शुक्लयजुर्वेदः/अध्यायः ३८

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← अध्यायः ३७ शुक्लयजुर्वेदः
अध्यायः ३८
[[लेखकः :|]]
अध्यायः ३९ →


अध्याय 38
महावीरोपक्रमे घर्मधुग्दोहादयः मन्त्राः

38.1
देवस्य त्वा सवितुः प्रसवे ऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्याम् ।
आ ददे ऽदित्यै रास्नासि ॥

38.2
इड ऽ एहि ।
अदित ऽ एहि ।
सरस्वत्त्य् एहि ।
असाव् एहि ।
असाव् एहि ।
असाव् एहि ॥

38.3
अदित्यै रास्नासीन्द्राण्या ऽ उष्णीषः ।
पूषासि ।
घर्माय दीष्व ॥

38.4
अश्विभ्यां पिन्वस्व ।
सरस्वत्यै पिन्वस्व ।
इन्द्राय पिन्वस्व ।
स्वाहेन्द्रवत् ।
स्वाहेन्द्रवत् ।
स्वाहेन्द्रवत् ॥

38.5
यस् ते स्तनः शशयो यो मयोभूर् यो रत्नधा वसुविद् यः सुदत्रः ।
येन विश्वा पुष्यसि वार्याणि सरस्वति तम् इह धातवे ऽकः ।
उर्व् अन्तरिक्षम् अन्व् एमि ॥

38.6
गायत्रं छन्दो ऽसि ।
त्रैष्टुभं छन्दो ऽसि ।
द्यावापृथिवीभ्यां त्वा परि गृह्णामि ।
अन्तरिक्षेणोप यच्छामि ।
इन्द्राश्विना ।
मधुनः सारघस्य घर्मं पात वसवो यजत वाट् ।
स्वाहा सूर्यस्य रश्मये वृष्टिवनये ॥

38.7
समुद्राय त्वा वाताय स्वाहा ।
सरिराय त्वा वाताय स्वाहा ।
अनाधृष्याय त्वा वाताय स्वाहा ।
अप्रतिधृष्याय त्वा वाताय स्वाहा ।
अवस्यवे त्वा वाताय स्वाहा ।
अशिमिदाय त्वा वाताय स्वाहा ॥

38.8
इन्द्राय त्वा वसुमते रुद्रवते स्वाहा ।
इन्द्राय त्वादित्यवते स्वाहा ।
इन्द्राय त्वाभिमातिघ्ने स्वाहा ।
सवित्रे त्व ऽ ऋभुमते विभुमते वाजवते स्वाहा ।
बृहस्पतये त्वा विश्वदेव्यावते स्वाहा ॥

38.9
यमाय त्वाङ्गिरस्वते पितृमते स्वाहा ।
स्वाहा घर्माय ।
स्वाहा घर्मः पित्रे ॥

38.10
विश्वा ऽ आशा दक्षिणसद् विश्वान् देवान् अयाड् इह ।
स्वाहाकृतस्य घर्मस्य मधोः पिबतम् अश्विना ॥

38.11
दिवि धा ऽ इमं यज्ञम् इमम् यज्ञं दिवि धाः ।
स्वाहाग्नये यज्ञियाय शं यजुर्भ्यः ॥

38.12
अश्विना घर्मं पातꣳ हार्द्वानम् अहर् दिवाभिर् ऊतिभिः ।
तन्त्रायिणो नमो द्यावापृथिवीभ्याम् ॥

38.13
अपाताम् अश्विना घर्मम् अनु द्यावापृथिवी ऽ अमꣳसाताम् ।
इहैव रातयः सन्तु ॥

38.14
इषे पिन्वस्व ।
ऊर्जे पिन्वस्व ।
ब्रह्मणे पिन्वस्व ।
क्षत्राय पिन्वस्व ।
द्यावापृथिवीभ्यां पिन्वस्व ।
धर्मासि सुधर्म ।
अमेन्य् अस्मे नृम्णानि धारय ब्रह्म धारय क्षत्रम् धारय विषं धारय ॥

38.15
स्वाहा पूष्णे शरसे ।
स्वाहा ग्रावभ्यः ।
स्वाहा प्रतिरवेभ्यः ।
स्वाहा पितृभ्य ऽ ऊर्ध्वबर्हिर्भ्यो घर्मपावभ्यः ।
स्वाहा द्यावापृथिवीभ्याम् ।
स्वाहा विश्वेभ्यः देवेभ्यः ॥

38.16
स्वाहा रुद्राय रुद्रहूतये ।
स्वाहा सं ज्योतिषा ज्योतिः ।
अहः केतुना जुषताꣳ सुज्योतिर् ज्योतिषा स्वाहा ।
रात्रिः केतुना जुषताꣳ सुज्योतिर् ज्योतिषा स्वाहा ।
मधु हुतम् इन्द्रतमे ऽ अग्नाव् अश्याम ते देव घर्म नमस् ते ऽ अस्तु मा मा हिꣳसीः ॥

38.17
अभीमं महिमा दिवं विप्रो बभूव सप्रथाः ।
उत श्रवसा पृथिवीꣳ सꣳ सीदस्व महाꣳ२ऽ असि रोचस्व देववीतमः ॥
[वि धूमम् अग्ने ऽ अरुषं मियेध्य सृज प्रशस्त दर्शतम्] ॥

38.18
या ते घर्म दिव्या शुग् या गायत्र्याꣳ हविर्धाने ।
सा त आ प्यायतां निष्ट्यायतां तस्यै ते स्वाहा ।
या ते घर्मान्तरिक्षे शुग् या त्रिष्टुभ्य् आग्नीध्रे ।
सा त ऽ आ प्यायतां निष्ट्यायतां तस्यै ते स्वाहा ।
या ते घर्म पृथिव्याꣳ शुग् या जगत्याꣳ सदस्या ।
सा त ऽ आ प्यायतां निष्ट्यायतां तस्यै ते स्वाहा ॥

38.19
क्षत्रस्य त्वा परस्पाय ब्रह्मणस् तन्वं पाहि ।
विशस् त्वा धर्मणा वयम् अनु क्रामाम सुविताय नव्यसे ॥

38.20
चतुःस्रक्तिर् नाभिर् ऋतस्य सप्रथाः स नो विश्वायुः सप्रथाः स नः सर्वायुः सप्रथाः ।
अप द्वेषो ऽ अप ह्वरो ऽन्यव्रतस्य सश्चिम ॥

38.21
घर्मैतत् ते पुरीषं तेन वर्धस्व चा च प्यायस्व ।
वर्धिषीमहि च वयम् आ च प्यासिषीमहि ॥

38.22
अचिक्रदद् वृषा हरिर् महान् मित्रो न दर्शतः ।
सꣳ सूर्येण दिद्युतद् उदधिर् निधिः ॥

38.23
सुमित्रिया न ऽ आप ऽ ओषधयः सन्तु दुर्मित्रियास् तस्मै सन्तु यो ऽस्मान् द्वेष्टि यं च वयं द्विष्मः ॥

38.24
उद् वयं तमसस् परि स्वः पश्यन्त ऽ उत्तरम् ।
देवं देवत्रा सूर्यम् अगन्म ज्योतिर् उत्तमम् ॥

38.25
एधो ऽस्य् एधिषीमहि ।
समिद् असि तेजो ऽसि तेजो मयि धेहि ॥

38.26
यावती द्यावापृथिवी यावच् च सप्त सिन्धवो वितस्थिरे ।
तावन्तम् इन्द्र ते ग्रहमूर्जा गृह्णाम्य् अक्षितं मयि गृह्णाम्य् अक्षितम् ॥

38.27
मयि त्यद् इन्द्रियं बृहन् मयि दक्षो मयि क्रतुः ।
घर्मस् त्रिशुग् वि राजति विराजा ज्योतिषा सह ब्रह्मणा तेजसा सह ॥

38.28
पयसो रेत ऽ आभृतं तस्य दोहम् अशीमह्य् उत्तराम्-उत्तराꣳ समाम् ।
त्विषः संवृक् क्रत्वे दक्षस्य ते सुषुम्णस्य ते सुषुम्णाग्निहुतः ।
इन्द्रपीतस्य प्रजापतिभक्षितस्य मधुमत ऽ उपहूत ऽ उपहूतस्य भक्षयामि ॥

भाष्यम्(उवट-महीधर)

उपयमनी.
उपयमन्या महावीरपात्रग्रहणम्

अष्टत्रिंशोऽध्यायः ।

तत्र प्रथमा।
दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वेऽश्विनो॑र्बा॒हुभ्यां॑ पू॒ष्णो हस्ता॑भ्याम् ।
आ द॒देऽदि॑त्यै॒ रास्ना॑ऽसि ।। १ ।।
उ० अथ घर्मधुग्दोहनार्थं रज्जुमादत्ते । देवस्यत्वेति व्याख्यातम् । आददे गृह्णामि । यतस्त्वम् अदित्यै रास्नासि ॥१॥
म० 'देवस्य त्वेति रज्जुसंदानमादायेड एहीति गामाह्वयति नाम्ना च त्रिरुच्चैरपरेण गार्हपत्यं गच्छन्' (का० २६ । ५।१)। अध्वर्युर्देवस्य त्वेति रज्जुसंदानमादाय गार्हपत्यस्य पश्चाद्गच्छन् इड एहीति वाक्यत्रयेण घर्मदुघां गामाह्वयति असावेहीति गोर्नाम्ना चोच्चैस्त्रिवारमाह्वयतीति सूत्रार्थः । रज्जुदेवत्यं यजुः प्राजापत्या गायत्री । हे रज्जो, सवितुर्देवस्याज्ञायां वर्तमानोऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां त्वामाददे गृह्णामि । यतः त्वमदित्यै अदित्या देवमातुः रास्ना रसना मेखलासि भवसि । षष्ठ्यर्थे चतुर्थी ॥ १ ॥

द्वितीया।
इड॒ एह्यदि॑त॒ एहि॒ सर॑स्व॒त्त्येहि॑ । असा॒वेह्यसा॒वेह्यसा॒वेहि॑ ।। २ ।।
उ० गामाह्वयति । इड एहि । अतस्मिंस्तच्छब्दस्तदतिदेशार्थः । हे इडे मानवि, आ इहि आगच्छ दोहाय । हे अदिते देवमातः, एहि । हे सरस्वति वाक्, एहि । असाविति नामग्रहणं त्रिरुच्चैः । असौ धवले एहि । त्रिः । आमन्त्रितस्येत्यादिरुदात्तः ॥२॥
म०. हे इडे मानवि, एहि आगच्छ । हे अदिते देवमातः, एहि । हे सरस्वति वाक्, एहि । अतस्मिंस्तच्छब्दस्तत्सादृश्यार्थः । 'इडा हि गौरदितिर्हि गौः सरस्वती हि गौः' ( १४ । २।१।७) इति श्रुतेः । नाम्ना त्रिरुच्चैराह्वयति असौ धवलि, एहि एवं त्रिः ॥२॥

तृतीया ।
अदि॑त्यै॒ रास्ना॑ऽसीन्द्रा॒ण्या उ॒ष्णीष॑: ।
पू॒षाऽसि॑ घ॒र्माय॑ दीष्व ।। ३ ।।
उ० अदित्यै रास्नासीति गां पाशेन प्रतिमुञ्चति । अदित्यै रास्नासि । इन्द्राण्या उष्णीषः इन्द्राणी इन्द्रस्य पत्नी तस्याः शिरोवेष्टनं त्वमसि । वत्समुत्सृजति । पूषासि । यथा पूषा वायुः पुष्टिमाप्याययति एवं त्वमपि प्रस्रावनेन जगदुत्पत्तिबीजं पय आप्याययसि । वत्समुन्नयति । घर्माय दीष्व देहि । दयां कुरु 'दो दाने दयायां च', सर्वं पासीः ॥३॥
म० 'अदित्यै रास्नेति गां पाशेन प्रतिमुच्य स्थूणायां बद्ध्वा पूषासीति वत्समुत्सृजति' ( का० २६ । ५। ३)। आगतां गामदित्या इति मन्त्रेण पाशेन बद्ध्वा तं पाशं स्तम्भे बद्ध्वा पूषासीति वत्सं मुञ्चतीत्यर्थः । हे रज्जुपाश, त्वमदित्यै रास्ना रसनासि । इन्द्राण्यै इन्द्रपत्न्याः उष्णीषः शिरोवेष्टनमसि। एतेन पाशमिन्द्राण्युष्णीषं करोतीत्यर्थः । 'तमेवैनमेतत्करोति' ( १४। ।२।१। ८) इति श्रुतेः । वत्सं मुञ्चति पूषासि दैव्यनुष्टुप् वत्सो देवता । हे वत्स, त्वं पूषा वायुरसि वायुर्यथा वृष्टिमाप्याययति तथा त्वं प्रस्रवेण पय आप्याययस्वेति भावः । 'अयं वै पूषा योऽयं पवत एष हीदᳪं᳭ सर्वं पुष्यत्येष उ प्रवर्ग्यः' (१४ । २ । १ । ९) इति श्रुतेः । 'संदाय घर्माय दीष्वेति वत्समुन्नयति' ( का० २६ । ५ । ४ ) धेनुं रज्ज्वा पश्चिमपादयोर्बद्ध्वा वत्समपाकरोतीत्यर्थः । दैवी पङ्क्तिः । वत्सो देवता । हे वत्स, घर्माय घर्मार्थं दीष्व देहि पयः । पयः शेषय मा सर्वं पासीरित्यर्थः । 'दो दाने' 'बहुलं छन्दसि' (पा० २ । ४ । | ७३ ) इति शपो लुक् ॥ ३ ॥

चतुर्थी।
अ॒श्विभ्यां॑ पिन्वस्व॒ सर॑स्वत्यै पिन्व॒स्वेन्द्रा॑य पिन्वस्व ।
स्वाहेन्द्र॑व॒त् स्वाहेन्द्र॑व॒त् स्वाहेन्द्र॑व॒त् ।। ४ ।।
उ० पिन्वने दोग्धि । अश्विभ्यां पिन्वस्व अश्विभ्यामर्थाय पिन्वस्व प्लावयस्व । एवमेव सरस्वत्यै इन्द्राय च । विप्रुषाभिमन्त्रयते । स्वाहेन्द्रवदिति । यद्दुह्यमानं स्कन्नं तत्सुहुतमस्तु इन्द्रवत् इन्द्रसंयुक्तम् इति त्रिः ॥ ४ ॥ |
म० 'अश्विभ्यां पिन्वस्वेति पिन्वने दोग्धि' ( का० २६ । ५।५)। पिन्वने पात्रे प्रतिमन्त्रं गां दोग्धीत्यर्थः । अश्विभ्यां पिन्वस्व इन्द्राय पिन्वस्व यजुर्गायत्र्यौ । सरस्वत्यै पिन्वस्व यजुरनुष्टुप् । लिङ्गोक्ता देवताः । हे पयः, अश्विभ्यामर्थाय त्वं पिन्वस्व संप्लवस्व । सरस्वत्यै च पिन्वस्व । 'अश्विनौ वा एतद्यज्ञस्य शिरः प्रत्यधत्तां तावेवैतत्प्रीणाति' (१४ । २ । १ । १३) इति श्रुतिः । सरस्वत्या वाचा कृत्वा इन्द्राय यज्ञशिरोऽश्विभ्यां 'संहितमिति तयोरर्थे क्षरस्वेति भावः । 'स्वाहेन्द्रवदिति विप्रुषोऽभिमन्त्रयते' ( का० २६ । ५। ६) । पिन्वनपतितान्पयःकणानभिमन्त्रयत इत्यर्थः । यजुर्जगती विप्रुषो देवता । यद्दुह्यमाने स्कन्नं तत्स्वाहा सुहुतमस्तु । इन्द्रवत् इन्द्रसंयुक्तं चास्तु ॥४॥

पञ्चमी।
यस्ते॒ स्तन॑: शश॒यो यो म॑यो॒भूर्यो र॑त्न॒धा व॑सु॒विद्यः सु॒दत्र॑: ।
येन॒ विश्वा॒ पुष्य॑सि॒ वार्या॑णि॒ सर॑स्वति॒ तमि॒ह धात॑वेऽकः । उ॒र्वन्तरि॑क्ष॒मन्वे॑मि ।। ५ ।।
उ० स्तनमालभते । यस्ते स्तनः । त्रिष्टुब्वाग्देवत्या । 'वाग्देवीसरस्वती'ति श्रुतिः । यः ते तव स्तनः । कथंभूतः। शशयः । 'शीङ् स्वप्ने' । सुप्त इवास्ते अनुपभुक्तोऽन्यैः । यश्च मयोभूः मयः सुखं भावयति सर्वभूतानाम् । यश्च रत्नधाः रमणीयानां धनानां धारयिता । यश्च वसुवित् वसु विन्दति । यश्च सुदत्रः कल्याणदानः । धनवानपि सन् कश्चिन्नोत्सहते दातुम् अतएवं भिक्ष्यते । येन विश्वा येन च विश्वा विश्वानि पुष्यसि पुष्णासि वार्याणि वरणीयानि । हे सरस्वति, तं स्तनं इह । धातवे । 'धेट् पाने' पानाय । अकः कुरु । गच्छति । उर्वन्तरिक्षमिति व्याख्यातम् ॥५॥
म० 'यस्ते स्तन इति स्तनमालभते' ( का० २६ । ५। ७)। गोस्तनानालभते । जातावेकवचनमित्यर्थः । वाग्देवत्या त्रिष्टुप् दीर्घतमोदृष्टा । हे सरस्वति, तं स्तनमिहास्मिन्स्थाने धातवे 'धेट् पाने' तुमर्थे तवेप्रत्ययः। पानार्थमकः कुरु । मम पानाय प्रयच्छेत्यर्थः । लोडर्थे लङ् शपि लुप्ते गुणः । तं कम् । यस्ते तव स्तनः स्तन इव स्तनः । शशयः शेते इति शशयः । अच्प्रत्यये द्वित्वं पूर्वस्यात्वं च छान्दसम् । सुप्त इवास्ते अन्यैरनुपभुक्तत्वात् 'यस्ते स्तनो निहितो गुहायाम्' (१४ । २ । १।१५) इति श्रुतेः । यश्च स्तनो मयोभूः मयः सुखं भावयति प्रापयति सर्वभूतानामिति मयोभूः । यश्च रत्नधाः रत्नानि दधाति रत्नधाः रमणीयानां धनानां धारयिता । यश्च वसुवित् वसु धनं विन्दति वेत्ति वा वसुवित् । यश्च सुदत्रः सुष्ठु ददातीति सुदत्रः दाता । धनवानन्यो दातुं न शक्नोति त्वत्समस्तु धनवान् दाता चेति अन्येभ्य आधिक्यम् । किंच येन स्तनेन विश्वा विश्वानि सर्वाणि वार्याणि वरणीयानि वस्तूनि त्वं पुष्यसि पुष्णासि । तं स्तनं मत्पानाय प्रयच्छेत्यर्थः । 'उपद्रव पयसेत्युच्यमाने गच्छत्युर्वन्तरिक्षमिति' ( का० २६ । ५। ११) उपद्रवेति मन्त्रे होत्रोच्यमाने उर्विति मन्त्रेणाध्वर्युर्गोसमीपाद्गार्हपत्यं प्रति गच्छतीत्यर्थः । प्राजापत्या गायत्री । विशालमन्तरिक्षमनु एमि गच्छामि ॥ ५ ॥

षष्ठी।
गा॒य॒त्रं छन्दो॑ऽसि॒ त्रै॑ष्टुभं॒ छन्दो॑ऽसि॒ द्यावा॑पृथि॒वीभ्यां॑ त्वा॒ परि॑ गृह्णाम्य॒न्तरि॑क्षे॒णोप॑यच्छामि ।
इन्द्रा॑श्विना॒ मधु॑नः सार॒घस्य॑ घ॒र्मं पा॑त॒ वस॑वो॒ यज॑त॒ वाट् ।
स्वाहा॒ सूर्य॑स्य र॒श्मये॑ वृष्टि॒वन॑ये ।। ६ ।।
उ० परीशासावादत्ते । गायत्रं छन्दोसि त्रैष्टुभं छन्दोसि । ऋक्षु महावीरं गृह्णाति । द्यावापृथिवीभ्यां त्वां परिगृह्णामि । परीशासयोः द्यौश्च पृथिवी च अध्यास्तः महावीरे चादित्यः । उपयमन्या उपगृह्णाति । अन्तरिक्षेणोपयच्छामि । अन्तरिक्षेण उपगृह्णामि । उपयमन्या अन्तरिक्षरूपेण संस्तवः । पयसा सिञ्चति । इन्द्राश्विना । हे इन्द्र हे अश्विनौ । मधुनः सारघस्य । सरघा मधुकृतः भ्रमरा इव ऋत्विजः तैः कृतस्य सारघस्य मधुनः घर्मं पात रसं पिबत । हे वसवः वासयितारः, यजत च वाट् वषट्कारेण । स्वाहा सुहुतमस्तु । सूर्यस्य रश्मये । वृष्टिवनये वृष्टेः संभक्त्रे दात्रे वा । 'सूर्यस्य ह वा एको रश्मिर्वृष्टिवनिर्नाम' इति श्रुतिः ॥ ६ ॥
म० 'परिशासावादत्ते गायत्रं छन्दोऽसीति प्रतिमन्त्रम्' ( का० २६ । ५ । १२) गायत्रमिति मन्त्राभ्यां परीशासौ गृह्णातीत्यर्थः । यजुर्गायत्र्यौ परीशासौ देवते । हे परीशास, त्वं गायत्रं छन्दोऽसि गायत्र्येव गायत्रं स्वार्थेऽण् । गायत्रीच्छन्दोरूपोऽसि । त्रिष्टुबेव त्रैष्टुभं त्रिष्टुप्छन्दोरूपोऽसीति द्वितीयम्। 'ताभ्यां महावीरं परिगृह्णाति द्यावापृथिवीभ्यां त्वा परिगृह्णामीति' ( का० २६ । ५। १४ ) ताभ्यां परीशासाभ्यां महावीरमादत्त इत्यर्थः । यजुर्जगती महावीरो देवता । हे महावीरद्यावापृथिवीभ्यां द्युभूमिभ्यां कृत्वा त्वा त्वां परिगृह्णामि । परीशासयोर्द्यावाभूमी अध्यस्ते महावीरे चादित्योऽध्यस्तः । तथाच श्रुतिः 'इमे वै द्यावापृथिवी परीशासावादित्यः प्रवर्ग्योऽमुं तदादित्यमाभ्यां द्यावापृथिवीभ्यां परिगृह्णाति' (१४ । २।१।१६ ) इति । 'उद्यम्य मुच्चवेदेनोपमृज्योपयमन्योपगृह्णात्यन्तरिक्षेणोपयच्छामि' इति । परिशासगृहीतं महावीरमूर्ध्वं कृत्वा मुञ्जकृतवेदेन संमार्ज्योपयमन्या स्रुचा तं गृह्णातीत्यर्थः । यजुर्बृहती घर्मो देवता । हे घर्म, अन्तरिक्षेणाकाशेनोदरेण वा त्वामुपयच्छामि निगृह्णामि । उपयमन्यन्तरिक्षत्वेनोदरत्वेन च स्तूयते । तथाच श्रुतिः 'अन्तरिक्षं वा उपयमन्यन्तरिक्षेण हीदᳪं᳭ सर्वमुपयतमथो उदरं वा उपयमन्युदरेण हीदᳪं᳭ सर्वमन्नाद्यमुपयतं तस्मादाहान्तरिक्षेणोपयच्छामि' (१४।२।१।१७) इति । 'अजापयसावासिच्य शान्ते गोः पयोऽवनयतीन्द्राश्विनेति' ( का० २६ । ५। १६ ) । अजादुग्धेन महावीरं तूष्णीं सिक्त्वा शान्ते क्षीणज्वाले तत्र गोपयः सिञ्चतीत्यर्थः । ब्राह्मी गायत्री विश्वेदेवा देवताः । हे इन्द्र, हे अश्विना अश्विनौ, हे वसवः वासयितारः, यूयं मधुनो मधुरस्य पयसो घर्मं रसं पात पिबत । पिबादेशाभावश्छान्दसः । कीदृशस्य मधुनः, सारघस्य सरघा मधुमक्षिका । अत्र सरघा मधुकृतो भ्रमरा इव ऋत्विजः तैः कृतं सारघं तस्य । 'घर्मं पातेति रसं पातेत्यैवैतदाह' (१४ । २।१।२०) इति श्रुतिः। किंच हे इन्द्रादयः, वाट् वषट्कारेण स्वाहा सुष्ठु हुतं सारघं मधु सूर्यस्य रश्मये किरणाय यूयं यजत दत्त । यजतिर्दानार्थः । 'वषट्कृतᳪं᳭ हृतमेवमस्यैतद्भवति' (१४ । २ । १।२०) इति श्रुतेः । किंभूताय रश्मये । वृष्टिवनये वृष्टिं वनति ददाति वृष्टिवनिस्तस्मै यो रश्मिर्वृष्टिं दत्ते तस्मै मधु दत्तेत्यर्थः । तथाच श्रुतिः 'सूर्यस्य ह वा एको रश्मिर्वृष्टिवनिर्नाम येनेमाः सर्वाः प्रजा बिभर्ति | तमेवैतत्प्रीणाति' ( १४ । २।१। २१ ) इति ॥ ६ ॥

सप्तमी।
स॒मु॒द्राय॑ त्वा॒ वाता॑य॒ स्वाहा॑ सरि॒राय॑ त्वा॒ वाता॑य॒ स्वाहा॑ ।
अ॒ना॒धृ॒ष्याय॑ त्वा॒ वाता॑य॒ स्वाहा॑ ऽप्रतिधृ॒ष्याय॑ त्वा॒ वाता॑य॒ स्वाहा॑ ।
अ॒व॒स्यवे॑ त्वा॒ वाता॑य॒ स्वाहा॑ ऽशिमि॒दाय॑ त्वा॒ वाता॑य॒ स्वाहा॑ ।। ७ ।।
उ० इतउत्तरं द्वादश वातनामानि यजत्यध्वर्युः । समुद्राय त्वेति । एतस्माद्वै समुद्रात्सर्वाणि भूतानि समुद्द्रवन्ति' इति समुद्रो वातः । समुद्राय त्वां हे प्रवर्ग्य, वाताय स्वाहा जुहोमि । इयमेवोत्तरत्रापि योजना । सरिराय । एतस्मात्सरिरात्सर्वाणि भूतानि लब्धकार्याणि सन्ति । सह ईरते गच्छति । अनाधृष्याय अशक्याय आधर्षितुम् । अप्रतिधृष्याय अशक्याय प्रतिधर्षितुम् । अवस्यवे अवनशीलाय । अशिमिदाय । शिमीति कर्मनाम । क्लेशात्मकं चैतत् । अक्लेशदाय ॥ ७ ॥
म० 'प्रैतु ब्रह्मणस्पतिरित्युच्यमाने समुद्राय त्वेति वातनामानि जपति गच्छन्नाहवनीयम्' ( का० २६ । ५। १७)। प्रैत्विति होत्रोच्यमाने आहवनीयं प्रति गच्छन्नध्वर्युः समुद्रायेत्यादीनि द्वादश वातनामानि स्वरेण जपतीत्यर्थः । द्वादश यजूंषि वातनामदेवत्यानि । हे घर्म, वाताय त्वा त्वां स्वाहा जुहोमि । कीदृशाय वाताय । समुद्राय समुद्द्रवन्त्युद्भवन्ति सर्वाणि भूतानि यस्मात् स समुद्रस्तस्मै 'अयं वै समुद्रो योऽयं पवत एतस्माद्वै समुद्रात्सर्वे देवाः सर्वाणि भूतानि समुद्द्रवन्ति तस्मा एवैनं जुहोति' (१४ । २ । २।२) इति श्रुतेः। सरिराय । सह ईरते यच्छन्ति सर्वभूतानि सिद्धार्थानि यस्मात् सरिरस्तस्मै वाताय घर्म, त्वां जुहोमि । 'अयं वै सरिरो योऽयं पवत एतस्माद्वै सरिरात्सर्वे देवाः सर्वाणि भूतानि सहेरते' ( १४ । २ । २ । ३) इति श्रुतेः । अनाधृष्याय न आधर्षितुं पराभवितुं शक्योऽनाधृष्यः तस्मै । अप्रतिधृष्याय न प्रतिधर्षितुं प्रतियोद्धुं शक्योऽप्रतिधृष्यस्तस्मै वातायेत्युक्तम् 'अयं वा अनाधृष्योऽप्रतिधृष्यो योऽयं पवते' ( १४ । २ । २ । ४) इति श्रुतेः । अवस्यवे । अवो रक्षणमिच्छति अवस्यति अवस्यतीत्यवस्युः 'सुप आत्मनः क्यच् 'क्याच्छन्दसि' (पा० ३ । २। १७०) इत्युप्रत्ययः । अवनशीलाय । अशिमिदाय । क्लेशात्मकं कर्म शिमि तन्न ददातीत्यशिमिदस्तस्मै क्लेशनिवर्तकाय वाताय 'अयं वा अवस्युरशिमिदो योऽयं पवते' ( १४ । २ । २। ५) इति श्रुतेः ॥ ७॥

अष्टमी।
इन्द्रा॑य त्वा॒ वसु॑मते रु॒द्रव॑ते॒ स्वाहेन्द्रा॑य त्वाऽऽदि॒त्यव॑ते॒ स्वाहेन्द्रा॑य त्वाऽभिमाति॒घ्ने स्वाहा ।
स॒वि॒त्रे त्व॑ ऋभु॒मते॑ विभु॒मते॒ वाज॑वते॒ स्वाहा॒ बृह॒स्पत॑ये त्वा वि॒श्वदे॑व्यावते॒ स्वाहा॑ ।। ८ ।।
उ० इन्द्राय त्वा । इन्द्राय त्वा वसुमते रुद्रवते स्वाहा । इन्द्राय त्वा आदित्यवते स्वाहा । इन्द्राय त्वा अभिमातिघ्ने । सपत्नो वा अभिमातिः सवित्रे त्वा ऋभुमते विभुमते वाजवते स्वाहा । ऋभुर्विभुर्वाज इति सुधन्वन आङ्गिरसस्य त्रयः पुत्रा बभूवुस्तेषामयं संस्तवः । बृहस्पतये त्वा विश्वदेव्यावते स्वाहा ॥८॥
म० वसवो विद्यन्ते यस्य स वसुमान् रुद्रा विद्यन्ते यस्य रुद्रवान् तस्मै वसुयुताय रुद्रयुतायेन्द्राय वाताय हे घर्म, त्वां स्वाहा जुहोमि 'अयं वा इन्द्रो योऽयं पवते' (१४।२।२।६) इति श्रुतेः । आदित्या विद्यन्ते यस्य स आदित्यवान् तस्मै आदित्ययुक्तायेन्द्राय वाताय स्वाहा । अभिमातीन्सपत्नान् हन्तीत्यभिमातिहा । 'सपत्नो वा अभिमातिः' ( १४ । २ । २।८) इति श्रुतेः। शत्रुनाशकायेन्द्राय वाताय त्वां जुहोमि। सूते स सविता तस्मै चेष्टयित्रे वाताय त्वां जुहोमि । 'अयं वै सविता योऽयं पवते' (१४ । २ । २।९) इति श्रुतेः। कीदृशाय । ऋभुमते ऋभुरस्यास्ति ऋभुमान् विभुरस्यास्ति विभुमान् वाजोऽस्यास्ति वाजवान् । आङ्गिरसस्य सुधन्वनस्त्रयः पुत्रा ऋभुविभुवाजास्तद्युक्ताय वाताय । बृहस्पतये बृहतां महतां पतिर्वातस्तस्मै 'अयं वै बृहस्पतिर्योऽयं पवते' (१४ । २ । २। १० ) इति श्रुतेः । कीदृशाय । विश्वदेव्यावते विश्वेषां देवानां समूहो विश्वदेव्यम् तदस्यास्ति विश्वदेव्यवान् तस्मै । 'मन्त्रे सोमाश्वेन्द्रियविश्वदेव्यस्य मतौ' (पा०६।३।१३१) इति दीर्घः । सर्वदेवसहिताय जुहोमि ॥ ८ ॥

नवमी।
य॒माय॒ त्वाऽङ्गि॑रस्वते पितृ॒मते॒ स्वाहा॑ । स्वाहा॑ घ॒र्माय॒ स्वाहा॑ घ॒र्मः पि॒त्रे ।। ९ ।।
उ० यमाय त्वा । अङ्गिरस्वते पितृमते स्वाहा । उपयमन्या आसिञ्चति । स्वाहा घर्माय सुहुतो घर्माय चैतस्स्यात् । स्वाहा घर्मः सुहुतो घर्मः पित्रे स्यादिति शेषः ॥ ९॥
म० यमाय वायवे हे घर्म, त्वां जुहोमि 'अयं वै यमो योऽयं पवते' ( १४ । २।२ । ११) इति श्रुतेः । कीदृशाय यमाय । अङ्गिरस्वते अङ्गिरसो मुनयोऽस्य सन्ति अङ्गिरस्वान् | 'अयस्मयादीनि छन्दसि' (पा० १।४।२०) इति भसंज्ञायां सस्य विसर्गाभावः । पितृमते पितरोऽस्य सन्ति पितृमान् अङ्गिरःपितृयुताय वातायेत्यर्थः । वातनामानि समाप्तानि । 'स्वाहा घर्मायेत्युपयमन्या सिञ्चति घर्मे' (का० २६ । ६।२)। उपयमन्या स्रुचा सुक्स्थं घृतं घर्मे सिञ्चतीत्यर्थः। घर्माय स्वाहा एतदाज्यं सुहुतमस्तु । 'स्वाहा घर्मः पित्र' इति 'जपित्वातिक्रम्याश्राव्याह घर्मस्य ययेति' (का० २६ । ६ । ३)। अपसव्यवान् दक्षिणास्यः स्वाहेति मन्त्रं स्वरेण जपित्वा सव्येन जलं स्पृष्ट्वा घर्महस्तोऽतिक्रम्याश्राव्य घर्मस्य यजेत्याहेत्यर्थः । स्वाहा घर्मः पित्रे पित्रर्थायास्तु ॥ ९॥

दशमी।
विश्वा॒ आशा॑ दक्षिण॒सद्विश्वा॑न् दे॒वानया॑डि॒ह ।
स्वाहा॑कृतस्य घ॒र्मस्य॒ मधो॑: पिबतमश्विना ।। १० ।।
उ० वषट्कृते जुहोति । विश्वा आशाः । अनुष्टबाश्विनी। | विश्वाः सर्वाः आशाः काष्ठाः । दक्षिणसत् दक्षिणसद इति वचनव्यत्ययः । दक्षिणस्यां सीदन्ति । कस्मात् । यतः
विश्वान् सर्वान्देवान् अयाट् । यजतेरेतद्रूपम् । अयाक्षीत् इष्टवान् इह स्थितः । दक्षिणतो हि स्थित आहुतीर्जुहोति । आहुतिश्च यज्ञः । यत एवमतो ब्रवीमि । दक्षिणतोऽग्नेरस्माभिः स्वाहाकृतस्य वषट्करानन्तरं स्वाहाकृतस्य घर्मस्य मधोः पिबतं मध्वास्वादस्य पिबतम् अश्विनौ ॥ १० ॥
म० 'वषट्कृते जुहोति विश्वा आशा इति' ( का० २६ । ६। ४)। वषट्कृते सति घर्मं जुहोतीत्यर्थः । अश्विदेवत्यानुष्टुप् । इह यज्ञे दक्षिणसत् दक्षिणस्यां दिशि सीदति तिष्ठति दक्षिणसत् । सर्वनाम्नो वृत्रिमात्रे पुंवद्भावः । दक्षिणतः स्थितोऽध्वर्युर्विश्वाः सर्वाः आशाः दिशो विश्वान् सर्वान् देवान् च अयाट् अयाक्षीत् । यजेर्लुङि च्लेर्लोपे रूपम् । इष्टवान् दक्षिणतः स्थितो ह्याहुतीर्जुहोति । अतो ब्रवीमि हे अश्विना अश्विनौ, स्वाहाकृतस्य वषट्कारानन्तरं हुतस्य मधोर्मधुरास्वादस्य घर्मं युवां पिबतम् । कर्मणि षष्ठी ॥ १० ॥

एकादशी।
दि॒वि धा॑ इ॒मं य॒ज्ञमि॒मं य॒ज्ञं दि॒वि धा॑: । स्वाहा॒ऽग्नये॑ य॒ज्ञिया॑य॒ शं यजु॑र्भ्यः ।। ११ ।।
उ० त्रिरुत्कम्पयति । दिवि धाः द्युलोके स्थापय इमं यज्ञं । इमं यज्ञं दिविधाः । 'अभ्यासे भूयांसमर्थं मन्यन्ते' अनुवषट्कृते जुहोति । स्वाहाग्नये सुहुतमस्तु अग्नये । यज्ञियाय यज्ञहिताय । शं सुखं च यजुर्यः' सकाशात् अस्माकमस्त्विति शेषः । यद्वा शं यजुर्भ्यो देहि ॥ ११ ॥
म० 'दिवि धा इति त्रिरुत्कम्पयति' ( का० २६ । ६ । ५)। महावीरं त्रिरूर्ध्वं कम्पयति सकृन्मन्त्रेण द्विस्तूष्णीमिति सूत्रार्थः। यजुर्घर्मदेवत्यं सामोष्णिक् । हे महावीर, इमं मदीयं यज्ञं त्वं दिवि द्युलोके धाः धेहि स्थापय । इमं यज्ञं दिवि धा इति पुनरुक्तिरादरार्था । 'अभ्यासे भूयांसमर्थं मन्यन्ते' (निरु. १० । ४२ ) इति वचनात् । 'स्वाहाग्नय इत्यनुवषट्कृते' ( का० २६ । ६ । ६)। अनुवषट् स्वाहेति मन्त्रेण घर्म जुहोतीत्यर्थः । यज्ञियाय यज्ञहितायाग्नये स्वाहा सुहुतमस्तु । यजुर्भ्यः सकाशात् अस्माकं शं सुखमस्तु ॥ ११ ॥

द्वादशी।
अश्वि॑ना घ॒र्मं पा॑त॒ᳪं᳭ हार्द्वा॑न॒मह॑र्दि॒वाभि॑रू॒तिभि॑: । तन्त्रा॒यिणे॒ नमो॒ द्यावा॑पृथि॒वीभ्या॑म् ।। १२ ।।
उ० ब्रह्मानुमन्त्रयते । अश्विना घर्मम् । उष्णिगाश्विनी । हे अश्विनौ, घर्मं पातं पिबतम् । हार्द्वानं हृदयस्य प्रियम् । हृदयं वा योऽनुवर्तते अहर्दिवाभिः । अहःशब्दः पूर्वाह्णवचनः दिवाशब्दस्तु सायाह्नवचनः । स हि प्रवर्ग्याय कालः । एतत्कालोपलक्षिताभिः ऊतिभिः अवनैर्निमित्तभूतैः । तन्त्रायिणे नमो द्यावापृथिवीभ्याम् । तन्त्रायिणे लोके ये प्रसारिताः तन्तवः तुरीशलाकाप्रोताः ते तन्त्रमित्युच्यन्ते । तन्तुनालिरिव सूत्रपूरणाय एति त्रींल्लोकान् स तन्त्रायी आदित्यः तस्मै नमः । उत्तरत्राप्यनुषङ्गः । द्यावापृथिवीभ्यां नमः अस्तु ॥ १२॥
म० 'अश्विना घर्ममिति ब्रह्मानुमन्त्रयते' (का० २६ । ६ । ७)। ब्रह्मा घर्ममभिमन्त्रयत इत्यर्थः । स्वराडुष्णिक् । अश्विनावादित्यो द्यावापृथिव्यौ च देवताः । हे अश्विना अश्विनौ, युवां घर्मं पातं पिबतम् । काभिः। ऊतिभिरवनैर्निमित्तैः । अवनं कृत्वा पिबतमित्यर्थः । कीदृशीभिरूतिभिः । अहर्दिवाभिः । अहःशब्देन प्रातःकालः दिवाशब्देन सायंकालः । प्रातःसायंकालोपलक्षिताभिः । प्रवर्ग्यकालः स एव यतः । कीदृशं घर्मम् । | हार्द्वानम् ‘वा गतिगन्धनयोः' ल्युट । हृदि वानं गमनं यस्य स हृद्वानः हृद्वान एव हार्द्वानस्तम् । स्वार्थेऽण् । हृदयप्रियमित्यर्थः। एवं घर्मपानायाश्विनौ संप्रार्थ्य तत्साहाय्याय सूर्यादीन्नमति । तन्त्रायिणे नमः तन्यते तन्त्रम् पटरचनाय तुरीशलाकाप्रोतास्तन्तवस्तन्त्रमुच्यते तद्वन्नभसि कालचक्रमपि तन्त्रमुच्यते । तथा चाभिधानम् 'तन्त्रे राष्ट्रे परच्छन्दाप्रधानयोः । अगदे कुटुम्बकृत्ये तन्तुवाने परिच्छदे । श्रुतिशाखान्तरे शास्त्रे करणे द्व्यर्थसाधके । इतिकर्तव्यतातन्त्वोः' इति । तन्त्रे कालचक्रे एति निरन्तरं गच्छति तन्त्रायी तस्मै आदित्याय नमोऽस्तु ‘एष वै तन्त्रायी य एष तपत्येष हीमाँल्लोकांस्तन्त्रमिवानुसंचरति' (१४॥ २। २ । २२) इति श्रुतेः । द्यावापृथिवीभ्यामुभाभ्यां लोकाभ्यां तदधिष्ठात्रीभ्यां नमः ॥ १२॥

त्रयोदशी।
अपा॑ताम॒श्विना॑ घ॒र्ममनु॒ द्यावा॑पृथि॒वी अ॑मᳪं᳭साताम् । इहै॒व रा॒तय॑: सन्तु ।। १३ ।।
उ० यजमानोऽनुमन्त्रयते । अपाताम् । आश्विनी ककुप् । अपातां पीतवन्तौ अश्विनौ घर्मम् । अनु द्यावापृथिवी अमंसाताम् । तच्च घर्मपानमश्विनोः द्यावापृथिवी अपि अमंसाताम् अनुमतवत्यौ साध्वभूदिति । यतएवमतो ब्रवीमि । इह एव अवस्थितानामस्माकं रातयः धनानि सन्तु ॥१३॥
म० 'अपातामिति यजमानः' ( का० २६ । ६ । ८)। यजमानः घर्ममभिमन्त्रयत इत्यर्थः । ककुबुष्णिक् अश्विदेवत्या मध्यमः पादो द्वादशार्णः आद्यन्तावष्टार्णौ सा ककुप् । मध्यमश्चेत्ककुबित्युक्तेः । अश्विना घर्ममपातामपिबतां लुङ् । द्यावापृथिवी अन्वमंसातामनुमतवत्यौ । साधु कृतमिति अनुमेनाते इत्यर्थः । अत एवाश्व्यादिप्रसादात् इहैवास्मद्गृहे स्थितानामस्माकं रातयो धनानि सन्तु 'इहैव रातयः सन्त्वितीहैव नो । धनानि सन्त्वित्येवैतदाह' ( १४ । २ । २ । २६) इति श्रुतेः ॥ १३ ॥

चतुर्दशी।
इ॒षे पि॑न्वस्वो॒र्जे पि॑न्वस्व॒ ब्रह्म॑णे पिन्वस्व क्ष॒त्राय॑ पिन्वस्व॒ द्यावा॑पृथि॒वीभ्यां॑ पिन्वस्व ।
धर्मा॑सि सु॒धर्मामे॑न्य॒स्मे नृ॒म्णानि॑ धारय॒ ब्रह्म॑ धारय क्ष॒त्रं धा॑रय॒ विशं॑ धारय ।। १४ ।।
उ० पिन्वमानमनुमन्त्रयते । इषे पिन्वस्व । वृष्टितर्पणाय विप्लुषो मुञ्च । एवं ऊर्जे अन्नाय । ब्रह्मणे ब्राह्मणेभ्यः। क्षत्राय क्षत्रियेभ्यः द्यावापृथिवीभ्यां पिन्वस्वेति । उत्क्रामत्युत्तरपूर्वार्धम् । धर्मासि सुधर्म । धर्मासि धारणं समस्तस्य जगतोऽस्याहुतिपरिणामद्वारेण । हे सुधर्म साधुधारणशील, खरे सादयति । अमेनि । 'मीङ् हिंसायाम्' । अहिंसन् अक्रुध्यन् । अस्मे अस्मासु । नृम्णानि । नॄन्नमयन्तीति नृम्णानि धनानि । धारय स्थापय । ब्रह्म धारय क्षत्रं धारय विशं धारय त्रैवर्णिकानस्मासु स्थापय ॥ १४ ॥
म० 'इषे पिन्वस्वेति पिन्वमानमनुमन्त्रयते' (का. २६ । ६ । ९)। पिन्वमानमतितप्तं घर्ममभिमन्त्रयत इत्यर्थः । ऋचां पङ्क्तिः घर्मदेवत्या । हे पिन्वमान घर्म, इषे वृष्ट्यै पिन्वस्व पुष्टो भव वृष्ट्यर्थम् । ऊर्जेऽन्नाय पिन्वस्व अन्नं वर्धय । ब्रह्मणे ब्राह्मणेभ्यः पिन्वस्व क्षत्राय क्षत्रियेभ्यः पिन्वस्व द्यावापृथिवीभ्यां पिन्वस्व । ब्राह्मणक्षत्रियद्यावापृथिवीस्तर्पयेत्यर्थः । 'घर्मासीत्युत्क्रामत्युत्तरपूर्वार्धम्' ( का० २६ । ६ । १०) । ऐशानीं दिशं प्रत्युत्क्रामतीत्यर्थः । यजुर्गायत्री घर्मदेवत्या । हे धर्म, हे सुधर्म, सुष्ठु धारयतीति सुधर्मः हे साधुधरणशील, त्वं धर्मः असि सर्वजगतो धारणमसि आहुतिपरिणामद्वारेण सर्वं धरसीत्यर्थः । 'अमेन्यस्मे इति खरे करोति' ( का० २६ । ६ । ११)। महावीरं खरे आसादयतीत्यर्थः । ऋग्बृहती घर्मदेवत्या । हे घर्म, अमेनि 'मिञ् हिंसायां' मिनोति हिनस्तीति मेनिः न मेनिरमेनिः 'सुपां सुलुक्' (पा० ७ । १ । ३९) सुलोपः । अमेनिः अहिंसन् अक्रुध्यन् सन् अस्मे अस्मासु नृम्णानि धनानि धारय स्थापय । नॄन्नमयतीति नॄम्णम् 'अक्रुध्यन्नो धनानि धारय' ( १४ । २ । २ । ३०) इति श्रुतिः । ब्रह्म क्षत्रं विशं च धारय । विप्रादीनस्मद्वशान्कुर्वित्यर्थः ॥१४॥

पञ्चदशी।
स्वाहा॑ पू॒ष्णे शर॑से॒ स्वाहा॒ ग्राव॑भ्यः स्वाहा॑ प्रतिर॒वेभ्य॑: ।
स्वाहा॑ पि॒तृभ्य॑ ऊ॒र्ध्वब॑र्हिर्भ्यो घर्म॒पाव॑भ्य॒: स्वाहा॒ द्यावा॑पृथि॒वीभ्या॒ᳪं᳭ स्वाहा॒ विश्वे॑भ्यो दे॒वेभ्य॑: ।। १५ ।।
उ० शकलैर्जुहोति । स्वाहा पूष्णे । 'अयं वै पूषा योयं पवत एष हीदं सर्वं पुष्यत्येष उ प्राणः प्राणमेवास्मिन्निदधाति' इत्येतदुक्तम् । शरसे । अस्ति शरःशब्दः काण्डवचनः अस्ति च सान्तः । दध्न उपरि स्नेहः शर इति यजमानाः प्राहुस्तदभिप्रायेणैतदुच्यते । स्वाहा ग्रावभ्यः प्राणेभ्यः विषयग्रहणशीलेभ्यः । स्वाहा प्रतिरवेभ्यः । प्राणाः प्रतिरवाः तान्प्राप्य सर्वं जगद्रमते । स्वाहा पितृभ्यः ऊर्ध्वबर्हिभ्यः । ऊर्ध्वं प्रागग्रं बर्हिर्येषां त एवमुच्यन्ते । सोमपा ह्येत इत्यर्थः । घर्मपावभ्यः घर्मपातृभ्यः । स्वाहा द्यावापृथिवीभ्याम् । प्राणोदानौ वै द्यावापृथिवी । स्वाहा विश्वेभ्यो देवेभ्यः । प्राणो वै विश्वेदेवाः ॥ १५॥
म० 'विकङ्कतशकलैर्जुहोति घर्मे न्यज्य न्यज्य स्वाहा पूष्णे शरस इति प्रतिमन्त्रम्' ( का० २६ । ६ । १२ )। घर्मे नितरामक्त्वा विकङ्कतशकलैर्घर्माज्यं जुहोति स्वाहा पूष्ण इति प्रतिमन्त्रमित्यर्थः । सप्त लिङ्गोक्तदेवतानि यजूंषि । शरःशब्दो दध्युपरिस्थस्नेहवाचकः अत्र तु स्नेहमात्रवाची । शरसे स्नेहकर्त्रे पूष्णे वाताय प्राणरूपाय स्वाहा सुहुतमस्तु । 'अवरᳪं᳭ स्वाहाकारं करोति परां देवताम्' (१४ । २ । २ । ३२) इति श्रुतेरादौ स्वाहाकारस्ततो देवतापदानि । 'अयं वै पूषा योऽयं पवत एष हीदᳪं᳭ सर्वं पुष्यत्येष उ प्राणः प्राणमेवास्मिन्नेतद्दधाति' ( १४ । २ । २ । ३२) इति श्रुतिः । गृह्णन्ति ते ग्रावाणः प्राणा विषयग्रहणशीलाः तेभ्यः स्वाहा 'प्राणा वै ग्रावाणः प्राणानेवास्मिन्नेतद्दधाति' (१४ । २ । २ । ३३) इति श्रुतिः। प्रतिरुवन्ति शब्दं कुर्वन्ति प्रतिरमन्ते वा यान् प्राप्येति प्रतिरवाः तेभ्यः स्वाहा 'प्राणा वै प्रतिरवाः प्राणान्हीदᳪं᳭ सर्वं प्रतिरतम्' (१४ । २ । २ । ३४) इति श्रुतिः । 'चतुर्थमहुतमुदङ्ङीक्षमाणो दक्षिणतो बर्हिष्युपगूहति' ( का० २६ । ६। १४ )। चतुर्थं शकलमहुतमेवोदीचीं पश्यन् वेदेः दक्षिणभागे आतिथ्याबर्हिषि प्रवेशयतीत्यर्थः । पितृभ्यः स्वाहा । कीदृशेभ्यः । ऊर्ध्वबर्हिभ्यः ऊर्ध्वं प्रागग्रं बर्हिर्येषां ते ऊर्ध्वबर्हिषः तेभ्यः । सोमपाभ्य इत्यर्थः । तथा घर्मपावभ्यः घर्म पिबन्ति घर्मपावानः तेभ्यः स्वाहा । द्यावापृथिवीशब्देन प्राणोदानावुच्येते ताभ्यां सुहुतमस्तु । 'प्राणोदानौ वै द्यावापृथिवी प्राणोदानावेवास्मिन्नेतद्दधाति' (१४ । २ । २ । ३६) इति श्रुतिः । विश्वेभ्यो देवेभ्यः स्वाहा । 'प्राणा वै विश्वेदेवाः प्राणानेवास्मिन्नेतद्दधाति' (१४ । २ । २ । ३७) इति श्रुतिः ॥१५॥

षोडशी।
स्वाहा॑ रु॒द्राय॑ रु॒द्रहू॑तये॒ स्वाहा॒ सं ज्योति॑षा॒ ज्योति॑: ।
अह॑: के॒तुना॑ जुषताᳪं᳭ सु॒ज्योति॒र्ज्योति॑षा॒ स्वाहा॑ ।
रात्रि॑: के॒तुना॑ जुषताᳪं᳭ सु॒ज्योति॒र्ज्योति॑षा॒ स्वाहा॑ ।
मधु॑ हु॒तमिन्द्र॑तमे अ॒ग्नाव॒श्याम॑ ते देव॒ घर्म॒ नम॑स्ते अस्तु॒ मा मा॑ हिᳪं᳭सीः ।। १६ ।।
उ० स्वाहा रुद्राय रुद्रहूतये । रुद्र इति स्तोतृनामसु पठितम् । रुद्रैः स्तोतृभिराहूयते स रुद्रहूतिः महावीरादुपयमन्यां प्रत्यानयति । स्वाहा संज्योतिषा ज्योतिः स्वाहा संगच्छतां ज्योतिषा ज्योतिः । 'ज्योतिर्वा इतरस्मिन्वायौ भवति ज्योतिरितरस्याम्' इति श्रुतिः । अहः केतुना रात्रिः । केतुना इति च व्याख्यातम् । भक्षयति मधु हुतम् यस्मान्मधु उत्कटरसं हुतम् । क्व । इन्द्रतमे इन्द्रियवत्तमे वीर्यवत्तमे । अग्नौ तवास्माभिः अतएव शिष्टम् अश्याम व्याप्नुयाम भक्षयामः । ते तवांशम् । हे देव घर्म, सर्वथा नमस्ते अस्तु । मामाहिंसीरित्यात्मनः परित्राणमाह ॥ १६ ॥
म० 'सप्तमं च सर्वलेपाक्तं दक्षिणेक्षमाणः प्रतिप्रस्थात्रे प्रयच्छति' ( का० २६ । ६ । १५)। मूलाग्रावधि घर्मघृताभ्यक्तं सप्तमं शकलं दक्षिणं पश्यन्प्रतिप्रस्थात्रे ददातीत्यर्थः । रुद्र इति स्तोतृनामसु पठितम् । रुद्रैः स्तोतृभिर्हूयते आहूयत इति रुद्रहूतिः तस्मै स्तोतृस्तुताय रुद्राय सुहुतमस्तु । एवं सप्तयजुषां मध्ये चतुर्थसप्तमयोर्विनियोग उक्तः शेषैः पञ्चशकलैराज्यहोमः (का० २६ । ६ । १७)। स्वाहा संज्योतिषेत्युपयमन्यामासिञ्चति घर्म्यं घर्मसंबन्धि घृतमुपयमन्यामासिञ्चति । पूर्वं स्रुक्स्थं घर्मे नीतमधुना घर्मस्थं स्रुचि नयतीत्यर्थः । पयोदेवत्यं यजुरनुष्टुप् । ज्योतिः घर्मस्थं घृतं ज्योतिषोपयमनीस्थेन घृतेन सङ्गच्छतां स्वाहा सुहुतमस्तु । ज्योतिर्वा इतरस्मिन् पयो भवति ज्योतिरितरस्यां ते ह्येतदुभे ज्योतिषी सङ्गच्छेते, (१४ । २ । २ । ४० ) इति श्रुतेः पयो देवता । 'मन्त्रक्रमेणोत्तरᳪं᳭ रौहिणं जुहोति' ( का० २६ । ६ । १८) । उत्तरं रौहिणं मन्त्रक्रमेण संज्योतिषा ज्योतिरेतन्मन्त्रकर्मणोऽनन्तरं जुहोतीत्यर्थः । अहः केतुना । व्याख्याते यजुषी ( अ०३७।क० २१)। 'अग्निहोत्रावृता हुत्वा वाजिनवद्भक्षयन्ति मधु हुतमिति' ( का० २६ । ६ । २०)। उपयमन्यामानीतं घर्माज्यमग्निहोत्रहोमप्रकारेण समन्त्रकं हुत्वा वाजिनवदुपहवप्रार्थनपूर्वकं भक्षयन्ति होत्रध्वर्युब्रह्मप्रस्तोतृप्रतिप्रस्थात्रग्नीद्यजमानाः । घर्मदेवत्यम् ऋग्बृहती । अग्नौ मधु मधुरं घर्माज्यं हुतमस्माभिः । कीदृशेऽग्नौ । इन्द्रतमे इन्द्रं वीर्यमस्यास्ति इन्द्रवान् अत्यन्तमिन्द्रवानिन्द्रतमः । वत्प्रत्यये लोपः वीर्यवत्तमे इत्यर्थः । 'मधु हुतमिन्द्रियवत्तमेऽग्नावित्येवैतदाह' (१४ । २ । २ । ४२) इति श्रुतेः । हे घर्म हे देव, ते तव हुतशेषमंशं वयमश्याम भक्षयाम । अश्नोतेर्विकरणव्यत्ययेन 'बहुलं छन्दसि' (पा०२। ४ । ७३ ) इति शपो लुक् । लिङि उत्तमबहुवचने । ते तुभ्यं नमोऽस्तु मा मां हिंसीः आत्मनः परित्राणमर्थ्यते ॥ १६ ॥

सप्तदशी।
अ॒भीमं म॑हि॒मा दिवं॒ विप्रो॑ बभूव स॒प्रथा॑: ।
उ॒त श्रव॑सा पृथि॒वीᳪं᳭ सᳪं᳭ सी॑दस्व म॒हाँ२ अ॑सि॒ रोच॑स्व देव॒वीत॑मः ।
वि धू॒मम॑ग्ने अरु॒षं मि॑येध्य सृ॒ज प्र॑शस्त दर्श॒तम्।। १७ ।।
उ० महावीरमासंद्यां करोति । अभीमम् गायत्रीबृहत्यौ । नच गायत्र्या अवसानमस्ति अतिशक्वरी वा आग्नेयी अभिबभूव अभिभवति इमं दिवं महिमा यस्य तव । कथंभूतः। विप्रः मेधावी। सप्रथाः सर्वतः पृथुः। महिम्नो विशेषणद्वयम्। | तं त्वां ब्रवीमि उत श्रवसा अपिच धनेन श्रवणीयेन वा यशसा । पृथिवीम् अभिबभूवेत्यनुषङ्गः । संसीदस्वेति व्याख्यातम् । रोचस्व दीप्यस्वेत्यनर्थान्तरम् ॥ १७ ॥
म० 'अभीममिति महावीरम्' ( का० २६ । ६ । २५)। प्रचरणीयं घर्ममासन्द्यां करोति मन्त्रेणेतराणि तूष्णीम् ततः शान्तिपाठ इत्यर्थः । गायत्रीबृहत्यौ मध्येऽवसानहीने अभीमं गायत्री संसीदस्व बृहती यद्वावसानत्रयोपेतातिशक्वरी षष्ठ्यक्षराग्निदेवत्या एकैव ऋक् ऋग्द्वयं वेत्यर्थः । हे अग्ने, तव महिमा इमं दिवमभिबभूव अभिभवति 'छन्दसि लुङ्लिङ्लिटः' (पा० ३। ४। ६) दिवशब्दः पुंलिङ्गः अर्धर्चादित्वात् । कीदृशो महिमा । विप्रः विशेषेण प्राति पूरयति सर्वमिति विप्रो मेधावी । सप्रथाः प्रथनं प्रथो विस्तारस्तेन सहितः सप्रथाः । उतापि च श्रवसा धनेन यशसा वा पृथिवीमभिभवतीत्यनुषङ्गः । संसीदस्वेति व्याख्यातैकादशेऽध्याये सप्तत्रिंशी कण्डिका । तत्र शोचस्वेति पाठेऽत्र रोचस्वेति अर्थ एक एव ॥ १७ ॥

अष्टादशी।
या ते॑ घर्म दि॒व्या शुग्या गा॑य॒त्र्याᳪं᳭ ह॑वि॒र्धाने॑ ।
सा त॒ आ प्या॑यतां॒ निष्ट्या॑यतां॒ तस्यै॑ ते॒ स्वाहा॑ ।
या ते॑ घर्मा॒न्तरि॑क्षे॒ शुग्या त्रि॒ष्टुभ्याग्नी॑ध्रे ।
सा त॒ आप्या॑यतां॒ निष्ट्या॑यतां॒ तस्यै॑ ते॒ स्वाहा॑ ।
या ते॑ घर्म पृथि॒व्याᳪं᳭ शुग्या जग॑त्याᳪं᳭ सद॒स्या॒ ।
सा त॒ आ प्या॑यतां॒ निष्ट्या॑यतां॒ तस्यै॑ ते॒ स्वाहा॑ ।। १८ ।।
उ० इत उत्तरे उत्सादनमन्त्राः । शालाकेषु जुहोति । या ते तव हे घर्म, दिव्या दिविभवा द्युलोकं प्रविष्टा । शुक् दीप्तिः । या च गायत्र्यां प्रविष्टा । या च हविर्धाने प्रविष्टा । सा ते तव आप्यायतां वर्धताम् । निष्ट्यायताम् | 'स्त्यै ष्ट्यै शब्दसंघातयोः' । निष्ठ्याना संहता भवतु । तस्यै शुचे तुभ्यं च हे घर्म, स्वाहा । या ते अन्तरिक्षे त्रिष्टुभि आग्नीध्रे । समानमन्यत् । या ते पृथिव्याम् जगत्याम् । सदस्या सदसि भवा सदस्या । सदसि प्रविष्टा । समानमन्यत् ॥ १८॥ ।
म० 'चतुर्ग्रहीतेनाभिजुहोति या ते घर्म दिव्या शुगिति प्रतिमन्त्रम्' ( का० २६ । ७ । ४) । अध्वर्युराज्यं संस्कृत्य चतुर्गृहीतं कृत्वा तेन जुहोति अग्नीधा ध्रियमाणेषु त्रिषु शलाकात्रिकेषु त्रिभिर्मन्त्रैस्तृतीयेनोपविश्येत्यर्थः । त्रीणि यजूंषि घर्मदेवत्यानि ऋक्पङ्क्तयः । हे घर्म, या ते तव दिव्या दिवि भवा शुक् दीप्तिः या गायत्र्यां छन्दसि प्रविष्टा या हविर्धाने यज्ञगृहे प्रविष्टा सा ते तव शुक् आप्यायतां वर्धताम् । निष्याय यतां संहता दृढा भवतु । 'ष्ठ्यै स्त्यै शब्दसङ्घातयोः' लोट् । तस्यै शुचे ते तुभ्यं च स्वाहा । हे घर्म, याते तवान्तरिक्षे शुक् त्रिष्टुभिः छन्दसि अग्नीध्रसदने च प्रविष्टा सा त इति पूर्ववत् । या ते हे घर्म, पृथिव्यां शुक् जगत्यां छन्दसि प्रविष्टा । कीदृशी। सदस्या सदसि प्रविष्टा यज्ञगृहे स्थिता सा त इत्युक्तम् ॥१८॥

एकोनविंशी ।
क्ष॒त्रस्य॑ त्वा प॒रस्पा॑य॒ ब्रह्म॑णस्त॒न्वं॒ पाहि ।
विश॑स्त्वा॒ धर्म॑णा व॒यमनु॑ क्रामाम सुवि॒ताय॒ नव्य॑से ।। १९ ।।
उ० निष्क्रामति । क्षत्रस्य त्वा महावीरोऽभिधीयते बृहत्या । क्षत्रस्य संबन्धिनः परस्पाय परस्य पालनाय । हे महावीर, अनुक्रामामेति चतुर्थपादे भविष्यति तस्येह संबन्धः । अनुक्रामाम । किंच ब्रह्मणः तन्वं शरीरं पाहि गोपाय । किंच विशः । यज्ञो वै विशः । यज्ञस्य धर्मणा धारणेन निमित्तभूतेन त्वा त्वाम् हे महावीर, वयम् अनुक्रामाम अनुगच्छेम । सुविताय सुगताय सुप्रसूताय वा। नव्यसे नवतराय च कर्मणे अनुक्रामाम ॥ १९॥
म० 'क्षत्राय त्वेति निष्क्रमणं पुरस्तात्पत्नीमन्तर्धाय' ( का० २६ । ७ । ६ )। होमानन्तरमध्वर्युः पत्नीमग्रे कृत्वा शालाया निष्क्रामतीत्यर्थः । उपरिष्टाद्बृहती धर्मदेवत्या । हे घर्म, वयं त्वा त्वामनुक्रामाम अनुगच्छाम । त्वं ब्रह्मणः तन्वं शरीरं पाहि पालय । किमर्थमनुगमनम् । क्षत्रस्य क्षत्रियस्य दैवस्य सूर्यस्य परस्पाय परमपालनाय । परःशब्दोऽव्ययम् । पर उत्कृष्टं पायते रक्ष्यत इति परस्पं तस्मै । 'एतद् वै दैवं क्षत्रं य एष तपति' ( १४ । ३।१।९) इति श्रुतेः। किंच विशः यज्ञस्य धर्मणा धारणेन निमित्तेन वयं त्वामनुक्रामाम 'यज्ञो वै विट्यज्ञस्य त्वारिष्ट्यै' ( १४ । ३ । १ । ९) इति श्रुतेः । किमर्थम् । नव्यसे सुविताय नवीयसे नूतनाय सुगताय सुप्रसूताय कर्मणे कर्मसिद्ध्यर्थं त्वामनुगच्छामेत्यर्थः । सुष्ठु इतं सुवितम् 'इण् गतौ' क्तः उपसर्गस्योवङादेशः । यद्वा 'षू प्रेरणे' सूयते प्रेर्यते सुवितम् इडागमे धातोरुवङ् ॥ १९ ॥

विंशी।
चतु॑: स्रक्ति॒र्नाभि॑र्ऋ॒तस्य॑ स॒प्रथा॒: स नो॑ वि॒श्वायु॑: स॒प्रथा॒: स न: स॒र्वायु॑: स॒प्रथा॑: ।
अप॒ द्वेषो॒ अप॒ ह्वरो॒ऽन्यव्र॑तस्य सश्चिम ।। २० ।।
उ० महावीरं निदधाति । चतुःस्रक्तिः । दिशो महावीरस्य स्रक्तयः कोणः । यः चतुःस्रक्तिः । यश्च नाभिः नहनम् ऋतस्य सत्यस्य वा यज्ञस्य वा । एवं सप्रथाः सर्वतः पृथुः । सः नः अस्माकम् विश्वायुः सर्वस्यायुषः दाता । सप्रथाः सर्वतश्च प्रथयिता अस्तु । स नः सर्वायुः सप्रथाः। अभ्यासे भूयांसमर्थं मन्यन्ते । त्वत्प्रसादाच्च अपद्वेषः अपगच्छतु द्वेषः अस्मत्तः । वीतरागाः स्यामेत्यभिप्रायः । अपह्वरः । 'ह्वर ह्मल चलने' । अपगच्छतु ह्वरः चलनम् अस्मत्तः । जनित्वा म्रियते मृत्वा जायते इत्येतच्चलनमभिप्रेतम् । अन्यव्रतस्य सश्चिम अन्यत् व्रतं कर्म यस्य मनुष्यकर्मणः सकाशाज्जगदनुग्रहात्मकं यस्य स तथोक्तः । तस्य कर्म वयं सेवामहे सायुज्यं प्राप्ताः सन्तः ॥ २० ॥
म० 'नाभिस्पृशं प्रवृञ्जनीयं निदधाति चतुःस्रक्तिरिति' । ( का० २६ । ४ । १४ ) प्रवृञ्जनीयं महावीरमुत्तरवेदौ नाभिलग्नं स्थापयतीत्यर्थः । महाबृहती घर्मदेवत्या । स घर्मो नोऽस्माकं सर्वायुरस्तु सर्वं पूर्णमायुर्यस्मात्स सर्वायुः । पूर्णायुःप्रदोऽस्त्वित्यर्थः । पुनरुक्तिरादरार्था । कीदृशः सः । चतुःस्रक्तिः चतस्रः स्रक्तयः कोणा दिग्रूपा यस्य सः । 'एष वै चतुःस्रक्तिर्य एष तपति दिशो ह्येतस्य स्रक्तयः' (१४ । ३ । १ । १७) इति श्रुतेः । तथा ऋतस्य सत्यस्य यज्ञस्य वा नाभिः नहनं बन्धनस्थानम् । सप्रथाः सविस्तारः । विश्वायुः विश्वस्य जगतः आयुर्यस्मात् जगत आयुर्दाता । सप्रथाः सर्वतः प्रथयिता च । हे घर्म, त्वत्प्रसादात् द्वेषः अपगच्छत्विति शेषः । अस्मत्तो द्वेषः गच्छतु वीतरागाः स्यामेति भावः । 'ह्वर चलने' ह्वरः चलनं जन्ममरणलक्षणं चास्मत्तोऽपगच्छतु । वयमन्यव्रतस्य सश्चिम अन्यत् मनुष्यकर्मणः सकाशाद्भिन्नं व्रतं कर्म जगदनुग्रहरूपं यस्य सोऽन्यव्रतः परमात्मा तस्य । कर्मणि षष्ठी । 'सश्च सेवने' धातुः । अन्यव्रतं परमात्मानं सेवामहे सायुज्यं प्राप्नुम इति भावः । 'अन्यद्वा एतस्य व्रतमन्यन्मनुष्याणाम्' (१४ । ३।१।१९) इति श्रुतेः ॥ २० ॥

एकर्विशी।
घर्मै॒तत्ते॒ पुरी॑षं॒ तेन॒ वर्ध॑स्व॒ चा च॑ प्यायस्व । व॒र्धि॒षी॒महि॑ च व॒यमा च॑ प्यासिषीमहि ।। २१ ।।
उ० पयसा पूरयति । घर्मैतत् । अनुष्टुप् । घर्म उच्यते । हे घर्म, एतत् पयः ते तव पुरीषं पूरयितृ । तेन वर्धस्वेत्यादिव्याख्यातम् ॥ २१ ॥
म० 'आसेचनवन्ति पयसः पूरयति घर्मैतत्त इति' ( का० २६ । ७ । ३२ )। आसेचनं गर्तः तद्युतानि पात्राणि दुग्धेन पूरयति तानि सप्त महावीरत्रयं द्वे पिन्वने उपयमनो स्रुवश्चेत्यर्थः । अनुष्टुप् घर्मदेवत्या । हे घर्म, एतत्पयः ते तव पुरीषम् पृणाति पूरयति पुरीषं पूरयितृ अन्नम् 'अन्नं वै पुरीषमन्नमेवास्मिन्नेतद्दधाति' ( १४ । ३ । १ । २३ ) इति श्रुतेः । तेन पयसा वर्धस्व आप्यायस्व च । भवत्प्रसादाद्वयं वर्धिषीमहि आप्यासिषीमहि चेति व्याख्यातम् ( अ० २ । क० १४ ) ॥२१॥

द्वाविंशी।
अचि॑क्रद॒द्वृषा॒ हरि॑र्म॒हान्मि॒त्रो न॑ दर्श॒तः । सᳪं᳭ सूर्ये॑ण दिद्युतदुद॒धिर्नि॒धिः ।। २२ ।।
उ० परिषिञ्चति । अचिक्रदत् परोष्णिक् । घर्मात्मनादित्यः स्तूयते । योऽयं महावीरः प्रवृज्यमानः अचिक्रदत् । क्रन्दतिः शब्दार्थः । पुनःपुनः शब्दमकरोत् । वृषा वर्षिता आहुतिपरिणामद्वारेण । हरिः हरितवर्णः हर्ता वा रसानाम् महान् प्रभावतः । मित्रोन दर्शतः मित्रइव दर्शनीयः। मित्रो हि सर्वस्यैव मित्रम् । संसूर्येण दिद्युतत् संगत्य सूर्येण सह द्योतते समानइव । उदधिः उदकधारणः । निधिश्च सुखानाम् ॥ २२॥
म० 'त्रिः परिषिच्याचिक्रददिति' (का० २६ । ७ । १२)। सामगानान्तरमुत्सादनदेशे परिषिच्य वक्ष्यमाणं करोतीत्यर्थः । परोष्णिक् घर्मदेवत्या । घर्मः सूर्यात्मना स्तूयते । वृषा आहुतिद्वारेण वृष्टिकर्ता घर्मः प्रवृज्यमानः सन् अचिक्रदत् 'क्रदि शब्दे' पुनः पुनः शब्दमकरोत् । कीदृशः । हरिः हरितवर्णः रसानां हर्ता वा 'एष वै वृषा हरिर्य एष तपत्येष उ प्रवर्ग्यः' (१४ । ३ । १।२६) इति श्रुतिः । महान् प्रभावान् । मित्रो न दर्शतः । न उपमार्थः । मित्र इव दर्शनीयः । अतएव सूर्येण सह स दिद्युतत् सूर्यतुल्यो द्योतते । द्युतेर्लुङि णिजन्तस्य रूपमडभावः । सूर्यवत् सर्वं द्योतयतीत्यर्थः । उदधिः उदकं धीयते यस्मिन् । जलस्य धर्ता निधिः सुखानामिति शेषः । सुखनिधिः ॥ २२ ॥

त्रयोविंशी।
सु॒मि॒त्रि॒या न॒ आप॒ ओष॑धयः सन्तु दुर्मित्रि॒यास्तस्मै॑ सन्तु॒ योऽस्मान् द्वेष्टि॒ यं च॑ व॒यं द्वि॒ष्मः ।। २३ ।।
उ० सुमित्रिया न उद्वयमेधोऽसीति व्याख्यातास्त्रयो मन्त्राः ॥ २३ ॥ २४ ॥ २५ ॥
म० 'चात्वाले मार्जयन्ते सपत्नीकाः सुमित्रिया न इति' ( का० २६ । ७।३७)। सपत्नीका ऋत्विग्यजमानाः चात्वाले मार्जनं कुर्वते । पत्न्या अपि मन्त्रपाठः व्याख्याता (अ० ६ । क. २२ ) ॥ २३ ॥

चतुर्विंशी।
उद्व॒यं तम॑स॒स्परि॒ स्व: पश्य॑न्त॒ उत्त॑रम् । दे॒वं दे॑व॒त्रा सूर्य॒मग॑न्म॒ ज्योति॑रुत्त॒मम् ।। २४ ।।
म० 'उद्वयमित्युत्क्रामत्युत्तरपूर्वार्धम्' ( का० २६ । ७। ३८ ) । ऐशानीं दिशं प्रति यजमानो गच्छतीत्यर्थः । व्याख्याता ( अ० २० । क० २१) ॥ २४ ॥

पञ्चविंशी।
एधो॑ऽस्येधिषी॒महि॑ स॒मिद॑सि॒ तेजो॑ऽसि॒ तेजो॒ मयि॑ धेहि ।। २५ ।।
म० 'अनपेक्षमेत्यैधोऽसीति समिधमादायाहवनीयेऽभ्यादधाति समिदसीति' (का० २६ । ७ । ३५)। यजमानः पश्चादनवलोकयन्नीशानदेशादेत्यैधोऽसीति मन्त्रेणैकां समिधं गृहीत्वा समिदसीति मन्त्रेणाहवनीये दधातीत्यर्थः । मन्त्रद्वयं व्याख्यातम् ( अ० २० । क० २३ ) ॥ २५ ॥

षड्विंशी।
याव॑ती॒ द्यावा॑पृथि॒वी याव॑च्च स॒प्त सिन्ध॑वो वितस्थि॒रे ।
ताव॑न्तमिन्द्र ते॒ ग्रह॑मू॒र्जा गृ॑ह्णा॒म्यक्षि॑तं॒ मयि॑ गृह्णा॒म्यक्षि॑तम् ।। २६ ।।
उ० दधिघर्मग्रहणम् । यावती द्यावापृथिवी । महाबृहती ऐन्द्री । यावती यावत्परिमाणे द्यावापृथिव्यौ । यावच्च क्षेत्रं सप्तसिन्धवः सप्तसमुद्राः वितस्थिरे व्याप्नुवन्ति । तावन्तम् हे इन्द्र, ते तव ग्रहम् ऊर्जां अन्नेन सह गृह्णामि । अक्षितमनुपक्षीणं मयि गृह्णामि । मयीत्यधिकरणनिर्देशः। विज्ञानायेति शेषः । गृह्णामीत्यादिव्याख्यातम् ॥ २६ ॥
म०. 'यावती द्यावापृथिवी इति दधिघर्मग्रहणम्' (का० | २। ६ । ७ । ५४ ) । सपवित्रायामग्निहोत्रहवण्यां दधिघर्मं गृह्णातीत्यर्थः । ब्राह्मी उष्णिक दधिघर्मदेवत्या इन्द्रदेवत्या च । हे इन्द्र, ऊर्जा अन्नेन सह अक्षितमनुपक्षीणं ते तव ग्रहं तावन्तं तत्परिमाणमहं गृह्णामि । मयि च अक्षितं यथा स्यात्तथा गृह्णामि। तव ग्रहग्रहणेन मयि यज्ञक्षयो मास्त्वित्यर्थः । तावन्तं कियन्तम् । द्यावापृथिवी यावती द्यावाभूमी यत्परिमाणे। च पुनः सप्त सिन्धवः सप्त समुद्राः क्षीरोदाद्याः यावत् यत्परिमाणे देशे | वितस्थिरे विशेषेण स्थिताः तावन्तमतिमहत्तरं दधिघर्मं गृह्णामीत्यर्थः ॥ २६॥

सप्तविंशी।
मयि॒ त्यदि॑न्द्रि॒यं बृ॒हन्मयि॒ दक्षो॒ मयि॒ क्रतु॑: ।
घ॒र्मस्त्रि॒शुग्वि रा॑जति वि॒राजा॒ ज्योति॑षा स॒ह ब्रह्म॑णा॒ तेज॑सा स॒ह ।। २७ ।।
उ० भक्षयति । मयि त्यत् पङ्क्तिः यजमानाशीः । मयि त्यत् तत् इन्द्रियं वीर्यम् बृहत् महत् अस्तु । मयि च दक्षः संकल्पसंपत्तिः अस्तु । मयि च क्रतुः संकल्पः विशिष्टोऽस्तु । मयि च घर्मः त्रिशुक् तिस्रः शुचोऽस्येति त्रिशुक् । ताश्च व्याख्याताः शाकलमन्त्रेषु । विराजति विराजत्विति लकारव्यत्ययः । विराजा आदित्याख्येन ज्योतिषा सह ब्रह्मणा त्रय्याख्येन तेजसा सह ॥ २७ ॥
म० 'मयि त्यदिति भक्षणम्' ( का० २६ । ७ । ५५)। हुतशेषं दधिघर्मं यजमानर्त्विजः सोपहवं भक्षयन्तीत्यर्थः। पङ्क्तिः अष्टाक्षरपञ्चपादा दधिघर्मदेवत्या यजमानाशीर्देवतेति केचित् । बृहत् महत् त्यत् तत् इन्द्रियं प्रसिद्धं वीर्यं मयि विराजति | विराजतु लकारव्यत्ययः । दक्षः संकल्पसिद्धिः मयि विराजतु । क्रतुः सत्संकल्पो मयि विराजतु । विशेषेण राजते विराट् तेन जगत्प्रसिद्धेन ज्योतिषा तेजसा आदित्याख्येन सह ब्रह्मणा त्रयीलक्षणेन ज्योतिषा च सह घर्मो मयि विराजतु । कीदृशो घर्मः । त्रिशुक् तिस्रः शुचः दीप्तयो यस्य सः तास्तिस्रः शुचो या ते घर्म दिव्या शुगित्यष्टादश्यां कण्डिकायां शालाकमन्त्रे व्याख्याताः ॥ २७ ॥

अष्टविंशी।
पय॑सो॒ रेत॒ आभृ॑तं॒ तस्य॒ दोह॑मशीम॒ह्युत्त॑रामुत्तरा॒ᳪं᳭ समा॑म् ।
त्विष॑: सं॒वृक् क्रत्वे॒ दक्ष॑स्य ते सुषु॒म्णस्य॑ ते सुषुम्णाग्निहु॒तः ।
इन्द्र॑पीतस्य प्र॒जाप॑तिभक्षितस्य॒ मधु॑मत॒ ऽ उप॑हूत॒ ऽ उप॑हूतस्य भक्षयामि ।। २८ ।।
 इति माध्यन्दिनीयायां वाजसनेयिसंहितायां अष्टत्रिंशोऽध्यायः ॥ ३८ ॥
उ० किंच । पयसो रेतः पयसः यत् रेतः जगदुत्पत्तिबीजम् । आभृतमाहृतम् तस्य दोहं प्रपूरणम् । अशीमहि व्याप्नुयाम । उत्तरामुत्तरां समाम् । उत्तरामुत्तरामिति वीप्सावचनम् । समाशब्दः संवत्सरवचनः । प्रतिसंवत्सरं च अशीमहि । सदाकालं यायजूकाः स्यामेत्यर्थः। त्विषः संवृक् महाव्रतीये भक्षणं दधिघर्मस्य । यस्त्वं त्विषः दीप्तेः संवृक् । संपूर्वो वृजिः स्वीकरणे वर्तते । दीप्तेः स्वीकरणः । तस्य तव । क्रत्वे क्रत्वोरिति विभक्तिव्यत्ययः । साधुक्रतुभूतस्य । दक्षस्य संकल्पसिद्धिभूतस्य च । सुषुम्णस्य साधुसुखभूतस्य । हे सुषुम्ण सुसुखस्वभाव, ते सुषुम्णाग्निहुतः । षष्ठ्यन्तमेतत् । अग्नौ हूयत इत्यग्निहुत् तस्याग्निहुतः । अपिच इन्द्रपीतस्य प्रजापतिभक्षितस्य । मधुमतः रसवतः उपहूतः उपहूतस्य ग्रहस्य भक्षयामि ॥ २८॥
इति उवटकृतौ मन्त्रभाष्येऽष्टत्रिंशत्तमोऽध्यायः ॥ ३८ ॥
म०. गायत्र्यवसानहीना दधिघर्मभक्षणे एवं विनियुक्ता । पयसो रेतो वीर्यं सारं जगदुत्पत्तिबीजं यत् आभृतमाहृतम् दधिघर्मरूपं यत् तस्य दोहं प्रपूरणं वयमुत्तरामुत्तरां समामुत्तरोत्तरस्मिन् वर्षे अशीमहि व्याप्नुयाम 'कालाध्वनोः-(पा० २।३।५) इति द्वितीया । वयं सर्वदा यायजूकाः स्यामेत्यर्थः। 'त्विषः संवृगिति महाव्रतीये' ( का० २६ । ७।५६) महाव्रतीयेऽहनि त्विष इति मन्त्रेण हुतशेषदधिघर्मभक्षणं कार्यमित्यर्थः । अतिजगती दधिघर्मदेवत्या । संवृणक्ति स्वीकरोतीति संवृक् स्वीकर्ता । संपूर्वो वृजिः स्वीकरणार्थः । हे त्विषः संवृक् कान्तेः स्वीकर्तः, हे सुषुम्ण, शोभनं सुम्नं सुखं यस्मात् सुषुम्णः तत्संबोधनम् हे सुखदातः, हे दधिघर्म, अहमुपहूतः कृतोपहवः सन् ते तवांशं भक्षयामि । कर्मणि षष्ठी वा । त्वां भक्षयामि । एकस्तेशब्दः पादपूरणः । कीदृशस्य ते । क्रत्वे दक्षस्य । चतुर्थी षष्ठ्यर्थे । क्रतोः संकल्पस्य दक्षः सिद्धिदाता तस्य संकल्पसिद्धिदातुः । क्रतुशब्दस्य चतुर्थ्येकवचने गुणाभाव आर्षः । तथा सुषुम्णस्य शोभनसुखभूतस्य । अग्निहुतः अग्नौ हूयत इत्यग्निहुत् तस्य अग्नौ हुतस्य । इन्द्रपीतस्य इन्द्रेण पीतो भक्षितस्तस्य । प्रजापतिभक्षितस्य प्रजापतिना भक्षितस्तस्य । मधुमतः मधुरस्वादोपेतस्य । उपहूतस्य कृतोपहवस्य । एवंविधस्य तवांशं हे दधिघर्म, अहं भक्षयामीत्यर्थः । समाप्ता घर्मेतिकर्तव्यता ॥ २८ ॥
श्रीमन्महीधरकृते वेददीपे निरूपितः।
अष्टत्रिंशोऽयमध्यायो महावीरनिरूपणः ॥ ३८ ॥