शुक्लयजुर्वेदः/अध्यायः ३७

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← अध्यायः ३६ शुक्लयजुर्वेदः
अध्यायः ३७
[[लेखकः :|]]
अध्यायः ३८ →

अध्यायः 37
महावीर संभरणाभ्यादान मन्त्राः। अभ्र्यादि रौहिणान्तो अध्यायः

37.1
देवस्य त्वा सवितुः प्रसवे ऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्याम् ।
आ ददे नारिर् असि ॥

37.2
युञ्जते मन ऽ उत युञ्जते धियो विप्रा विप्रस्य बृहतो विपश्चितः ।
वि होत्रा दधे वयुनाविद् एक ऽ इन् मही देवस्य सवितुः परिष्टुतिः स्वाहा ॥

37.3
देवी द्यावापृथिवी मखस्य वाम् अद्य शिरो राध्यासं देवयजने पृथिव्याः ।
मखाय त्वा मखस्य त्वा शीर्ष्णे ॥

37.4
देव्यो वम्र्यो भूतस्य प्रथमजा मखस्य वो ऽद्य शिरो राध्यासं देवयजने पृथिव्याः ।
मखाय त्वा मखस्य त्वा शीर्ष्णे ॥

37.5
इयत्य् अग्रे ऽ आसीन् मखस्य ते ऽद्य शिरो राध्यासं देवयजने पृथिव्याः ।
मखाय त्वा मखस्य त्वा शीर्ष्णे ॥

37.6
इन्द्रस्यौज स्थ मखस्य वो ऽद्य शिरो राध्यासं देवयजने पृथिव्याः ।
मखाय त्वा मखस्य त्वा शीर्ष्णे मखाय त्वा मखस्य त्वा शीर्ष्णे मखाय त्वा मखस्य त्वा शीर्ष्णे ॥

37.7
प्रैतु ब्रह्मणस् पतिः प्र देव्य् एतु सूनृता ।
अच्छा वीरं नर्यं पङ्क्तिराधसं देवा यज्ञं नयन्तु नः ।
मखाय त्वा मखस्य त्वा शीर्ष्णे मखाय त्वा मखस्य त्वा शीर्ष्णे मखाय त्वा मखस्य त्वा शीर्ष्णे ॥

37.8
मखस्य शिरो ऽसि ।
मखाय त्वा मखस्य त्वा शीर्ष्णे ।
मखस्य शिरो ऽसि ।
मखाय त्वा मखस्य त्वा शीर्ष्णे ।
मखस्य शिरो ऽसि ।
मखाय त्वा मखस्य त्वा शीर्ष्णे ।
मखाय त्वा मखस्य त्वा शीर्ष्णे मखाय त्वा मखस्य त्वा शीर्ष्णे मखाय त्वा मखस्य त्वा शीर्ष्णे ॥

37.9
अश्वस्य त्वा वृष्णः शक्ना धूपयामि देवयजने पृथिव्याः ।
मखाय त्वा मखस्य त्वा शीर्ष्णे ।
अश्वस्य त्वा वृष्णः शक्ना धूपयामि देवयजने पृथिव्याः ।
मखाय त्वा मखस्य त्वा शीर्ष्णे ।
अश्वस्य त्वा वृष्णः शक्ना धूपयामि देवयजने पृथिव्याः ।
मखाय त्वा मखस्य त्वा शीर्ष्णे ।
मखाय त्वा मखस्य त्वा शीर्ष्णे मखाय त्वा मखस्य त्वा शीर्ष्णे मखाय त्वा मखस्य त्वा शीर्ष्णे ॥

37.10
ऋजवे त्वा ।
साधवे त्वा ।
सुक्षित्यै त्वा ।
मखाय त्वा मखस्य त्वा शीर्ष्णे मखाय त्वा मखस्य त्वा शीर्ष्णे मखाय त्वा मखस्य त्वा शीर्ष्णे ॥

37.11
यमाय त्वा ।
मखाय त्वा ।
सूर्यस्य त्वा तपसे ।
देवस् त्वा सविता मध्वानक्तु ।
पृथिव्याः सꣳस्पृशस् पाहि ।
अर्चिर् असि शोचिर् असि तपो ऽसि ॥

37.12
अनाधृष्टा पुरस्ताद् अग्नेर् आधिपत्य ऽ आयुर् मे दाः ।
पुत्रवती दक्षिणत ऽ इन्द्रस्याधिपत्ये प्रजां मे दाः ।
सुषदा पश्चाद् देवस्य सवितुर् आधिपत्ये चक्षुर् मे दाः ।
आस्रुतिर् उत्तरतो धातुर् आधिपत्ये रायस्पोषं मे दाः ।
विधृतिर् उपरिष्टाद् बृहस्पतेर् आधिपत्ये ऽ ओजो मे दाः ।
विश्वाभ्यो मा नाष्ट्राभ्यस् पाहि ।
मनोर् अश्वासि ॥

37.13
स्वाहा मरुद्भिः परि श्रीयस्व ।
दिवः सꣳस्पृशस् पाहि ।
मधु मधु मधु ॥

37.14
गर्भो देवानां पिता मतीनां पतिः प्रजानाम् ।
सं देवो देवेन सवित्रा गत सꣳ सूर्येण रोचते ॥

37.15
सम् अग्निर् अग्निना गत सं दैवेन सवित्रा सꣳ सूर्येणारोचिष्ट ।
स्वाहा सम् अग्निस् तपसा गत सं दैव्येन सवित्रा सꣳ सूर्येणारूरुचत ॥

37.16
धर्ता दिवो वि भाति तपसस् पृथिव्यां धर्ता देवो देवानाम् अमर्त्यस् तपोजाः ।
वाचम् अस्मे नि यच्छ देवायुवम् ॥

37.17
अपश्यं गोपाम् अनिपद्यमानम् आ च परा च पथिभिश् चरन्तम् ।
स सध्रीचीः स विषूचीर् वसान ऽ आ वरीवर्त्ति भुवनेष्व् अन्तः ॥

37.18
विश्वासां भुवां पते विश्वस्य मनसस् पते विश्वस्य वचसस् पते सर्वस्य वचसस् पते ।
देवश्रुत् त्वं देव घर्म देवो देवान् पाहि ।
अत्र प्रावीर् अनु वां देववीतये ।
मधु माध्वीभ्यां मधु माधूचीभ्याम् ॥

37.19
हृदे त्वा मनसे त्वा दिवे त्वा सूर्याय त्वा ।
ऊर्ध्वो ऽ अध्वरं दिवि देवेषु धेहि ॥

37.20
पिता नो ऽसि पिता नो बोधि नमस् ते ऽ अस्तु मा मा हिꣳसीः ।
त्वष्टृमन्तस् त्वा सपेम पुत्रान् पशून् मयि धेहि प्रजाम् अस्मासु धेह्य् अरिष्टाहꣳ सहपत्या भूयासम् ॥

37.21
अहः केतुना जुषताꣳ सुज्योतिर् ज्योतिषा स्वाहा ।
रात्रिः केतुना जुषताꣳ सुज्योतिर् ज्योतिषा स्वाहा ॥

भाष्यम्(उवट-महीधर)

महावीरः

सप्तत्रिंशोऽध्यायः।
तत्र प्रथमा ।
दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वेऽश्विनो॑र्बा॒हुभ्यां॑ पू॒ष्णो हस्ता॑भ्याम् । आ द॑दे॒ नारि॑रसि ।। १ ।।
उ० महावीरसंभरणं अभ्यादानम् । देवस्य स्वेति व्याख्यातम् । नारिरसीति विशेषः ॥ १॥
म०. 'देवस्य त्वेत्यभ्रिमादायौदुम्बरीं वैकङ्कतीं वारत्निमात्रीᳪं᳭ सव्ये कृत्वा दक्षिणेनालभ्य जपति युञ्जत इति' (का. | २६ । १ । ३)। उदुम्बरतरूत्थां विकङ्कततरूत्थां वा हस्तप्रमाणामभ्रिं देवस्य त्वा नारिरसीति मन्त्रेणादाय वामहस्ते तां कृत्वा दक्षिणहस्तेन स्पृष्ट्वा युञ्जते मन इति मन्त्रं जपतीति सूत्रार्थः । देवस्य त्वा । अभ्रिदेवत्यं यजुः । हे अभ्रे, सवितुर्दैवस्याज्ञायां स्थितोऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां त्वामाददे गृह्णामि । त्वं च नारिरसि स्त्रीनाम्नी भवसि । युञ्जते मनः । व्याख्याता [अ० ५। क० १४ ] ॥१॥२॥

द्वितीया।
यु॒ञ्जते॒ मन॑ उ॒त यु॑ञ्जते॒ धियो॒ विप्रा॒ विप्र॑स्य बृह॒तो वि॑प॒श्चित॑: ।
वि होत्रा॑ दधे वयुना॒विदेक॒ इन्म॒ही दे॒वस्य॑ सवि॒तुः परि॑ष्टुति॒: स्वाहा॑ ।। २ ।।
उ० आलभ्य जपति । युञ्जते मन इति व्याख्यातम् ॥२॥

तृतीया ।
देवी॑ द्यावापृथिवी म॒खस्य॑ वाम॒द्य शिरो॑ राध्यासं देव॒यज॑ने पृथि॒व्याः ।
म॒खाय॑ त्वा म॒खस्य॑ त्वा शी॒र्ष्णे ।। ३ ।।
उ० मृत्पिण्डान्परिगृह्णाति । देवी द्यावापृथिवी । हे देव्यौ द्यावापृथिव्यौ, मखस्य यज्ञस्य वां युवाम् उपादाय । मृदं चोदकं चादायेत्यर्थः । अद्य शिरः राध्यासम् । 'राध साध संसिद्धौ' संसाधयेयम् । देवयजने देवा अस्मिन्निज्यन्ते इति देवयजनम् । पृथिव्याः मखाय यज्ञाय त्वा परिगृह्णामि । ततोऽपि विशेषापेक्षायामाह । मखस्य शीर्ष्णे त्वां परिगृह्णामीति ॥३॥
म० द्यावापृथिवीदेवतं यजुः ब्राह्मी गायत्री । 'मृदमादत्ते पिण्डवद्देवी द्यावापृथिवी इति' ( का० २६ । १ । ४) अध्वर्युर्देवीति मन्त्रेण विघणं मृत्पिण्डमादत्ते पिण्डवदिति पाणिभ्यां गृह्णाति दक्षिणः साभ्रिरिति लभ्यत इति सूत्रार्थः । मन्त्रार्थस्तु हे देवी देव्यौ दीप्यमाने द्यावापृथिव्यौ, अद्यास्मिन्दिने पृथिव्याः देवयजने देवा इज्यन्ते अत्रेति देवयजनस्थाने मखस्य यज्ञस्य शिरो राध्यासं साधयेयम् 'राध साध संसिद्धौ'। महावीरो यज्ञशिराः । किं कृत्वा । वां युवां द्यावापृथिव्यौ आदायेति शेषः । दिवोंऽशं जलं पृथिव्यंशं मृदमादायेत्यर्थः । एवं द्यावापृथिव्यौ प्रार्थ्य मृदमाह । मखाय हे मृत् , यज्ञाय त्वां गृह्णामि । एवं सामान्येनोक्त्वा विशेषमाह । मखस्य यज्ञस्य शीर्ष्णे शिरसे महावीराय त्वां गृह्णामीति शेषः । तं मृत्पिण्डमुत्तरस्थापिते कृष्णाजिने निदध्यात् ॥ ३ ॥

चतुर्थी।
देव्यो॑ वम्र्यो भू॒तस्य॑ प्रथम॒जा म॒खस्य॑ वो॒ऽद्य शिरो॑ राध्यासं देव॒यज॑ने पृथि॒व्याः ।
म॒खाय॑ त्वा म॒खस्य॑ त्वा शी॒र्ष्णे ।। ४ ।।
उ० अथ वल्मीकवपां गृह्णाति । देव्यो वम्र्यः । हे देव्यः वम्र्यः । उपजिह्विकाः सीमका इति पर्यायाः । या यूयं भूतस्य प्रथमजाः । पृथिवी भूतानां प्रथमजा तत्संबन्धाद्वम्र्योऽपि प्रथमजा उच्यन्ते । मखस्य शिरः राध्यासम् अद्य वः ताः युष्मान् उपादायेति शेषः । देवयजन इत्यादि व्याख्यातम् ॥ ४॥
म० 'उत्तरतो देव्यो वम्र्य इति वल्मीकवपाम्' (का० २६ । १।५-६)। उपदीकृतो मृत्संचयो वल्मीकस्तस्य वपेव वपा तां मध्यस्थं लोष्टमादाय कृष्णाजिने मृत्पिण्डादुत्तरे तूष्णीं निदध्यादिति सूत्रार्थः । वल्मीकवपादेवता आर्षी पङ्क्तिः । हे देव्यो दीप्यमानाः वम्र्यः उपजिह्विकाः, वो युष्मानादाय पृथिव्याः देवयजने मखस्य शिरो महावीरमद्य राध्यासं संपादयेयम् । मखाय त्वामाददे मखस्य शीर्ष्णे त्वामाददे इति व्याख्यातम् । किंभूता वम्र्यः । भूतस्य प्राणिजातस्य प्रथमजाः प्रथमोत्पन्नाः पृथिवी जन्तूनां प्रथमजा तत्संबन्धात् वम्र्योऽपि प्रथमजा उच्यन्ते ॥ ४ ॥

पञ्चमी।
इय॒त्यग्र॑ आसीन्म॒खस्य॑ ते॒ऽद्य शिरो॑ राध्यासं देव॒यज॑ने पृथि॒व्याः ।
म॒खाय॑ त्वा म॒खस्य॑ त्वा शी॒र्ष्णे ।। ५ ।।
उ० वराहविहतमादत्ते । इयत्यग्रे युष्मदः संबन्धान्मध्यमोऽत्र पुरुषः । या त्वम् इयती प्रादेशमात्रा अभिनयेन निर्दिश्यते । अग्रे वराहस्योद्धरतः आसीत् आसीः अभूः । | 'इयती ह वा इयमग्रे पृथिव्यास प्रादेशमात्री' इत्युपक्रम्य - 'वराह उज्जघान' इत्याह । तां त्वां ब्रवीमि । मखस्य ते त्वामुपादाय अद्य शिरः राध्यासं देवयजने पृथिव्याः । मखाय त्वेति व्याख्यातम् ॥ ५॥
म० इयत्यग्र इति वराहविहतम्' ( का० २६ । १ । ७) वराहोत्खातमृदमादाय तूष्णीं कृष्णाजिने वल्मीकवपोत्तरे निदध्यादिति सूत्रार्थः । वराहविहतमृद्देवतं यजुः ब्राह्मी गायत्री। हे पृथिवि, भवती अग्रे आदौ वराहोद्धरणसमये इयती । प्रादेशमात्राभिनयेन प्रदर्श्यते । एतत्प्रमाणा आसीत् 'इयती ह वा इयमग्रे पृथिव्यास प्रादेशमात्री' (१४ । १।२। १२) इत्यादि 'वराह उज्जघाने' ति श्रुतेः। ते इति द्वितीयार्थे षष्ठी । तां त्वामादाय पृथिव्याः देवयजनेऽद्य मखस्य शिरो राध्यासम् । मखायेति व्याख्यातम् ॥ ५॥

षष्ठी।
इन्द्र॒स्यौज॑: स्थ म॒खस्य॑ वो॒ऽद्य शिरो॑ राध्यासं देव॒यज॑ने पृथि॒व्याः ।
म॒खाय॑ त्वा म॒खस्य॑ शी॒र्ष्णे । म॒खाय॑ त्वा म॒खस्य॑ त्वा शी॒र्ष्णे । म॒खाय॑ त्वा म॒खस्य॑ त्वा शी॒र्ष्णे ।। ६ ।।
उ० आदारानादत्ते । इन्द्रस्यौजःस्थ ये यूयं इन्द्रस्य ओजो भवथ । तान्युष्मान् अद्य उपादाय शिरः राध्यासमित्यादि व्याख्यातम् । अजाक्षीरमादत्ते । मखाय त्वेत्युक्तम् । संभृतानभिमृशति । मखाय त्वेत्युक्तम् ॥ ६ ॥
म० 'इन्द्रस्यौजः स्थेति पूतीकान्' (का० २६ । १।८)। पूतीकान् रोहिषतृणान्यादाय तूष्णीं कृष्णाजिने वराहविहतोत्तरे निदध्यादिति सूत्रार्थः । आदारदेवत्यमृक्त्रिष्टुप् । हे पूतीकाः, यूयमिन्द्रस्य ओजः तेजोरूपाः स्थ भवथ । वो युष्मानादाय पृथिव्याः देवयजने अद्य मखस्य शिरो राध्यासम् । मखाय वो गृह्णामि मखस्य शीर्ष्णे महावीराय च गृह्णामीत्युक्तम् । 'मखायेति पयः' (का० २६ । १ । ९) । पय आदाय तूष्णीं कृष्णाजिने पूतीकोत्तरे निदध्यादिति सूत्रार्थः । पयोदेवत्यम् । हे पयः, मखाय मखशीर्ष्णे त्वां गृह्णामि । तूष्णीं गवेधुका अपि ग्राह्याः । 'संभृतानभिमृशति मखायेति' (का० २६ । १।११)। संभृतान्संभारान्करेण स्पृशेदित्यर्थः । संभारदेवत्यम् । हे संभाराः, मखाय तच्छीर्ष्णे च वः स्पृशामि ॥ ६ ॥

सप्तमी ।
प्रैतु॒ ब्रह्म॑ण॒स्पति॒: प्र दे॒व्ये॒तु सू॒नृता॑ । अच्छा॑ वी॒रं नर्यं॑ प॒ङ्क्तिरा॑धसं दे॒वा य॒ज्ञं न॑यन्तु नः ।
म॒खाय॑ त्वा म॒खस्य॑ त्वा शी॒र्ष्णे । म॒खाय॑ त्वा म॒खस्य॑ त्वा शी॒र्ष्णे । म॒खाय॑ त्वा म॒खस्य॑ त्वा शी॒र्ष्णे ।। ७ ।।

उ० परिश्रितमभिगच्छन्तो जपन्ति । प्रैत्विति व्याख्यातम् । खरे सादयति । मखाय शिरोसीत्युक्तार्थम् । मृत्पिण्डमादाय महावीरं करोति । मखाय त्वेत्युक्तम् ॥ ७ ॥
म० 'कृष्णाजिनं परिगृह्योत्तरतः परिवृतं गच्छन्ति प्रैतु ब्रह्मणस्पतिरिति' (का० २६ । १ । १२) । अध्वर्युप्रतिप्रस्थात्रादयः कृष्णाजिनं समन्तादादाय प्रैत्विति जपन्तोऽन्तःपात्यादुत्तरे परिवृत्तं प्रति गच्छन्ति । पञ्चारत्निमितः समचतुरस्रः प्राग्द्वारः सिकतोपकीर्णः पूर्वमेव कृतः सप्तभूसंस्कारसंस्कृतश्छादितप्रदेशः परिवृत उच्यत इति सूत्रार्थः । वृहती व्याख्याता [अ० ३३ । क० ८९] । 'परिवृते निदधाति संभारानुद्धतावोक्षिते सिकतोपकीर्णे प्राग्द्वारे मखायेति' (का० २६।१।१३-१४)। अध्वर्युः कृष्णाजिनस्थानेव संभारान्परिवृते निदधाति । कीदृशे । उद्धतावोक्षिते उल्लिखितजलसिक्ते । एतत्संस्कारद्वयं पञ्चाधिकं सिकतायुक्ते प्राग्द्वारे चेति सूत्रार्थः । हे संभाराः, मखाय युष्मान्निदधामि । 'संभारैः सᳪं᳭सृजति मखायेति' ( का० २६ । १।१५)। गवेधुकाजापयसी पृथक्कृत्य वल्मीकवपादित्रिसंभारैर्मृत्पिण्डं मिश्रयतीत्यर्थः । हे संभाराः, युष्मान् मखाय मृत्पिण्डेन संसृजामि । 'मृदमादाय मखायेति महावीरं करोति प्रादेशमात्रमूर्ध्वमासेचनवन्तं मेखलावन्तं मध्यसंगृहीतमूर्ध्वं मेखलायास्त्र्यङ्गुलम्' (का० २६ । १ । १६)। महावीरपर्याप्तं तूष्णीं मृत्पिण्डमादाय मन्त्रेण महावीरं करोति । कीदृशम् । प्रादेशोच्चं गर्तवन्तं मेखलायुतं मध्ये संकुचितं मेखलोपरि त्र्यङ्गुलोच्चमिति सूत्रार्थः । हे महावीर, मखाय तच्छीर्ष्णे त्वां करोमि ॥ ७ ॥

अष्टमी।
म॒खस्य॒ शिरो॑ऽसि । म॒खाय॑ त्वा म॒खस्य॑ त्वा शी॒र्ष्णे ।
म॒खस्य॒ शिरो॑ऽसि । म॒खाय॑ त्वा म॒खस्य॑ त्वा शी॒र्ष्णे ।
म॒खस्य॒ शिरो॑ऽसि । म॒खाय॑ त्वा म॒खस्य॑ त्वा शी॒र्ष्णे ।
म॒खाय॑ त्वा म॒खस्य॑ त्वा शी॒र्ष्णे म॒खाय॑ त्वा म॒खस्य॑ त्वा शी॒र्ष्णे म॒खाय॑ त्वा म॒खस्य॑ त्वा शी॒र्ष्णे ।। ८ ।।
उ० निष्ठितमभिमृशति । मखस्य शिरोसीत्युक्तार्थम् । एवं द्वितीयतृतीयौ । गवेधुकाभिः श्लक्ष्णयति । मखाय त्वेति त्रिभिर्मन्त्रैस्त्रीन्महावीरान् ॥ ८ ॥
म०. 'निष्ठितमभिमृशति मखस्य शिर इति' (का० २६ । १। १७) । निष्पन्नं महावीरं वामकरस्थं दक्षिणेन स्पृशतीत्यर्थः । हे महावीर, त्वं मखस्य शिरो मूर्धासि भवसि । 'एवमितरौ प्रतिमन्त्रम्' (का० २६ । १।१९) । इतरौ द्वौ महावीरौ प्रतिमन्त्रमेवमेव करोति अभिमृशति चेत्यर्थः । मखाय द्वितीयं महावीरं करोमि । मखस्य निष्पन्नं स्पृशामि । मखाय तृतीयं महावीरं करोमि । मखस्येति निष्पन्नं स्पृशति । मखस्य शिरोऽसि मखाय त्वा मखस्य शीर्ष्णे त्वामभिमृशामि । 'गवेधुकाभिः श्लक्ष्णयति मखायेति प्रतिमन्त्रम्' (का० २६।१। | २२) गवेधुकाभिः महावीरान् घर्षणेन मृदून् करोति मखायेति । प्रतिमन्त्रमेकैकम् । मखाय मखस्य शीर्ष्णे च त्वां गवेधुकाभिः श्लक्ष्णयामि । एवमग्रिमौ मन्त्रौ ॥ ८ ॥

नवमी।
अश्व॑स्य त्वा॒ वृष्ण॑: श॒क्ना धू॑पयामि देव॒यज॑ने पृथि॒व्याः । म॒खाय॑ त्वा म॒खस्य॑ त्वा शी॒र्ष्णे ।
अश्व॑स्य त्वा॒ वृष्ण॑: श॒क्ना धू॑पयामि देव॒यज॑ने पृथि॒व्याः । म॒खाय॑ त्वा म॒खस्य॑ त्वा शी॒र्ष्णे ।
अश्व॑स्य त्वा॒ वृष्ण॑: श॒क्ना धू॑पयामि देव॒यज॑ने पृथि॒व्याः । म॒खाय॑ त्वा म॒खस्य॑ त्वा शी॒र्ष्णे ।
म॒खाय॑ त्वा म॒खस्य॑ त्वा शी॒र्ष्णे । म॒खाय॑ त्वा म॒खस्य॑ त्वा शी॒र्ष्णे । म॒खाय॑ त्वा म॒खस्य॑ त्वा शी॒र्ष्णे ।। ९ ।।
उ० अश्वशकृतावधूपयति । अश्वस्य त्वा त्वां हे महावीर, वृष्णः सेक्तुः । शक्ना शकृच्छब्दस्य शकन्नादेशः । धूपयामि देवयजने पृथिव्याः । मखाय त्वा मखस्य त्वा शीर्ष्णे । एवं द्वितीयतृतीयौ । श्रपयति त्रीन्महावीरान् त्रिभिर्मन्त्रैः मखाय त्वेति प्रतिमन्त्रम् ॥ ९॥
म० 'अश्वशकृता धूपयत्यश्वस्येति प्रतिमन्त्रम्' (का० २६। १।२३) । दक्षिणाग्निदीप्तेनाश्वपुरीषेण त्रिभिर्मन्त्रैस्त्रीन्महावीरान्धूपयेत् । एकैकधूपने सप्तसप्ताश्वशकृन्ति गृह्णाति । हे महावीर, पृथिव्याः देवयजने मखाय मखस्य शीर्ष्णे च वृष्णः सेक्तुरश्वस्य शक्ना शकृता पुरीषेण त्वा त्वां धूपयामि । 'पद्दन्न-' (पा० ६ । १ । ६३) इति सूत्रेण शकृच्छब्दस्य शकनादेशः। एवमितरमन्त्राभ्यामितरौ धूपयेत् । 'प्रदहनं च मखायेति प्रतिमन्त्रम्' (का० २६ । १ । २४) । मखायेति त्रिभिर्मन्त्रैस्त्रीन्महावीरानुखावच्छ्रपयेत् पिन्वनरोहिणैः सहेत्यर्थः । मखाय मखस्य शीर्ष्णे त्वा त्वां निर्दहामि । एवमितरौ ॥ ९ ॥

दशमी।
ऋ॒जवे॑ त्वा सा॒धवे॑ त्वा सुक्षि॒त्यै त्वा॑ । म॒खाय॑ त्वा म॒खस्य॑ त्वा शी॒र्ष्णे । म॒खाय॑ त्वा म॒खस्य॑ त्वा शी॒र्ष्णे । म॒खाय॑ त्वा म॒खस्य॑ त्वा शी॒र्ष्णे ।। १० ।।
उ० पक्वानुद्धरति । ऋजवे त्वेति प्रतिमन्त्रम् । ऋजवे त्वा । असौ वै लोक ऋजुः । सत्यमेव तत्र कौटिल्यरहितम् । सत्यं वा आदित्यः । ऋजवे त्वा आदित्याय त्वाम् उद्धरामीति शेषः । एष उ प्रथमः प्रवर्ग्यः । साधवे त्वा । अयं वै साधुर्वायुः । एष हीमान् लोकान् सिद्धोऽप्रतिहतः पवते । एष उ द्वितीयः प्रवर्ग्यः । सुक्षित्यै त्वा । अयं वै लोकः सुक्षितः। अस्मिन्हि लोके सर्वाणि भूतानि क्षियन्ति । अग्निर्हि वा सुक्षितः । अग्निर्हि अस्मिन् लोके सर्वाणि भूतानि परिगृह्य वसति । एष उ तृतीयः प्रवर्ग्यः । अजापयसा परिसिञ्चति महावीरान् मखाय त्वेति प्रतिमन्त्रम् ॥ १० ॥
महावीरसंभरणं समाप्तम् ।
म० 'पक्कानुद्धरत्यृजवे त्वेति प्रतिमन्त्रम्' (का० २६ । १।२५)। पक्वान्महावीरानापाकादिवोद्धरति त्रिभिर्मन्त्रैरित्यर्थः । ऋजवे । असौ लोक ऋजुः तत्र सत्यमेव नतु कौटिल्यम् । सत्यमादित्यः । हे महावीर, ऋजवे सत्यायादित्याय वा त्वामुद्वपामीति शेषः । तथाच श्रुतिः ‘स उद्वपत्यृजवे त्वेत्यसौ वै लोक ऋजुः सत्यᳪं᳭ह्यृजुः सत्यमेष य एष तपत्येष उ प्रथमः प्रवर्ग्यस्तदेतमेवैतत्प्रीणाति तस्मादाहर्जवे त्वा' ( १४ । १।२ । २२) इति । अथ द्वितीयम् । साधवे त्वा साधवे वायवेऽर्थाय वायुप्रीत्यै त्वामुद्वपामि । तथाच श्रुतिः 'साधवे त्वेत्ययᳪं᳭ साधुर्योऽयं पवत एष हीमान् लोकान् सिद्धोऽनुपवत एष उ द्वितीयः प्रवर्ग्यस्तदेतमेवैतत् प्रीणाति तस्मादाह साधवे त्वा' (१४ । १।२।२३) इति । अथ तृतीयम् । सुक्षित्यै त्वा सुतरां क्षियन्ति निवसन्ति सर्वभूतानि यस्यां सा सुक्षितिर्भूमिः । तथाच श्रुतिः 'सुक्षित्यै त्वेत्ययं वै लोकः सुक्षितिरस्मिन् हि लोके सर्वाणि भूतानि क्षियन्त्यथोऽग्निर्वे सुक्षितिरग्निर्ह्येवास्मिन् लोके सर्वाणि भूतानि क्षियत्येष उ तृतीयः प्रवर्ग्यस्तदेतमेवैतत्प्रीणाति तस्मादाह सुक्षित्यै त्वा' (१४ । १ । २ । २४) इति । 'अजापयसावसिञ्चति मखायेति प्रतिमन्त्रम्' ( का० २६ । १।२६) । अजादुग्धेन त्रीन्महावीरांस्त्रिभिः तुल्यमन्त्रैः सिञ्चतीत्यर्थः । मखाय मखशीर्ष्णे चाजापयसा त्वां सिञ्चामीत्यर्थः ॥ १०॥ इति महावीरसंभरणं समाप्तम् ।

एकादशी।
य॒माय॑ त्वा म॒खाय॑ त्वा॒ सूर्य॑स्य त्वा॒ तप॑से । दे॒वस्त्वा॑ सवि॒ता मध्वा॑नक्तु पृथि॒व्याः स॒ᳪं᳭स्पृश॑स्पाहि । अ॒र्चिर॑सि शो॒चिर॑सि॒ तपो॑ऽसि ।। ११ ।।
उ० महावीरं प्रोक्षति । यमाय त्वा मखाय त्वा सूर्यस्य त्वा तपसे । प्रोक्षामीति शेषः । महावीरमनक्ति । देवस्त्वा सविता मध्वानक्तु इति व्याख्यातम् । रजतशतमानं खरे उपगूहति । पृथिव्याः सᳪं᳭स्पृशः । संस्पृशतीति संस्पृक् क्विबन्तस्यैतद्रूपम् । हे रजत, पृथिव्याः संस्पृशो राक्षसात् महावीरं पाहि गोपाय । महावीरमाज्यवन्तं निदधाति । अर्चिरसि शोचिरसि तपोसि ऋज्वर्थम् ॥ ११ ॥
म० 'ब्रह्मानुज्ञातो यमाय त्वेति महावीरं प्रोक्षति' । (का० २६ । २ । १३ ) प्रचरेति ब्रह्मणानुज्ञातोऽध्वर्युरुपविश्य यमाय त्वेति मन्त्रत्रयेण प्रचरणीयं महावीरं वारत्रयं प्रोक्षतीत्यर्थः । त्रीणि यजूंषि । यमयति नियच्छति सर्वमिति यम आदित्यस्तत्प्रीत्यै त्वा त्वां प्रोक्षामि । तथाच श्रुतिः ‘स प्रोक्षति यमाय त्वेत्येष वै यमो य एष तपत्येष हीदᳪं᳭ सर्वं यमयत्येतेनेदᳪं᳭ सर्वं यतमेष उ प्रवर्ग्यस्तदेतमेवैतत्प्रीणाति तस्मादाह यमाय त्वा' (१४ । १ । ३ । ४) इति । मखाय त्वा । मखो यज्ञः | प्रवर्ग्यः सूर्यरूपस्तस्मै त्वां प्रोक्षामि । तथाच श्रुतिः 'एष वै मखो य एष तपत्येष उ प्रवर्ग्यस्तदेतमेवैतत् प्रीणाति तस्मादाह मखाय त्वा' ( १४ । १ । ३ । ५) इति । सूर्यस्य त्वा तपसे । तपतीति तपस्तेजः । सूर्यतेजोरूपाय प्रवर्ग्याय त्वां प्रोक्षामि । तथाच श्रुतिः ‘एष वै सूर्यो य एष तपत्येष उ प्रवर्ग्यस्तदेवमेवैतत्प्रीणाति तस्मादाह सूर्यस्य त्वा तपसा' (१४ । १।३ । ६) इति । 'अञ्जन्तीत्युच्यमाने देवस्त्वेत्यनक्ति महावीरमाज्यं संस्कृत्य' ( का० २६ । २ । २०) । होत्रा अञ्जन्ति यं प्रथयन्तीति मन्त्रे पठ्यमानेऽध्वर्युराज्यं विधिना संस्कृत्य तेनाज्येन प्रचरणीयं महावीरं मन्त्रेणानक्ति । सविता देवः मध्वा मधुना मधुरेण सर्वजगद्रूपेणाज्येन हे महावीर, त्वामनक्तु लिम्पतु । मध्वेति नुमभाव आगमस्यानित्यत्वात् । तथाच श्रुतिः 'सर्वं वा इदं मधु यदिदं किंच तदेनमनेन सर्वेण समनक्ति' (१४ । १।३ । १३) इति । 'रजतशतमानं खर उपगूहति पृथिव्याः सᳪं᳭स्पृश' (का० २६ । २ । २१) इति । रजतस्य शतमानं शतरक्तिकामितं रजतं खरे सिकतान्तरुपगूहतीत्यर्थः । प्राजापत्या गायत्री रजतदेवत्या । संस्पृशति उपद्रवार्थं स्पर्शं करोतीति संस्पृक् राक्षसः क्विबन्तम् । पृथिव्याः संबधिनः संस्पृशः राक्षसात् महावीरं हे रजत, त्वं पाहि रक्ष । देवा राक्षसेभ्यो भीताः सन्तो यज्ञरक्षार्थमग्नेरपत्यं रजतं रक्षसां घाताय खरं निदधुः । अथ च पृथिवी महावीरपाकेऽग्नेर्भीता ततोऽसौ मा दह्यतामिति रजतं खरेऽन्तर्हितमिति श्रुतौ कथा । तथाच श्रुतिः 'देवा अबिभयुर्यद्वै न इममधस्ताद्रक्षाᳪं᳭सि नाष्ट्रा न हन्युरित्यग्नेर्वा एतद्रेतो यद्धिरण्यं नाष्ट्राणाᳪं᳭, रक्षसामपहत्या इति' ( १४ । १।३ । १४ ) तथा 'अथो पृथिव्यु ह वा एतस्माद्बिभयांचकार यद्वै मायं तप्तः शूशुचानो न हिᳪं᳭स्यादिति तदेवास्या एतदन्तर्दधाति रजतम्' (१४ । १।३ । १४ ) इति । 'सᳪं᳭सीदस्वेत्युच्यमाने मुञ्जप्रलवान्द्विगुणानादीप्य प्रतिदिशं खरे करोति तेषु महावीरमाज्यवन्तमर्चिरसीति' ( का० २६ । ३ । ३ । ४ )। होत्रा संसीदस्वेति ( ११ । ३७) पठ्यमानेऽध्वर्युर्द्विगुणितान्मुञ्जखण्डान्गार्हपत्ये प्रदीप्य खरे चतुर्दिक्षु कृत्वा तेषु मुञ्जेषु संस्कृताज्यपूर्णं प्रचरणीयं महावीरं निदधातीति सूत्रार्थः । यजुस्त्रिष्टुप् घर्मदेवत्या । हे महावीर, त्वमर्चिश्चन्द्रकान्तिरूपोऽसि शोचिरग्नितेजोरूपोऽसि तपः सूर्यतापरूपोऽसि 'एष वै घर्मो य एष तपति सर्वं वा एतदेष तदेतमेवैतत् प्रीणाति' ( १४ । १ । ३ । १७) इति श्रुतेः 'यदादित्यगतं तेजो जगद्भासयतेऽखिलम् । यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्धि मामकम्' (गीता १५ । १२ ) इति स्मृतेश्च ॥ ११ ॥

द्वादशी।
अना॑धृष्टा पु॒रस्ता॑द॒ग्नेराधि॑पत्य॒ आयु॑र्मे दाः। पु॒त्रव॑ती दक्षिण॒त इन्द्र॒स्याधि॑पत्ये प्र॒जां मे॑ दाः ।
सु॒षदा॑ प॒श्चाद्दे॒वस्य॑ सवि॒तुराधि॑पत्ये॒ चक्षु॑र्मे दाः। आश्रु॑तिरुत्तर॒तो धा॒तुराधि॑पत्ये रा॒यस्पोषं॑ मे दाः ।
विधृ॑तिरु॒परि॑ष्टा॒द्बृह॒स्पते॒राधि॑पत्य॒ ओजो॑ मे दा विश्वा॑भ्यो मा ना॒ष्ट्राभ्य॑स्पाहि मनो॒रश्वा॑सि ।। १२ ।।
उ० अनाधृष्टेति वाचयति प्रादेशमध्ये विधारयन् । हे पृथिवि, या त्वम् अनाधृष्टा अधर्षिता रक्षोभिः पुरस्तात् तां त्वां ब्रवीमि । अग्नेः आधिपत्ये सति आयुर्मेदाः देहि । या त्वं पुत्रवती दक्षिणतो भवसि तां त्वां ब्रवीमि इन्द्रस्याधिपत्ये सति प्रजां मे दाः मह्यं देहि । या त्वं सुषदा स्वास्थेया साध्वस्मिन्सीदतीति सुषदा । पश्चाद्भवसि तां त्वां ब्रवीमि । देवस्य सवितुः आधिपत्ये सति चक्षुर्मे दाः देहि । या त्वं आश्रुतिः आश्रयन्त्यस्मिन्यजमाना इत्याश्रुतिः । यज्ञियो ह्यसौ देशः । उत्तरतो भवसि । तां त्वां ब्रवीमि । धातुराधिपत्ये सति रायस्पोषं धनस्य पुष्टिं मे दाः देहि । या त्वं विधृतिः विधारिणी उपरिष्टाद्भवसि । तां त्वां ब्रवीमि बृहस्पतेः आधिपत्ये सति ओजो मे दाः। दक्षिणत उत्तानेन पाणिना निह्नुते । विश्वाभ्यो मा नाष्ट्राभ्यस्पाहि । सर्वाभ्यः माम् आर्तिभ्यः गोपायेति । इमामभिमृश्य जपति । मनोरश्वासि। 'अश्वा ह वा इयं भूत्वा मनुमुवाह' इति श्रुतिः ॥ १२ ॥
म० 'अनाधृष्टेति वाचयति प्रादेशमध्यधि धारयन्तम्' ( का० २६ । ३ । ५) महावीरोपर्यङ्गुष्ठाङ्गुलिदेशं धरन्तं यजमानमध्वर्युर्मन्त्रान्वाचयतीति सूत्रार्थः । सप्त यजूंषि पृथिवीदेवत्यानि यजमानस्याशीः । हे पृथिवि, या त्वं पुरस्तात्पूर्वस्यां दिशि अनाधृष्टा रक्षोभिरनाधर्षिता अनेराधिपत्ये स्वामित्वे सति मे मह्यमायुर्दाः देहि । ददातेर्लुङि मध्यमैकवचनेऽडभाव आर्षः। 'अग्निमेवास्या अधिपतिं करोति' (१४ । १।३ । १९) इति श्रुतेः । या त्वं दक्षिणस्यां दिशि इन्द्रस्याधिपत्ये सति पुत्रवती पुत्रयुता सा मे मह्यं प्रजां पुत्रादिकां दाः देहि 'इन्द्रमेवास्या अधिपतिं करोति नाष्ट्राणाᳪं᳭ रक्षसामपहत्यै' ( १४ । १।३ । २० ) इति श्रुतेः । या त्वं पश्चात्पश्चिमायां दिशि सुषदा भवसि । सुष्ठु अस्यां सीदन्ति जना इति सुषदा 'ईषद्दुःसुषु'-(पा० ३ । ३ । १२६) इति खल्प्रत्ययः । सवितुर्देवस्याधिपत्ये सति सा त्वं मे चक्षुः नेत्रेन्द्रियं दाः देहि । 'देवमेवास्यै सवितारमधिपतिं करोति' (१४ । १।३ । २१) इति श्रुतेः । हे पृथिवि, या त्वमुत्तरतः उत्तरस्यां दिशि धातुर्ब्रह्मण आधिपत्ये सति आश्रुतिरसि आश्रावयन्ति ऋत्विजो यस्यां सा आश्रुतिः यज्ञियो ह्युत्तरदेशः । सा त्वं मे रायो धनस्य पोषं पुष्टिं दाः देहि । 'धातारमेवास्या अधिपतिं करोति' (१४ । १। ३ । २२) इति श्रुतेः । या त्वमुपरिष्टादुपरिप्रदेशे बृहस्पतेराधिपत्ये सति विधृतिरसि । विशेषेण धारयतीति विधृतिः उपरिष्टाज्जुह्वादिकं ध्रियते । सा त्वं मे मह्यमोजो बलं दाः देहि । 'बृहस्पतिमेवास्या अधिपतिं करोति' ( १४ । १।३ । २३) इति श्रुतेः । 'विश्वाभ्यो मेति दक्षिणत उत्तानं पाणिं निदधाति' ( का० २६ । ३ । ७)। महावीराद्दक्षिणभूमौ यजमानो मन्त्रं पठन्स्वकरं निदधात्युत्तानम् । यजुर्बृहती। हे महावीरदक्षिणभूमे, विश्वाभ्यः सर्वाभ्यः नाष्ट्राभ्यः नाशकर्त्रीभ्यः पिशाचादिभ्यो लोकप्रसिद्धं नोऽस्मान्पाहि रक्ष 'सर्वाभ्यो मार्तिभ्यो गोपाय' ( १४ । १।३ । २४ ) इति श्रुतेः । 'छन्दसि वा प्राम्रेडितयोः' (पा०८।३।४९ ) इति विसर्गस्य सत्वम् । 'मनोरश्वेति प्रादेशमुत्तरतः' ( का० १६ । ३ । ८)। महावीरादुत्तरतो यजमानो निजप्रदेशं निदधातीति सूत्रार्थः । दैवीपङ्क्तिः । हे घर्मोत्तरभूमे, त्वं मनोः राज्ञः अश्वा वडवासि वहनाय 'अश्वा ह वा इयं भूत्वा मनुमुवाह' (१४ । १।३। | २५) इति श्रुतेः ॥ १२ ॥

त्रयोदशी।
स्वाहा॑ म॒रुद्भि॒: परि॑श्रीयस्व दि॒वः स॒ᳪं᳭स्पृश॑स्पाहि । मधु॒ मधु॒ मधु॑ ।। १३ ।।
उ० विकङ्कतशकलैः परिश्रपयति। स्वाहा मरुद्भिः परिश्रीयस्व । हे प्रवर्ग्य, यस्त्वं स्वाहाकारः तं त्वां ब्रवीमि । मरुद्भिः रश्मिभिः । यद्वा 'विशो वै मरुतः' इति श्रुतिः ताभिः परिश्रीयस्व । कर्मणि यक् आश्रीयस्व । मरुतस्त्वामाश्रयन्त्वित्यर्थः । सुवर्णशतमानेनापिदधाति । दिवः द्युलोकस्य संस्पर्शनो रक्षसो महावीरे पाहि गोपाय । अथवा द्युलोकस्य संस्पर्शनकर्तॄन्देवान् त्वं हे महावीर, पाहि । पवित्रैराधुनोति । मधु मधु मधु । मधु प्राणो मधु समान्यादुच्यते स ह्यङ्गानां रसः तं महावीरे स्थापयति ॥ १३ ॥
म० 'धृष्टिभ्यां भस्मना परिकीर्याङ्गारैश्च विकङ्कतशकलैः परिश्रयति त्रयोदशभिः प्रागुदग्भिः स्वाहा मरुद्भिरित्यधिकं दक्षिणतो द्वौ मन्त्रेण' ( का० २६ । ३ । ९ । १० )। अध्वर्युर्धष्टिभ्यां गार्हपत्यस्य भस्माङ्गारांश्च महावीरं परितो निक्षिप्य प्रागग्रैरुदगग्रैस्त्रयोदशविकङ्कतशकलैर्महावीरं वेष्टयति । अङ्गारोपरि शकलान्निक्षिपतीत्यर्थः । तन्मध्याद्द्वौ शकलौ मन्त्रेण प्राञ्चौ निदधाति शेषां तूष्णीम् । एवं प्रतिदिशं त्रिषु त्रिषु स्थितेषु अधिकं त्रयोदशं दक्षिणतो निदधातीति सूत्रार्थः । मासानां त्रयोदशत्वात्त्रयोदशशकलैराच्छादनम् 'त्रयोदश वै मासाः संवत्सरस्य संवत्सर एष य एष तपत्येष उ प्रवर्ग्यः' ( १४ । १ । ३ । २८ ) इति श्रुतेः । यजुःपङ्क्तिधर्मदेवत्या । हे घर्म, त्वं स्वाहाकारोऽसि हविराधारत्वात्सूर्यरूपोऽसि । “एष वै स्वाहाकारो य एष तपत्येष उ प्रवर्ग्यः' (१४ । १।३ । २६) इति श्रुतेः । अतस्त्वं मरुद्भिः प्रजाभिरस्मद्रूपाभिः परिश्रीयस्व सेव्यस्व । कर्मणि यक् । मरुतस्त्वामाश्रयन्त्वित्यर्थः । 'विशो वै मरुतो विशेवैतत्क्षत्रं परिवृᳪं᳭हति तदिदं क्षत्रमुभयतो विशा परिवृढम्' (१४ । १ । ३ । २७) इति श्रुतेः । 'सुवर्णशतमानेनापिदधाति दिवः सᳪं᳭स्पृश इति' ( का० २६ । ३ । १०)। शतरक्तिकामितेन सुवर्णेन महावीरमाच्छादयतीति सूत्रार्थः । दैवी जगती सुवर्णदेवत्या । हे शतमान, दिवः द्युलोकसंबन्धिनः संस्पृशः स्पर्शकर्तॄन्देवान्पाहि । 'देवा राक्षसेभ्यो भीता महावीररक्षायै स्वर्ण स्थापितवन्तः' (१४ । १ । ३ । २९) इति श्रुतौ कथा देवा अबिभयुरित्यादिकार्था । 'कृष्णाजिनावकृत्तैर्धवित्रैरुपवीजयति त्रिभिर्दण्डवद्भिर्मधु मध्विति' (का० २६।४।२) कृष्णाजिनकृतैर्दण्डयुक्तैस्त्रिभिर्व्यजनैरग्निं वीजयति दीपनायेति सूत्रार्थः । त्रीणि यजूंषि प्राणदेवत्यानि दैव्युष्णिक् । मधुररससाम्यात्प्राणो मधु उच्यते । मधु मधु मधु प्राणोदानव्यानत्रयं महावीरे स्थापयामीत्यर्थः । तथाच श्रुतिः 'अथ धवित्रैराधुनोति मधु मध्विति त्रिः प्राणो वै मधु प्राणमेवास्मिन्नेतद्दधाति त्रीणि भवन्ति त्रयो वै प्राणाः प्राण उदानो व्यानस्तानेवास्मिन्नेतद्दधाति' ( १४ । १ । ३ । ३० ) इति ॥ १३ ॥

चतुर्दशी।
गर्भो॑ दे॒वानां॑ पि॒ता म॑ती॒नां पति॑: प्र॒जाना॑म् । सं दे॒वो दे॒वेन॑ सवि॒त्रा ग॑त॒ सᳪं᳭ सूर्ये॑ण रोचते ।। १४ ।।
उ० महावीरमुपतिष्ठते । गर्भो देवानामित्यवकाशैः तेन त्वष्टृमन्त इत्यतः प्राक् । यो गर्भो देवानां गृह्णातीति गर्भः आदित्यात्मना महावीरः । यश्च पिता मतीनां गोपायिता बुद्धीनाम् । यश्च पतिरधिपतिः प्रजानाम् । यश्च सं देवो देवेन सवित्रा गत संगत संगच्छते । देवः प्रवर्ग्यः देवेन सवित्रा सह । यश्च संरोचते घर्मः सूर्येण सह एकीभूतः तं वयं स्तुम इति वाक्यशेषः ॥ १४ ॥
म० परिक्रम्योपतिष्ठन्तेऽकृतं चेद् गर्भो देवानामिति' ( का० २६ । ४ । ११)। धवित्रैर्वीजनसमये उत्तरं देववत्परिक्रमणं प्रागकृतं चेदिह त्रिः परिक्रम्येतरथावृत्तिं सकृत्कृत्वा गर्भो देवानामित्यादिभिर्नमस्ते अस्तु मा मा हिंसीरित्यन्तैरवकाशसंज्ञकैर्मन्त्रैः सयजमाना ऋत्विजो महावीरमुपतिष्ठन्त इति सूत्रार्थः । घर्मदेवत्या अवकाशमन्त्रा मा मा हिंसीरित्यन्ताः। आद्या ऋचां पङ्क्तिः । अथ मन्त्रार्थः । देवो दीप्यमानो महावीरः सवित्रा देवेन सह सङ्गत सङ्गच्छते । गमेर्लुङि वा गमः' ( पा० १।२ । १३ ) इति आत्मनेपदे विकल्पेन सिचः कित्त्वात् 'अनुदात्तोपदेश-' (पा० ६।४ । ३७) इति मलोपे 'ह्रस्वादङ्गात्' (पा० ८ । २ । २७) इति सिचो लोपः। 'बहुलं छन्दस्यमाङ्योगेऽपि' (पा० ६ । ४ । ७५) इत्यडभावः । 'समो गम्-' (पा० १ । ३ । २९ ) इत्यादिना तङ् । यश्च घर्मः सूर्येण सहैकीभूतः सन् संरोचते सम्यग्दीप्यते तं वयं स्तुम इति शेषः। कीदृशः । देवानां दीप्तानां रश्मीनां दृश्यमानानां सर्वेषां वा गर्भः गृह्णातीति गर्भः ग्रहीता । एष वै गर्भो देवानां य एष तपत्येष हीदᳪं᳭ सर्वᳪं᳭ संगृभ्णात्येतेनेदᳪं᳭ सर्वं गृभीतमेष उ प्रवर्ग्यः' (१४ । १ । ४ । २) इति श्रुतिः । तथा मतीनां बुद्धीनां पिता पालकः बुद्धिप्रवर्तकः प्रजानां पतिः पालकः ॥ १४ ॥

पञ्चदशी।
सम॒ग्निर॒ग्निना॑ गत॒ सं दैवे॑न सवि॒त्रा सᳪं᳭ सूर्ये॑णारोचिष्ट ।
स्वाहा॒ सम॒ग्निस्तप॑सा गत॒ सं दैव्ये॑न सवि॒त्रा सᳪं᳭ सूर्ये॑णारूरुचत ।। १५ ।।
उ० समग्निः अनुष्टुप् ब्राह्मी । यश्च संगत संगच्छते | अग्निः घर्मः अग्निना सूर्याख्येन सह । यश्च संगत संगच्छते दैवेन सवित्रा सह । यश्च समरोचिष्ट संरोचते दीप्यते सूर्येण सह स्पर्धयन् । तं वयं स्तुम इति वाक्यशेषः। स्वाहाकारः आदित्यप्रीणनार्थः । यश्च स्वाहा अग्निः संगत संगच्छते । तपसा आदित्यसंबन्धिना सह । यश्च संगत संगच्छते दैव्येन सवित्रा सह । यश्च समरूरुचत समरोचत संरोचते सूर्येण सह स्पर्धयन् । तं वयं स्तुम इति वाक्यशेषः ॥ १५॥
म० ब्राह्म्यनुष्टुप् । यः अग्निः घर्मः अग्निना सह सङ्गत सङ्गच्छते एकीभवति । देव एव दैवः सवित्रा दैवेन देवेन सह सङ्गच्छते । यश्च सूर्येण सह समरोचिष्ट संरोचते । 'अवरं स्वाहाकारं करोति परां देवतामसावेव बन्धुः' (१४ । १ । ४ । ६ ) इति श्रुतेः । स्वाहा अग्निः । खाहासहितोऽग्निर्घर्मस्तपसा सूर्यतेजसा सङ्गत सङ्गच्छते । दैव्येन देवेन सवित्रा च सङ्गच्छते । सूर्येण सह समरूरुचत सर्वं सम्यक् रोचयति प्रकाशयति । रोचतेर्णिजन्ताल्लुङ् । वयं तं स्तुम इति शेषः ॥ १५ ॥
षोडशी।
ध॒र्ता दि॒वो विभा॑ति॒ तप॑सस्पृथि॒व्यां ध॒र्ता दे॒वो दे॒वाना॒मम॑र्त्यस्तपो॒जाः ।
वाच॑म॒स्मे नि य॑च्छ देवा॒युव॑म् ।। १६ ।।
उ० धर्ता दिवः । ऊर्ध्वबृहती घर्मस्तुतिः । योऽयं धर्ता धारयिता दिवः द्युलोकस्य । यश्च तपसः रश्मिजालस्य धर्ता । विभाति च पृथिव्यां अवस्थितः । धर्ता धारयिता च देवानाम् । स्वयं च देवः अमर्त्यः मनुष्यधर्मरहितः। तपोजाः तपः आदित्यः तस्माज्जायते । सोयम् वाचं अस्मे अस्मासु । नियच्छ नियच्छत्विति पुरुषव्यत्ययः । निगृह्णातु स्थापयतु । देवायुवम् या देवान् यौति मिश्रयति आगमयति सा तथोक्ता तां देवायुवम् ॥ १६ ॥
म० ऊर्ध्वबृहती । त्रिजागतोर्ध्वबृहती अत्राद्यौ त्रयोदशवर्णौ तृतीय एकादशवर्णस्तेनैकाधिका । स देवो घर्मः अस्मे अस्मासु । विभक्तेः शे-आदेशः । वाचं नियच्छ पुरुषव्यत्ययः। यज्ञं नियच्छतु स्थापयतु । किंभूतां वाचम् । देवयुवं देवान् यौति मिश्रयति देवयुः ताम् । क्विपि तुगभाव आर्षः । अनित्यमागमशासनमिति वचनात् । देवसमूहमाह्वयन्तं यज्ञं समापयत्विर्थः । 'यज्ञो वै वाग्यज्ञमस्मभ्यं प्रयच्छ येन देवान्प्रीणामेत्येवैतदाह' ( १४ । १।४ । ८) इति श्रुतेः देवयुवमित्यत्र संहितायां वकारस्य दीर्घः । स कः । यो देवः पृथिव्यां विभाति शोभते । कीदृशः । दिवो धर्ता द्युलोकस्य धारयिता । तपसः रश्मिजालस्य च धर्ता । देवानां च धर्ता । अमर्त्यः मनुध्यधर्मरहितः अजरामरः । तपोजाः तप आदित्यस्तस्माज्जायत इति तपोजाः सूर्योत्पन्नः ॥ १६ ॥

सप्तदशी।
अप॑श्यं गो॒पामनि॑पद्यमान॒मा च॒ परा॑ च प॒थिभि॒श्चर॑न्तम् ।
स स॒ध्रीची॒: स विषू॑ची॒र्वसा॑न॒ आव॑रीवर्त्ति॒ भुव॑नेष्व॒न्तः ।। १७ ।।
उ० अपश्यम् । त्रिष्टुप् । आदित्यात्मना घर्मस्तुतिः । यमहमपश्यम् । गोपां गोप्तारम् । अनिपद्यमानम् अनालम्बने अन्तरिक्षे गच्छन्नासौ पतति । आच पराच पथिभिश्चरन्तम् आचरन्तं च आगच्छन्तं च । पराचरन्तं च परागच्छन्तं च । पथिभिः देवैः सह । स सध्रीचीः सएव सध्रीचीः। सहस्य सध्रिरादेशः । सहाञ्चनाः दिशो रश्मीन्वासहस्रम् । सविषूचीः । विषु इति निपातो नानावचनः । अञ्चतेः परं क्विप् । नानाञ्चनाः दिशः नानाञ्चनान्वा रश्मीन् । वसानः आच्छादयन् । आवरीवर्ति पुनःपुनरावर्तते । भुवनेषु त्रिषु लोकेषु । अन्तर्मध्ये व्यवस्थितः ॥ १७ ॥
म० त्रिष्टुब्दीर्घतमोदृष्टा । स घर्मो भुवनेषु त्रिलोकेषु अन्तर्मध्ये व्यवस्थितः आवरीवर्ति पुनःपुनरावर्तते । वृतेर्यङ्लुकि रूपम् । कीदृशः । सध्रीचीः सह अञ्चन्तीति सध्रीच्यः सहस्य सध्रिरादेशः । सहाञ्चना दिशो रश्मीन् वा वसानः आच्छादयन् । 'वस आच्छादने' शानच्प्रत्ययः। विषूचीः विषुनिपातो नानार्थः । विषु अञ्चन्तीति विषूच्यः ताः नानाञ्चना दिशो रश्मीन् वा वसानः । क्विबन्तात् 'उगितश्च' (पा० ४ । | १।६) इति डीपि 'अचश्च' (पा० ६ । ४ । १३८) इत्यलोपे 'चौ' (पा० ६।३ । १३८ ) इति पूर्वपददीर्घः 'सध्रीचीश्च ह्येष विषूचीश्च दिशो वस्तेऽथो रश्मीन्' (१४ । १।४। १०) इति श्रुतिः । एकः सशब्दः पादपूरणः । स कः । यमहमपश्यमादित्यरूपं पश्यामि । कीदृशम् । गोपां गोपायतीति गोपास्तम् । क्विपि यलोपः । अनिपद्यमानं निपद्यते पततीति निपद्यमानः न निपद्यमानोऽनिपद्यमानस्तम् अन्तरिक्षे गच्छन्तमपि नाधः पतन्तम् । च पुनः पथिभिः देवमार्गैः आचरन्तमागच्छन्तम् । पराचरन्तं परागच्छन्तं च गमनागमने कुर्वाणम् ॥ १७ ॥

अष्टादशी।
विश्वा॑सां भुवां पते॒ विश्व॑स्य मनसस्पते॒ विश्व॑स्य वचसस्पते॒ सर्व॑स्य वचसस्पते ।
दे॒व॒श्रुत्त्वं दे॑व घर्म दे॒वो दे॒वान् पा॒ह्यत्र॒ प्रावी॒रनु॑ वां दे॒ववी॑तये ।
मधु॒ माध्वी॑भ्यां॒ मधु॒ माधू॑चीभ्याम् ।। १८ ।।
उ० विश्वासां भुवाम् । सर्वासां पृथिवीनां पते हे प्रवर्ग्य, विश्वस्य मनसः सर्वस्य प्राण्याश्रयस्य मनसः पते । विश्वस्य वचसः सर्वस्य त्रयीलक्षणस्य वचसः पते । सर्वस्य वचसः सर्वस्य लौकिकस्य वचसः पते । त्वां स्तुम इति शेषः । यतश्च त्वं देवश्रुत् देवैः श्रुतः अतः त्वां याचे । हे देव घर्म, त्वं देवः सन् देवान्पाहि गोपाय । अत्र प्रावीरनु वां देव वीतये । अत्र सत्रे अस्मिन्नवसरे वा । प्रावीरिति पुरुषव्यत्ययः । प्रावतु तर्पयतु घर्मः । वां युवाम् हे अश्विनौ, अनु देववीतये । ततोऽनन्तरम् देवतर्पणाय नमस्करोत्विति वाक्यशेषः । मधुमाध्वीभ्याम् मधुनाम ब्राह्मणं तदश्विभ्यां ददौ दध्यङ्ङाथर्वणः । तदेतदुक्तम् । मधुमाधूचीभ्यां मधु ब्राह्मणं प्रति अञ्चतो गच्छतः तौ ताभ्यां मध्वञ्चनाभ्याम् । शेषं पूर्ववद्व्याख्येयम् ॥ १८॥
म० अत्यष्टिः । हे विश्वासां भुवां पते सर्वासां पृथिवीनां स्वामिन् , विश्वस्य सर्वप्राणिगतस्य मनसः पते अधिपते, विश्वस्य वचसः पते सर्वप्राणिवचनस्य पालक, सर्वस्य त्रयीलक्षणस्य वचसः पते प्रवर्तक, हे देवश्रुत् देवैः श्रूयत इति देवश्रुत् - देहप्रसिद्ध, हे देव दीप्यमान हे घर्म देव, त्वं देवान् पाहि रक्ष। एवं घर्मं संप्रार्थ्याश्विनावाह । हे अश्विनौ, अत्र यज्ञे देववीतये देवतर्पणाय अनु अनन्तरं घर्मो वां प्रावीः प्रावीत् तर्पयतु । लोडर्थे लुङ् पुरुषव्यत्ययश्च । युवयोस्तृप्त्या सर्वदेवास्तृप्यन्तीति भावः । याभ्यां युवाभ्यां दध्यङ्ङाथर्वणो मधुसंज्ञकं ब्राह्मणमुवाच 'दध्यङ् ह वा आभ्यामाथर्वणो मधुनाम ब्राह्मणमुवाच' (१४ । १ । ४ । १३) इति श्रुतेः । कीदृशाभ्यां युवाभ्याम् । माध्वीभ्यां मधुब्राह्मणमीयाते तौ माध्व्यौ ताभ्याम् 'ई गतौ' क्विप् । तथा माधूचीभ्यां मधुब्राह्मणमञ्चतः पूजयतस्तौ मध्वञ्चौ ताभ्याम् । मध्वग्भ्यामिति प्राप्ते ङीपि अलोपे मधूचीभ्यामिति लिङ्गव्यत्ययः आदिदीर्घश्छान्दसः ॥१८॥

एकोनविंशी।
हृ॒दे त्वा॒ मन॑से त्वा दि॒वे त्वा॒ सूर्या॑य त्वा ।
ऊ॒र्ध्वो अ॑ध्व॒रं दि॒वि दे॒वेषु॑ धेहि ।। १९ ।।
उ० हृदे त्वा । परोष्णिक् । हृदे त्वा हृदयार्थं त्वां स्तुम इति शेषः । एवं मनसे त्वां स्तुमः । दिवे अर्थाय त्वां स्तुम इति शेषः । सूर्याय त्वा सूर्यतर्पणाय त्वां स्तुमः । यस्माच्च सर्वकार्येषु त्वामेव स्तुमः । अतो ब्रूमः ऊर्ध्वः अवहितचित्तः सन् अध्वरं दिवि देवेषु धेहि निधेहि स्थापय ॥ १९॥
म० परोष्णिक् । आद्यावष्टार्णौ तृतीयो द्वादशार्णः सा परोष्णिक् । 'परोष्णिक् परतः' इत्युक्तेः । आद्ययोर्व्यूहः । हे घर्म, हृदे त्वा हृदयस्वास्थ्याय त्वा त्वां स्तुम इति शेषः। मनसे मनःशुद्ध्यर्थं त्वा त्वां स्तुमः । दिवे स्वर्गप्राप्त्यै त्वा त्वां स्तुमः । सूर्याय सूर्यतृप्त्यै त्वा त्वां स्तुमः । हृदयं संशोध्य मनो निर्मलं कृत्वा दिवमस्मान्नीत्वा सूर्यं तर्पयेति भावः । किंच ऊर्ध्वः सावधानः सन् अध्वरमस्मदीयं यज्ञं दिवि द्युलोके वर्तमानेषु देवेषु धेहि स्थापय । यज्ञे गते यजमानो गच्छत्येवेति भावः ॥ १९॥

विंशी।
पि॒ता नो॑ऽसि पि॒ता नो॑ बोधि॒ नम॑स्ते अस्तु॒ मा मा॑ हिᳪं᳭सीः ।
त्वष्टृ॑मन्तस्त्वा सपेम पु॒त्रान्प॒शून्मयि॑ धेहि प्र॒जाम॒स्मासु॑ धे॒ह्यरि॑ष्टा॒ऽहᳪं᳭ स॒ह प॑त्या भूयासम् ।। २० ।।
उ० पिता नोऽसि । गायत्री । यतश्च त्वम् पिता नः अस्माकमसि भवसि । अतो ब्रवीमि । पितेव भूत्वा नः अस्मान् बोधि बोधय सर्वथा । नमः ते अस्तु मा मा हिंसीः हिंसीथाः । पत्नीं वाचयति महावीरमीक्षमाणाम् । त्वष्टृमन्तस्त्वा । यजुः । यतश्च त्वाष्ट्रसंयुक्ताः । त्वष्टा हि चेतसां विकर्ता । त्वामेव सपेम । सपतिः स्पृशतिकर्मा । मैथुनार्थमुपस्पृशामः । अतः पुत्रान् पशून् मयि धेहि स्थापय ।। प्रजां च भूयोभूयः अस्मासु धेहि स्थापय । किंच अरिष्टा अनुपहिंसिता अहम् । सह पत्या सह भर्त्रा भूयासम् । आशीः ॥२०॥
म० ऋग्गायत्री । हे महावीर, त्वं नोऽस्माकं पितासि पालको भवसि । पितेव नोऽस्मान् बोधि बोधय । सर्वथा नमस्ते अस्तु मा मां मा हिंसीः मा जहि । महावीरोपस्थानं समाप्तम् । 'त्वष्टृमन्त इत्येनां वादयति' (का० २६ । ४ ।१३) । महावीरमीक्षमाणामपनीतशिरोवस्त्रां घर्मं पश्यन्तीं पत्नीमध्वर्युर्वाचयतीत्यर्थः । ऋचां त्रिष्टुप् घर्मदेवत्या पत्न्याशीः। हे घर्म । वयं त्वा त्वां सपेम । सपतिः स्पृशतिकर्मा । मैथुनाय त्वामुपस्पृशामः । कीदृशा वयम् । त्वष्टृमन्तः त्वष्टा विद्यते येषां ते त्वष्टृमन्तः । त्वष्टा रेतसामधिकारी तत्सहिताः मैथुनार्थोपस्पर्शे वीर्याधिष्ठातापेक्षितोऽत एतद्युताः । अतः पुत्रान् पशून् च मयि विषये त्वं धेहि स्थापय । प्रजामुत्तरोत्तरवंशवृद्धिमस्मासु धेहि स्थापय । किंच पत्या भर्त्रा सहारिष्टा अनुपहिंसिता अहं भूयासं भवेयम् । भर्तृमती चिरं जीवेयमित्यर्थः । 'वृषा वै प्रवर्ग्यो योषा पत्नी मिथुनमेवैतत् प्रजननं क्रियते' (१४ । १।४ । १६) इति श्रुतेः ॥ २० ॥

एकविंशी ।
अह॑: के॒तुना॑ जुषताᳪं᳭ सु॒ज्योति॒र्ज्योति॑षा॒ स्वाहा॑ ।
रात्रि॑: के॒तुना॑ जुषताᳪं᳭ सु॒ज्योति॒र्ज्योति॑षा॒ स्वाहा॑ ।। २१ ।।
इति माध्यन्दिनीयायां वाजसनेयिसंहितायां सप्तत्रिंशोऽध्यायः ॥ ३७॥
उ० रौहिणं जुहोति । अहः केतुना प्रज्ञया कर्मणा वा सहितम् जुषतां परिगृह्णातु । कथंभूतम् । यदहः सुज्योतिः शोभनज्योतिष्कम् । केन ज्योतिषा स्वकीयेनैव । स्वाहा सुहुतं चैतद्धविर्भवतु । रात्रिः केतुना । अधस्तनेन व्याख्यातम् ॥ २१ ॥
इति उवटकृतौ मन्त्रभाष्ये सप्तत्रिंशोऽध्यायः ॥३७॥
म० 'अहः केतुनेति दक्षिणᳪं᳭ रोहिणं जुहोति' (का० २६ । ४ । १४) । उपस्थानगानयोः समाप्तौ रौहिणहवन्या स्रुचा दक्षिणं रौहिणं पुरोडाशं सर्वहुतं जुहोतीत्यर्थः । घर्मदेवत्ये यजुषी सामानुष्टुभौ । केतुः प्रज्ञा कर्म वा । केतुना प्रज्ञया कर्मणा वा सहितमहः दिनं जुषतां रौहिणहोमेन प्रीयताम् । कीहशमहः । ज्योतिषा स्वकीयेनैव तेजसा सुज्योतिः शोभनं ज्योतिर्यस्य तत् विशिष्टतेजस्कम् । स्वाहा एतद्धविः सुहुतमस्तु । रोहति स्वर्गं यजमानो याभ्यां तौ रोहिणौ अग्न्यादित्यौ अहोरात्रे वा 'इमौ लोकौ वा चक्षुषी वा शिरः प्रवर्ग्यौ रौहिणौ चक्षुषी तत्र दधाति' (१४ । २ । १।१-५) इत्यादिरौहिणप्रशंसा श्रुतौ ज्ञेया। 'रात्रिरिति सायम्' (का० २६।४।१४)। सायंकालीने प्रवर्ग्ये रात्रिरिति मन्त्रेण द्वावपि प्रवर्ग्यौ यथाकालं जुहोतीत्यर्थः । केतुना सहिता रात्रिः जुषतां प्रीयताम् । ज्योतिषा कृत्वा सुज्योतिरित्युक्तम् ॥ २१ ॥
श्रीमन्महीधरकृते वेददीपे मनोहरे ।
अभ्र्यादिरौहिणान्तोऽयं सप्तत्रिंशो निरूपितः ॥ ३७ ॥