेण गुहां गतो नः
पित्रानुवर्णितरहा भवद्उद्भवेन ॥ [भागवतम् ३.१५.४६]

तं त्वां विदाम भगवन् परमात्मतत्त्वं
सत्त्वेन सम्प्रति रतिं रचयन्तमेषाम् ।
यत्तेऽनुतापविदितैर्दृढभक्तियोगैर्
उद्ग्रन्थयो हृदि विदुर्मुनयो विरागाः ॥ [भागवतम् ३.१५.४७]

नात्यन्तिकं विगणयन्त्यपि ते प्रसादं
किम्वन्यदर्पितभयं भ्रुव उन्नयैस्ते ।
येऽङ्ग त्वद्अङ्घ्रिशरणा भवतः कथायाः
कीर्तन्यतीर्थयशसः कुशला रसज्ञाः ॥ [भागवतम् ३.१५.४८]

कामं भवः स्ववृजिनैर्निरयेषु नः स्ताच्
चेतोऽलिवद्यदि नु ते पदयो रमेत ।
वाचश्च नस्तुलसिवद्यदि तेऽङ्घ्रिशोभाः
पूर्येत ते गुणगणैर्यदि कर्णरन्ध्रः ॥ [भागवतम् ३.१५.४९]

प्रादुश्चकर्थ यदिदं पुरुहूत रूपं
तेनेश निर्वृतिमवापुरलं दृशो नः ।
तस्मा इदं भगवते नम इद्विधेम
योऽनात्मनां दुरुदयो भगवान् प्रतीतः ॥ [भागवतम् ३.१५.५०]

अथ क्रमेण व्याख्यायते । एवं तदैवेति । टीका च

एवं स्वानां महत्सु अतिक्रममपतराधं तत्क्षणमेव विबुध्य,
तस्मिन् यत्र ते सनकादयस्ताभ्यां जयविजयाभ्यां रुद्धाः । तं देशं
ययौ । आर्याणां हृद्यः मनोज्ञः । चरणौ चलयन्निति । अयं भावः मच्
चरणदर्शन्प्रतिघातजं क्रोधं तौ दर्शयन् शमयिष्यामीति त्वरा
व्याजेन पद्भ्यामेव ययौ । श्रीसाहित्यं च निष्कामानपि विभूतिभिः
पूरयित्वा क्षमापयितुमिति । इत्येषा ।

अत्र तेषामात्मारामाणामप्यानन्ददानार्थं चरणदर्शनेन तस्य
सच्चिदानन्दघनत्वम् । श्रीसाहित्येन तच्छक्तिविलासस्यापि
स्वरूपानितरत्वं विवक्षितम् । स्वानामिति बहुवचनं द्वयोरप्य्
अपराधः सर्वेष्वेव परिवारेष्वापततीत्यपेक्षया तयोर्बहुमानाद्वा
। स्वशब्देन मुनीनां न तादृशं तद्आत्मीयत्वमिति विवक्षितम् ।

तत्र तैर्दृष्टं देवमनुवर्णयति पञ्चभिः । तं त्वागतमिति । ते
सनकादयः स्वसमधिना भाग्यं भजनीयं फलं यद्ब्रह्म तद्
एवाक्षविषयम् । यद्वा स्वसमाधेः स्वय्स हृदि ब्रह्माकारेण परतत्त्व
स्फूर्तेर्भाग्यं फलरूपम् । यतोऽक्षविषयं तदीयस्वप्रकाशकता
शक्तिसंस्कृतनिखिलधीन्द्रियस्फुरितत्वेन सम्प्रति विस्पष्टम्
एवानुभूयमानम् । अनेन पूर्ववत्तस्य शब्दस्पर्शरूपरस
गन्धाख्यानां सर्वेषामेव धर्माणां सच्चिद्आनन्दघनात्मत्वं
साधितम् । तथा नित्यमेव तथाविधसततोदित्वरमाधुरी
वैचित्र्यानुभवपूर्वकं परमप्रेमानन्दसन्दोहेन सेवमानैस्
तस्यात्मीयैः पुरुषैरानीत सेवोपविक [?] नानावस्तुभिः सेव्यमानं
भगवन्तं कथञ्चित्क्वचित्कदाचिदेव तदानीं केनापि समाधिज
भाग्योदयेन केवलमपश्यन्निति तेषां परमविदुषां
स्पृहास्पदावस्थेषु श्रीवैकुण्ठपुरुषेषु कस्या अपि भगवद्आनन्द
शक्तेर्विलासमयत्वं दर्शितम् ।

अथ तेषां भगवद्रतेरुद्दीपनत्वेन चित्तक्षोभकत्वात्तत्
परिच्छदादीनामपि तादृशत्वमाह हंसेति सार्धैस्त्रिभिः । केशरा
मुक्तामयप्रलम्बाः । कृत्स्नप्रसादेति । कृत्स्नस्य द्वारपालमुनि
वृन्दस्य प्रसादे सुमुखमिति स्पृहणीयानां गुणानां धाम स्थानमिति
। तत्तद्गुणानां तादृशत्वं दर्शितम् । स्नेहावलोकेति विलासस्य । स्वः सुख
भोगस्थानानि नित्यानन्तानन्दरूपित्वात् । तेषां चूडामणिमात्मधिष्ण्यं
स्वस्वरूपं स्थानं श्रीवैकुण्ठम् । तादृशत्वेऽप्युरसि शोभितया श्रिया
कृत्वा सुभगयन्तमिव तत्र भूषणविशेषं निदधानमिव । इवेति
वाक्यालङ्कारे । अनेन श्रीवैकुण्ठस्य ।

उक्तं च तद्विश्वगुर्वित्यादौ आपुः परां मुदमित्यादि [भागवतम् ३.१६.२६] ।
वक्ष्यते च

अथ ते मुनयो दृष्ट्वा
नयनानन्दभाजनम् ।
वैकुण्ठं तद्अधिष्ठानं
विकुण्ठं च स्वयंप्रभम् ॥ [भागवतम् ३.१६.२७]

भगवन्तं परिक्रम्य
प्रणिपत्यानुमान्य च ।
प्रतिजग्मुः प्रमुदिताः
शंसन्तो वैष्णवीं श्रियम् ॥ [भागवतम् ३.१६.२८]

पीतांशुके इति । काञ्च्या वनमालया चेत्यत्रेत्थ्मभूतलक्षणे तृतीया ।
विद्युदिति । हरता मनोहरेण ।

तदेवं परिच्छदादीनामपि तादृशत्वं वर्णयित्वा पुनस्तस्यैवातिमनो
हरत्वमाह अवोपसृष्टमिति[*Eण्ड्ण्Oट्E ॰२५] । इन्दिराया उत्स्मितं गर्वः
अव भगवति उपसृष्टम् । अस्य कान्तस्य नित्येन लाभेन नित्यमेवाधिकम्
आविर्भावितमिति तदीयानां धिया वितर्कितम् । अत्र हेतुः बहु
सौष्ठवाढ्यमनन्तस्वरूपगुणसम्पद्भिर्युक्तम् ।

नन्वेवम्भूतस्य लक्ष्म्या अपि रहस्यमहानिधिरूपस्य परमवस्तुनः
कथं प्रकाशः स्मभवतीत्यत आह मह्यमिति । मदादीनां भक्तानां
कृते अङ्गं भजन्तं मूर्तिं प्रकटयन्तमस्मद्विषयकमङ्गीकारं
भजन्तमित्यर्थः ।

उल्लङ्घितत्रिविधसीमसमातिशायि
सम्भावनं तव परिव्रढिमस्वभावम्
मायाबलेन भवतापि निगुह्यमानं
पश्यन्ति केचिदनिशं त्वद्अनन्यभावाः ॥ [ष्तोत्ररत्न, १३] इतिवत् ।

भक्तिरेवैनं नयति भक्तिरेवैनं दर्शयतीत्यादि श्रुतेः । तथाभूतं
तमचक्षतेति । निरीक्ष्य च मुदा कैः शिरोभिर्नेमुः । न विशेषेण तृप्ता
दृशो नेत्राणि येषां ते ।

तस्येति [३.१५.४३]। टीका च स्वरूपानन्दादपि तेषां भजनानन्दाधिक्यम्
इत्याह । तस्य पदारविन्दकिञ्जल्कैः केशरैर्मिश्रा या तुलसी तस्या
मकरन्देन युक्तो यो वायुः, स्वविवरेण नासाच्छिद्रेण, अक्षरजुषां
ब्रह्मानन्दसेविनामपि, संक्षोभं चित्तेऽतिहर्षं तनौ रोमाञ्चम् । इत्य्
एषा ॥

अत्र पदयोररविन्दकिञ्जल्कमिश्रा या तुलसीति व्याख्येयम् । अरविन्द
तुलस्यौ च तदानीं वनमालास्थिते एव ज्ञेये । अस्तु तावद्भगवद्आत्म
भूतानां तेषामङ्गोपाङ्गानां तेषु क्षोभकारित्वं तत्समन्धि
समन्धिनो वायोरपीति भावः ।

हर्षकारितं सम्भ्रममाह द्वाभ्याम् । ते वा [३.१५.४४] इति । ते वै किल,
वदनमेव असितपद्मकोषः ईषद्विकसितं नीलाम्बुजं तमुतूर्ध्वं
वीक्ष्य लब्धमनोरथाः सन्तः, नया एवारुणमणयः तेषां श्रयणम्
आश्रयभूतमङ्घ्रिद्वन्द्वं पुनरवेक्ष्य अधोदृष्ट्या वीक्ष्य पुनः
पुनरेवं वीक्ष्य युगपत्सर्वाङ्गलावण्यग्रहणाशक्तेः पश्चान्
निदधुश्चिन्तयामासुः, युगपदेव कथमिदमिदं सर्वं पश्येमेत्य्
उत्कण्ठाभिः स्थायिभावपोषकं चिन्ताख्यं भावमापुरित्यर्थः ।

पुंसामिति । बहुमतं ब्रह्मणोऽपि धनप्रकाशत्वादत्यादरास्पदम् ।
पौंस्नं [?] वपुर्दर्शयानमिति । पुरुषस्य गर्भोदशायिनो गुणावतार
रूपं श्रीविष्ण्व्आख्यं यद्वपुस्तदभिन्नतया स्वं वपुर्दर्शयन्तं,
न तु ब्रह्मादिवदन्यथात्वेनेत्यर्थः । अनन्येन स्वेनैव सिद्धै’स्वरूप
भूतैरित्यर्थः । अतएवोत्पत्तिकैः तद्वदेवानादिसिद्धैरित्यर्थः ।
अणिमाद्य्अष्टैश्वर्ययुतं विशिष्टं न तूपलक्षितम् । अनेन त्तेषां स्तुत्य्
आस्पदविशेषणत्वेन ऐश्वर्योपलक्षितसमस्तभगानां तादृशत्वं
व्यञ्जितम् । समगृणन् सम्यगस्तुवन्निति ।

अथ श्रीभगवतस्तादृशभावव्यञ्जिनीं निजामुक्तिं तेषामेव स्व
हार्दाभिव्यक्तिकरेण स्तुतिवाक्येन प्रमाणयति, श्रीकुमारा ऊचुरिति ।

स्तुतिमाह य इति पञ्चभिः । अत्राक्षरजुषामपि [भागवतम् ३.१५.४३] इत्यनुसृत्य
व्याख्यायते । नित्यं ब्रमरूपेण प्रकाशसे न तच्चित्रम् । इदानीं तु
विशुद्धसत्त्वलक्सणेन स्वरूपशक्तिवृत्तिविशेषेण प्रकाशितया घन
प्रकाशपरतत्त्वैकरूपया मूर्त्या प्रत्यक्षोऽसि, अहो भाग्यमस्माकम्
इत्याहुः ।

हे अनन्त यस्त्वं हृद्गतोऽपि दुरात्मनामन्तर्हितो न स्फुरसि, स
नोऽस्माकमन्तर्हितो न भवसि, नयनमूलं त्वयैव राद्धः प्राप्तोऽसि ।
तथा च अपि संराधने प्रत्यक्षानुमानाभ्यामित्यस्य विषयवाक्यम्
पराञ्चि यानि व्यतृणत्स्वयम्भूस्तस्मात्पराङ्पश्यसि नान्तरात्मन् ।
कश्चिद्धीरः प्रत्यग्आत्मानमैक्षदावृत्तचक्षुरमृतत्वमिच्छन्निति
। अन्तर्धानाभावे हेतुः भवद्उद्भवेन ब्रह्मणा तेनास्मत्पित्रा यर्हि
यदैवानुवर्णितरहा उद्दिष्टब्रह्माख्यरहस्यः, तदैव नः कर्म
मार्गेण तद्रूपतया गुहाः बुद्धिं गतोऽस्मीति ।

ननु, पित्रोपदिष्टं भवतामदृश्यमात्मतत्त्वाख्यं रहः, अहं त्वन्य
एव स्यां दृश्यत्वात् । नैवम् । अस्मत्प्रत्यभिज्ञया भेदनिरासादित्याहुः
तं त्वामिति । हे भगवन् परं केवलमात्मतत्त्वं ब्रह्मस्वरूपं त्वां
विदाम विद्मः प्रत्यभिजानीमः । केन प्रत्यभिजानीथ? सम्प्रति अधुना
सत्त्वेन, अस्मास्वेतद्रूपाविर्भावेन । एतावन्तं कालं न ज्ञातवन्तो वयं,
अधुना तु साक्षाद्अनुभवेन निश्चितवन्तः स्म इत्यर्थः । त्वं शुद्ध
चित्तवृत्तौ ब्रह्मवत्नेत्रेऽप्यस्माकं स्फुरसि, न तु दृश्यत्वेनेति भावः
। न केवलं प्रत्यभिज्ञामात्रमित्याहुः । एषामस्माकं रतिं रचयन्तम्
अन्यथा रतिरपि त्वय्यस्माकं नोद्भवेदिति भावः ।

निरहंमानादित्वेनान्येषामप्यात्मारामाणामन्यतो रत्य्अभावमेव
द्योतयन्तस्तद्आत्मतत्त्वमाहुः तत्रैव साधनवशिष्ट्यात्किमपि
वैशिष्ट्यं चाहुः । यत्त्वद्रूपत्वेनाविर्भवद्आत्मतत्त्वं तेऽनुतापः
कृपा, तेनैव विदितैर्दृढभक्तियोगैर्विदुः । यद्वा अनुतापो दैन्यं तेन
विदितैस्ते तव दृढभक्तियोगैः । कीदृशाः ? उद्ग्रन्थयो निरहंमानाः
। अतएव विरागाः । तदेवं पित्रानुवर्णितरहा इत्यत्र रहःशब्दश्चतुः
श्लोकीरीत्या प्रेमभक्तेरेव वाचक इति व्यञ्जितम् ।

अथ पूर्वमभेदमतयोऽपि सम्प्रति स्वरूपानन्दशक्तिविलासैर्विचित्रित
मतयो भूयोऽपि भेदात्मिकां भक्तिमेव प्रार्थयितुं भक्तानां
सुखातिशयमाहुः, नात्यन्तिकमिति । आत्यन्तिकं मोक्षलक्षणं प्रसादम्
अपि, किमुतान्यदिन्द्रादिपदम् ।

इदानीं स्वापराधं द्योतयन्तो भक्तिं प्रार्थयन्ते काममिति । हे
भगवन्म्, अतः पूर्वमस्माकं वृजिनं नाभवत् । इदानीं तु सर्वाण्यपि
जातानि यतस्त्वद्भक्तौ शप्तौ । अतस्तैर्वृजिनैर्निरयेषु कामं
नोऽस्माकं भवो जन्म स्यात् । अनेन तद्अधिगम उत्तरपूर्वार्धयोर्
अश्लेषविनाशौ तद्व्यपदेशादिति न्यायेनासम्भवतद्भावानां ब्रह्म
ज्ञानिनामपि स्वेषां बहुनरककारिवृजिनापातक्षमापणेन तयोर्
इत्थम्भूतगुणो हरिरितिवत्सर्वाद्भुतमहत्तमत्वं सूचितम् । अहो निरया
अपि भवेयुरेव, न तावतापि पर्याप्तं, तेभ्यश्च नास्माकमपि भयम्
। अत्र तु मूलं दुष्फलं भगवत्पराङ्मुखीभाव एव, स त्वस्माकं
माभूदिति सकाकु प्रार्थयन्ते । नु वितर्के । यदि तु नश्चेतस्ते पदयो
रमेत, तत्राप्यलिरदेव केवलतन्माधुर्यास्वादापेक्षया, न तु
ब्रह्मात्मानुभवापेक्षया, एवं वाचश्चेत्यादि । अत्र भतापराधस्य
भगवता क्षमा तद्इच्छामात्रकृततत्क्रोधजननात्तेषाम्
अपराधाभासत्वेनेति ज्ञेयम् ।

श्लोकद्वयेऽस्मिन् कैवल्यान्नरकोऽपि त्वद्भक्तिमात्रं कामयमानानाम्
अस्माकं तद्अविरोधत्वात्श्रेयानिति स्वारस्यलब्धं, तथापीत्थं
कृतार्थत्वमस्माकमतिचित्रमित्याहुः प्रादुरिति । अनात्मनामात्मनस्
तव एकान्तभक्तिरहितानामप्रकटोऽपि इतित्थं यः प्रतीतोऽसि, तस्मै
तुभ्यं नम इदं विधेमेति । तत्रैतदुक्तं भवति । एते ब्रह्मविद्या
सिद्धानां परावरगुरूणामपि गुरवः । अतएव परमहंसमहा
मुनीनामित्युक्तम् ।

तं त्वामहं ज्ञानघनं स्वभाव
प्रध्वस्तमायागुणभेदमोहैः ।
सनन्दनाद्यैर्हृदि संविभाव्यम्[*Eण्ड्ण्Oट्E ॰२६] [भागवतम् ९.८.२३]

इति श्रीमद्अंशुमद्वाक्यादौ इहात्मतत्त्वं सम्यग्जगाद मुनयो यद्
अचक्षतात्मन्निति [भागवतम् २.७.५] ब्रह्मवाक्यादौ, तस्मै मृदितकषायाय
तमसः पारं दर्शयति भगवान् सनत्कुमार इत्यादि श्रुतौ च तथा
प्रसिद्धम् । आसन्नानुभवस्यैव तु सिद्धस्याणिमादिभिर्विघ्नोऽपि
सम्भाव्यः । न तु सिद्धानुभवस्य, तं सप्रपञ्चमधिरूढसमाधि
योगः स्वाप्नं पुनर्न भजते प्रतिबुद्धवस्तुरिति [भागवतम् ३.२८.३८] श्री
कपिलदेववाक्यात् ।

अतेव तेषां प्रध्वस्तमायागुणभेदमोहानां क्रोधादिकमपि
दुर्घटघटनाकारिण्या श्रीभगवद्इच्छयैव जातमिति तैरपि
व्याख्यातम् । तदेवं तेषां सततब्रह्मानन्दमग्नत्वं सिद्धम् । तद्
उक्तम् अक्षरजुषामपीति [भागवतम् ३.१५.४३], योऽन्तर्हित [भागवतम् ३.१५.४६] इत्यादि च
। श्रूयते चान्यत्र ब्रह्मजुषामविक्षिप्तचित्तत्वम् । यथा सप्तमे श्री
नारदवाक्यम्

कामादिभिरनाबिद्धं प्रशान्ताखिलवृत्तिर्यत् ।
चित्तं ब्रह्मसुखस्पृष्टं नैवोत्तिष्ठेत कर्हिचित् ॥ इति [भागवतम् ७.१५.३५]

तथापि तेषां भगवद्आनन्दाकृष्टचित्तत्वमुच्यते । एवमन्येषामप्य्
आत्मारामाणां तादृशत्वं श्रूयते । स्वसुखनिभृतचेतास्तद्व्युदस्तान्य्
अभावोऽप्यजितरुचिरलीलाकृष्टसारः [भागवतम् १२.१२.६८] इत्यादिषु ।

अथ लोकसङ्ग्रहार्थैर्वेषा तेषां भक्तिप्रक्रिया प्राचीनसंस्कारवशा
वा ? नैवम् । उभयत्रापि वासो यथा परिकृतं मदिरामदान्ध [भागवतम्
३.२८.३७] इतिवत्तत्रावेशासम्भवात् । दृश्यते त्वन्यत्रानावेशः मानसा मे
सुता युष्मत्पूर्वजाः सनकादयः । चेरुर्विहायसा लोकान् लोकेषु विगत
स्पृहा [भागवतम् ३.१५.१२] इत्यभिधानात् । भगवति त्वावेशः परमहंस
महामुनीनामन्वेषणीयचरणौ [भागवतम् ३.१५.३७] इत्यत्र
यादृच्छिकताविरोध्य्अन्वेषणीयत्वाभिधानात् । पञ्चमे तु, असङ्गनिशित
ज्ञानानलविधूताशेषमलानां भवत्स्वभावनामात्मरामाणां
मुनीनामनवरतपरिगुणितगुणगण [भागवतम् ५.३.११] इत्यत्र गद्ये तद्एक
निष्ठत्वमप्युक्तम् । अजितरुचिरलीलाकृष्टसार इत्य्[भागवतम् १२.१२.६९] अत्रैव
च । अत्रापि तेनेश निवृत्तिमवापुरलं दृशो न [भागवतम् ३.१५.५०] इत्यादौ
सुखदत्वमपि साक्षादेवोक्तम् । अत्र पूर्वोक्तहेतोश्च स्तुतौ
प्रतुतोपालम्भप्रसङ्गाच्च स्नेहावलोककलया हृदि संस्पृशन्तमिति [भागवतम्
३.१५.३९] साक्षादुक्तेश्च दृशामेव सुखं जातमित्यनासक्तिरेव व्यञ्जितेत्य्
अपि न व्याख्येयम् ।

तस्मादात्मारामाणां रमणास्पदत्वाद्ब्रह्माख्यमात्मवस्त्वेव श्री
भगवान् । तत्रापि चकार तेषां संक्षोभमक्षरजुषामपि चित्ततन्वोर्
इति [भागवतम् ३.१५.४३] श्रवणात्ततोऽपि घनप्रकाशः । तत्तद्विचित्रश्रीभगवद्
अङ्गोपाङ्गाद्य्अभिनिवेशदर्शनानन्दवैचित्री चोपलभ्यते, सा
चान्यथानुपपत्त्या स्वरूपशक्तिविलासरूपैवेति ।

ननु, भवतु तेषामानन्दाधिक्यात्तस्मिन्निर्विशेषस्वरूपानन्दस्यैव
घनप्रकाशता, उपाधिवैशिष्ट्यात् । यतः, विशुद्धसत्त्वांशभावितायां
चित्तवृत्तौ यद्ब्रह्म स्फुरति । तदेव घनीभूताखण्डविशुद्धसत्त्व
मये भगवति स्फुरत्तद्अध्यस्ततया तदैक्यमापन्नायां तस्यां
विशेषत एव स्फुरति । अतएव श्रीविग्रहादिपरब्रह्मणोरभेदवाक्यम्
अपि तदत्यन्ततादात्म्यापेक्षयैव । अतएव तत्र तत्रोपाधावेक एव
निर्भेदपरमानन्दः समुपलभ्यते, न तु विशेषाकारगन्धोऽपि, तत्तद्
उपाधेरपेक्षणं तु प्रतिपदतद्आनन्दसमाधिकौतुकनिबन्धनं
तस्मात्कथमनेन प्रमाणेन तत्तद्उपाधीनामपि परतत्त्वाकारत्वं
साध्यते इति । उच्यते भवन्मते तावत्शुद्धचित्तवृत्तौ परब्रह्म
स्फुरति सम्यगेव स्फुरति । भेदांशलेशपरित्यागेनैव ब्रह्म
विद्यात्वाङ्गीकारात् । असम्यग्ज्ञानस्य तत्त्वानङ्गीकारात्तेन
कैवल्यासम्भवाच्च । अतो न श्रीविग्रहादावधिकाविर्भावाङ्गीकारो
युज्यते ।

किं च, शुद्धसत्त्वमया विग्रहादिलक्षणोपाधय इति वदतस्तव
कोऽभिप्रायः ? किं तत्परिणामास्ते तत्प्रचुरा वा ? नाद्यः, रजोऽसद्
भावेन परिणामासम्भव इति ह्युक्तम् । न चान्त्यः, येषु विग्रहादिषु तत्
प्राचुर्यं ते मिश्रसत्त्वस्य कार्यभूता इत्यर्थापत्तौ सत्त्वं विशुद्धं
श्रयते भवान् स्थितौ [भागवतम् १०.२.३४] इत्यादिवचनजाते विशुद्धपद
वैयर्थ्यमिति चोक्तमेव । अस्तु वा विमिश्रत्वं तथापि तादृशे ब्रह्म
स्फुरणयोग्यतैव न सम्भवेत्किं पुनर्विशेषणेत्युद्देश्यविस्मृतिश्च
स्यात् । अथाखण्डविशुद्धसत्त्वाश्रयत्वेन तेऽपि तद्रूपतयैवोच्यन्ते ।

ततश्च तेष्वनुभूताखण्डशुद्धसत्त्वे तस्मिन् ब्रह्मानुभवन्तीति चेत्,
ततयुक्तं कल्पनागौरवात्, तेऽचक्षताक्षविषयं स्वसमाधिभाग्यम्
इति [भागवतम् ३.१५.३८] साक्षादेव गोचरीकृतत्वेन उक्ततया परम्परादृष्टत्व
प्रतिघाताच्च । तस्य शुद्धसत्त्वस्य प्राकृतत्वं तु निषिद्धमेव । तस्मान्
न ते प्राकृतसत्त्वपरिणामा न वा तत्प्रचुराः, किन्तु स्वप्रकाशत्ता
लक्षणशुद्धसत्त्वप्रकाशिता इति प्राक्तनमेवोक्तं व्यक्तम् । अतएव
तेषामुपाधित्वनिराकृतेस्तत्तद्अनुभवानन्दवैचित्री च सम्पद्यते ।
तथैव तमेवमेवम्भूतमचक्षतेति तत्तद्विषयसौन्दर्यवर्णनन्ं
प्रस्तुतोपकारित्वात्सार्थकं स्यात् । अखण्डशुद्धसत्त्वमय
मात्रेणैवाभिप्रेतसिद्धेः । अतएव निरीक्ष्य च न वितृप्तदृश [भागवतम् ३.१५.४२]
इति दृक्सम्बन्धि त्वद्रूपकृतैवातृप्तिरुक्ता ।

तथैव च शब्देनैवाक्षरजयित्वं पदारविन्दपरिमलात्मकवायु
लक्षणस्यतद्विशेषस्यदर्शितम् । अन्यथोभयत्रापि ब्रह्मानन्दस्यैव
निर्विशेषतयोपलभ्यमानत्वे विद्याजुषामपीत्युपाधिप्रधानमेवोच्यते
। उपाधियुगलस्यैव मिथः स्पर्धित्वप्राप्तेः । अनेनाक्षरानुभव
मुखजयित्वकथनेन वैशिष्ठादीनं पुत्रशोकादिकमिव तद्
आवेशाभास एवायमित्यपि निरस्तम् । अत एवमेवोक्तं श्रीस्वामिभिरपि
स्वरूपानन्दादपि तेषां भजनानन्दाधिक्यमाहेति । तस्मादस्ति
वैचित्र्यम् । इति । अतएव तैरपि विचित्रतयैव प्रार्थितं चेतोऽलिवद्यदि नु ते
पदयो रमेत [भागवतम् ३.१५.४९] इत्यादौ । अक्क चेन्मधु विन्देत किमर्थं
पर्वतं व्रजेतिति न्यायेन तद्उपाध्य्अन्तरान्वेषणवैयर्थ्यात्तेषाम्
अतद्अन्वेषणकौतुकाभावाच्च ।

किं च, न तेषामभेदात्मकोऽनुभवो वा दृश्यते, प्रत्युत नेमुर्निरीक्ष्य
न वितृप्तदृशो मुदा कैः [भागवतम् ३.१५.४२], कामं भवः स्ववृजिनैर्निरयेषु
नः स्तादित्यादौ [भागवतम् ३.१५.४९], तत्प्रतियोगिनमस्काराद्य्उपलक्षित
भेदात्मकभक्तिसुखमेव दृश्यते । तस्मान्मायिकोपाधिनिहीनत्वाद्
धेयांशतया प्रतिभातत्वाच्च न तज्जातीयं सुखमन्यजातीयं कर्तुं
शक्नोतीति सन्त्येवान्यथानुपपत्तिसिद्धायाःस्वरूपशक्तेरेव विलासाः ।

अपि च अस्तु तावज्जीवन्मुक्तदशायां तन्मते विद्योपाधि
प्रतिफलितस्यैव सतो ब्रह्मणः सकाशात्श्रीभगवतो घनप्रकाशतो
सर्वोपाधिविनिर्मुक्तमुक्तिदशायामपि साक्षात्तादृशतास्त्येवेति
सुव्यक्तं नात्यन्तिकं विगणयन्त्यपि ते प्रसादम् [भागवतम् ३.१५.४८] इत्यादौ
तस्मान्नोपाधितारम्यचिन्ता । भवतः कथाया [भागवतम् ३.१५.४८] इत्यनेन
निरुपाधिब्रह्मभूतादुपरि च वैचित्री स्फुटमेवासौ स्वीकृता । तस्मात्
सान्तरङ्गवैभवस्य भगवतः सुखैकरूपत्वं, तद्रूपत्वेऽपि
ब्रह्मतोऽपि घनप्रकाशत्वं, स्वरूपशकित्विलासवैचित्री चेति विद्वद्
अनुभवप्रमाणेन निर्णीतम् । तत्र, मुक्ता अपि लीलया विग्रहं कृत्वा
भजन्त इति । यं सर्वे देवा आमनन्ति मुमुक्षवो ब्रह्मवादिनश्चेत्यत्र
श्रुतावद्वैतवादगुरवोऽपि । कृष्णो मुक्तैरिज्यते वीतमोहैरिति भारते


ब्रह्मभूतः प्रसन्नात्मा
न शोचति न काङ्क्षति ।
समः सर्वेषु भूतेषु
मद्भक्तिं लभते पराम् ॥ इति [गीता १८.५४] श्रीभगवद्गीतोपनिषत्सु ।

मुक्तानामपि भक्तिर्हि नित्यानन्दस्वरूपिणीति भारततात्पर्ये प्रमाणिता
श्रुतिश्च । तथा आप्रायणात्तत्रापि हि दृष्टमित्यत्र च मध्वभाष्य
प्रमाणिता सौपर्णश्रुतिः । सर्वदैनमुपासीत यावन्मुक्तिमुक्ता ह्य्
एनमुपासत इति । अतेव श्रीप्रह्लादबलिप्रभृतिमहाभागवत
सम्बन्धमभिप्रेत्य श्रीविष्णुपुराणे[*Eण्ड्ण्Oट्E ॰२७]ऽप्युक्तं पाताले
तस्य न प्रीतिर्विमुक्तस्यापि जायते इति ।

॥ ३.१५ ॥ श्रीब्रह्मा देवान् ॥८५॥

[८६]

अतएव शेषपुरुषार्थस्वरूप एवासाविति स्फुटमेवाहुर्गद्येन

अथानयापि न भवत इज्ययोरुभारभरया समुचितमर्थम्
इहोपलभामहे । आत्मन एवानुसवनमञ्जसाव्यतिरेकेण
बोभूयमानाशेषपुरुषार्थस्वरूपस्य ॥ [भागवतम् ५.३.७८]

टीका च आत्मनः स्वत एवानुसरणं सर्वदा अञ्जसा साक्षाद्वोभूयमाना
अतिशयेन भवन्तो ये अशेषाः पुरुषार्थास्ते स्वरूपं यस्य परमानन्दस्य
इत्येषा । श्रुतिश्च सर्वकामः सर्वगन्धः सर्वरसः इत्यादौ ॥

॥ ५.३ ॥ ऋत्विग्आदयः श्रीयज्ञपुरुषम् ॥८६॥

[८७]

तदेवं ब्रह्मणोऽपि यत्श्रीभगवति प्रकाशसम्यक्त्वं तत्पूर्वमेव
विद्वद्अनुभववचनप्रचयेन सिद्धमपि विशेषतो विचार्यते । तत्रैकम्
एव तत्त्वं द्विधा शब्द्यत इति न वस्तुनो भेद उपपद्यते । आविर्भावस्यापि
भेददर्शनात्न च संज्ञामात्रस्य, किन्तुस्वस्वदर्शनयोग्यताभेदेन
द्विविधोऽधिकारी द्विधा दृष्टं तदुपास्त इति । तत्राप्येकस्य दर्शनस्य
वास्तवत्वमन्यस्य भ्रमजत्वमिति न मन्तव्यमुभयोरपि
याथार्थ्येन दर्शितत्वात् । न चैकस्य वस्तुनः शक्त्या
विक्रिअय्माणांशकत्वादंशतो भेदः । विकृतत्वनिएधात्तयोः । तस्माद्
दृष्टेरसम्यक्सम्यक्त्व [?] सत्यपि सम्यक्त्वे तद्अननुसन्धानाद्वा
एकस्मिन्नधिकारिण्येकदेशेन स्फुरदेकभेदः परस्मिन्नखण्डतया
द्वितीयो भेदः । एवं सति यत्र विशेषं विनैव वस्तुनः स्फूर्तिः, सा दृष्टिर्
असम्पूर्णा, यथा ब्रह्माकारेण, यत्र स्वरूपभूतनानावैचित्री
विशेषवद्आकारेण, सा सम्पूर्णा, यथा श्रीभगवद्आकारेणेति लभ्यते । त
एतदभिप्रेत्य प्रथमं दृष्टितारतम्येन तद्अभिव्यक्तितारतम्यं तन्
महापुराणाविर्भावकारणाभ्यां प्रतिपाद्यते षड्भिः ।

श्रीनारद उवाच

जिज्ञासितमधीतं च
ब्रह्म यत्तत्सनातनम् ।
तथापि शोचस्यात्मानम्
अकृतार्थ इव प्रभो ॥ [भागवतम् १.५.४]

श्रीव्यास उवाच
अस्त्येव मे सर्वमिदं त्वयोक्तं
तथापि नात्मा परितुष्यते मे ।
तन्मूलमव्यक्तमगाधबोधं
पृच्छामहे त्वात्मभवात्मभूतम् ॥ [भागवतम् १.५.५]

स वै भवान् वेद समस्तगुह्यम्
उपासितो यत्पुरुषः पुराणः ।
परावरेशो मनसैव विश्वं
सृजत्यवत्यत्ति गुणैरसङ्गः ॥ [भागवतम् १.५.६]

श्रीनारद उवाच
भवतानुदितप्रायं
यशो भगवतोऽमलम् ।
येनैवासौ न तुष्येत
मन्ये तद्दर्शनं खिलम् ॥ [भागवतम् १.५.८]

नैष्कर्म्यमप्यच्युतभाववर्जितं
न शोभते ज्ञानमलं निरञ्जनम् ।
कुतः पुनः शश्वदभद्रमीश्वरे
न चार्पितं कर्म यदप्यकारणम् ॥ [भागवतम् १.५.१२]

ओं नमो भगवते तुभ्यं
वासुदेवाय धीमहि ।
प्रद्युम्नायानिरुद्धाय
नमः सङ्कर्षणाय च ॥ [भागवतम् १.५.३७]

इति मूर्त्य्अभिधानेन
मन्त्रमूर्तिममूर्तिकम् ।
यजते यज्ञपुरुषं
स सम्यग्दर्शनः पुमान् ॥ [भागवतम् १.५.३८]

श्लोका अमी बहुभिः संमिश्रा अप्यविस्तरत्वाय झटित्यर्थप्रत्ययस्य च
संक्षिप्यैव समुद्धताः । क्रमेणार्था यथा जिज्ञासितमिति । टीका च यत्
सनातनं नित्यं परं ब्रह्म, तच्च त्वया जिज्ञासितं विचारितम्, अधीतम्
अधिगतं प्राप्तं चेत्यर्थः । तथापि शोचसि तत्किमर्थमिति शेषः । इत्य्
एषा ।

त्वमिति त्वमर्क इव त्रिलोकीं पर्यटन् तथा वैष्णवयोगबलांशेन च
प्राणवायुरिव सर्वप्राणिनामन्तश्चरः सनात्मनां सर्वेषामेव
साक्षी बहिरन्तर्वृत्तिज्ञः । अतः परे ब्रह्मणि धर्मतो योगेन निष्टातस्य
। तदुक्तं याज्ञवल्क्येन

इज्याचारदयाहिंसा
दानस्वाध्यायकर्मणाम् ।
अयं परमो लाभो यद्
योगेनात्मदर्शनम् ॥ इति ।

अवरे च ब्रह्मणि वेदाख्ये व्रतैः स्वाध्यायनियमैर्निष्णातस्यापि मे
अलम अत्यर्थं यन्न्यूनं तत्स्वयमेव विचक्ष्व वितर्कय । भवतेति ।
भगवद्यशोवर्णनोपलक्षणं भजनं विना येनैव रुक्षब्रह्म
ज्ञानेन असौ भगवान् तु तुष्येत, तदेव दर्शनं ज्ञानं खिलं न्यूनं
मन्ये तदेव स्पष्टयति । नैष्कर्म्यमिति ।

टीका च निष्कर्म ब्रह्मवेदेकाकारत्वान्निष्कर्मतारूपं नैष्कर्म्यम्
अज्यतेऽनेनेत्यञ्जनमुपाधिः तन्निवर्तकं निरञ्जनम् । एवम्भूतमपि
ज्ञानमच्युते भावो भक्तिस्तद्वर्जितं चेतलमत्यर्थं न शोभते
सम्यग्अपरोक्षत्वाय न कल्पत इत्यर्थः । तदा शाश्वत्साधनकाले फल
काले च अभद्रं दुःखस्वरूपं यत्काम्यं कर्म, यदप्यकारणम्
अकाम्यं तच्चेति चकारस्यान्वयः । तदपि कर्म ईश्वरे नार्पितं चेत्कुतः
पुनः शोभते ? बहिर्मुखत्वेन सत्त्वशोधकत्वाभावात् । इत्येषा ।

यद्वा निरञ्जनमिति निरूपाधिकमपीत्यर्थः । परमादरणीयत्वादेव
द्वादशान्ते श्रीसूतेनापि पुनः कृतमिदं पद्यम् ।

तस्मादुक्तिरेव सम्यग्दर्शनहेतुरित्युपसंहरति द्वाभ्यां नम इति
। मन्त्रमूर्तिं मन्त्रोक्तमूर्तिं, मन्त्रोऽपि मूर्तिर्यस्येति वा । अमूर्तिकं
मन्त्रोक्तव्यतिरिक्तमूर्तिशून्यं, प्राकृतमूर्तिरहितं वा, मूर्ति
स्वरूपयोरेकत्वात्प्राकृतवन्न विद्यते पृथक्त्वेन मूर्तिर्यस्य
तथाभूतं वा । स पुमान् सम्यग्दर्शनः साक्षाच्छ्रीभगवतः साक्षात्
कर्तृत्वादिति भावः ॥

॥ १.५ ॥ श्रीसुतः ॥८७॥

[८८]

तदेवं दृष्टितारतम्यद्वारा तद्अभिव्यक्ततारतम्येन श्रीभगवत
उत्कर्ष उक्तः । अथ लिङ्गान्तरैरपि दर्श्यते । तत्रात्मरामजनाकर्ष
लिङ्गेन गुणोत्कर्षविशेषेण तस्यैव पूर्णतामाह ।

आत्मारामाश्च मुनयो
निर्ग्रन्था अप्युरुक्रमे ।
कुर्वन्त्यहैतुकीं भक्तिम्
इत्थम्भूतगुणो हरिः ॥ [भागवतम् १.७.१०]

टीका च निर्ग्रन्था ग्रन्थेभ्यो निर्गताः । तदुक्तं गीतासु

यदा ते मोहकलिलं बुद्धिर्व्यतितरिष्यति ।
तदा गन्तासि निर्वेदं श्रोतव्यस्य श्रुतस्य च ॥ [गीता २.५२] इति ।

यद्वा ग्रन्थिरेव ग्रन्थः निर्वृत्तहृदयग्रन्थय इत्यर्थः । ननु
मुक्तानां किं भक्त्येत्यादिसर्वाक्षेपपरिहारार्थमाह इत्थम्भूत
गुणः । इत्येषा ॥

॥ १.७ ॥ श्रीसूतः ॥८८॥

[८९]

आरोहभूमिकाक्रमेणापि तस्यैवाधिक्यमाह

मनो ब्रह्मणि युञ्जानो
यत्तत्सदसतः परम् ।
गुणावभासे विगुण
एकभक्त्यानुभाविते ॥ [भागवतम् ३.२४.४२]

निरहङ्कृतिर्निर्ममश्च
निर्द्वन्द्वः समदृक्स्वदृक् ।
प्रत्यक्प्रशान्तधीर्धीरः
प्रशान्तोर्मिरिवोदधिः ॥ [भागवतम् ३.२४.४३]

वासुदेवे भगवति
सर्वज्ञे प्रत्यग्आत्मनि ।
परेण भक्तिभावेन
लब्धात्मा मुक्तबन्धनः ॥ [भागवतम् ३.२४.४४]

आत्मानं सर्वभूतेषु
भगवन्तमवस्थितम् ।
अपश्यत्सर्वभूतानि
भगवत्यपि चात्मनि ॥ [भागवतम् ३.२४.४५]

इच्छाद्वेषविहीनेन
सर्वत्र समचेतसा ।
भगवद्भक्तियुक्तेन
प्राप्ता भागवती गतिः ॥ [भागवतम् ३.२४.४६]

एकभक्त्या अव्यभिचारिण्या साधनलक्षणया भक्त्या, अनुभाविते
निरन्तरमपरोक्षीकृते, तां विना कस्यचिदप्यर्थस्यासिद्धेः ।
निरहङ्कृतित्वादेव निर्ममः । तद्द्वयाभावादेव मनादीनामप्य्
अभावः सिध्यति । समदृक्भेदाग्राहकः । स्वदृक्स्वस्वरूपाभेदेन
ब्रह्मैव पश्यन् । प्रत्यकन्तर्मुखी प्रशान्ता विक्षेपरहिता धीर्ज्ञानं
यस्य सः ।

तदेवं ब्रह्मज्ञानमिश्रभक्तिसाधनवशेन ब्रह्मानुभवे जातेऽपि
भक्तिसंस्कारबलेन लब्धप्रेमादेस्तद्ऊर्ध्वमपि श्रीभगवद्
अनुभवमाह । वासुदेव इति । प्रत्यग्आत्मनि सर्वेषामाश्रयभूते परेण
प्रेमलक्षणेन भक्तिभावेन तत्सत्तयैव लब्धा आत्मानस्तदीयात्मका
अहङ्कारादयो येनेति । ब्रह्मज्ञानेन प्राकृताहङ्कारादिलयानन्तरम्
आविर्भूतान् प्रेमानन्दात्मकशुद्धसत्त्वमयान् लब्धवानित्यर्थः ।

ननु त एव प्रत्यावर्तन्तां किं वा पूर्ववदमी अपि बन्धहेतवो
भवन्तु । नेत्याह, मुक्तबन्धनः । अनावृत्तिः शब्दादिति न्यायात्भक्त्य्
अतिशयेन लब्धात्मत्वमेव प्रतिपादयति, आत्मानमिति । आत्मात्र
परमात्मा, सर्वथा तस्य भगवानेवास्फुरदिति वाक्यार्थः । ततः
साक्षादेव तत्प्राप्तिमाह, इच्छाद्वेषेति । तदेवं तेन भागवती गतिः
प्राप्ता । हेयत्वादन्यत्रेच्छाद्वेषविहीनेन तस्मादेव हेतोः सर्वत्र
समचेतसा । तदुक्तम्

नारायणपराः सर्वे
न कुतश्चन बिभ्यति ।
स्वर्गापवर्गनरकेष्व्
अपि तुल्यार्थदर्शिनः ॥ [भागवतम् ६.१७.२८]

यद्वा, मया लक्ष्म्या सह वर्तते इति सम इति सहस्रनामभाष्यात्
भगवच्चेतसेति प्राप्तो भागवतीं गतिमिति पाठे, स कर्दम एव तां
गतिं प्राप्तः । अत्र भगवद्भक्तियोगेनेत्येव विशेष्यमिति । एवमेवोक्तं
श्रीभगवद्गीतोपनिषत्सु

बुद्ध्या विशुद्धया युक्तो
धृत्यात्मानं नियम्य च ।
शब्दादीन् विषयांस्त्यक्त्वा
रागद्वेषौ व्युदस्य च ॥ [गीता १८.५१]

विविक्तसेवी लघ्वाशी
यतवाक्कायमानसः ।
ध्यानयोगपरो नित्यं
वैराग्यं समुपाश्रितः ॥ [गीता १८.५२]

अहंकारं बलं दर्पं
कामं क्रोधं परिग्रहम् ।
विमुच्य निर्ममः शान्तो
ब्रह्मभूयाय कल्पते ॥ [गीता १८.५३]

ब्रह्मभूतः प्रसन्नात्मा
न शोचति न काङ्क्षति ।
समः सर्वेषु भूतेषु
मद्भक्तिं लभते पराम् ॥ [गीता १८.५४]

भक्त्या मामभिजानाति
यावान् यश्चास्मि तत्त्वतः ।
ततो मां तत्त्वतो ज्ञात्वा
विशते तद्अनन्तरम् ॥ [गीता १८.५५] इति ।

अत्र विंशतिर्मिलनार्थः, यथा दुर्योधनं परित्यज्य युधिष्ठिरं
प्रविष्टवानयं राजेति । श्रीदशमेऽपि श्रीगोपैर्ब्रह्मसम्पत्त्य्
अनन्तरमेव वैकुण्ठो दृष्ट इति श्रीस्वामिभिरेव च व्याख्यातम् ॥

॥ ३.२४ ॥ श्रीमैत्रेयः ॥८९॥

[९०]
तथा

तस्माज्ज्ञानेन सहितं
ज्ञात्वा स्वात्मानमुद्धव ।
ज्ञानविज्ञानसम्पन्नो
भज मां भक्तिभावितः ॥ [भागवतम् ११.१३.५]

स्वात्मानं जीवस्वरूपम् । ज्ञानं विज्ञानं च बाह्यम् । किं बहुना अत्र
श्रीचतुःसनशुकादय एवोदाहरणमिति ॥

॥ ११.१३ ॥ श्रीभगवान् ॥९०॥

[९१]

श्रीभगवता शब्दब्रह्ममयकम्बुस्पृष्टकपोलः तत्प्रकाशित
यथार्थनिगदो ध्रुवो बालकोऽपि तथा विवृतवानित्येवमानन्द
चमत्कारविशेषश्रवणादपि तस्यैव पूर्णत्वमाह ।

या निर्वृतिस्तनुभृतां तव पादपद्म
ध्यानाद्भवज्जनकथाश्रवणेन वा स्यात्
सा ब्रह्मणि स्वमहिमन्यपि नाथ मा भूत्
किं त्वन्तकासिलुलितात्पततां विमानात् ॥ [भागवतम् ४.९.१०]

स्वमहिमनि असाधारणमाहात्म्येऽपि माभूत्न भवतीत्यर्थः ।
अन्तकासिः कालः ॥

॥ ४.९ ॥ ध्रुवः श्रीध्रुवप्रियम् ॥ ९१ ॥

[९२]

परमसिद्धिरूपाद्ब्रह्मणि लयादपि तद्भजनस्य गरीयस्त्वेन तस्यैव
गरीयस्त्वमुपदिशति ।

अनिमित्ता भागवति
भक्तिः सिद्धेर्गरीयसी ॥ [भागवतम् ३.२५.३]

सिद्धेर्मुक्तेरपि टीका च । सिद्धेर्ज्ञानात्मुक्तेर्वेति श्रीभगवन्नाम
कौमुदी ।

॥ ३.२५ ॥ श्रीकपिलदेवः ॥ ९२ ॥

[९३]

तदेवं श्रीभगवानेवाखण्डं तत्त्वं साधकविशेषाणां तादृश
योग्यत्वाभावात्सामान्याकारोदयत्वेन तदसम्यक्स्फूर्तिरेव ब्रह्मेति
साक्षादेव वक्ति द्वाभ्याम्

ज्ञानयोगश्च मन्निष्ठो
नैर्गुण्यो भक्तिलक्षणः ।
द्वयोरप्येक एवार्थो
भगवच्छब्दलक्षणः ॥ [भागवतम् ३.३२.३२]
यथेन्द्रियैः पृथग्द्वारैर्
अर्थो बहुगुणाश्रयः ।
एको नानेयते तद्वद्
भगवान् शास्त्रवर्त्मभिः ॥ [भागवतम् ३.३२.३३]

टीका च अनेन च ज्ञानयोगेन भगवानेव प्राप्यः यथा भक्ति
योगेनेत्याह । नैर्गुण्यो ज्ञानयोगश्च मन्निष्ठो भक्तिलक्षणश्च यो
योगः तयोर्द्वयोरप्येक एवार्थः प्रयोजनम् । कोऽसौ ? भगवच्छब्दो
लक्षणं ज्ञापको यस्य । तदुक्तं गीतासु ते प्राप्नुवन्ति मामेव सर्व
भूतहिते रताः [गीता १२.४] इति ।

ननु ज्ञानयोगस्य लाभः फलं शास्त्रेणावगम्यते । भक्तियोगस्य तु
भजनीयेश्वरप्राप्तिः । कुतस्तयोरेकार्थत्वमित्याशङ्क्य
दृष्टान्तेनोपपादयति । यथा बहूनां रूपरसादीनां गुणानामाश्रयः
क्षीरादिरेक एवार्थो मार्गभेदप्रवृत्तैरिन्द्रिअय्र्नाना प्रतीयते ।
चक्षुषा शुक्ल इति रसनेन मधुरैति स्पर्शेन शीत इत्यादि तथा भगवान्
एक एव तत्तद्रूपेणआवगम्यते । इत्येषा ।

अत्र भगवानेवाङ्गित्वेन निगदितः । अतः सर्वांशप्रत्यायकत्वाद्भक्ति
योगश्च मनःस्थानीयो ज्ञेयः ॥

॥ ३.३२ ॥ श्रीकपिलदेवः ॥ ९३ ॥

[९४]

अतएव तद्अंशत्वेनैव ब्रह्म श्रूयते ।

अहं वै सर्वभूतानि
भूतात्मा भूतभावनः ।
शब्दब्रह्म परं ब्रह्म
ममोभे शाश्वती तनू ॥ [भागवतम् ६.१६.५१]

टीका च सर्वभूतान्यहमेव । भूतानामात्मा भोक्ताप्यहमेव ।
भोक्तृभोग्यात्मकं विश्वं मद्व्यतिरिक्तं नास्तीत्यर्थः । यतोऽहं भूत
भावनः भूतानां प्रकाशकः कारणं च । ननु शब्दब्रह्म प्रकाशक्ं
परब्रह्म कारणं प्रकाशकं च सत्यं ते उभे ममैव रूपे इत्याह,
शब्दब्रह्मेति । शाश्वती शाश्वत्यौ । इत्येषा ॥

अत्र शब्दब्रह्मणः साहचर्यात्परब्रह्मणोऽप्यंशत्वमेवायाति ।

॥ ६.१६ ॥ श्रीसङ्कर्षणश्चित्रकेतुम् ॥ ९४ ॥

[९५]

अतो भगवतोऽसम्यक्प्रकाशत्वाद्विभूतिनिर्विशेषमेव तदित्यप्याह

मदीयं महिमानं च
परब्रह्मेति शब्दितम् ।
वेत्स्यस्यनुगृहीतं मे
सम्प्रश्नैर्विवृतं हृदि ॥ [भागवतम् ८.२४.३८]

॥ ८.२४ ॥ श्रीमत्स्यदेवः सत्यव्रतम् ॥ ९५ ॥

[९६]

तथा च विभूतिप्रसङ्ग एव

पृथिवी वायुराकाश
आपो ज्योतिरहं महान् ।
विकारः पुरुषोऽव्यक्तं
रजः सत्त्वं तमः परम् ॥ [भागवतम् ११.१६.३७]

टीका च परं ब्रह्म च इत्येषा ॥

अतएव श्रीवैष्णवसाम्प्रदायिकैः श्रीमद्भिर्बालमन्दराचार्य
महानुभवचरणैरप्युक्तम्

यदण्डमण्डान्तरगोचरं च
यद्दशोत्तराण्यवरणानि यानि च ।
गुणाः प्रधानं पुरुषः परं पदं
परात्परं ब्रह्म ते विभूतयः ॥ इति ॥

॥ ११.१६ ॥ श्रीभगवान् ॥९६॥

[९७]

अतो ब्रह्मरूपे प्रकाशे तद्वैशिष्ट्यानुपलम्भनात्तत्प्रभावत्व
लक्षणमपि तस्य व्यपदिश्यते । रूपं यत्तत्प्राहुरव्यक्तमाद्यं
ब्रह्मज्योतिर्[भागवतम् १०.३.२४][*Eण्ड्ण्Oट्E ॰२८] इत्यादि ।

ब्रह्मैव ज्योतिः प्रभा यस्य तथाभूतं रूपं श्रीविग्रहम् । तथा चोक्तं
ब्रह्मसंहितायां

यस्य प्रभा प्रभवतो जगाण्डकोटि
कोटिष्वशेषवसुधादिविभूतिभिन्नम् ।
तद्ब्रह्म निष्कलमनन्तमशेषभूतं
गोविन्दमादिपुरुषं तमहं भजामि ॥ [Bरह्मष्५.४०] इति ॥

॥ १०.३ ॥ श्रीदेवकी श्रीभगवन्तम् ॥ ९७ ॥

[९८]

अतो ब्रह्मणः परत्वेन श्रीभगवन्तं कण्ठौक्त्यैवाह ।

यः परं रहसः साक्षात्
त्रिगुणाज्जीवसंज्ञितात् ।
भगवन्तं वासुदेवं
प्रपन्नः स प्रियो हि मे ॥ [भागवतम् ४.२४.२८]

रहो ब्रह्म तस्मादपि परं ततः सुतरां त्रिगुणात्प्रधानाज्जीव
संज्ञितात्जीवात्मनः परं भगवन्तं यः साक्षात्श्रवणादिनैव न तु
कर्मार्पणादिना प्रपन्न इत्यन्वयः । तथा च विष्णुधर्मे नरक
द्वादशीव्रते श्रीविष्णुस्तवः

आकाशादिषु शब्दादौ श्रोत्रादौ महद्आदिषु ।
प्रकृतौ पुरुषे चैव ब्रह्मण्यपि च स प्रभुः ॥
येनैक एव सर्वात्मा वासुदेवो व्यवस्थितः ।
तेन सत्येन मे पापं नरकार्तिप्रदं क्षयम् ॥
प्रयातु सुकृतस्यास्तु ममानुदिवसं जय ॥ इति ॥

अत्र प्रकरणानुरूपेण सर्वात्मशब्देन चान्यथा समाधानं पराहतम्
। तथा च तत्रोचरं क्षत्रबन्धूपाख्याने

यन्मयं परमं ब्रह्म तद्अव्यक्तं च यन्मयम् ।
यन्मयं व्यक्तमप्येतद्भविष्यामि हि तन्मयः ॥ इति ॥

तत्रैव मासर्क्षपूजाप्रसङ्गे ततः परत्वं स्फुटमेवोक्तं

यथाच्युतस्त्वं परतः परस्मात्
स ब्रह्मभूतात्परमः परात्मन् ।
तथाच्युत त्वं वाञ्छितं तन्
ममापदं चापहराप्रमेय ॥ इति ॥

श्रीविष्णुपुराणे च स ब्रह्मपारः परपारभूत इति । अक्षरात्ततः
परतः पर इति श्रुतेः ॥

॥ ४.२४ ॥ श्रीरुद्रः प्रचेतसम् ॥ ९८ ॥

[९९]

तदेवमेवाभिप्रायेण स वा एष पुरुषोऽन्नरसमय इत्यादाव्[टैत्तू २.१]
अन्तरङ्गान्तरङ्गैकैकात्मकथनान्ते इदं पुच्छं प्रतिष्ठा पृथिवी
पुच्छं प्रतिष्ठा महः पुच्छं प्रतिष्ठा ब्रह्म पुच्छं प्रतिष्ठेति
[टैत्तू २.१] श्रुत्य्उक्तायाः पञ्चम्या अपि प्रतिष्ठाया उपरि ।

श्रीगीतोपनिषदो यथा ब्रह्मणो हि प्रतिष्ठाहम् [गीता १४.२७] इत्यत्र
ब्रह्मशब्दसन्निहितप्रतिष्ठाशब्देन सा श्रुतिः स्मर्यते । ततश्चैवम्
एव व्याख्येयम् । हिशब्दः,

मां च योऽव्यभिचारेण
भक्तियोगेन सेवते ।
स गुणान् समतीत्यैतान्
ब्रह्मभूयाय कल्पते ॥ [गीता १४.२६]

इत्यस्य निरन्तरप्राचीनवचनस्य हेतुतया विवक्षया । अतो गुणातीत
ब्रह्मणः प्रकृतार्थत्वात्प्राचीनार्थहेतुवचनेऽस्मिन्नुपचारेण तच्
छब्दस्य ब्रह्मशक्तिरूपं हिरण्यगर्भरूपं वा अर्थान्तरमयुक्तं
किन्त्वेवमेव युक्तं यथा ।

ननु त्वद्भक्त्या कथं निर्गुणब्रह्मधर्मप्राप्तिः । सा तु तद्
एकानुभवेन तत्राह ब्रह्मणो हीति । हि यस्मात्ब्रह्मपुच्छं प्रतिष्ठेति
परमप्रतिष्ठत्वेन श्रुतौ यत्प्रसिद्धं तच्च तस्यामेव श्रुतौ
आनन्दमयाङ्गत्वेन दर्शितं तस्य पुच्छत्वरूपितब्रह्मणः । आनन्द
मयोऽभ्यासादिति सूत्रकारसम्मतपरब्रह्मभाव आनन्दमयाख्यः
प्रचुरप्रकाशो रविरितिवत्प्रचुरश्चानन्दरूपः श्रीभगवानहं
प्रतिष्ठा ते ।

यद्यपि ब्रह्मणो मम च न भिन्नवस्तुत्वं तथापि श्रीभगवद्
रूपेणैवोदिव मयि प्रतिष्ठात्वस्य परा काष्ठेत्यर्थः । स्वरूपशक्ति
प्रकाशेनैव स्वरूपप्रकाशस्याप्याधिक्यार्हत्वात् । निर्विशेषब्रह्म
प्रकाशस्याप्युपरि श्रीभगवत्प्रकाशश्रवणात् । अत एकस्यापि वस्तुनस्
तथा तथा प्रकाशभेदो रजनीखण्डिनो ज्योतिषो मार्तण्डमण्डलगत
गभस्तिभेदवदुत्प्रेक्ष्यः ।

अतो ब्रह्मप्रकाशस्यापि मद्अधीनत्वात्कैवल्यकामनया कृतेन मद्
भजनेन ब्रह्मणि नीयमानो ब्रह्मधर्ममपि प्राप्नोतीत्यर्थः । अत्र
श्रीविष्णुपुराणमपि सम्प्रवदते शुभाश्रयः स चित्तस्य सवर्गस्य
तथात्मनः इति [Vइড়् ६.७.७६] । व्याख्यातं च तत्रापि स्वामिभिः ।
सवर्गस्यात्मनः परब्रह्मणोऽप्याश्रयः प्रतिष्ठा ।

तदुक्तं भगवता ब्रह्मणो हि प्रतिष्ठाहमिति । अत्र च तैर्व्याख्यातम्
। ब्रह्मणोऽहं प्रतिष्ठा घनीभूतं ब्रह्मैवाहम् । यथा घनीभूत
प्रकाश एव सूर्यमण्डलं तद्वदित्यर्थः । इति ।

अत्र च्विप्रत्ययस्तु तत्तद्उपासकहृदि तत्प्रकाशस्याभूतत्वं ब्रह्मण
उपचर्यते इतीत्थमेव । अत्रैव प्रतिष्ठा प्रतिमेति टीका मत्सरकल्पिता ।
न हि तत्कृता असम्बन्धत्वात् । न हि निराकारस्य ब्रह्मणः प्रतिमा
सम्भवति । न च तत्प्रकाशस्य प्रतिमा सूर्यः । न चामृतस्याव्ययस्येत्य्
आद्य्अनन्तरपादत्रयोक्तानां मोक्षादीनां प्रतिमात्वं घटते । न वा
श्रुतिशैलीविष्णुपुराणयोः संवादितास्ति । तस्मान्न आदरणीया यदि
वादरणीया तदा तच्छब्देनाप्याश्रय एव वाचनीयः । प्रतिलक्षीकृत्य
नातिपरिमितं भवति यत्रेति तदेतत्सर्वमभिप्रेत्याहुः ।

दृतय इव श्वसन्त्यसुभृतो यदि तेऽनुविधा
महद्अहम्आदयोऽण्डमसृजन् यदनुग्रहतः ।
पुरुषविधोऽन्वयोऽत्र चरमोऽन्नमयादिषु
यः सद्असतः परं त्वमथ यदेष्ववशेषमृतम् ॥ [भागवतम् १०.८७.१७]

असुभृतो जीवा दृतय इव श्वसद्आभासा अपि यदि ते तवानुविधा भक्ता
भवन्ति तदा श्वसन्ति प्राणन्ति । तेषु तद्भक्तानामेव जीवानां जीवनं
मन्यामहे इति भावः । कथं यस्य तव अनुग्रहतः समष्टिव्यष्टि
रूपमखण्डं देहं महद्अहम्आदयोऽसृजनतः स्वयमेव तथाविधात्
त्वत्तः पराङ्मुखानामन्येषां दृतितुल्यत्वं युक्तमेवेति भावः ।
अनुग्रहमेव दर्शयन्ति अत्र महद्अहम्आदिषु अन्वयः प्रविष्टस्त्वम्
इति ।

कथं मद्आदेशमात्रेण तेषां तथा सामर्थ्यं स्यात् । तत्राहुः यद्
यस्मात्सत आनन्दमयाख्यब्रह्मणोऽवयवस्य प्रियादेरसतस्तद्
अन्यस्मादन्नम्यादेश्च यत्परं पुच्छभूतं सर्वप्रतिष्ठा ब्रह्म
तत्खलु त्वं तत्रापि एषु प्रतिष्ठावाक्येषु अवशेषं वाक्यशेषत्वेन
स्थितं ब्रह्मणो हि प्रतिष्ठाहमित्यादावन्यत्र प्रसिद्धम् । आत्मतत्त्व
विशुद्ध्य्अर्थ्यं यदाह भगवानृतमित्यादौ ऋतत्वेनापि प्रसिद्धं श्री
भगवद्रूपमेव त्वमतोऽन्नमयादिषु पुरुषविधः पुरुषाकारो यश्
चरमः प्रियमोदप्रमोदानन्दब्रह्मणामवयवी आनन्दमयः स
त्वमिति ।

तस्मान्मूलपरमानन्दरूपत्वात्तवैव प्रवेशेन तेषां तथा
सामर्थ्यं युक्तमेवेति भावः । को ह्येवान्यात्कः प्राण्याद्यदेष आकाश
आनन्दो न स्यादिति [टैत्तू २.७.१] श्रुतेः । प्रकरण्ऽस्मिन्नेतदुक्तं भवति
। यद्यप्येकस्स्वरूपेऽपि वस्तुनि स्वगतनानाविशेषो विद्यते तथापि तादृश
शक्तियुक्ताया एव दृष्टेस्तत्तत्सर्वविशेषग्रहणे निमित्तता दृश्यते न त्व्
अन्यस्याः । यथा मांसमयी दृष्टिः सूर्यमण्डलं प्रकाशमात्रत्वेन
गृह्णाति, दिव्या तु प्रकाशमात्रस्वरूपत्वेऽपि तद्अन्तर्गतदिव्यसभादिकं
गृह्णाति । एवमत्र भक्तेरेव सम्यक्त्वेन तयैव सम्यक्तत्त्वं दृश्यते
। तच्च ब्रह्मेति तस्य असम्यग्रूप्तवम् । तत्र च सामान्यत्वेनैव ग्रहणे
कारणस्य ज्ञानस्य तद्अन्तरीणावान्तरभेदपर्यालोचनेष्वसामार्थ्याद्
बहिरेवावस्थितेन तेन भागवतपरमहंसवृन्दानुभवासिद्धनाना
प्रकाशविचित्रेऽपि स्वप्रकाशः । लक्षणपरतत्त्वे प्रकाशसामान्य
मात्रं यद्गृह्यते तत्तस्य प्रमारूपत्वेनैवोत्प्रेक्ष्यते । ततश्चात्मत्वम्
अंशत्वं विभूतित्वं च व्यपदिश्यते तस्य । तस्मादखण्डतत्त्वरूपो
भगवान् सामान्यकारस्फूर्तिलक्षणत्वेन स्वप्रभाकारस्य
ब्रह्मणोऽप्याश्रय इति युक्तमेव ।

अतएव यस्य पृथिवी शरीरं यस्य आत्मा शरीरं यस्याव्यक्तं शरीरं
यस्याक्षरं शरीरमेष सर्वभूतान्तरात्मा अपहतपाप्मा दिव्यो देव
एको नारायण इत्येतच्छ्रुत्य्अन्तरं चाक्षरशब्दोक्तस्य ब्रह्मणोऽप्य्
आत्मत्वेन नारायणं बोधयति ।

उक्तात्मादिशब्दपारिशेष्यप्रमाणेन चकार तेषां सङ्क्षोभमक्षर
जुषामपीति प्रयोगदृष्ट्या चात्र ह्यक्षरशब्देन ब्रह्मैव वाच्यम् ।
तथा श्रीभगवता साङ्ख्यकथने । कालो मायामये जीवे [भागवतम् ११.२४.२७]
इत्यादौ महाप्रलये सर्वावशिष्टत्वेन ब्रह्मोपदिश्य तदापि तस्य
द्रष्टृत्वं स्वस्मिन्नुक्तम् ।

एष साङ्ख्यविधिः प्रोक्तः
संशयग्रन्थिभेदनः ।
प्रतिलोमानुलोमाभ्यां
परावरदृशा मया ॥ [भागवतम् ११.२४.२९]

इत्यत्र परावरदृशेत्यनेन सोऽयं चात्र विवेकः । साङ्ख्यं ख्यानं तच्
छास्त्रं खलु स्वरूपभूततद्विशेषमनुसन्धाय यत्तत्स्वरूप
मात्रं तदानीमवशिष्टं वदति तदेव च ब्रह्माख्यं तदेव च
प्रपञ्चावच्छिन्नचरमप्रदेशे प्रपञ्चलयाद्वैकुण्ठ इव स्वरूप
भूतविशेषप्रकाशादवैशिष्यमानत्वेन वक्तुं युज्यते ।

तच्च स्वविशेष्यमात्रं स्वरूपशक्तिविशिष्टेन वैकुण्ठस्थेन श्री
भगवता पृथगिव तत्रानुभूयत इति । तदेवं निर्विशेषत्वेन स्पर्शरूप
रहितस्यापि तस्य भगवत्प्रभारूपत्वमनुत्प्रेक्ष्य तद्अभिन्नत्वेन
ब्रह्मत्वं व्यपदिष्टम् । ततः स्वरूपादिमाधुरीधारितया सविशेषस्य
साक्षाद्भगवद्अङ्गज्योतिषः सुतरामेव तत्सिध्यति । यथोक्तं श्री
हरिवंशे महाकालपुराख्याने श्रीमद्अर्जुनं प्रति स्वयं भगवता ।

ब्रह्मतेजोमयं दिव्यं महद्यद्दृष्टवानसि ।
अहं स भरतश्रेष्ठ मत्तेजस्तत्सनातनम् ॥
प्रकृतिः सा मम परा व्यक्ताव्यक्ता सनातनी ।
तां प्रविश्य भवन्तीह मुक्ता योगविद्उत्तमाः ॥
सा साङ्ख्यानां गतिः पार्थ योगिनां च तपस्विनाम् ।
तत्परं[*Eण्ड्ण्Oट्E ॰२९] परमं ब्रह्म सर्वं विभजते जगत् ॥
मामेव[*Eण्ड्ण्Oट्E ॰३०] तद्घनं तेजो ज्ञातुमर्हसि भारत ॥ इति ॥ [ःV
२.११४.९१२]

प्रकृतिरिति तत्प्रभात्वेन स्वरूपशक्तित्वमपि तस्य निर्दिष्टम् । एवं
पूर्वोदाहृतकौस्तुभभविष्यकविष्णुपुराणवाक्यमप्येतद्
उपोद्वलकत्वेन द्रष्टव्यम् । तस्माद्दृतय इवेत्यपि साध्वेव व्याख्यातम्


॥ १०.८७ ॥ श्रुतयः श्रीभगवन्तम् ॥ ९९ ॥

[१००]

ततश्च यस्मिन् परमबृहति सामान्याकारसत्तायास्ताङ्गज्योतिषोऽपि
बृहत्वेन ब्रह्मत्वं तस्मिन्नेव मुख्या तच्छब्दप्रवृत्तिः । तथा च
ब्राह्मे

अनन्तो भगवान् ब्रह्म आनन्देत्यादिभिः पदैः ।
प्रोच्यते विष्णुरेवैकः परेषामुपचारतः ॥ इति ।

यथा पाद्मे

पृथग्वक्तुं गुणास्तस्य न शक्यन्तेऽमितत्वतः ।
यतोऽतो ब्रह्मशब्देन सर्वेषां ग्रहणं भवेत् ॥
एतस्माद्ब्रह्मशब्दोऽसौ विष्णोरेव विशेषणम् ।
अमितो हि गुणो यस्मान्नान्येषां तमृते विभुम् ॥ इति ।

अत्र निर्गोलितोऽयं महाप्रकरणार्थः । यदद्वयं ज्ञानं तदेव तत्त्वम्
इति तत्त्वविदो दो [?] वदन्ति । तच्च वैशिष्ट्यं विनैवोपलभ्यमानं ब्रह्मेति
शब्द्यते वैशिष्ट्येन सह तु श्रीभगवानिति । स च भगवान् पूर्वादित
लक्षणश्रीमूर्त्यात्यात्मक एव न तु अमूर्तः ।

अथ, भूप मूर्तममूर्तं च परं चापरमेव च इति [Vइড়् ६.७.४७] विष्णु
पुराणपद्ये[*Eण्ड्ण्Oट्E ॰३१] तस्य चतुर्विधत्वमङ्गीकुर्वद्भिर्यद्य्
अमूर्तत्वमपि पृथगङ्गीकर्तव्यं तदा ब्रह्मत्ववत्तद्उपासकदृष्टि
योगयतानुरूपमेवास्तु । तथा हि यस्य समीचीना भक्तिरस्ति तस्य पर
मूर्त्या श्यामसुन्दरचतुर्भुजादिरूपतया प्रादुर्भवति ।
यस्यार्वाचीनोपासनारूपा तस्यापरमूर्त्या पातालपादादिकल्पनामय्य्
एव । यस्य च रुक्षं ज्ञानं तस्य परेण ब्रह्मलक्षणमूर्तत्वेन । यस्य
ज्ञानप्रचुरा भक्तिस्तस्य त्वपरेणेश्वरलक्सणमूर्तत्वेनेति ।
अत्रापरत्वं परममूर्त्याविर्भावाननतरसोपानत्वेन न ब्रह्मवद्
अतीव मूर्तत्वानपेक्ष्यमित्येवम् । न त्वश्रेष्ठत्वविवक्षयेति ज्ञेयम्
। परमूर्तापेक्षया परत्वं वा । तत्रैव तद्विश्वरूपं वैरूप्यमन्यद्
धरेर्महदिति विश्वाधिष्ठानत्वेन नित्यत्वविभूत्वे । मूर्तं भगवतो
रूपं सर्वापाश्रयनिःस्पृहमिति [Vइড়् ६.७.७८] निरुपाधित्वम् । चिन्तयेद्
ब्रह्म
भूतं तमिति [Vइড়् ६.७.८३] परतः लक्षणत्वम् ।

त्रिभावभावनातीत [Vइড়् ६.७.७६] इति तत्र प्रसिद्धकर्ममयज्ञान
कर्मसमुच्चयमयकेवलज्ञानमयभावनात्रयातीतत्वेन पर
तत्त्वलक्षणत्वेऽपि भक्त्यैकाविर्भावितया सम्यक्प्रकाशत्वं मूर्तस्यैव
व्यञ्जितम् । अतएव शुभाश्रयः स चित्तस्य
सर्वगस्याचलात्मनः[*Eण्ड्ण्Oट्E ॰३२] [Vइড়् ६.७.७६] इत्युक्तम् ।

ततश्च तस्याः श्रीमूर्तेरपि सकाशात्तद्अन्ते प्रत्याहारोक्तिः केवला
भेदोपासकं प्रति वय्वस्थापिता भवतीत्यप्यनुसन्धेयम् । अत्र तद्
विश्वरूपवैरूप्यमित्य्[Vइড়् ६.७.७०] एतत्पद्यं मूर्तपरमेव ज्ञेयम् ।

समस्तशक्तिरूपाणि
यत्करोति नरेश्वरः ।
देवतिर्यङ्मनुष्याख्या
चेष्टावन्ति स्वलीलया ॥[*Eण्ड्ण्Oट्E ॰३३] [Vइড়् ६.७.७१] इत्यनन्तरवाक्यबलात्


प्रथमस्य तृतीये यस्याम्भसि शयानस्य योगनिद्रां वितन्वतः [भागवतम्
१.३.२] इत्य्अद्य्उक्तलक्सणस्य मूर्तस्यैव तत्तद्अवतारित्वं दर्शितम्, एतन्
नानावताराणां निधानं बीजमव्ययमिति [भागवतम् १.३.५] । तद्विश्वरूप
वैरूप्यमिति [Vइড়् ६.७.७०] पठद्भिः श्रीरामानुजचरणैरपि मूर्त
परत्वेनैव व्याख्यातम् । विश्वरूपाद्वैरूप्यं वैलक्सण्यं यत्र तद्
विश्वलक्षणं मूर्तं स्वरूपमिति ।

तदेवं तस्य वस्तुनः श्रीमूर्त्य्आत्मकत्व एव सिद्धे यत्सर्वतः पाणि
पादादिलक्षणा मूर्तिः श्रूयते सापि पूर्वोक्तिलक्षणायाः श्रीमूर्तेर्न
पृथगिति विभुत्वप्रकरणान्ते व्यञ्जितमेव । यत्तु

बृहच्छरीरोऽभिविमानरूपो
युवा कुमारत्वमुपेयिवान् हरिः ।
रेमे श्रियाऽसौ जगतां जनन्या
स्वज्योत्स्नया चन्द्र इवामृतांशुः ॥ इति पाद्मोत्तरखण्डवचनम् ।

अत्र परब्रह्मस्वरूपशरीरः सर्वतोभावेन विगतपरिमाणोऽपि नित्यं
कैशोराकारमेव प्राप्तः सन् श्रिया सह रेमे इत्यर्थः । उपेयिवानित्युक्ताव्
अपि नित्यत्वमपहतपाप्मेतिवत् । तत्रैव तदीयतच्छ्रीमूर्त्य्
अधिष्ठातृकत्रिपाद्विभूतेरपि प्रघट्टकेन वाक्यसमूहकेन परम
नित्यताप्रतिपादनात् । तथा चोक्तं तत्रैव

अच्युतं शाश्वतं दिव्यं
सदा यौवनमाश्रितम् ।
नित्यं सम्भोगमीश्वर्या
श्रिया भूम्या च संवृतम् ॥ इति ॥

तस्मात्श्रीभगवान् यथोक्तलक्षण एव । स एव वदन्तीत्यस्य
मुख्यार्थभूतं मूलं तत्त्वमिति पर्यवसानम् । तदुक्तं मोक्ष
धर्मे श्रीनारायणोपाख्याने

तत्त्वं जिज्ञासमानानां
हेतुभिः सर्वतोमुखैः ।
तत्त्वमेको महायोगी
हरिर्नारायणः प्रभुः ॥ इति [ंBह्१२.३३५.८३] ।

नारायणोपनिषदि च नारायणः परं ब्रह्म तत्त्वं नारायणः परमिति
[ंणू १३.४] । अत्र श्रीरामानुजोदाहृताः श्रुतयश्च यस्य पृथिवी शरीरम्
इत्यारभ्य एष सर्वभूतान्तरात्मा दिव्यो देव एको नारायण इत्याद्या
बह्व्यः । इह श्रीभगवद्अंशभूतानां पुरुषादीनां परमतत्त्व
विग्रहतासाधनं वाक्यजातमपि तस्यांशिनस्तद्रूपविग्रहत्वं
कैमुत्येनाभिव्यनक्तीति पूर्वत्र चोत्तरत्र ग्रन्थे तथोदाहरणानि ।

विष्णुपुराणे तु साक्षात्श्रीभगवन्तमधिकृत्य तथोदाहरणम्

द्वे रूपे ब्रह्मणस्तस्य
मूर्तं चामूर्तमेव च ।
क्षराक्षरस्वरूपे ते
सर्वभूतेष्ववस्थिते ।

अक्षरं तत्परं ब्रह्म
क्षरं सर्वमिदं जगत् ॥ [Vइড়् १.२२.५५]

इत्युक्त्वा जगन्मध्ये ब्रह्मविष्ण्व्ईशरूपाणि च पठित्वा पुनरुक्तम्


तदेतदक्षरं नित्यं
जगन्मुनिवराखिलम् ।
आविर्भावतिरोभाव
जन्मनाशविकल्पनात् ॥ इति [Vइড়् १.२२.६०]

तदेतदक्षराख्यं परब्रह्म नित्यमखिलं जगत्तु
आविर्भावादिभेदवदित्यर्थः । तत्राविर्भावतिरोभावादिकत्वेनैव
पूर्वेषां ब्रह्मादीनां तद्अन्तःपातव्यपदेशो न वस्तुत इत्यर्थः ।

अथ सदा स्वधाम्नि विराजमानत्वेन क्षररूपतो मूर्तत्वादिना
चाक्षरतोऽपि विलक्षणं तृतीयं रूपं भगवतः परमं स्वरूपमिति पुनर्
उच्यते ।

सर्वशक्तिमयो विष्णुः
स्वरूपं ब्रह्मणोऽपरम् ।
मूर्तं तद्योगिभिः पूर्वं
योगारम्भेषु चिन्त्यते ॥[Vइড়् १.२२.६१]

स परः सर्वशक्तीनां
ब्रह्मणः समनन्तरम् ।
मूर्तं ब्रह्म महाभाग
सर्वब्रह्ममयो हरिः ॥ [Vइড়् १.२२.६३]

तत्र सर्वमिदं प्रोतम्
ओतं चैवाखिलं जगत् ॥ [Vइড়् १.२२.६४] इति ।

ब्रह्मसाक्षात्कारात्पूर्वं योगिभिश्चिन्त्यते । तथा ब्रह्मणः
समनन्तरमुपासनानुक्रमेण यथाग्रेऽक्षरादनन्तरं तदुक्तम्,
यथा ब्रह्मभूतः प्रसन्नात्मेत्य्[गीता १८.५५] आद्यानुसारेण
ब्रह्म[व]साक्षात्कारानन्तराविर्भावी च स इत्यर्थः । यतः सर्वासां
शक्तीनां स्वरूपभूतादीनां परमाश्रयः । अतएव सर्वब्रह्म
मयोऽखण्डब्रह्मस्वरूपश्च । अक्षराख्यस्य पूर्वस्य शक्तिहीनत्वेन
खण्डत्वात् । यद्वा अतएव सर्ववेदवेद्य इत्यर्थः । तत एव च तत्र
सर्वमित्यादीति । एवं

यस्मात्क्षरमतीतोऽहम्
अक्षरादपि चोत्तमः ।
अतोऽस्मि लोके वेदे च
प्रथितः पुरुषोत्तमः ॥ इत्यादि [गीता १५.१८] श्रीगीतोपनिषदपि योज्या ।

अत्र यद्यपि कूटस्थोऽक्षर उच्यते इत्य्[गीता १५.१६] अक्षरशब्देन शुद्ध
जीव एव प्रस्तूयते तथापि परब्रह्म एव च लक्षणम् । अक्षरं परमं
ब्रह्म [गीता ८.३] इति तच्च तत्र पूर्वोक्तमिति । अनयोश्चिन्मात्र
वस्तुत्वेनैकार्थत्वादिति तदेतदभिप्रेत्य मल्लानामशनिर्नॄणां
नरवर इत्यादौ मूर्तस्यैव स्वयं भगवत एव लक्षणत्वं [तल्
लक्ष्यत्वं] साक्षादेवाह तत्त्वं परं योगिनाम् [भागवतम् १०.४३.१७] इति ।

योगिनां चतुःसनादीनामिति ॥

॥ १०.४३ ॥ श्रीशुकः ॥ १०० ॥

[१०१]

अतएव श्रीमद्भागवतस्य निगमकल्पतरुपरमफलभूतस्य
श्रैष्ठ्ये सत्यपि तथाभूतस्यापि भगवद्आख्यपरमतत्त्वस्योत्कर्ष
विद्यारूपत्वादेव परमश्रैष्ठ्यमाह

धर्मः प्रोज्झितकैतवोऽत्र परमो निर्मत्सराणां सतां
वेद्यं वास्तवमत्र वस्तु शिवदं तापत्रयोन्मूलनम् ।
श्रीमद्भागवते महामुनिकृते किं वा परैरीश्वरः
सद्यो हृद्यवरुध्यतेऽत्र कृतिभिः शुश्रूषुभिस्तत्क्षणात् ॥ [भागवतम् १.१.२]

अत्र यस्तावद्धर्मो निरूप्यते स खलु स वै पुंसां परो धर्मो यतो
भक्तिरधोक्षजे इत्य्[भागवतम् १.२.६] आदिकया

अतः पुम्भिर्द्विजश्रेष्ठा
वर्णाश्रमविभागशः ।
स्वानुष्ठितस्य धर्मस्य
संसिद्धिर्हरितोषणम् ॥ [भागवतम् १.२.१३]

इत्यन्तया रीत्या भगवत्सन्तोषणैकतात्पर्येण शुद्धभक्त्य्
उत्पादकतया निरूपणात्परम एव । यतः सोऽपि तद्एकतात्पर्यत्वात्
प्रकर्षेण उज्झितं कैतवं फलाभिसन्धिलक्सणं कपटं यस्मिन्
तथाभूतः । प्रशब्देन सालोक्यादिसर्वप्रकारमोक्षाभिसन्धिरपि
निरस्तः । यत एवासौ तद्एकतात्पर्यत्वेन निर्मत्सराणां फल
कामुकस्यैव परोत्कर्षासहनं मत्सरः तद्रहितानामेव तद्
उपलक्षणत्वेन पश्व्आलम्भने, दयालूनामेव च सतां स्वधर्म
पराणां विधीयते इति एवमीदृशस्पष्टमनुक्तवतः कर्मशास्त्राद्
उपासनाशास्त्राच्चास्य तत्तत्प्रतिपादकांशे श्रैष्ठ्यमुक्तम् ।
उभयत्रैव धर्मोत्पत्तेः । तदेवं सति साक्षात्कीर्तनादिरूपस्य वार्ता ति
दूरत एव आस्तामिति भावः ।

अथ ज्ञानकाण्डशाखेभ्योऽप्यस्य पूर्ववत्श्रैष्ठ्यमाह वेद्यमिति ।
भगवद्भक्तिनिरपेक्षप्रायेषु तेषु प्रतिपादितमपि श्रेयःसृतिं
भक्तिमुदस्य [भागवतम् १०.१४.४] इत्य्आदिन्यायेन वेद्यं निश्चेयं भवतीत्य्
अत्रैव वेद्यमित्यर्थः ।

तापत्रयमुन्मूलयति तन्मूलभूताविद्यापर्यन्तं खण्डयतीति तथा
शिवं परमानन्दं ददात्यनुभावयतीति तथा । अन्यत्र मुक्ताव्
अनुभवामनने ह्यपुरुषार्थत्वापातः स्यातिति तन्मननादत्र तु
वैशिष्ट्यमिति । न चास्य तत्तद्दुर्लभवस्तुसाधनत्वे तादृशनिरूपण
सौष्ठवमेव कारणम् ।

अपि तु स्वरूपमपीत्याह श्रीमद्भागवत इति । श्रीमद्भागवतत्वं
भगवत्प्रतिपादकत्वं श्रीमत्त्वं श्रीभगवन्नामादेरिव तादृश
स्वभाविकशक्तिमत्त्वम् । नित्ययोगे मतुप् । अतएव समस्ततयैव निर्दिश्य
नीलोत्पलादिवत्त्वन्नामत्वमेव बोधितम् । अन्यथा त्वविमृष्ट
विधेयांशदोषः स्यात् ।

अत उक्तं श्रीगारुडे ग्रन्थोऽष्टादशसाहस्रः श्रीमद्भागवताभिधः
। इति टीकाकृद्भिरपि श्रीभागवताभिधः सुरतरुरिति ।
अतः क्वचित्केवलभागवताख्यत्वं तु सत्यभामा भामा इतिवत् । तादृश
प्रभावत्वे कारणं परमश्रेष्ठकर्तृत्वमप्याह । महामुनिः श्री
भगवान् तस्यैव परमविचारपारङ्गतमहाप्रभावगण
शिरोमणित्वाच्च । स मुनिर्भूत्वा समचिन्तयदिति श्रुतेः । तेन प्रथमं
चतुःश्लोकीरूपेण सङ्क्षेपतः प्रकाशिते कस्मै येन विभाषितोऽयमित्य्
[भागवतम् १२.१३.१९][*Eण्ड्ण्Oट्E ॰३४] आद्य्अनुसारेन सम्पूर्ण एव प्रकाशिते ।

तदेवं श्रैष्ठ्यजातमन्यत्रापि प्रायः सम्भवतु नाम सर्वज्ञान
शास्त्रपरमज्ञेयपुरुषार्थशिरोमणिश्रीभगवत्साक्षात्कारस्तत्रैव
सुलभ इति वदन् सर्वोर्धप्रभावमाह किं वेति । परैः शास्त्रैस्तद्उक्त
साधनैर्वा ईश्वरो भगवान् हृदि किं वा सद्य एवावरुध्यते स्थिरीक्रियते
। वाशब्दः कटाक्षे । किन्तु विलम्बेन कथञ्चिदेव । अत्र तु शुश्रूषुभिः
श्रोतुमिच्छद्भिरेव तत्क्षणादवरुध्यते ।

ननु इदमे एव तर्हि सर्वे किमिति न शृण्वन्ति तत्राह कृतिभिरिति सुकृतिभिर्
इत्यर्थः । श्रवणेच्छा तु तादृशसुकृतिं विना नोत्पद्यत इति भावः । अथवा
अपरैर्मोक्षपर्यन्तकामनारहितेश्वराराधनलक्षणधर्म
ब्रह्मसाक्षात्कारादिभिरुक्तैरनुक्तैर्वा साध्यैस्तैरत्र किं वा कियद्
वा माहात्म्यमुपपन्नमित्यर्थः । यतो य ईश्वरः कृतिभिः कथञ्चित्तत्
तत्साधनानुक्रमलब्धया भक्त्या कृतार्थैः सद्यस्तद्एकक्षणमेव
व्याप्य हृदि स्थिरीक्रैयते स एवात्र श्रोतुमिच्छद्भिरेव तत्क्षणम्
आरभ्य सर्वदैवेति । तस्मादत्र काण्डत्रयरहस्यस्य प्रव्यक्त
प्रैत्पादनादेर्विशेषत ईश्वराकर्षिविद्यारूपत्वाच्च इदमेव सर्व
शास्त्रेभ्यः श्रेष्ठम् । अतएवात्र इति पदस्य त्रिर्उक्तिः कृता । सा हि
निर्धारणार्थेति । अतो नित्यमेतदेव सर्वैरेव श्रोतव्यमिति भावः ॥

॥ १.१ ॥ वेदव्यासं श्रीशुकम् ॥ १०१ ॥

[१०२]

तदेवं श्रीशुकहृदयमपि सङ्गमितं स्यात् । अतश्चतुःश्लोकीप्रसङ्गेऽपि
श्रीभगवानेवार्थः । स हि स्वज्ञानाद्य्उपदेशेन स्वमेवोपदिदेश ।
तत्र परमभागवताय ब्रह्मणे श्रीमद्भागवताख्यं निजं शास्त्रम्
उपदेष्टुं तत्प्रतिपाद्यतमं वस्तुचतुष्टयं प्रतिजानीते ।

ज्ञानं परमगुह्यं मे
यद्विज्ञानसमन्वितम् ।
सरहस्यं तद्अङ्गं च
गृहाण गदितं मया ॥ [भागवतम् २.९.३०]

मे मम भगवतो ज्ञानं शब्दद्वारा याथार्थ्यनिर्धारणं मया
गदितं सत्गृहाण इत्यन्यो न जानातीति भावः । यतः परमगुह्यं ह्य्
अज्ञानादपि रहस्यतमं मुक्तानामपि सिद्धानाम् [भागवतम् ६.१४.५] इत्यादेः
। तच्च विज्ञानेन तद्अनुभावेनापि युक्तं गृहाण । न चैतावदेव । किं च
सरहस्यं तत्रापि रहस्यं यत्किमप्यस्ति तेनापि सहितम् । तच्च प्रेम
भक्तिरूपमित्यग्रे व्यञ्जयिष्यते । तथा तद्अङ्गं च गृहाण । तच्च सति
त्वपराधाख्यविघ्ने न झटिति ।विज्ञानरहस्ये प्रकटयेत् । तस्मात्तस्य
ज्ञानस्य सहायं च गृहाणेत्यर्थः । तच्च श्रवणादिभक्तिरूपमित्यग्रे
व्यञ्जयिष्यते । यद्वा सरहस्यमिति तद्अङ्गस्यैव विशेषणं ज्ञेयम् ।
हृदेरिव मिथः संवर्धकयोरेकत्रावस्थानात् ॥

[१०३]

अत्र साध्ययोर्विज्ञानरहस्ययोराविर्भावार्थमाशिषं ददाति

यावानहं यथाभावो
यद्रूपगुणकर्मकः
तथैव तत्त्वविज्ञानम्
अस्तु ते मद्अनुग्रहात्[भागवतम् २.९.३१]

यावान् स्वरूपतो यत्परिमाणकोऽहम् । यथा भावः सत्ता यस्येति । यल्
लक्षणोऽहमित्यर्थः । यानि स्वरूपान्तरङ्गानि रूपाणि श्यामत्वचतुर्
भुजत्वादीनि गुणा भक्तवात्सल्याद्याः कर्माणि तत्तल्लीला यस्य स यद्
रूपगुणकर्मकोऽहम् । तथैव तेन तेन सर्वप्रकारेणैव तत्त्व
विज्ञानं याथार्थ्यानुभवो मद्अनुग्रहात्ते तवास्तु भवतादिति । एतेन
चतुःश्लोक्य्अर्थस्य निर्विशेषत्वं स्वयमेव परास्तम् । वक्ष्यते च
चतुःश्लोकीमेवोद्दिशता श्रीभगवता स्वयमुद्धवं प्रति । पुरा
मयेत्यादौ ज्ञानं परं मन्महिमावभासमिति [भागवतम् ३.४.१३] । तत्र
विज्ञानपदेन रूपादीनामपि स्वरूपभूतत्वं व्यक्तम् । अत्र्र विज्ञानाशीः
स्पष्टा । रहस्याशीश्च परमानन्दात्मकतत्तद्
याथार्थ्यानुभवेनावश्यं प्रेमोदयात् ॥

[१०४]

तदेव उपदेश्यचतुष्टयं चतुःश्लोक्या निरूपयन् प्रथमं ज्ञान
विज्ञानार्थं स्वलक्षणं प्रतिपादयति द्वाभ्याम् । तत्र ज्ञानार्थमाह


अहमेवासमेवाग्रे
नान्यद्यत्सद्असत्परम् ।
पश्चादहं यदेतच्च
योऽवशिष्येत सोऽस्म्यहम् ॥ [भागवतम् २.९.३२]

अत्राहंशब्देन तद्वक्ता मूर्त एवोच्यते न तु निर्विशेषं ब्रह्म तद्
अविषयत्वात् । आत्मज्ञानतात्पर्यके तु तत्त्वमसीतिवत्त्वमेवात्येव वतुर्म्
उपयुक्तवात् । ततश्चायमर्थः सम्प्रति भवन्तं प्रति प्रादुर्भवन्न्
असौ परममनोहरश्रीविग्रहोऽहमेवाग्रे महापरलयकालेऽप्यासम्
एव । वासुदेवो वा इदमग्र आसीन्न ब्रह्मा न च शङ्करः । एको नारायण
आसीन्न ब्रह्मा नेशान इत्यादि श्रुतिभ्यः । भगवानेक आसेदमग्र
आत्मात्मनां विभुरित्य्[भागवतम् ३.५.२३] आदि तृतीयात् । अतो वैकुण्ठतात्पार्षद्
आदीनामपि तद्उपाङ्गत्वादहंपदेनैव ग्रहणं राजासौ प्रयातीतिवत्
। ततस्तेषां च तद्वदेव स्थितिर्बोध्यते । तथा च राजप्रश्नः स चात्र

स चापि यत्र पुरुषो
विश्वस्थित्य्उद्भवाप्ययः ।
मुक्तात्ममायां मायेशः
शेते सर्वगुहाशयः ॥ [भागवतम् २.८.१०] इति ।

श्रीविदुरप्रश्नश्च

तत्त्वानां भगवंस्तेषां
कतिधा प्रतिसङ्क्रमः ।
तत्रेमं क उपासीरन्
क उ स्विदनुशेरत ॥ इति [भागवतम् ३.७.३७] ।

काशीखण्डेऽप्युक्तं श्रीध्रुवचरिते

न च्यवन्ते हि मद्भक्ता
महत्यां प्रलयापदि ।
अतोऽच्युतोऽखिले लोके
स एकः सर्वगोऽव्ययः ॥ इति ।

अहमेवेत्येवकारेणकर्त्अन्तरस्यारूपत्वादिकस्य च व्यावृत्तिः । आसमेवेति
तत्रासम्भावनाया निवृत्तिः । तदुक्तं यद्रूपगुणकर्मक [भागवतम् २.९.३२]
इति । अतएव । यद्वा आसमेवेति ब्रह्मादिबहिर्जनज्ञानगोचरसृष्ट्य्आदि
लक्षणक्रियान्तरस्यैव व्यावृत्तिः । न तु स्वान्तरङ्गलीलाया अपि ।
यथाधुनासौ राजा कार्यं न किञ्चित्करोतीत्युक्ते राज्यसम्बन्धिकार्यम्
एव निषिध्यते न तु शयनभोजनादिकमपीति तद्वत् । यद्वा अस गति
दीप्त्य्आदानेष्वित्यस्मातासं साम्प्रतं भवता दृश्यमानैर्विशेषैरेभिर्
अग्रेऽप्रि विराजमान एवातिष्ठमिति निराकारत्वादिकस्यैव विशेषतो व्यावृत्तिः


तदुक्तमनेन श्लोकेन साकारनिराकारविष्णुलक्षणकारिण्यां मुक्ता
फलटीकायामपि । नापि साकारेष्वव्याप्तिः । तेषामाकारातिरोहितत्वादिति
। ऐतरेयकश्रुतिश्[?] च आत्मैवेदमग्र आसीत्पुरुषविध [Bआऊ ४.१.१] इति
। एतेन प्रकृतीक्षणतोऽपि प्राग्भावात्पुरुषादप्युत्तमत्वेन भगवज्
ज्ञानमेव कथितम् ।

ननु क्वचिन्निर्विशेषमेव ब्रह्म आसीदिति श्रूयते तत्राह नान्यद्यत्सद्
असत्परमिति । सत्कार्यमसत्कारणं तयोः परं यत्ब्रह्म तन्न
मत्तोऽन्यत् । क्वचिदधिकारिणि शास्त्रे वा स्वरूपभूतविशेषव्युत्पत्त्य्
असमर्थे सोऽयमहमेव निर्विशेषतया प्रतिभातीत्यर्थः । यदा तदानीं
प्रपञ्चे विशेषाभावान्निर्विशेषचिन्मात्राकारेण विकुण्ठे तु सविशेष
भगवद्रूपेणेति शास्त्रद्वयव्यवस्था । एतेन च ब्रह्मणो हि
प्रतिष्ठाहमित्यत्रोक्तं भगवज्ज्ञानमेव प्रतिपादितम् । अतएवास्य
परमगुह्यत्वमुक्तम् ।

ननु सृष्टेरनन्तरं नोपलभ्यसे । तत्राह पश्चात्सृष्टेरनन्तरमप्य्
अहमेवास्म्येव वैकुण्ठेषु भगवद्आद्याकारेण प्रपञ्चेष्वन्तर्याम्य्
आकारेणेति शेषः । एतेन सृष्टिस्थितिप्रलयहेतुरस्येत्यादि प्रतिपादितं
भगवज्ज्ञानमेवोपदिष्टम् ।

ननु सर्वत्र घटपटाकारा ये दृश्यन्ते ते तु तद्रूपाणि न भवन्तीति
तवापूर्णत्वप्रसक्तिः स्यादित्याशङ्क्याह । यदेतद्विश्वं तदप्यहम्
एव मद्अनन्यत्वान्मद्आत्मकमेवेत्यर्थः । अनेन सोऽयं तेऽभिहितस्तात
भगवान् विश्वभावनः । समासेन हरेर्नान्यदन्यस्मात्सद्असच्च यद्
इत्याद्युक्तं भगवज्ज्ञानमेवोपदिष्टम् । तथा प्रलये योऽवशिष्यते
सोऽहमेवास्म्येव । एतेन भवानेकः शिष्यते शेषसंज्ञ इत्युक्तं
भगवज्ज्ञानमेवोपदिष्टम् । तथा पूर्वं स्वानुग्रहप्रकाश्यत्वेन
प्रतिज्ञातं यावत्त्वं सर्वकालदेशापरिक्च्छेद्यत्वज्ञापनायोपदिष्टम्
। एवं नान्यद्यत्सद्असत्परमित्यनेन ब्रह्मणो हि प्रतिष्ठाहमिति
ज्ञापनया यथाभावत्वम् । सर्वाकारावयवभगवद्आकारनिर्देशेन
विलक्षणानन्तरूपत्वज्ञापनया यद्रूपत्वम् । सर्वाश्रयातिनिर्देशेन
विलक्षणानन्तगुणत्वज्ञापनया यद्गुणत्वम् । सृष्टिस्थिति
प्रलयोपलक्षितविविधक्रियाश्रयत्वकथनेन लौकिकानन्तकर्मत्व
ज्ञापनया यत्कर्मत्वं च ।

[१०५]

अथ तादृशरूपादिविशिष्टस्यात्मनो व्यतिरेकमुखेन विज्ञानार्थं माया
लक्सणमाह ऋतेऽर्थम् [भागवतम् २.९.३३] इत्यादि ।

पूर्वं व्याख्यातमेव[*Eण्ड्ण्Oट्E ॰३५] । सङ्क्षेपश्चायमर्थः ।
परमपुरुषार्थभूतं मामृते मद्दर्शनादन्यत्रैव यत्प्रतीयते
यच्चात्मनि न प्रतीयेत मां विना स्वतः प्रतीतिरपि यस्य नास्तीत्यर्थः तद्
वस्तु आत्मनो मम परमेश्वरस्य मायां विद्यात् । अत्र दृष्टान्तः ।
यथाऽऽभासः प्रतिबिम्बरश्मिः । यथा च तमस्तिमिरमिति । तत्राभासस्य
तादृशत्वं स्पष्टमेव । तमसोऽपि ज्योतिर्दर्शनादन्यत्रैव प्रतीतेर्ज्योतिर्
आत्मकं चक्षुर्विना चाप्रतीतिरिति । विद्यादिति प्रथमपुरुष
निर्देशस्यायं भावः । अन्यान् प्रत्येव खल्वयमुपदेशः । त्वं तु मद्
दत्तशक्त्या साक्षादेवानुभवन्नसीति । एवं मायिकदृष्टिमतीत्यैव
रूपादिविशिष्टं मामनुभवेदिति । व्यतिरेकमुखेनानुभावनस्यायं
भावः । शब्देन निर्धारितस्यापि सत्स्वरूपादेर्
मायाकार्यावेशेनैवानुभवो न भवति । अतस्तद्अर्थं मायात्यजनमेव
कर्तव्यमिति । एतेन तद्अविनाभावात्प्रेमाप्यनुभावित इति गम्यते ।


[१०६]

अथ तस्यैव प्रेम्नो रहस्यत्वं बोधयति

यथा महान्ति भूतानि
भूतेषूच्चावचेष्वनु
प्रविष्टान्यप्रविष्टानि
तथा तेषु न तेष्वहम् [भागवतम् २.९.३४]

यथा महाभूतानि भूतेष्वप्रविष्टानि बहिःस्थितान्यपि अनुप्रविष्टान्य्
अन्तःस्थितानि भान्ति । तथा लोकातीतवैकुण्ठस्थितत्वेनाप्रविष्टोऽप्यहं
तेषु तत्तद्गुणविख्यातेषु न तेषु प्रणतजनेषु प्रविष्टो हृदि स्थितोऽहं
भामि । अत्र महाभूतानामंशभेदेन प्रवेशाप्रवेशौ तस्य तु
प्रकाशभेदेनेति भेदेऽपि प्रवेशाप्रवेशमात्रसाम्येन दृष्टान्तः । तद्
एवं तेषां तादृग्आत्मवशकारिणी प्रेमभक्तिर्नाम रहस्यमिति सूचितम्


तथा च ब्रह्मसंहितायाम्

आनन्दचिन्मयरसप्रतिभाविताभिस्
ताभिर्य एव निजरूपतया कलाभिः ।
गोलोक एव निवसत्यखिलात्मभूतो
गोविन्दमादिपुरुषं तमहं भजामि ॥ [Bरह्मष्५.२९]

प्रेमाञ्जनच्छुरितभक्तिविलोचनेन
सन्तः सदैव हृदयेषु विलोकयन्ति ।
यं श्यामसुन्दरमचिन्त्यगुणस्वरूपं
गोविन्दमादिपुरुषं तमहं भजामि ॥ [Bरह्मष्५.३०]

अचिन्त्यगुणस्वरूपमपि प्रेमाख्यं यदञ्जनं तेन च्छुरितवतुच्चैः
प्रकाशमानं भक्तिरूपं विलोचनं तेन इत्यर्थः ।

ये भजन्ति तु मां भक्त्या
मयि ते तेषु चाप्यहम् । इति [गीता ९.२९] गीतोपनिषदश्च ।

यद्वा तेषु यथा तानि बहिःस्थितानि चान्तःस्थितानि च भान्ति तद्वत्
भक्तेषु अहमन्तर्मनोवृत्तिषु बहिर्इन्द्रियवृत्तिषु च स्फुरामीति च ।
भक्तेषु सर्वथाऽनन्यवृत्तिताहेतुर्नाम किमपि स्वप्रकाशं
प्रेमाख्यमानन्दात्मकं वस्तु मम रहस्यमिति व्यञ्जितम् । तथैव
श्रीब्रह्मणोक्तम्

न भारती मेऽङ्ग मृषोपलक्ष्यते
न वै क्वचिन्मे मनसो मृषा गतिः ।
न मे हृषीकाणि पतन्त्यसत्पथे
यन्मे हृदौत्कण्ठ्यवता धृतो हरिः ॥ [भागवतम् २.६.३४] इति ।

यद्यपि व्याख्यान्तरानुसारेणायमर्थोऽपलपनीयः स्यात्तथाप्यस्मिन्न्
एवार्थे तात्पर्यं प्रतिज्ञाचतुष्टयसाधनायोपक्रान्तत्वात्तद्अनुक्त्रम
गतत्वाच्च । किं तस्मिन्नर्थे न तेषु इति छिन्नपदमपि व्यर्थं स्याद्
दृष्टान्तस्यैव क्रियाभ्यामन्वयोपपत्तेः । अपि च रहस्यं नाम ह्येतद्
एव यत्परमदुर्लभं वस्तु दुष्टोदासीनजनदृष्टिनिवारणार्थं
साधारणवस्त्व्अन्तरेणाच्छाद्यते । यथा चिन्तामणिः सम्पुटादिना । अतएव
परोक्षवादा ऋषयः परोक्षं च मम प्रियमिति [भागवतम् ११.२१.३५] श्री
भगवद्वाक्यं च । तदेवं परोक्षं क्रियते यददेयं विरलप्रचारं
महद्वस्तु भवति । अस्यैवादेयत्वं विरलविचारत्वं महत्त्वं च । मुक्तिं
ददाति कर्हिचित्स्म न भक्तियोगमित्य्[भागवतम् ५.६.१८] आदिषु बहुत्र व्यक्तम्


इदं भागवतं नाम
यन्मे भगवतोदितम् ।
सङ्ग्रहोऽयं विभूतीनां
त्वमेतद्विपुली कुरु ॥ [भागवतम् २.७.५१]
यथा हरौ भगवति
नृणां भक्तिर्भविष्यति ।
सर्वात्मन्यखिलाधारे
इति सङ्कल्प्य वर्णय ॥ [भागवतम् २.७.५२]

तस्मात्साधु व्याख्यातं स्वामिचरणैरपि रहस्यं भक्तिरिति ॥

[१०७]

अथ कथं तथाभूतं रहस्यमुदयेतेत्यपेक्षायां क्रमप्राप्तं तद्
अङ्गभूतं तदीयसाधनमुपदिशति ।

एतावदेव जिज्ञास्यं
तत्त्वजिज्ञासुनात्मनः ।
अन्वयव्यतिरेकाभ्यां
यत्स्यात्सर्वत्र सर्वदा ॥ [भागवतम् २.९.३५]

आत्मनो मम भगवतस्तत्त्वजिज्ञासुना प्रेमरूपं रहस्यम्
अनुभवितुमिच्छुना एतावदेव जिज्ञास्यं श्रीगुरुचरणेभ्यः शिक्षणीयम्
। किं तत्? सदेकमेव अन्वयव्यतिरेकाभ्यां विधिनिषेधाभ्यां सदा
सर्वत्र स्यादुपपद्यते । यथा

न ह्यतोऽन्यः शिवः पन्था
विशतः संसृताविह ।
वासुदेवे भगवति
भक्तियोगो यथा भवेत् ॥ [भागवतम् २.२.३३]

इति व्यतिरेकेणोपक्रम्य तद्उपसंहारे

तस्मात्सर्वात्मना राजन्
हरिः सर्वत्र सर्वदा ।
श्रोतव्यः कीर्तितव्यश्च
स्मर्तव्यो भगवान्नॄणाम् ॥ [भागवतम् २.२.३६]

इत्यन्वयेन सर्वदेत्युक्तम् ।

तस्मात्स्वज्ञानविज्ञानरहस्यतद्अङ्गानामुपदेशेन चतुःश्लोक्यामपि
स्वयं श्रीभगवच्छब्देन ददर्श तत्राखिलसात्वतां पतिम् [भागवतम् २.९.१५]
इत्यत्र तापनीश्रुत्य्अनुकूलितं श्रीकृष्णलिङ्गत्वेन च अस्य वक्तुः श्री
भगवत्त्वमेव स्फुटम् । न जातु तद्अंशभूतनारायणाख्य
गर्भोदशायि पुरुषत्वम् ।

अतएवास्य महापुराणस्यापि श्रीभागवतमित्येव व्याख्या । तथैवोक्तम्
 कस्मै केन विभाषितोऽयमतुलो ज्ञानप्रदीपः पुरा इत्यादौ तच्
छुद्धं विमलं विशोकममृतं सत्यं परं धीमहि इत्य्[भागवतम् १२.१३.१९]
अत्र परशब्देन भगच्वक्तृत्वम् । आद्योऽवतारः पुरुषः परस्येति द्वितीये
भेदाभिधानात् । अत इदं भगवता पूर्वं ब्रह्मणे नाभिपङ्कजे ।
स्थिताय भवभीताय कारुण्यात्सम्प्रकाशितमित्यत्रापि भगवच्छब्द
प्रयोगः । श्रीनारायणनाभिपङ्कजे स्थितं ब्रह्माणं प्रति स्वयं श्री
भगवता तत्रैव व्यापिमहावैकुण्ठं प्रकाश्येदं पुराणं प्रकाशितम्
इत्यर्थः । अनुगतं चैतत्द्वितीयस्कन्धेतिहासस्येति ।

॥ २.९ ॥ श्रीभगवान् ब्रह्माणम् ॥ १०२१०७ ॥

[१०८]

तदेतत्सर्वशास्त्राणां समन्वयस्तस्मिन्नेव भगवति । तथा च सर्वैश्
च वेदैः परमो हि देवो जिज्ञास्यो नान्यो वेदैः प्रसिध्येत् । तस्मादेनं
सर्ववेदानधीत्य विचार्य च ज्ञातुमिच्छेन्मुमुक्षुरिति चतुर्वेद
शिखायाम् । यं सर्वदेवा आनमन्ति मुमुक्षवो ब्रह्मवादिनश्चेति श्री
नृसिंहतापन्याम् [ण्टू २.४.१०] ।

न वेदविन्मनुते तं बृहन्तं सर्वानुभूतमात्मानं साम्पराये । त्वं
त्वौपनिषदं पुरुषं पृच्छामीत्य्[Bआऊ ३.९.२७] आदिरन्यत्र । वेदैश्च
सर्वैरहमेव वेद्यो वेदान्तकृद्वेदविदेव चाहम् इति [गीता १५.१५] श्री
गीतोपनिषत्सु । सिद्धान्ते पुनरेक एव भगवान् विष्णुः समस्तागम
व्यापारेषु विवेचनव्यतिकरं नीतेषु निश्चीयत इति पाद्मे । सर्व
नामाभिधेयश्च सर्ववेदेडितश्च स इति स्कान्दे । नताः स्म सर्वजगतां
वचसां प्रतिष्ठा यत्र शाश्वती इति [Vइড়् १.१४.२३] वैष्णवे ।

सर्ववेदान् सेतिहासान्
सपुराणान् सयुक्तिकान् ।
सपञ्चरात्रान् विज्ञाय
विष्णुर्ज्ञेयो न चान्यथा ॥ इति ब्रह्मतर्के ।

तदेवं सर्ववेदसमन्वयं स्वस्मिन् श्रीभगवत्येव स्वयमाह

मां विधत्तेऽभिधत्ते मां
विकल्प्यापोह्यते ह्यहम् । [भागवतम् ११.२१.४२]

॥ ११.२१ ॥ श्रीभगवान् ॥ १०८ ॥

[१०९]

तदेवं भगवत एव सर्ववेदार्थत्वं दर्शितम् । तत्र राज्ञः प्रश्नः ।

श्रीविष्णुरात उवाच

ब्रह्मन् ब्रह्मण्यनिर्देश्ये
निर्गुणे गुणवृत्तयः ।
कथं चरन्ति श्रुतयः
साक्षात्सद्असतः परे ॥ [भागवतम् १०.८७.१]

अस्यार्थः । श्रुतयस्तावच्छब्दमात्रस्य साधारण्याद्गुणेषु सत्त्वादिषु
वृत्तिर्यासां तादृशो दृश्यन्ते । ब्रह्म तु निर्गुणं सत्त्वादिगुणातीतं तस्माद्
एवानिर्देश्यम् । तत्तद्गुणकार्यभूतजातिगुणक्रियाख्याननां
गुणान्तराणामभावास्पदत्वात्तादृशद्रव्यस्याप्यप्रसिद्धत्वाद्
अनिर्देश्यं सत्त्वादि कार्यं भूताभ्यां सद्असद्भ्यां कार्यकारणाभ्यां
परमिति तेन तेनासम्बन्धं चेत्यर्थः । तथा च सति यथा डित्थवाचि
कस्मिंश्चिदद्वितीये द्रव्ये तच्छब्दस्य मुख्या वृत्तिः प्रवर्तते । यथा च
सिंहो देवदत्त इत्यत्र गौण्या वृत्त्या शौर्यगुणयुक्ते देवदत्ते सिंह
शब्दः प्रवर्तते । यथा च गङ्गायां घोष इत्यत्रलक्षणया वृत्त्या
गङ्गाशब्दस्तस्मिन्नित्यसम्बन्धे तटे प्रवर्तते । तथा तत्तद्
भावास्पदे ब्रह्मणि तया तया वृत्त्या श्रुतयः कथं प्रवर्तेरन् ।
श्रुतीनां च शास्त्रयोनित्वादिति [Vस्१.१.३] न्यायेन तत्प्रतिपादकतायाम्
अनन्यानां तत्र प्रवृत्तिरवश्यं वक्तव्या । तस्मात्तस्मिंस्ताः साक्षाद्
रूपतया मुख्यया वृत्त्या केन प्रकारेण चरन्ति । तं प्रकारं विशेषः
कृपयापि स्वयमुपदिशेति । अन्यथा पदार्थत्वायोगादपदार्थस्य च
वाच्यार्थत्वायोगान्न श्रुतिगोचरत्वं ब्रह्मणः स्यादिति स्थिते कुतस्तरां
तदुपरि चरस्फूर्तेर्भगवतस्तद्गोचरत्वं तत्कथमेवं
स्वभक्तयोरित्यादौ स्वतां स्वतः प्रमाणभूतानां वेदानां मार्गं
भगवत्परत्वमादिश्येत्युक्तमिति ।
[११०]

अत्र श्रीशुकदेवेन दत्तमुत्तरमाह

ऋषिरुवाच
बुद्धीन्द्रियमनःप्राणान्
जनानामसृजत्प्रभुः ।
मात्रार्थं च भवार्थं च
आत्मनेऽकल्पनाय च ॥ [भागवतम् १०.८७.२]

बुद्ध्यादीनुपाधीन् जनानामनुशायिनां जीवानां मात्राद्य्अर्थं
प्रभुः परमेश्वरोऽसृजत न तु जनाः स्वाविद्ययासृजन्निति विवर्तवादः
परिहृतः । मीयन्त इति माया विषयाः तद्अर्थम् । भवार्थं भवः जन्म
लक्षणं कर्म तत्प्रभृतिकर्मकरणार्थमित्यर्थः । आत्मने
लोकान्तरगामिने आत्मनस्तत्तल्लोकभोगायेत्यर्थः । अकल्पनाय
कल्पनानिवृत्तये मुक्तये इत्यर्थः । अर्थधर्मकाममोक्षार्थमिति
क्रमेण पदचतुष्टयस्यार्थः । मोक्षोऽप्यत्र चिन्मात्रतयावस्थितिरूपः
। यथावर्णविधानमपवर्गश्च भवति, योऽसौ भगवतीत्यादिना
अनन्यनिमित्तभक्तियोगलक्षणो नानागतिनिमित्ताविद्याग्रन्थिरन्धन
द्वारेणेत्य्[भागवतम् ५.१९.२०] अन्तेन पञ्चमोक्तगद्येन तथा निरुक्तत्वात्साध्य
भक्तिप्रादुर्भावलक्षणं चेति द्विविधो ज्ञेयः । उभयत्रापि कल्पना
रूपाविद्याया निवृत्तेः । एतदुक्तं भवति । यस्मात्स्वयमीश्वरस्तत्तद्
अर्थं तत्तत्साधकत्वेन दृश्यमानानां बुद्ध्यादीन् सृष्टवान् तस्मात्तत्
तत्सम्पादनशक्तिनिधानयोग्यतया तेषु कृतवानिति लभ्यते । तत्र
त्रिवर्गसम्पादिकाः शक्तयः कल्पनात्मिका मायावृत्त्य्अविद्याशक्तेरंशाः
बहिर्मुखकर्मात्मकत्वात्स्वरूपान्यथाभावसंसारित्वहेतुत्वाच्च ।
एवं च यावज्जीवानां भगवद्बहिर्मुखता तावत्केवलं
कल्पनात्मिकानामविद्याशक्तीनां प्रकाशात्तत्प्रधाना बुद्ध्य्आदयः
सगुणा एवेति निर्गुणं साक्सान्न कुर्वत इत्येवं सत्यमेव । यदा तु तद्
अन्तर्मुखता तदा तेषु चिच्छक्तेः प्रादुर्भावात्तं साक्षात्कुर्वत एव इति
स्थितम् । बुद्ध्यादिमयत्वाद्वचसोऽपि तथा व्यवहारः सिध्यति । तद्
अत्रैवाभेदेन सिद्धान्तितमन्ते ।
तदेतद्वर्णितं राजन्
यो नः प्रश्नः कृतस्त्वया ।
यथा ब्रह्मण्यनिर्देश्ये
नरिगुण्येऽपि मनश्चरेत् ॥ इत्यत्र मन इति ।

तत्र बुद्ध्य्आदौ चिच्छक्तिस्तदीयाप्राकृतपरमानन्दस्वरूपतादृश
गुणादौ स्वयं प्रकाशमयी वचसि च तत्तन्निर्देशमयीति ज्ञेया ।

अतोऽप्राकृततादृशस्वरूपाद्यालम्बनेन श्रुतयश्चरन्तीति सिद्धान्त
सिद्धये । तदेवं पौरुषस्यापि वचसो भगवच्चरित्रं सिद्धम् ।
यथोक्तम् यस्मिन् प्रति श्लोकमबद्धवत्य्[भागवतम् १.५.११] अपीति । तथा च सति
तथाविधवचादीनामेकाश्रयस्य साक्षाद्भगवन्
निश्वासाविर्भाविनोऽपौरुषेयस्य तच्चारित्वं किमुत । तस्मात्साक्षात्चरन्त्य्
एव श्रुतयः । वक्ष्यते च क्वचिदजयात्मना च चरतोऽनुचरेन्
निगम[*Eण्ड्ण्Oट्E ॰३६] इति । तथा च प्रणवमुद्दिश्योक्तं द्वादशे

स्वधाम्नो ब्रह्मणः साक्षाद्
वाचकः परमात्मनः ।
ससर्वमन्त्रोपनिषद्
वेदबीजं सनातनम् ॥ [भागवतम् १२.६.४१] इति ।

श्रुतौ च ओमित्येतद्ब्रह्मणो नेदिष्ठं नामेति नेदिष्ठं लक्षणादि
व्यवधानं विनेत्यर्थः । अतएव केन च प्रकटिण साक्षाच्चरन्ति स
कथ्यतामित्येवं राजाभिप्रायः । अत्र शब्दो निर्देश्यत्वे दोषस्त्वग्रे
द्युपतय इत्य्[भागवतम् १०.८७.४१] अत्र परिहार्यः ।

अथ श्रुतिष्वपि याः काश्चित्त्रिवर्गपरत्वेन बहिर्मुखाः प्रतीयन्ते तासाम्
अप्यन्तर्मुखतायामेव पर्यवसानम् । तथा हि परमेश्वरस्य सतत
परमार्थबहिर्मुखतापराहतजीवनिकायविषयकृपाविलास
पर्यवसायिनिःश्वासरूपाः श्रुतयः प्रथमतः स्वविषयकं विश्वासं
जनयितुमदृष्टवस्त्वनभिज्ञानसततदृष्टमैहिकमेवार्थम्
ईहमानांस्तान् प्रति तत्सम्पादकं पुत्रेष्ट्यादिकं विदधति । ततश्च तेन
जातविश्वासानैहिकस्यात्यन्तमस्थिरत्वे प्रदर्श्य दिव्यानन्दचमत्कार
विचित्रस्य पारलौकिकस्वर्गादिलक्षणतत्तत्कामस्य जनकेऽग्निष्टोमादौ
प्रवर्तयन्ति । ततस्तेषां निरन्तरतद्अभ्यासाद्धर्म एव रुचिं जनयन्ति


अथ लब्धधर्मरुचीनां शुद्धान्तःकरणानां तद्अर्तहविचार
पराणां जगदप्यनित्यमिति ज्ञानवतां संसारभयदीनानां
निर्वाणानन्दाभिलाषं सम्पादयन्ति । निर्वाणानन्दश्च पर
तत्त्वाविर्भावरूप एवेति ।

तदुक्तं श्रीसूतेन

धर्मस्य ह्यापवर्ग्यस्य
नार्थोऽर्थायोपकल्पते ।
नार्थस्य धर्मैकान्तस्य
कामो लाभाय हि स्मृतः ॥ [भागवतम् १.२.९]
कामस्य नेन्द्रियप्रीतिर्
लाभो जीवेत यावता ।
जीवस्य तत्त्वजिज्ञासा
नार्थो यश्चेह कर्मभिः ॥ [भागवतम् १.२.१०] इति ।

ततश्च यथा बुद्ध्यादयोऽन्तर्मुखतातारतम्येन चिच्छक्त्याविर्भावात्
परे तत्त्वे तारतम्येन चरन्ति, तथा श्रुतिलक्षणं वचनमपि चिच्छक्ति
प्रकाशानुक्रमेण त्रैगुण्यविषयत्वमतिक्रम्य केवलनैर्गुण्य
विषयमेव सत्तस्मिन्निर्गुणे तत्त्वे सम्यगेव चरितुं शक्नोति । अगुण
वृत्तित्वेन योग्यत्वात् । तदुक्तं द्वादशे प्रणवमुपलक्ष्य

ततोऽभूत्त्रिवृदोङ्कारो
योऽव्यक्तप्रभवः स्वराट् ।
यत्तल्लिङ्गं भगवतो
ब्रह्मणः परमात्मनः ॥ [भागवतम् १२.६.३९] इति ॥

तत्र तत्तत्त्वं द्विधा स्फुरति भगवद्रूपेण ब्रह्मरूपेण चेति । चिच्
छक्तिरपि द्विधा तदीयस्वयंप्रकाशादिमयभक्तिरूपेण तन्मय
ज्ञानरूपेण च । ततो भक्तिमयश्रुतयो भगवति चरन्ति ज्ञानमय
श्रुतयो ब्रह्मणीति सामान्यतः सिद्धान्तितम् ।

[१११]

अथ तत्र विशेषं वक्तुं तदीय एवेतिहास उपक्षिप्यते ।

श्रीसनन्दन उवाच
स्वसृष्टमिदमापीय
शयानं सह शक्तिभिः ।
तदन्ते बोधयाञ्चक्रुस्
तल्लिङ्गैः श्रुतयः परम् ॥ [भागवतम् १०.८७.१२]

स्वयं निर्मितमिदं विश्वं लयसमये आपीय संहृत्य शक्तिभिः सह
शयानं प्रकृतिं पुरुषं तद्अंशांशश्चात्मसात्कृत्य तत्कार्यं प्रति
निमीलिताक्षं परं भगवन्तं तद्अन्ते प्रलयकालावसानप्राये तल्लिङ्गैस्
तत्प्रतिपादकैर्वाक्यैः श्रुतयः प्रबोधयाञ्चक्रुः प्रातः प्रबोधनः
स्तुतिभङ्ग्या तुष्टुवुरित्यर्थः । अस्य भगवत्त्वमेव गम्यते न तु
पुरुष

त्वं भगवानेक आसेदम्
अग्र आत्मात्मतां विभुः ।
आत्मेच्छानुगतावात्मो
नानामत्युपलक्षणः ॥ [भागवतम् ३.५.२३]

इति तृतीयस्कन्धप्रकरणे तदानीं पुरुषस्य तद्अन्तर्भावश्रवणात् ।

[११२]

पूर्वपद्यार्थे दृष्टान्तः ।
यथा शयानं सम्राजं
वन्दिनस्तत्पराक्रमैः ।
प्रत्यूषेऽभ्येत्य सुश्लोकैर्
बधियन्त्यनुजीविनः ॥ [भागवतम् १०.८७.१३]

तस्य सम्राजः पराक्रमो य एतैर्न तु निर्विशेषत्वव्यञ्जकैः शोभनैः
श्लोकैः । यथा शयानं सम्राजमित्यस्यायमभिप्रायः । यथा रात्रौ
सम्राट्महिषिभिः क्रीडन्नपि बहिःकार्यं परित्यज्यान्तर्गृहादौ
स्थितत्वात्तज्जनैः शयान एवोच्यते । वन्दिभिश्च तत्प्रभावमयश्लोक
कृतप्रबोधनभङ्ग्या स्तूयते तथायं भगवान् तदानीं जगत्
कार्याकृतदृष्टिर्निगूढं निजधाम्नि निजपरिकरैः क्रीडन्नपीति ।
अनुजीविन इत्यनेन ते यथा तन्मर्मज्ञास्तथा न अपीति सूचितम् ।


[११३]

तत्र प्रथमतो ज्ञानादिगुणसेवितेन सम्यग्दर्शनकारणेन भक्ति
योगेनानुभूयमानं भगवद्आकारमखण्डमेव तत्त्वं स्व
प्रतिपाद्यत्वेन दर्शयन्त्यो ब्रह्मस्वरूपमपि तथात्वेन
क्रोडीकुर्वन्त्यः श्रुतयः ऊचुः ।

जय जय जह्यजामजित दोषगृभीतगुणां
त्वमसि यदात्मना समवरुद्धसमस्तभगः ।
अगजगद्ओकसामखिलशक्त्य्अवबोधक ते
क्वचिदजयात्मना च चरतोऽनुचरेन्निगमः ॥ [भागवतम् १०.८७.१४]

बोहजित जय जय निजोत्कर्षमाविष्कुरु । आदरे वीप्सा । अत्राजितेति
सम्बोधनेनेदं लभ्यते । नामव्याहरणं विष्णोर्यतस्तद्विषया मतिर्
इति [भागवतम् ६.२.१०] न्यायेन नाम्ना भगवानसौ साक्षादभिमुखीक्रियत इति
लिङ्गादेव तच्छ्रीविग्रहवत्तदपि तत्स्वरूपभूतमेव भवति । तद्
विजानीये तद्अभिमुखीकरणार्हत्वात् । अतएव भयद्वेषादौ श्रीमूर्तेः
स्फूर्तेरिव साङ्गेत्य्आदावप्यस्य प्रभावः श्रूयते । विशेषतश्चात्र श्रुति
विद्वद्० नुभआवपि पूर्वमेव प्रमाणीकृतौ । तस्मात्यत्त्वं श्री
विग्रहरूपेण चक्षुरादावुदयते तदेव नामरूपेण वाग्आदाविति
स्थितम् । तस्मान्नामनामिनोः स्वरूपाभेदेन तत्साक्षात्कारे तत्साक्षात्
कार एवेत्यतः किं वक्तव्यमन्यत्रान्यवद्भगवति श्रुतयोऽपि जात्यादि
कृतसंज्ञासंज्ञिसङ्केतादिरीत्या रूढ्यादिवृत्तिभिश्चरन्तीति । यासां श्रुत्य्
अभिधानां वल्लीनां साक्षात्तथाभूतानि नामान्येव फलानीति ।

उत्कर्षमाविष्कुर्वित्यनेन इत्थं सर्वोत्कृष्टतागुणयोगेन मुख्ययैव
वृत्त्या श्रुतयस्तस्मिंश्चरन्तीति दर्शितम् । श्रुतयश्च न ते महि त्वामन्व्
अश्नुवन्ति [?], न तत्समश्चाभ्यधिकश्च दृश्यते [श्वेतू ६.८] इत्याद्याः ।

अत्र श्रुतयो जय जयेति स्वभक्त्याविष्कारात्भक्तिमेव तत्प्रकाशे हेतुं
गमयन्ति । केन व्यापारेणोत्कर्षमाविष्करवाणीत्याशङ्क्य माया
निरसनद्वारा स्वभक्तिदानेनेत्याहुः ।

अजां मायां जहि । ननु माया नाम विद्याविद्यावृत्तिका शक्तिः । तर्हि तद्
धनने विद्याया अपि हतिः स्यादित्यत्र आह दोषगृभीतगुणां जीवानाम्
आत्मविस्मृतिहेतावविद्यालक्षणे दोषे एव गृभीतो गृहीतस्तत्स्मृतिहेतोर्
विद्यालक्षणो गुणो यया ताम् । स्वयमेव स्वावेशेनाविद्यालक्षणं दोषम्
उत्पाद्य क्वचिदेव कदाचिदेव कथञ्चिदेव कञ्चिदेव जीवं त्यजतीति तस्यास्
त्यागात्मकविद्याख्यगुणेऽपि दोष एव । तस्मात्तां निर्मूलां विधाय
जीवेभ्यो निजचरणारविन्दविषयां भक्तिमेव दिशेति तात्पर्यम् ।

अतो मायाघातकयोग्यशक्तित्वेन तद्अतीतत्वं व्यपदिश्य सच्चिद्आनन्द
घनत्वं भगवतो व्यञ्जयन्त्योऽतन्निरसनमुखेन तात्पर्यवृत्त्या
श्रुतयश्चरन्तीति व्यञ्जितम् । श्रुतयश्च मायां तु प्रकृतिं विद्यान्
मयिनं तु महेश्वरम् [श्वेत्४.१०][*Eण्ड्ण्Oट्E ॰३७] इति ।

अजामेकामिति । सर्वस्याधिपतिः सर्वस्येशानः [Bआऊ ४.४.२२] स वा एष नेति
नेतीत्य्[*Eण्ड्ण्Oट्E ॰३८] आद्याः ।

ननु मायानाशं सम्प्रार्थ्य मम तद्उपाधिकमैश्वर्यादिकमपि
नाशयितुमिच्छथेत्यत्र समाधत्ते त्वमिति । यद्यस्मात्त्वमात्मना
स्वरूपेणैव समवरुद्धसमस्तभगप्राप्तत्रिपाद्विभूत्य्आख्य
सर्वैश्वर्यादिरसि । तस्मात्तव तुच्छया तद्उपाधिकैश्वर्यादिभिर्वा किम्
इत्यर्थः ।

तथा च स यदजया त्वजामित्यत्र पद्ये टीका नहि निरन्तराह्लादिसंवित्
कामधेनुवृन्दपतेरजया कृत्यमिति । तथा न ह्यन्येषामिव देश
कालादिपरिच्छिन्नं तवाष्टगुणितमैश्वर्यमपि तु परिपूर्ण
स्वरूपानुबन्धित्वादपरिमितमित्यर्थः । इत्येषा ।

अत्रात्मशब्देन स्वरूपमात्रवाचकेन तथा भगशब्देन स्वरूप
भूतगुणवाचकेनेदं ध्वन्यते । स्वरूपादिशब्दा ईश्वरादिशब्दाश्च
स्वरूपमात्रावलम्बनया स्वरूपभूतगुणावलम्बनयापि रूढ्या
निर्देष्टुं शक्नुवन्तीति । श्रुतयश्च यद्आत्मको भगवान् तद्आत्मिका
व्यक्तिः इत्य्[?] आद्याः परास्य शक्तिर्विविधैव श्रॣयते इत्य्[श्वेतू ६.८] आदिकाश्
च ।

सा च स्वरूपशक्तिः सर्वैरेवावगम्यत इत्याहुः अगानि स्थावराणि जगन्ति
जङ्गमानि ओकांसि शरीराणि येषां तेषां सर्वेषामेव जीवानां या अखिलाः
शक्तयस्तासामवधकेति सम्बोधनम् । तेषु विचित्रशक्तिलहरीरत्नाकर
इत्यनुमीयत इत्यर्थः ।

यद्वा । ननु मायाहननेन तद्उपाधेर्जीवस्य तु शक्तिहानिः स्यात्
तत्राहुः अगेति । अथ पूर्ववदेव । ततः स्वरूपशक्त्यैव प्रत्युत तेषां
सुखैकप्रदा पूर्णा शक्तिर्भविष्यतीति भावः । अत्रेत्थं तटस्थ
लक्षणेन श्रुतयश्चरन्तीत्युक्तम् । श्रुतयश्च को ह्येवान्याद्[टैत्ति २.७]
इत्यादिकाः प्राणस्य प्राणमित्यादिकाः । तमेव भान्तम् [Kअठऊ २.२.१५]
इत्यादिकाः । देहान्ते देवस्तारकं ब्रह्म व्याचष्टे [ण्टू
१.७][*Eण्ड्ण्Oट्E ॰३९] इति । यस्य देवे परा भक्तिर्[श्वेतू ६.२३] इत्याद्याश्च

ननु विशेषतो भवत्यः कथं जानन्ति यदजया मम कृत्यं नास्ति तथा
सच्चिद्आनन्दघन एव स्वरूपशक्त्या समवरुद्धसमस्तभग इति
तत्राहुः क्वचिदिति । क्वचित्कदाचित्सृष्ट्यादिसमये पुरुषरूपेण अजया
मायया चरतः क्रीडतः नित्यं च स्वरूपशक्त्याविष्कृतस्वरूपभूत
भगेन सत्यज्ञानानन्दैकरसेनात्मना चरतस्तवास्मल्लक्षणो निगमः
शब्दरूपेण देवतारूपेण च अनुचरेत्सेवते । तस्माद्वयं सत्सर्वं
जानीम इत्यर्थः । कर्मणि षष्ठी ।

एतदुक्तं भवति । अत्र द्विविधो वेदस्त्रैगुण्यविषयो निस्त्रैगुण्यविषयश्
च । तत्र त्रैगुण्यविषयस्त्रिविधः । प्रथमप्रकारस्तावत्तद्
अवलम्बनताटस्थ्येन तल्लक्षकः । यथा यतो वा इमानि भूतानीत्यादिः
। द्वितीयप्रकारश्च त्रिगुणमयतद्ईशितव्यादिवर्णनादिद्वारा तन्
महिमादिदर्शकः । यथा इन्द्रो यतोऽवसितस्य राजेत्यादिः । तृतीयप्रकारश्
च त्रैगुण्यनिरासेन परमवस्तूद्देशकः । सोऽप्ययं द्विविधः । निषेध
द्वारा सामानाधिकरण्यद्वारा च । तत्र पूर्वद्वारा अस्थूलमनणु नेति
नेतीत्य्[Bआऊ ३.७.८] आदिः । उत्तरद्वारा सर्वं खल्विदं ब्रह्म तत्त्वमसीत्य्
आदिः । पूर्ववाक्ये । तज्जातत्वादिति हेतोः सर्वस्यैव ब्रह्मत्वं निर्दिश्य
तत्राविष्कृतः सदिदमिति प्रतीतिपरमाश्रयो योऽंशः स एव शुद्धं
ब्रह्मेत्युद्दिश्यते । उत्तरवाक्ये त्वंपदार्थस्य तद्वच्चिद्आकारतच्
छक्तिरूपत्वेन तत्पदार्थैक्यं यदुपपाद्यते तेनापि तत्पदार्थो
ब्रह्मैवोद्दिश्यते । तत्पदार्थज्ञानं विना त्वंपदार्थज्ञानमात्रम्
अकिञ्चित्करमिति तत्पदोपन्यासः । त्रैगुण्यातिक्रमस्तूभयत्रापि । अत्र
त्रैगुण्यनिरासेन तद्उद्देशेन यत्र तदीयधर्माः स्पष्टमेव गम्यते
तत्र भगवत्परत्वं यत्र त्वस्पष्टं तत्र ब्रह्मपरत्वमित्य्
अवगन्तव्यम् । व्याख्यातस्त्रैगुण्यविषयः । तदेतदजया चरतोऽनुचरे
व्याख्यातम् ।

अथ निस्त्रैगुण्योऽपि द्विविधः । ब्रह्मपरो भगवत्परश्च । यथा
आनन्दो ब्रह्मेत्यादि ।

न तस्य कार्यं करणं च विद्यते
न तत्समश्चाभ्यधिकश्च दृश्यते ।
परास्य शक्तिर्विविधैव श्रूयते
स्वाभाविकी ज्ञानबलक्रिया च ॥ [श्वेतू ६.८] इत्यादिश्च ।

तदेतदात्मना चरतोऽनुचरे इति व्याख्यातम् । अतः श्रुतेस्तच्चारित्वं
सिद्धम् । साक्षाच्चारित्वं च निस्त्रैगुण्यानां स्वत एव अन्येषां तु तद्एक
वाक्यतया ज्ञेयम् । मायानिरसनार्थमेव तत्तद्गुणानुवादः क्रियते
पश्चादखण्डमेव तां निरस्य साक्षाद्भगवत्स्वरूपगुणादिकं
निर्दिश्यते इति तदेकवाक्यताद्योतनया स एष एव सिद्धान्तोऽस्मिन्न्
उपक्रमवाक्ये समुद्दिष्टः । तथोपसंहारे च श्रुतयस्त्वयि हि फलन्त्य्
अतन्निरसनेन भवन्निधना [भागवतम् १०.८७.४१] इति । श्रुतयश्च मध्व
भाष्यप्रमाणिताः न चक्षुर्न श्रोत्रं न तर्को न स्मृतिर्वेदो ह्येवैनं
वेदयति इत्याद्या । औपनिषदः पुरुष इत्य्[Bआऊ ३.९.२६] आद्याश्च ।

[११४]

अथ विशेषतो ब्रह्मण्यपि यथा चरन्ति ब्रह्मणि चरन्तीनामपि यथा
भगवत्येव पर्यवसानं तथैवोद्दिशन्ति ।

बृहद्उपलब्धमेतदवयन्त्यवशेषतया
यत उदयास्तमयौ विकृते दिवाविकृतात् ।
अत ऋषयो दधुस्त्वयि मनोवचनाचरितं
कथमयथा भवन्ति भुवि दत्तपदानि नॄणाम् ॥ [भागवतम् १०.८७.१५]

एतत्सर्वं बृहद्ब्रह्मैवोपलब्धमवगतम् । तत्कथं विकृते विश्वस्मात्
सकाशादवशिष्यमाणत्वेन सर्वं घटादिद्रव्यं मृदेवोपलब्धा दृष्टा
तथा बृहदपीत्यर्थः । तत्र हेतुः । यतो बृहतः सकाशाद्विकृतेरुदयास्
तमयौ अवयन्ति मन्यन्ते श्रुतयः यतो वा इमानीत्याद्याः । तस्मान्मृत
साम्यं तस्य युज्यत इति भावः । तर्हि कथं तद्विकारि त्वमपि नेत्याहुः
। अविकृतात् । श्रुतेस्तु शब्दमूलत्वादिति न्यायेनाचिन्त्यशक्त्या तथाप्य्
अविकृतमेव यत्तस्मादित्यर्थः । यद्यप्यत्रापि सशक्तिकमेव बृहद्
उपपद्यते तथाप्याविष्कृतभगवत्त्वेनानुपादानात्ब्रह्मैवोपपादितं
भवति । सर्वथा शक्तिपरित्यागे तद्उपपादानात्सामर्थ्यात्तुच्छत्वापाताच्
च । तस्मादत्र ब्रह्मैवोदाहृतम् । अतएव मृन्मात्रदृष्टान्तेन
कर्तृत्वादिकमपि तत्र नोपस्थापितम् । तदेतद्ब्रह्मप्रतिपादनमपि
श्रीभगवत्येव पर्यवस्यतीत्याहुः । अत इति । अतो ब्रह्मप्रतिपादनादपि
ऋषयो वेदास्त्वयि श्रीभगवत्येव मनस आचरितं तात्पर्यं
वचनस्याचरितमभिधानं च दधुर्धृतवन्तः । द्वयोरेकवस्तुत्वाद्
भगादीनामाविष्कारानाविष्कारदर्शनमात्रेण भेदकल्पनाच्च
तत्रार्थान्त्रन्यासः । नॄणां भूचराणां सम्यग्दर्शिनामसम्यग्
दर्शिनां वा भुवि दत्तानि निक्षिप्तानि पदानि कथमयथा भवन्ति भुवं
न प्राप्नुवन्ति अपि तु तत्रैव पर्यवस्यन्ति । तस्माद्यथा कथमपि
प्रतिपादयन्तु फलितं तु त्वय्येव भवतीति भावः । तदुक्तं

ज्ञानयोगश्च मन्निष्ठो
नैर्गुण्यो भक्तिलक्षणः ।
द्वयोरप्येक एवार्थो
भगवच्छब्दलक्षणः ॥ इति । [भागवतम् ३.३२.३२]

अत्र श्रुतयश्मध्वभाष्यप्रमाणिताः हन्त तमेव पुरुषं सर्वाणि
नामान्यभिवदन्ति यथा नद्यः स्यन्दमानाः समुद्रायणाः समुद्रम्
अभिनिविशन्ति एवमेवैतानि नामानि सर्वाणि पुरुषमभिविशन्तीति ।

[११५]

तदेवं भगवत्त्वेन ब्रह्मत्वेन न त्वमेव तात्पर्याभिधानाभ्यां
सर्वनिगमगोचर इत्युक्तम् । तच्च यथार्थमेव न तु काल्पनिकमित्य्
आहुः ।

इति तव सूरयस्त्र्य्अधिपतेऽखिललोकमल
क्षपणकथामृतामवगाह्य तपांसि जहुः ।
किमुत पुनः स्वधामविधुताशयकालगुणाः
परम भजन्ति ये पदमजस्रसुखानुभवम् ॥ [भागवतम् १०.८७.१६]

भोस्त्र्यधिपते त्रयाणां ब्रह्मादीनां पतिस्तत्तद्अवतारी नारायणाख्यः
पुरुषस्तस्याप्युपरिचरस्वरूपत्वादधिपतिर्भगवान् । ततो हे
सर्वेश्वरेश्वर यस्मात्त्वय्येव वेदानां तात्पर्यमभिधानं च
पर्यवसितमिति अतो हेतोरेव सूरयो विवेकिनः परम्परात्वत्
प्रतिपादनमयं वेदभागमपि परित्यज्य केवलं तवाखिललोकम्
अलक्षपणकथामृताब्धिं सकलवृजिननिरसनहेतुकीर्तिसुधासिन्धुम्
अवगाह्य श्रद्धया निषेव्य तपःप्राधान्येन तापकत्वेन वा तपांसि
कर्माणि तानि जहुस्त्यक्तवन्तः । तेषां साधकानामपि यदि तत्रैवं तदा
किमुत वक्तव्यं स्वधामविधुताशयकालगुणाः शुद्धात्मस्वरूप
स्फुरणेन निर्जितमन्तःकरणं जरादिहेतुः कालप्रभावः सत्त्वादयो
गुणाश्च यैस्ते ये पुनः तवाजस्रसुखानुभवस्वरूपं पदं
ब्रह्माख्यं तत्त्वं भजन्ति ते तमवगाह्य तानि जहुरिति । किं तर्हि
ब्रह्ममात्रानुभ्वनिष्ठामपि जहुरित्यर्थः । एतदुक्तं भवति । अत्र
तावत्त्रिविधा जना मुग्धा विवेकिनः कृतार्थाश्च इति ।

तत्र सर्वानेवाधिकृत्य वेदानामकल्पनामयत्वेनैव भगवन्
निर्देशकता दृश्यते । तथा हि यदि तथात्वेनैव सा न दृश्येत तदा वस्तुतस्
तत्सम्बन्धाभावादखिललोकमलक्षपणत्वेन पदपदार्थज्ञान
हीनानां मुग्धानामपि यत्पापहारित्वं वेदान्तर्वर्तिन्या भगवत्
कथायाः प्रसिद्धं तन्न स्यात् । अस्पृष्टानललोहदाहकतावत् । किं च
तस्याः कल्पनामयत्वे सति विवेकिनस्तु न तत्र प्रवेर्तेरन् बन्ध्यायाः
सुप्रजस्त्वगुणश्रवणवत् । प्रवर्तन्तां वा तद्आवेशेन स्वधर्मं पुनर्
न त्यजेयुः । राजयशसो गङ्गात्वश्रवणेन तीर्थान्तरसेवनवत् । अपि च
तथा सति ये पुनरात्मारामत्वेन परमकृतार्थास्ते तद्अनादरेण तत्
कथां नैवावगाहेरन् । अमृतसरसीमवगाढा आरोपिततद्अधिकगुणक
नदीवत् । श्रूयते च तस्यास्तत्तद्गुणकत्वम् । यथा वैष्णवे हन्ति
कलुषं श्रोत्रं स यातो हरिर्[Vइড়् ?.?.?] इत्यादौ । अत्रैव त्वद्अगवमी न
वेत्तीत्यादौ । प्रथमे हरेर्गुणाक्षिप्तमतिरित्य्[भागवतम् १.७.११] आदौ । तस्माद्
गुणानां गुणादिप्रतिपादकवेदानां च भगवतो सम्बन्धः स्वाभाविक
एव सर्वथेति सिद्धम् । अत्र श्रुतयः ओमास्य जानन्त इत्याद्याः । यथा
पुष्करपलाशमापो न श्लिष्यन्ति एवमेवंविदं पापं कर्म न श्लिष्यति
। न कर्मणा लिप्यते पापकेन तत्सुकृतदुष्कृते विधुनुते । एवं वाव न
तपति किमहं साधु करवं किमहं नाकरवमित्याद्या मुक्ता ह्येनम्
उपासत इत्याद्याश्च । एवमन्येऽपि श्लोका उपासनादिवाक्यानां भगवत्
परतादर्शका यथायथं योजयितव्या इत्यभिप्रेत्य नोद्धियन्ते ।

ननु तर्हि भवन्मते शब्दनिर्देश्यत्वे प्राकृतत्वमेव तत्रापतति । किं
च श्रुतिभिरपि यतो वाचो निवर्तन्ते अप्राप्य मनसा सह । अवचनेनैव
प्रोवाच । यद्वाचानभ्युदितं येन वागभ्युद्यते यत्श्रोत्रं न शृणोति
येन श्रोत्रमिदं श्रुतमित्यादौ शब्दनिर्देश्यत्वमेव तस्य निषिध्यत
इत्याशङ्कायामुच्यते । यथा साक्षान्निर्देश्यत्वे दोषस्तथा लक्ष्यत्वेऽपि
कथं न स्यात् । उभयत्रापि शब्दवृत्तिविषयत्वेनाविशेषात् । किं च न तस्य
प्राकृतवत्साक्षान्निर्देश्यत्वं किन्त्वनिर्देश्यत्वेनैव तथा निर्देश्यत्वम्
इति सिद्धान्त्यते ।

[११६]
तथैव तासां महावाक्योपसंहारः
द्युपतयः एव ते न ययुरन्तमनन्ततया
त्वमपि यद्अन्तरान्तनिचया ननु सावरणाः ।
ख एव रजांसि वान्ति वयसा सह यच्छ्रुतयस्
त्वयि हि फलन्त्यतन्निरसनेन भवन्निधनाः ॥ [भागवतम् १०.८७.४१]

अत्र स्वरूपगुणयोर्द्वयोरपि द्विधैवानिर्देश्यत्वम् । आनन्त्येन इदम्
इत्तं तदिति निर्देशासम्भवेन च । तत्र प्रथममानन्त्यमाहुः । हे
भगवन् ते तव अन्तमेतावत्त्वं द्युपतयः स्वर्गादिलोकपतयो
ब्रह्मादयोऽपि न ययुर्न विदुः । तत्कुतः । अनन्ततया । यदन्तव तत्किम्
अपि न भवसीति । आसतां ते यस्मात्त्वमै आत्मनोऽन्तं न यासि । कुतस्तर्हि
सर्वज्ञता सर्वशक्तिता वा तत्राप्याहुः । अनन्ततयेति अन्ताभावेनैव । नहि
शशविषाणाज्ञानं सार्वज्ञ्यं तद्अप्राप्तिर्वा शक्तिवैभवं विहन्ति ।
श्रुतिश्च योऽस्याध्यक्षः परमे व्योमन् । सोऽङ्ग वेद यदि वा न वेदेति
[ऋग्वेद १०.१३०.१८] ।

अनन्तत्वमेवाहुः यदन्तरिति यस्य तवान्तरा मध्ये । ननु अहो सावरणा
उत्तरोत्तरदशगुणसप्तावरणयुक्ता अण्डनिचया वान्ति परिभ्रमन्ति
वयसा कालचक्रेण खे रजांसि इव सह एकदैव न तु पर्यायेण । अनेन
ब्रह्माण्डानामनन्तानां तत्र भ्रमणात्स्वरूपगतमानन्त्यं तेषां
विचित्रगुणानामाश्रयत्वात्गुणगतं च ज्ञेयम् । श्रुतयश्च यदूर्ध्वं
गार्गि दिवः यदर्वाक्पृथिव्या यदन्तरं द्यावापृथिवी इमे यद्भूतं
भवच्च भविष्यच्चेत्य्[Bआऊ ३.७.३] आद्याः । विष्णोर्नु कं वीर्याणि प्रवोचं
यं पार्थिवानि विममे रजांसि इत्याद्याश्च ।

हि यस्मादेवमतः श्रुतयश्त्वयि पर्यवस्यन्ति । अतः श्रुतावपि
प्राजापत्यानन्दतः शतगुणानन्दत्वमभिधाय पुनर्यतो वाच इत्य्
आदिना अनन्तत्वेन वाग्अतीतसङ्ख्यानन्दत्वं ब्रह्मण उक्तम् । यदुक्तम्


न तदीदृगिति ज्ञेयं
न वाच्यं न च तर्क्यते ।
पश्यन्तोऽपि न जानन्ति
मेरो रूपं विपश्चितः ॥ इति ॥

अतोऽत्रानिर्देश्यत्वेनैव निर्देश्यत्वम् । यत्तु सत्यं ज्ञानमित्यादौ
स्वरूपस्य साक्षादेव निर्देशः । स्वाभाविकी ज्ञानबलक्रिया चेत्यादौ
गुणस्य च श्रूयते तत्र च तथैव इत्याहुः । अतन्निरसनेन भवन्निधना
इति । अतत्प्राकृतं यद्वस्तु तन्निरस्यैव भवत्पर्यवसानात् । अयमर्थः
। बुद्धिर्ज्ञानमसंमोहमित्यादिना ह्रीर्धीर्भीरेतत्सर्वं मन
एवेत्यादिना च यत्प्राकृतं ज्ञानादिकमभिधीयते तत्सर्वं ब्रह्म न
भवति इति नेति नेतीत्यादिना न तस्य कार्यं करणं च विद्यते इत्यादिना च
निषिध्यते ।

अथ च सत्यज्ञानादिवाक्येन स्वाभाविकी ज्ञानबलक्रिया चेत्यादि वाक्येन
च तदभिधीयते । न तस्मात्प्राकृतादन्यदेव तज्ज्ञानादि इति तेषां
ज्ञानादिशब्दानामतन्निरसनेनैव त्वै पर्यवसानमिति । ततश्च
बुद्ध्य्अगोचरवस्तुत्वादनिर्देश्यत्वं तथापि तद्रूपं किञ्चिदस्ति इति
उद्दिश्यमानत्वादनिर्देश्यत्वं च ।
तथा परोक्षज्ञाने च दशमस्त्वमसीतिवद्वाक्यमात्रेणैव तस्य
स्वप्रकाशरूपस्यापि वस्तुनो विशुद्धचित्ते सुप्रकाशदर्शनात्श्रुति
शब्दस्य स्वप्रकाशताशक्तिमयत्वमेवावसीयते । शब्दब्रह्म परं
ब्रह्म ममोभे शाश्वती तनू इति [भागवतम् ६.१६.५१][*Eण्ड्ण्Oट्E ॰४०] । वेदस्य
चेश्वरात्मत्वात्[भागवतम् ११.३.४४] इति । वेदो नारायणः साक्षात्स्वयम्भूरिति
शुश्रुम इति [भागवतम् ६.१.४०] । किं वा परैरीश्वरः सद्यो हृद्यवरुध्यतेऽत्र
कृतिभिः शुश्रूषुभिस्तत्क्षणादिति [भागवतम् १.१.२] । अतएवौपनिषदः पुरुषः
इत्यत्रोपनिषन्मात्रगम्यत्वं श्रुतिर्बोधयति । चाक्सुषं रूपमितिवत् ।

ततश्च श्रुतिमय्या स्वप्रकाशताशक्त्या प्राकृततत्तद्वस्तुजातं तम इव
निरस्य स्वयं प्रकाशते । तस्मान्न तत्रापि निर्देश्यत्वम् । नहि स्वेन
प्रकाशेन रविः प्रकाश्यो भवति यथा तेन घट इति वक्तुं युज्यते
स्वाभिन्नत्वात् । यदि च शक्तिशक्तिमतोर्भेदपक्षः स्वीक्रियते तदा
निर्देश्यत्वमपीत्यत्रानिर्देश्यत्वेनैव निर्देश्यत्वं सिद्धम् । अतएवोक्तं
गारुडे

अप्रसिद्धेरवाच्यं तद्
वाच्यं सर्वागमोक्तितः ।
अतर्क्यं तर्क्यमज्ञेयं
ज्ञेयमेवं परं स्मृतम् ॥ इति ।

श्रुतौ च अन्यदेव तद्वदितादथो [इत्यादयो?] अविदितादधीति । इदम्
अभिप्रेत्योक्तं श्रीपराशरेणापि ।

यस्मिन् ब्रह्मणि सर्वशक्तिनिलये मानानि नो मानिनां
निष्ठायै प्रभवन्ति हन्ति कलुषं श्रोत्रं स यातो हरिर् ॥ इति । [Vइড়् ६.८.५९]

नन्वाविष्कृतशक्तेर्भगवद्आख्यस्य ब्रह्मणः स्वप्रकाशताशक्ति
स्वरूपत्वं वेदस्य स्मभवति । ततश्चानाविष्कृतशक्तेर्ब्रह्मणः
प्रकाशस्तस्मात्कथमिति । उच्यते अस्मन्मते तस्यापि प्रकाशो भगवच्
छक्त्यैव । तदुक्तम्

मदीयं महिमानं च
परब्रह्मेति शब्दितम् ।
वेत्स्यस्यनुगृहीतं मे
सम्प्रश्नैर्विवृतं हृदि ॥ इति । [भागवतम् ८.२४.३८][*Eण्ड्ण्Oट्E ॰४१]

न चैते न परप्रकाश्यत्वमापतति । ब्रह्मभगवतोरभिन्नवस्तुत्वात्
। अत्र लौकिकशब्देनापि यः कश्चित्तद्उपदेशः स तु तद्अनुगतेस्तया
श्रुत्यैवानुगृहीततया सम्भवतीत्युक्तम् । अतस्तद्अनुशीलनावसरे तद्
भक्त्य्अनुभावरूपस्य तच्छब्दस्य तु सुतरां तत्स्वरूपशक्तिविलास
मयत्वात्न तत्र निषेधः । किं तर्हि मनोविलासमयस्यैवेति सर्वम्
अनवद्यम् । अतएव सुपर्णश्रुतौ प्रकृतिश्च प्राकृतं च यन्न जिघ्रन्ति
जिघ्रन्ति, यन्न पश्यन्ति पश्यन्ति, यन्न शृण्वन्ति शृण्वन्ति, यन् जानन्ति
जानन्ति च इति ।

॥ १०.८७ ॥ श्रुतयः श्रीभगवन्तम् ॥ १०९११६ ॥

[११७]

अथैकमेव स्वरूपं शक्तित्वेन शक्तिमत्त्वेन च विराजतीति । यस्य शक्तेः
स्वरूपभूतत्वं निरूपितं तच्छक्तिमत्ताप्राधान्येन विराजमानं
भगवत्संज्ञामाप्नोति तच्च व्याख्यातम् । तदेव च शक्तित्व
प्राधान्येन विराजमानं लक्ष्मीसंज्ञामाप्नोतीति दर्शयितुं तस्याः स्व
वृत्तिभेदेनानन्तायाः कियन्तो भेदा दर्श्यन्ते । यथा

श्रिया पुष्ट्या गिरा कान्त्या
कीर्त्या तुष्ट्येलयोर्जया ।
विद्ययाविद्यया शक्त्या
मायया च निषेवितम् ॥ [भागवतम् १०.३९.५५]

शक्तिर्महालक्ष्मीरूपा स्वरूपभूता । शक्तिशब्दस्य प्रथमप्रवृत्त्य्
आश्रयरूपा भगवद्अन्तरङ्गमहाशक्तिः । माया च बहिरङ्गा शक्तिः
। श्र्य्आदयस्तु तयोरेव वृत्तिरूपया चेति सर्वत्र ज्ञेयम् । तत्र पूर्वस्याः
भेदः । श्रीर्भागवती सम्पत् । न त्वियं महालक्ष्मीरूपा तस्या मूल
शक्तित्वात् । तदग्रे विवरणीयम् । उत्तरस्याः भेदः । श्रीर्जागती सम्पत् ।
इमामेवाधिकृत्य न श्रीर्विरक्तमपि मां विजहातीत्यादिवाक्यम् । यत
उक्तं चतुर्थशेषे श्रीनारदेन ।

श्रियमनुचरतीं तद्अर्थिनश्च
द्विपदपतीन् विबुधांश्च यः स्वपूर्णः ।
न भजति निजभृत्यवर्गतन्त्रः
कथममुमुद्विसृजेत्पुमान् रसज्ञः ॥ [भागवतम् ४.३१.२२] इति ।

तत्र तद्अर्थिद्विपदपत्यादिसहभाव उपजीव्यः । तथा दुर्वाससः शाप
नष्टायास्त्रैलोक्यलक्ष्म्या आविर्भावं साक्षाद्भगवत्प्रेयसीरूपा
स्वयं क्षीरोदादाविर्भूय दृष्ट्या कृतवतीति श्रूयते । एवमपरापि । तत्र
इला भूस्तदुपलक्षणत्वेन लीला अपि । तत्र च पूर्वस्या भेदो विद्या
तत्त्वावबोधकारणं संविद्आख्यायास्तद्वृत्तेर्वृत्तिविशेषः । उत्तरस्या
भेदस्तस्या एव विद्यायाः प्रकाशद्वारम् । अविद्यालक्षणो भेदः
पूर्वस्या भगवति विभुत्वादिविमृतिहेतुर्मातृभावादिमयप्रेमानन्द
वृत्तिविशेषः । अतएव गोपीजनविद्याकलाप्रेरक इति तापन्यां श्रुतौ ।
यथावसरमेतदपि विवरणीयम् ।

उत्तरस्याः स भेदः संसारिणं स्वस्वरूपविस्मृत्यादिहेतुरावरणात्मक
वृत्तिविशेषः चकारात्पूर्वस्याः । सन्धिनी संविथ्लादिनी भक्त्य्आधार
शक्तिमूर्तिविमलाजयायोगा प्रह्वीशानानुग्रहादयश्च ज्ञेयाः । अत्र
सन्धिन्येव सत्या जयैवोत्कर्षिणी योगैव योगमाया संविदेव ज्ञानाज्ञान
शक्तिः शुद्धसत्त्वं चेति ज्ञेयम् । प्रह्वी विचित्रानन्तसामर्थ्यहेतुः ।
ईशाना सर्वाधिकारिताशक्तिहेतुरिति भेदः । एवमुत्तरस्याश्च
यथायथमन्या ज्ञेयाः । तदेवमप्यत्र मायावृत्तयो न विव्रियन्ते ।
बहिरङ्गसेवित्वात् । मूले तु सेवांशभतपुरुषस्य विदूर
वर्तितयिअवाश्रित्यत्वात् । तथा च दशमस्य सप्तत्रिंशे नारदेन भगवान्
श्रीकृष्ण एवास्तावि

विशुद्धविज्ञानघनं स्वसंस्थया
समाप्तसर्वार्थममोघवाञ्छितम् ।
स्वतेजसा नित्यनिवृत्तमाया
गुणप्रवाहं भगवन्तमीमहि ॥

त्वामीश्वरं स्वाश्रयमात्ममायया
विनिर्मिताशेषविशेषकल्पनम् ।
क्रीडार्थमद्यात्तमनुष्यविग्रहं
नतोऽस्मि धुर्यं यदुवृष्णिसात्वताम् ॥ इति । [भागवतम् १०.३७.२३२४]

अनयोरर्थः । विशुद्धं यद्विज्ञानं परमतत्त्वं तदेव घनः श्री
विग्रहो यस्य । स्वसंस्थया स्वरूपकारेण स्वरूपशक्त्यैव वा सम्यग्
आप्ता इवाप्ता नित्यसिद्धाः पूर्णा वा सर्वे अर्था ऐश्वर्यादयो यत्र । अतएव
न विद्यते अतितुच्छत्वात्मोघे वृथाभूते जगत्कार्ये वाञ्छितं वाञ्छा
यस्य । क्वचिदवाञ्छितस्यापि सम्बन्धो दृश्यते इत्याशङ्क्याह । स्वतेजसा
स्वरूपशक्तिप्रभावेण नित्यमेव निवृत्तो दूरीभूतया शक्त्या युक्तम् ।
गुणमय्या विरहितमिति । तं भगवन्तं शरणं व्रजेम ।

तथा त्वां श्रीकृष्णाख्यं भगवन्तमेव स्वांशेनेश्वरमन्तर्यामि
पुरुषमपि सन्तं नतोऽस्मि । कथ्मभूतमीश्वरं स्वरूपशक्त्या
स्वाश्रयमपि आत्ममायया आत्मात्र जीवात्मा तद्विषयया मायया ।
विनिर्मित्ता अशेषविशेषाकारा कल्पना येन । यद्वा आत्ममायया स्वरूप
शक्त्या स्वाग्रं विनिर्मिता अशेषविशेषा यया तथाभूता कल्पना माया
शक्तिर्यस्य कीदृशं त्वाम् । सम्प्रति त्वाविर्भावसमये तस्यापीश्वरस्य
त्वयि भगवत्येव प्रवेशात् । युगपद्विचित्रतत्तच्छक्तिप्रकाशेन या
क्रीडा तद्अर्थमभ्यात्तः अभि भक्ताभिमुख्येन आत्तः आनीतः प्रकटितो
मनुष्याकारो नराकृतिः परं ब्रह्मेति स्मरणात्तद्रूपो भगवद्आख्यो
विग्रहो येन । तमेव पुनर्विशिनष्टि । यदुवृष्टिसात्वतां धुर्यम् । तेषां
नित्यपरिकराणां प्रेमभारवहमिति । अथवा मूलपद्ये शक्त्येति
सर्वत्रैव विशेष्यपदम् । श्रीर्मूलरूपा । पुष्ट्यादयस्तद्अंशाः । विद्या
ज्ञानम् । आ समीचीना विद्या भक्तिः । राजविद्या राजगुह्यमित्याद्युक्तेः
। माया बहिरङ्गा । तद्वृत्तयः श्र्य्आदयस्तु पृथक्ज्ञेयाः । शिष्टं समम्


ततश्चात्र शुद्धभगवत्प्रकरणे स्वरूपशक्तिवृत्तिष्वेव गणनायां
पर्यवसितासु विवेचनीयमिदम् । प्रथमं तावदेकस्यैव तत्त्वस्य
सच्चिदानन्दत्वाच्छक्तिरप्येका त्रिधा भिद्यते । तदुक्तं विष्णुपुराणे
श्रीध्रुवेण[*Eण्ड्ण्Oट्E ॰४२]

ह्लादिनी सन्धिनी संवित्
त्वय्येका सर्वसंस्थितौ ।
ह्लादतापकरी मिश्रा
त्वयि नो गुणवर्जिते ॥ इति [Vइড়् १.१२.६८]

व्याख्यातं च स्वामिभिः । ह्लादिनी आह्लादकरी सन्धिनी सन्तता संविद्
विद्याशक्तिः । एका मुख्या अव्यभिचारिणी स्वरूपभूतेति यावत् । सा सर्व
संस्थितौ सर्वस्य सम्यक्स्थितिर्यस्मात्तस्मिन् सर्वाधिष्ठानभूते त्वय्य्
एव न तु जीवेषु च सा गुणमयी त्रिविधा सा त्वयि नास्ति । तामेवाह ह्लाद
तापकरी मिश्रा इति । ह्लादकरी मनःप्रसादोत्था सात्त्विकी । तापकरी
विषयवियोगादिषु तापकरी तामसी । तद्उभयमिश्रा विषयजन्या राजसी
। तत्र हेतुः सत्त्वादिगुणवर्जिते । तदुक्तं सर्वज्ञसूक्तौ

ह्लादिन्या संविद्आश्लिष्टः
सच्चिद्आनन्द ईश्वरः ।
स्वाविद्यासंवृतो जीवः
सङ्क्लेशनिकराकरः ॥ इति [Bहावार्थदीपिका १.७.६]

अत्र क्रमादुत्कर्षेण सन्धिनीसंविद्ध्लादिन्या ज्ञेयाः । तत्र च सति
घटानां घटत्वमिव सर्वेषां सतां वस्तूनां प्रतीतेर्निमित्तमिति क्वचित्
सत्तास्वरूपत्वेन आम्नातोऽप्यसौ भगवान् सदेव सोम्येदमग्र आसीदित्य्
अत्र सद्रूपत्वेन व्यापदिश्यमाना मया सत्तां दधाति धारयति च सा
सर्वदेशकालद्रव्यादिप्राप्तिकरी सन्धिनी । तथा संविद्रूपोऽपि यया
संवेत्ति संवेदयति च सा संवित् । तथा ह्लादरूपोऽपि यया संविदुत्कट
रूपया तं ह्लादं संवेत्ति संवेदयति च सा ह्लादिनीति विवेचनीयम् ।

तदेवं तस्या मूलशक्तेस्त्र्य्आत्मकत्वेन सिद्धे येन स्वप्रकाशता
लक्षणेन तद्वृत्तिविशेषेण स्वरूपं स्वयं स्वरूपशक्तिर्वा विशिष्टम्
आविर्भवति तद्विशुद्धसत्त्वम् । तच्चान्यनिरपेक्षयस्तत्प्रकाश इति
ज्ञापनज्ञानवृत्तिकत्वात्संविदेव । अस्य मायया स्पर्शाभावात्
विशुद्धत्वम् ।[*Eण्ड्ण्Oट्E ॰४३]

उक्तं च तस्य सत्त्वस्य प्राकृतादन्यतरत्वं द्वादशे श्रीनारायणर्षिं
प्रति मार्कण्डेयेन ।

सत्त्वं रजस्तम इतीश तवात्मबन्धो
मायामयाः स्थितिलयोद्भवहेतवोऽस्य ।
लीलाधृता यदपि सत्त्वमयी प्रशान्त्यै
नान्ये नॄणां व्यसनमोहभियश्च याभ्याम् ॥ [भागवतम् १२.८.३९]

तस्मात्तवेह भगवन्नथ तावकानां
शुक्लां तनुं स्वदयितां कुशला भजन्ति ।
यत्सात्वताः पुरुषरूपमुशन्ति सत्त्वं
लोको यतोऽभयमुतात्मसुखं न चान्यद् ॥ [भागवतम् १२.८.४०] [*Eण्ड्ण्Oट्E ॰४४]

अनयोरर्थः । हे ईश यदपि सत्त्वं रजस्तम इति तवैव मायाकृता लीलाः
। कथम्भूताः अस्य विश्वस्य स्थित्यादिहेतवः तथापि या सत्त्वमयी सैव
प्रशान्त्यै प्रकृष्टसुखाय भवति । नान्ये रजस्तमोमय्यौ । न केवलं
प्रशान्त्यभावमात्रमनयोः । भजने[*Eण्ड्ण्Oट्E ॰४५] किन्त्वनिष्टं
चेत्याह व्यसनेति । हे भगवन् तस्मात्तव शुक्लां सत्त्वमय
लीलाधिष्ठात्रीं तनुं श्रीविष्णुरूपां ते कुशला निपुणा भजन्ति सेवन्ते ।
न त्वन्यां ब्रह्मरुद्ररूपान् ।

तथा तावकानां जीवानां मध्ये शुक्लां सत्त्वैकनिष्ठां तनुं
भगवद्भक्तलक्षणस्वायम्भुवमन्वादिरूपां[*Eण्ड्ण्Oट्E ॰४६]
ये भजन्ति अनुसरन्ति । न तु दक्षभैरवादिरूपाम् । कथम्भूतां स्वस्य
तवापि दयितां लोकशान्तिकरत्वात् ।

ननु मम स्वरूपमपि सत्त्वात्मकमिति प्रसिद्धम् । तर्हि कथं तस्यापि
मायामयत्वमेव । नहि नहीत्याह सात्वताः श्रीभागवता यत्सत्त्वं
पुरुषस्य तव रूपं प्रकाशमुशन्ति मन्यन्ते । यतश्च सत्त्वात्लोको
वैकुण्ठाख्यः प्रकाशते । तदभयमात्मसुखं परब्रह्मानन्द
स्वरूपमेवब्न त्वन्यत्प्रकृतिजं सत्त्वं तदिति । अत्र सत्त्वशब्देन स्व
प्रकाशताब्लक्षणस्वरूपशक्तिवृत्तिविशेष उच्यते ।

सत्त्वं विशुद्धं वसुदेवशब्दितं
यदीयते तत्र पुमानपावृतः । [भागवतम् ४.३.२१]

इति श्रीशिववाक्यानुसारात्च् । अगोचरस्य गोचरत्वे हेतुः प्रकृतिगुणः ।
सत्त्वमित्यशुद्धसत्त्वलक्षणप्रसिद्ध्य्अनुसारेण तथाभूतश्चिच्
छक्तिविशेषः सत्त्वमिति सङ्गतिलाभाच्च । ततश्च तस्य स्वरूपशक्ति
वृत्तित्वेन स्वरूपात्मतैवेत्युक्तम् । तदभयमात्मसुखमिति द्शक्ति
प्राधान्यविवक्षयोक्तं लोको यत इतिद् । अर्थान्तरे भगवद्विग्रहं प्रति
रूपं यदेतद्[भागवतम् २.८.२] इत्यादौ शुद्धस्वरूपमात्रत्वप्रतिज्ञा
भङ्गः । अभयमित्यादौ प्राञ्जलताहानिश्च भवति । अन्यत्
पदस्यैकस्यैव रजस्तमश्चेति द्विर्आवृत्तौ प्रतिपत्तिगौरव उत्पद्यते ।
पूर्वमपि नान्य इति द्विवचनेनैव हे परामृष्टे । तस्मादस्ति प्रसिद्धाद्
अन्यत्स्वरूपभूतं सत्त्वम् ।

यदेवैकादशे यत्काय एष भुवनत्रयसन्निवेश [भागवतम् ११.४.४] इत्यादौ
ज्ञानं स्वत इत्यत्र टीकाकृन्मतं यस्य स्वरूपभूतात्सत्त्वात्तनु
भृतां ज्ञानमित्यनेन यथा ब्रह्मणः स्तवान्ते एतत्सुहृद्भिश्चरितमित्य्
अत्र व्यक्तेतरं व्यक्ताज्जडप्रपञ्चादितरत्शुद्धसत्त्वात्मकमित्यादिना

तथा परो रजः सवितुर्जातवेदा देवस्य भर्ग [भागवतम् ५.७.१४] इत्यादौ श्री
भरतजाप्ये तन्मतम् । परो रजः रजसः प्रकृतेः परं शुद्ध
सत्त्वात्मकमित्यादिना । अतएव प्राकृताः सत्त्वादयो गुणा जीवस्यैव न त्व्
ईशस्येति श्रूयते । यथैकादशे सत्त्वं रजस्तम इति गुणा जिवस्य नैव मे
। [११.२५.१२] इति । श्रीभगवद्उपनिषत्सु च

ये चैव सात्त्विका भावा
राजसास्तामसाश्च ये ।
मत्त एवेति तान् विद्धि
न त्वहं तेषु ते मयि ॥

त्रिभिर्गुणमयैर्भावैर्
एभिः सर्वमिदं जगत् ।
मोहितं नाभिजानाति
मामेभ्यः परमव्ययम् ॥

दैवी ह्येषा गुणमयी
मम माया दुरत्यया ।
मामेव ये प्रपद्यन्ते
मायामेतां तरन्ति ते ॥ [गीता ७.१२१४]

यथा दशमे

हरिर्हि निर्गुणः साक्षात्
पुरुषः प्रकृतेः परः ।
स सर्वदृगुपद्रष्टा तं
भजन्निर्गुणो भवेत् ॥ [भागवतम् १०.८८.४]

श्रीविष्णुपुराणे

सत्त्वादयो न सन्तीशे
यत्र च प्राकृता गुणाः ।
स शुद्धः सर्वशुद्धेभ्यः
पुमानाद्यः प्रसीदतु ॥ इति । [Vइড়् १.९.४४]

तथा च दशमे देवेन्द्रेणोक्तम्

विशुद्धसत्त्वं तव धाम शान्तं
तपोमयं ध्वस्तरजस्तमस्कम् ।
मायामयोऽयं गुणसंप्रवाहो
न विद्यते तेऽग्रणानुबन्धः ॥ इति [भागवतम् १०.२७.४]

अयमर्थः । धाम स्वरूपभूतप्रकाशशक्तिः । विशुद्धत्वमाह
विशेषणद्वयेन । ध्वस्तरजस्तमस्कं तपोमयमिति च । तपोऽत्र ज्ञानं
स तपोऽतप्यत इति श्रुतेः । तपोमयं प्रचुरज्ञानस्वरूपं जाड्यांशेनापि
रहितमित्यर्थः । आत्मा ज्ञानमयः शुद्ध इतिवत् ।
धृतः[*Eण्ड्ण्Oट्E ॰४७] प्राकृतसत्त्वमपि व्यावृत्तम् । अत एव
मायामयोऽयं सत्त्वादिगुणप्रवाहस्ते तव न विद्यते । यतोऽसाव्
अज्ञानेनैवानुबन्ध इति ।

अतएव श्रीभगवन्तं प्रति ब्रह्मादीनां सयुक्तिकं वाक्यम् ।

सत्त्वं विशुद्धं श्रयते भवान् स्थितौ
शरीरिणां श्रेयोपायनं वपुः ।
वेदक्रियायोगतपःसमाधिभिस्
तवार्हणं येन जनः समीहते ॥ [भागवतम् १०.२.३४]

सत्त्वं न चेद्धातरिदं निजं भवेद्
विज्ञानमज्ञानभिदापमार्जनम् ।
गुणप्रकाशैरनुमीयते भवान्
प्रकाशते यस्य च येन वा गुणः ॥ [भागवतम् १०.२.३५]

अयमर्थः । सत्त्वं तेन प्रकाशमानत्वात्तद्अभिन्नतया रूपितं वपुर्
भवान् श्रयते प्रकटयति । कथम्भूतं सत्त्वं विशुद्धम् । अन्यस्य
रजस्तमोभ्याममिश्रस्यापि[*Eण्ड्ण्Oट्E ॰४८] प्राकृतत्वेन जाड्यांश
संवलितत्वान्न विशेषेण शुद्धत्वम् । एतत्तु स्वरूपशक्त्य्आत्म[क]त्वेन
तद्अंशस्याप्यस्पर्शादतीव शुद्ध[त्व]मित्यर्थः ।

किमर्थं श्रयते । शरीरिणां स्थितौ निजचरणारविन्दे मनःस्थैर्याय
सर्वत्र [भक्तेषु] भक्तिसुखदानस्यैव त्वदीयमुख्यप्रयोजनत्वाद्
इति भावः । भक्तियोगविधानार्थमिति [भागवतम् १.८.१९] श्रीकुन्तीवाक्यात् ।
कथम्भूतं वपुः श्रेयसां सर्वेषां पुरुषार्थानामुपायनमाश्रयम्
। नित्यानन्तपरमानन्दरूपमित्यर्थः । अतो वपुषस्तव च भेद
निर्देशोऽयम्[*Eण्ड्ण्Oट्E ॰४९] औपचारिक एवेति भावः । अतएव येन वपुषा
यद्वपुरालम्बनेनैव जनस्तवार्हणं पूजां करोति । कैः साधनैः
वेदादिभिस्त्वद्आलम्बनकैरित्यर्थः । साधारणैस्त्वर्पितैरेव त्वद्
अर्हणप्रायतासिद्धावपि । वपुषोऽनपेक्षत्वात् । तादृशए
वपुषोऽनपेक्ष्यत्वात्तादृशए[*Eण्ड्ण्Oट्E ॰५०]वपुःप्रकाशहेतुत्वेन
स्वरूपात्मकत्वं स्पष्टयन्ति ।

हे धातश्चेद्यदि इदं सत्त्वं यत्तव निजं विज्ञानमनुभवं[ः]
तदात्मिका स्वप्रकाशताशक्तिरित्यर्थः । तन्न भवेत् । तर्हि त्वज्ञान
भिदा स्वप्रकाशस्य तवानुभवfप्रकार एव मार्जनं शुद्धिमवाप ।
सैव जगति पर्यवसीयते न तु तवानुभवf[*Eण्ड्ण्Oट्E ॰५१]लेशोऽपीत्य्
अर्थः ।

ननु प्राकृतसत्त्वगुणेनैव ग्ममानुभवोग्[*Eण्ड्ण्Oट्E ॰५२] भवतु
किं निजह्ग्रहण्ह्[*Eण्ड्ण्Oट्E ॰५३]एन तत्राह । प्राकृतगुणप्रकाशैर्
भवान् केवलमनुमीयते न तु साक्षात्क्रियत इत्यर्थः । अथवा तव
विज्ञानरूपमज्ञानभिदाया अपमर्जनं च यन्निजं सत्त्वं तद्यदि न
भवेन्नाविर्भवति तदैव प्राकृतसत्त्वादिगुणप्रकाशैर्भवान्
अनुमीयते । त्[व्]अन्निजसत्ताविर्भावेण तु साक्षात्क्रियत एवेत्यर्थः । तद्
एव स्पष्टयितुं तत्रानुमाने द्वैविध्यमाहुर्यस्य गुणः प्रकाशत इयेन
वा गुणः प्रकाशतै[*Eण्ड्ण्Oट्E ॰५४] इति । अस्वरूपभूतस्यैव [प्राकृत
]सत्त्वादिगुणस्य त्वद्अव्यभिचारिसम्बन्धित्वमात्रेण वा त्वद्एक
प्रकाश्यमानतामात्रेण वा त्वल्लिङ्गत्वमित्यर्थः । यथा अरुणोदयस्य
सूर्योदयसान्निध्यलिङ्गत्वं यथा वा धूमस्याग्निलिङ्गत्वमिति । तत
उभयथापि तव साक्षात्कारे तस्य साधकतमत्वाभावो युक्त इति भावः ।

तदेवमप्राकृतसत्त्वस्य तदीयस्वप्रकाशतारूपत्वं येन
स्वप्रकाशस्य तव साक्षात्कारो भवतीति स्थापितम् । अत्र ये विशुद्धसत्त्वं
नाम प्राकृतमेव रजस्तमःशून्यं मत्वा तत्कार्यं भगवद्
विग्रहादिकं मन्यन्ते ते तु न केनाप्यनुगृहीताः । रजः
सम्बन्धाभावेन स्वतः प्रशान्तस्वभावस्य सर्वत्रोदासीनताकृतिहेतोस्
तस्य क्षोभासम्भवात्विद्यामयत्वेन यथावस्थितवस्तुप्रकाशितामात्र
धर्मत्वात्, तस्य कल्पनान्तरायोग्यत्वाच्च । तदुक्तमप्यगोचरस्य
गोचरत्वे हेतुः प्रकृतिगुणः सत्त्वम् । गोचरस्य बहुरूपत्वे रजः ।
बहुरूपस्य तिरोहितत्वे रजः[*Eण्ड्ण्Oट्E ॰५५] । तथा परस्परोदासीनत्वे
सत्त्वम् । उपकारित्वे रजः । अपकारित्वे तमः । गोचरत्वादीनि स्थित्सृष्टि
संहाराः उदासीनत्वादीनि चेति ।

अथ रजोलेशे तत्र मन्तव्ये विशुद्धपदवैयर्थ्यमित्यलं तन्मत
रजोज्लेशे तत्र मन्तव्ये विशुद्धपदवैयर्थ्यमित्यलं तन्
मतज्[*Eण्ड्ण्Oट्E ॰५६]रजो
घटप्रघट्टनयेति ।[*Eण्ड्ण्Oट्E ॰५७]

क्तत्र चेदमेव विशुद्धसत्त्वं सन्धिन्य्अंशप्रधानं चेदाधार
शक्तिः । संविद्अंशप्रधानमात्मविद्या । ह्लादिनीसारांशप्रधानं
गुह्यविद्या । युगपत्शक्तित्रयप्रधानं मूर्तिः । अत्राधारशक्त्या
भगवद्धाम प्रकाशते । तदुक्तं यत्सात्वताः पुरुषरूपमुशन्ति
सत्त्वं लोको यत [भागवतम् १२.८.४०][*Eण्ड्ण्Oट्E ॰५८] इति ।

तथा ज्ञानतत्प्रवरकलक्षणवृत्तिद्वयकयात्मविद्यया तद्वृत्ति
रूपमुपासकाश्रयं ज्ञानं प्रकाशते । एवं भक्तितत्प्रवर्तकलक्षण
वृत्तिद्वयकया गुह्यविद्यया तद्वृत्तिरूपा प्रीत्यात्मिका भक्तिः प्रकाशते


एते एव विष्णुपुराणे लक्ष्मीस्तवे स्पष्टीकृते

यज्ञविद्या महाविद्या
गुह्यविद्या च शोभते ।
आत्मविद्या च देवि त्वं
विमुक्तिफलदायिनी ॥ [Vइড়् १.९.११८] इति ।

यज्ञविद्या कर्म । महाविद्या अष्टाङ्गयोगः । गुह्यविद्या भक्तिः ।
आत्मविद्या ज्ञानम् । तत्तत्सर्वाश्रयत्वात्त्वमेव तत्तद्रूपा विविधानां
मुक्तीनामन्येषां च विविधानां फलानां दात्री भवसीत्यर्थः
।क्[*Eण्ड्ण्Oट्E ॰५९]

अथ मूर्त्या परतत्त्वात्मकः श्रीविग्रह प्रकाशते । इयमेव
वसुदेवाख्या । तदुक्तं चतुर्थस्य तृतीये महादेवेन

सत्त्वं विशुद्धं वसुदेवशब्दितं
यदीयते तत्र पुमानपावृतः ।
सत्त्वे च तस्मिन् भगवान् वासुदेवो
ह्यधोक्षजो मे मनसा विधीयते ॥ इति । [भागवतम् ४.३.२३] ।

अस्यार्थः । विशुद्धं स्वरूपशक्तिवृत्तित्वाज्जाड्यांशेनापि रहितमिति
विशेषेण शुद्धं तदेव वसुदेवशब्देनोक्तम् । कुतस्तस्य सत्त्वता
वसुदेवता वा तत्राह यद्यस्मात्तत्र तस्मिन् पुमान् वासुदेव ईयते
प्रकाशते । आद्ये तावदगोचरगोचरताहेतुत्वेन लोकप्रसिद्धसत्त्व
साम्यात्सत्त्वता व्यक्ता । द्वितीये त्वयमर्थः । वसुदेवे भवति प्रतीयत
इति वासुदेवः परमेश्वरः प्रसिद्धः । स च विशुद्धसत्त्वं प्रतीयते ।
अतः प्रत्ययार्थेन प्रसिद्धेन प्रकृत्य्अर्थो निर्धार्यते । ततश्च वासयति
देवमिति व्युत्पत्त्या व वसत्यस्मिन्निति वा वसुः । तथा दीव्यति द्योतत इति
देवः । स चासौ स चेति वासुदेवः । धर्म इष्टं धनं नॄणामिति स्वयं
भगवदुक्ते वसुभिर्भगवद्धर्मलक्षणैः पुण्यैः प्रकाशत इति वा
वसुदेवः । तस्माद्वसुदेवशब्दितं विशुद्धसत्त्वम् ।

इत्थं स्वयं प्रकाशज्योतिर्एकविग्रहभगवज्ज्ञानहेतुत्वेन

कैवल्यं सात्त्विकं ज्ञानं
रजो वैकल्पिकं तु यत् ।
प्राकृतं तामसं ज्ञानं
मन्निष्ठं निर्गुणं स्मृतम् ॥ इत्यादौ [भागवतम् ११.२५.२४]

बहुत्र गुणातीतावस्थायामेव भगवज्ज्ञानश्रवणेन न च सिद्धमत्र
विशुद्धपदावगतं स्वरूपशक्तिवृत्तिभूतस्वप्रकाशतालक्षणत्वं
तस्य व्यक्तम् । ततश्च सत्त्वे प्रतीयत इत्यत्र करण एवाधिकरण
विवक्षया ॥ स्वरूपशक्तिवृत्तित्वमेव विशदयति । अपावृत आवरणशून्यः
सन् प्रकाशते । प्राकृतं सत्त्वं चेत्तर्हि तत्र प्रतिफलनमेवावसीयते ।
ततश्च दर्पणे मुखस्येव तद्अन्तर्गततया तस्य तत्रावृतत्वेनैव
प्रकाशः स्यादिति भावः । फलितार्थमाह एवम्भूते सत्त्वे तस्मिन्नित्यम्
एव प्रकाशमानो भगवान्मे मया मनसा विशेषेण विधीयते चिन्त्यत इत्य्
अर्थः । तत्सत्त्वं तादात्म्यापन्नमे एवअन्यथा नैव मनसा चिन्तयितुं
शक्यते इति पर्यवसितम् ।

ननु केवलेन मनसैव चिन्त्यतां किं तेन सत्त्वेन तत्राह । हि यस्माद्
अधोक्षजः अधःकृतमतिक्रान्तमक्षजमिन्द्रियज्ञानं येन सः ।
नमसेति पाठे हि शब्दस्थानेऽप्यनुशब्दः पठ्यते । ततश्च विशुद्ध
सत्त्वाख्यया स्वप्रकाशताशक्त्यैव प्रकाशमानोऽसौ नमस्कारादिना
केवलमनुविधीयते सेव्यते । न तु केनापि प्रकाश्यत इत्यर्थः । तदेव
सोऽदृश्यत्वेनैव स्फुरन्नसौ अदृश्येनैव नमस्कारादिना अस्माभिः सेव्यत
इति तत्प्रकरणसङ्गतिश्च गम्यते ।

तथा यतो भगवद्विग्रहप्रकाशकविशुद्धसत्त्वस्य मूर्तित्वं
वसुदेवत्वं च तत एव तत्प्रादुर्भावविशेषे धर्मपत्न्या मूर्तित्वं
प्रसिद्धम् ।

श्रीमद्आनकदुन्दुभौ च वसुदेवत्वमिति विवेचनीयम् । अत्र श्रद्धा
पुष्ट्य्आदिलक्षणप्रादुर्भूतं भगवच्छक्त्यंशरूपस्य भगिनीतया
पाठसाहचर्येण मूर्तेस्तस्यास्तच्छक्त्य्अंशप्रादुर्भावत्वम्
उपलभ्यते । तुर्ये धर्मकलासर्गे नरनारायणावृषी इत्य्[भागवतम् १.३.९] अत्र
कलाशब्देन च शक्तिरेवाभिधीयते । ततः शक्तिलक्षणायां तस्यां च नर
नारायणाख्यभगवत्प्रकाशफलदर्शनात्वसुदेवाख्यशुद्ध
सत्त्वरूपत्वमेवावसीयते ।

तदेवमेव तस्या मूर्तिरित्याख्याऽप्युक्ता । मूर्तिः सर्वगुणोत्पत्तिर्नर
नारायणावृषी इति [भागवतम् ४.१.५२] । सर्वगुणस्य भगवतः उत्पत्तिः प्रकाशो
यस्याः सा तावसूतेति पूर्वेणान्वयः । भगवद्आख्यायाः सच्चिद्आनन्द
मूर्तेः प्रकाशहेतुत्वात्मूर्तिरित्यर्थः तथैव तत्प्रकाशफलत्व
दर्शनेन च नास्यैक्येन च श्रीमद्आनकदुन्दुभेरपि शुद्धसत्त्वादि
भावत्वं ज्ञेयम् । तच्चोक्तं नवमे

वसुदेवं हरेः स्थानं
वदन्त्यानकदुन्दुभिम् । इति । [भागवतम् ९.२४.३०]

अन्यथा हरेः स्थानमिति विशेषणस्य अकिञ्चित्करत्वं स्यादिति । तदेवं
ह्लादिन्य्आद्य्एकतमांशविशेषप्रधानेन विशुद्धसत्त्वेन यथायथं
श्रीप्रभृतीनामपि प्रादुर्भावो विवेक्तव्यः । तत्र च तासां भगवति
सम्पद्रूपत्वं तद्अनुग्राह्ये सम्पत्सम्पादकरूपत्वं सम्पद्
अंशजत्वं चेत्य्आदित्रिजगत्वं ज्ञेयम् । तत्र तासां केवलशक्ति
मात्रत्वेनामूर्तानां भगवद्विग्रहाद्यैकाम्येन स्थितस्तद्अधिष्ठात्री
रूपत्वेन मूर्तीनां तु तद्आवरणतयेति द्विरूपत्वमपि ज्ञेयमिति दिक् ॥
॥ १०.३९ ॥ श्रीशुकः ॥ ११७ ॥

[११८]

लथैवं भूतानन्तवृत्तिका या स्वरूपशक्तिः सा त्विह भगवद्
धामांशवर्तिनी मूर्तिमती लक्ष्मीरेवेत्याह

अनपायिनी भगवती श्रीः
साक्षादात्मनो हरेः ॥ इति ॥ [भागवतम् १२.११.२०]

टीका च अनपायिनी हरेः शक्तिः तत्र हेतुः साक्षादात्मनः स्वस्वरूपस्य
चिद्रूपत्वात्तस्यास्तद्अभेदादित्यर्थः । इत्येषा ।

अत्र साक्षाच्छब्देन विलज्जमानया यस्य स्थातुमीक्षापथेऽमुया इत्य्[भागवतम्
२.५.१३] आद्युक्ता माया नेति ध्वनितम् । तत्रानपायित्वं यथा ।

श्रीहायशीर्षपञ्चरात्रे

परमात्मा हरि देवस्
तच्छक्तिः श्रीरिहोदिता ।
श्रीर्देवी प्रकृतिः प्रोक्ता
केशवः पुरुषः स्मृतः ।
न विष्णुना विना देवी
न हरिः पद्मजां विना ॥ इति ।

श्रीविष्णुपुराणे

नित्यैव सा जगन्माता
विष्णोः श्रीरनपायिनी ।
यथा सर्वगतो विष्णुस्
तथैवेयं द्विजोत्तम ॥ इति । [Vइড়् १.८.१७]क्[*Eण्ड्ण्Oट्E ॰६०]

तत्रान्यत्र

एवं यथा जगत्स्वामी
देवदेवो जनार्दनः ।
अवतारं करोत्येषा
तथा श्रीस्तत्सहायिनी ॥ [Vइড়् १.९.१४२] इति ।

चिद्रूपत्वमपि स्कान्दे

अपरं त्वक्षरं या
सा प्रकृतिर्जडरूपिका ।
श्रीः परा प्रकृतिः प्रोक्ता
चेतना विष्णुसंश्रया ॥

तामक्षरं परं प्राहुः
परतः परमक्षरम् ।
हरिरेवाखिलगुण
अक्षरत्रयमीरितम् ॥ इति ।

अत एव श्रीविष्णुपुराणे एव

कलाकाष्ठानिमेषादि[*Eण्ड्ण्Oट्E ॰६१]
कालसूत्रस्य गोचरे ।
यस्य शक्तिर्न शुद्धस्य
प्रसीदतु स मे हरिः ॥

प्रोच्यते परमेशो यो
यः शुद्धोऽप्युपचारतः ।
प्रसीदतु स नो विष्णुर्
आत्मा यः सर्वदेहिनाम् ॥ इति [Vइড়् १.९.४५४६]

अत्र स्वामिभिरेव व्याख्यातं च । कलाकाष्ठानिमेषादिकाल एव सूत्रवत्
सूत्रं जगच्चेष्टा नियामकत्वात्तस्य गोचरे विषये यस्य शक्तिर्लक्ष्मीर्न
वर्तते । स्वरूपाभिन्नत्वान्नित्यैव सा कालाधीना न भवतीत्यर्थः ॥
अतएव तस्याः स्वरूपाभेदाच्छुद्धस्येत्युक्तम् ॥

ननु यदि लक्ष्मीस्तत्स्वरूपाभिन्ना कथं तर्हि लक्ष्म्याः पतिरित्युच्यते
तत्राह प्रोच्यते इति परा चासौ मा च लक्ष्मीस्तस्या ईशो यः शुद्धः
केवलोऽपि उपचारतो भेदविवशया प्रोच्यते । द्वितीयो यच्छब्दः प्रसिद्धाव्
इति एवमेवाभिप्रेत्य प्रार्थितं श्रीब्रह्मणा तृतीये ।

एष प्रपन्न वरदे रमयात्मशक्त्या
यद्यत्करिष्यति गृहीतगुणावतारः ।
तस्मिन् स्वविक्रममिदं सृजतोऽपि चेतो
युञ्जीत कर्म शमलं च यथा विजह्याम् ॥ इति [भागवतम् ३.९.२३] ।

अतो यत्तु

साक्षाच्छ्रीः प्रेषिता देवैर्
दृष्ट्वा तं महदद्भुतम् ।
अदृष्टाश्रुतपूर्वत्वात्
सा नोपेयाय शङ्किता ॥ इति [भागवतम् ७.९.२] श्रीनृसिंहप्रादुर्भूतावुक्तम् ।

॥ १२.११ ॥ श्रीसूतः ॥ ११८ ॥

[११९]

तदेवं सच्चिदानन्दैकरूपः स्वरूपभूताचिन्त्यविचित्रानन्तशक्तियुक्तो
धर्मत्व एव धर्मित्वं निर्भेदत्व एव नाना भेदवत्त्वमपरुपित्व एव
रूपित्वं, व्यापकत्व एव मध्यमत्वं, सत्यमेवेत्यादिपरस्पर
विरुद्धानन्तगुणनिधिः । स्थूलसूक्ष्मविलक्षणस्वप्रकाशाखण्ड
स्वस्वरूपभूतश्रीविग्रहस्तथाभूतभगवद्आख्यामुख्यैक
विग्रहव्यञ्जिततादृशानन्तविग्रहस्तादृशस्वानुरूपस्वरूप
शक्त्याविर्भावलक्षणलक्ष्मीरञ्जितवामावशः स्वप्रभाविशेषाकार
परिच्छेदपरिकरनिजधामसु विराजमानाकारः स्वरूपशक्तिविलास
लक्षणाद्भुतगुणलीलादिचमत्कारितात्मारामादिगुणो जिजसामान्य
प्रकाशाकारब्रह्मतत्त्वो निजाश्रयैकजीवनजीवाख्यतटस्थशक्तिर्
अनन्तप्रपञ्चव्यञ्जितस्वाभासशक्तिगुणो भगवानिति विद्वद्
उपलब्धार्थशब्दैर्व्यञ्जितम् । तत्र तत्स्वभावं वस्त्व्अन्तरम्
अपश्यतामविदुषामसम्भावना न युक्तेति विविदिषून् श्रद्दापयितुं
प्रक्रियते तत्रैकेन तस्याविदुषां ज्ञानगोचरत्वं, किन्तु वेदैकवेद्यत्वम्
एवेत्याहुः

क इह नु वेद बतावरजन्मालयोऽग्रसरं
यत उदगादृषिर्यमनु देवगणो उभये ।
तर्हि न सन्नचासदुभयं न च कालजवः
किमपि न तत्र शास्त्रमवकृष्य शयीत यदा ॥ [भागवतम् १०.८७.२४]

बत अहो भगवनिह जगति अग्रसरं पूर्वसिद्धं त्वामवरजन्मालयः
अर्वाचीनोत्पत्तिनाशवान् कोऽपि पुमान् वेद जानाति । ईश्वरस्य पूर्वसिद्धाव्
अन्यस्य चार्वाचीनत्वे कारणं वदन्त्यो ज्ञानकारणाभावमाहुः । यत
उदगादिति यतस्त्वत्त एव ऋषिर्ब्रह्मा उत्पन्नः । अतोऽर्वाचीनाः सर्वे । यदा
तु भवान् शास्त्रं स्वविज्ञापकं वेदमवकृष्य वैकुण्ठ एवाकृष्य
शयीत जगत्कार्यं प्रति दृष्टिं निमीलयति तर्हि तदा अनुशायिनं जीवानां
ज्ञानसाधनं नास्ति । यतस्तदा न सत्स्थूलमाकाशादि न चासत्सूक्ष्मं
महद्आदि न चोभयं सदसद्भ्यामारब्धं शरीरम् । न च कालजवः
तन्निमित्तीभूतं कालवैषम्यमेवं सति तत्र तदा किमपि इन्दिर्य
प्राणाद्यपि न । अयमर्थः । यदा सृष्टिगतत्वात्देहाद्य्उपाधि
कृतान्तरत्वात् । कालकर्मवशेन मलिनसत्त्वात्तेषां तद्अवधारणे
सामर्थ्यं नास्ति । यदा तु प्रलये समये न बह्व्अन्तरमपि तदापि तेषां
वेदानर्धानमहातमोमयसुषुप्तिभ्यां साधनाभावान्न
तवानुभवसामर्थय्मिति ।

तथा श्रुतयः

न तं विदाथ य इमा जजानान्यद्युष्माकमन्तरं बभूव [?] ।

यतो वाचो निवर्तन्ते अप्राप्य मनसा सह [टैत्तू २.४.१] ।

को अद्धा वेद क इह प्रावोचत् । कुत आयाता कुत इयं विसृष्टिः [?]
अर्वाग्देवा अस्य विसर्जनेनाथ को वेद यत आवभूव [?] ।

अनेजदेकं मनसो जवीयो
नेदं देवा आप्नुवन् पूर्वमर्शद् ।
तद्धावतोऽन्यानत्येति तिष्ठत्
तस्मिन्नपो मातरिश्वा दधाति ॥ [ईशोपनिषद्, ४]

न चक्षुर्न श्रोत्रं न तर्को न स्मृतिर्वेदो ह्येवैनं वेदयति इत्याद्याः


॥१०.८७॥ श्रुतयः श्रीभगवन्तम् ॥११९॥

[१२०]

अथ तत्पूर्वकं विदुषां भक्त्यैव साक्षादनुभवतीयत्वमाह त्रिभिः


न पश्यति त्वां परमात्मनोऽजनो
न बुध्यतेऽद्यापि समाधियुक्तिभिः ।
कुतोऽपरे तस्य मनः शरीरधीर्
विसर्गसृष्टा वयमप्रकाशाः ॥ [भागवतम् ९.८.२१]

अपरे अर्वाचीनास्तु कुतस्त्वां पश्येयुर्बुध्येरनर्वाचीनत्वे हेतुः तस्य
ब्रह्मणः । मनश्च शरीरं च धीश्च सत्त्वतमोरजःकार्याणि ताभिर्
विविधा ये देवतिर्यङ्नराणां सर्गास्तेषां सृष्टाः । तत्रापि वयम्
अप्रकाशाः अतो कुतः पश्येम इत्यर्थः ।

[१२१]

अपरे तर्हि किं पश्यन्ति तत्राह ।

ये देहभाजस्त्रिगुणप्रधाना
गुणान् विपश्यत्युत वा तमश्च ।
मन्मायया मोहितचेतसस्त्वां विदुः
स्वसंस्थं न बहिः प्रकाशाः ॥ [भागवतम् ९.८.२२]

ये देहभाहस्ते स्वस्मिन् सम्यक्स्थितमपि त्वां न विदुः । किन्तु गुणान्
एव विपश्यन्ति कदाचिच्च केवलं तम एव पश्यन्ति यतस्त्रिगुणा बुद्धिरेव
प्रधानं येषाम् । बुद्धिपरतन्त्रतया जाग्रत्स्वप्नयोर्विषयान् पश्यन्ति
सुषुप्तौ तु तम एव न तु स्वस्तुतो निर्गुणानां सर्वेषामात्मारामाणाम्
आत्मभूतं त्वाम् । सर्वत्र हेतुः ! यत्यतः मायया यस्य तव मायया वा
मोहितं चेतो येषां ते तथापि त्वं विचारेण ज्ञास्यसीति । यतो नास्मद्
विधानां ज्ञानगोचरस्त्वं किन्तु भक्तानामेवेत्याह ।

तं त्वामहं ज्ञानघनं स्वभाव
प्रध्वस्तमायागुणभेदमोहैः ।
सनन्दनाद्यैर्हृदि संविभाव्यम्
कथं विमूढः परिभावयामि ॥[*Eण्ड्ण्Oट्E ॰६२] [भागवतम् ९.८.२३]

तं नानाश्चर्यवृत्तिकपरशक्तिनिधानं त्वां कथं परिभावयामि । किं
स्वरूपं ज्ञानघनं सत्यज्ञानानन्तानन्दैकरसमूर्तिमतएव
अनिर्देश्यवपुरिति सहस्रनामस्तवे । अयं भावः । ज्ञानघनत्वान्न
तावत्ज्ञानविषयस्त्वं विचारविषयत्वेऽपि मायागुणैरभिभूतोऽहं न
विचारे समर्थ इति ।

ननु तर्हि मम तथाविधत्वे किं प्रमाणं तत्राह । स्वेन त्वदीयेन
भावेन भक्त्या स्वस्यात्मनो स्वभावेनाविर्भावेनैव वा प्रध्वस्ता
मायागुणप्रकारकृतमोहा येभ्यस्तैः सनन्दनाद्यैर्भगवत्तत्त्व
विद्भिर्मुनिभिर्विभाव्यं विचार्यं साक्षादनुभवईयं चेत्यर्थः ।
तस्मादुलूकैः प्रकाशगुणकत्वेनासम्मतेऽपि रवौ यथान्यैर्
उपलभ्यमानतद्गुणकत्वमस्त्येव तथार्वाग्दृष्टिभिर्
असम्भाव्यमानमपि त्वयि तद्गुणकत्वं तद्भक्तविद्वत्प्रत्यक्ष
सिद्धमस्त्येवेति भावः ।

तथा च श्रुतिः

पराञ्चि खानि व्यतृणत्स्वयम्भू
स्तस्मात्पराङ्पश्यति नान्तरात्मन् ।
कश्चिद्धीरः प्रत्यगात्मानमैक्श
दावृत्तचक्शुरमृतत्वमिच्छन् ॥ [Kअठऊ २.१.१]

भक्तिरेवैनं नयति
भक्तिरेवैनं दर्शयति ।
भक्तिवशः पुरुषः
भक्तिरेव भूयसी ॥ [ंाठरश्रुति]

यमेवैष वृणुते तेन लभ्यः
तस्यैष आत्मा विवृणुते तनूं स्वाम् [Kअठऊ १.२.२३]


॥ ९.८ ॥ अंशुमान् श्रीकपिलदेवम् ॥ १२०१२१ ॥

विवृतौ ब्रह्मभगवन्तौ ॥

इति श्रीकलियुगपावनस्वभजनविभाजनप्रयोजनावतारश्रीश्री
भगवत्कृष्णचैतन्यदेवचरणानुचरविश्ववैष्णवराजसभाजन
भाजनश्रीरूपसनातनानुशासनभारतीगर्भे श्रीभागवतसन्दर्भे
भगवत्सन्दर्भो नाम द्वितीयः सन्दर्भः ॥