शुक्लयजुर्वेदः/अध्यायः ३५

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← अध्यायः ३४ शुक्लयजुर्वेदः
अध्यायः ३५
[[लेखकः :|]]
अध्यायः ३६ →


अध्याय 35 प्रेत सूक्तम्
पितृमेधसम्बन्धिनो मन्त्राः

35.1
अपेतो यन्तु पणयो ऽसुम्ना देवपीयवः ।
अस्य लोकः सुतावतः ।
द्युभिर् अहोभिर् अक्तुभिर् व्यक्तं यमो ददात्व् अवसानम् अस्मै ॥

35.2
सविता ते शरीरेभ्यः पृथिव्यां लोकम् इच्छतु ।
तस्मै युज्यन्ताम् उस्रियाः ॥

35.3
वायुः पुनातु ।
सविता पुनातु ।
अग्नेर् भ्राजसा ।
सूर्यस्य वर्चसा ।
वि मुच्यन्ताम् उस्रियाः ॥

35.4
अश्वत्थे वो निषदनं पर्णे वो वसतिष् कृता ।
गोभाजऽइत् किलासथ यत् सनवथ पूरुषम् ॥

35.5
सविता ते शरीराणि मातुर् उपस्थ ऽ आ वपतु ।
तस्मै पृथिवि शं भव ॥

35.6
प्रजापतौ त्वा देवतायाम् उपोदके लोके नि दधाम्य् असौ ।
अप नः शोशुचद् अघम् ॥

35.7
परं मृत्यो ऽ अनु परेहि पन्थां यस् ते ऽ अन्य इतरो देवयानात् ।
चक्षुष्मते शृण्वते ते ब्रवीमि मा नः प्रजाꣳ रीरिषो मोत वीरान् ॥

35.8
शं वातः शꣳ हि ते घृणिः शं ते भवन्त्व् इष्टकाः ।
शं ते भवन्त्व् अग्नयः पार्थिवासो मा त्वाभि शूशुचन् ॥

35.9
कल्पन्तां ते दिशस् तुभ्यम् आपः शिवतमास् तुभ्यं भवन्तु सिन्धवः ।
अन्तरिक्षꣳ शिवं तुभ्यं कल्पन्तां ते दिशः सर्वाः ॥

35.10
अश्मन्वती रीयते सꣳ रभध्वम् उत् तिष्ठत प्र तरता सखायः ।
अत्र जहीमो ऽशिवा ये ऽ असञ्छिवान् वयम् उत्तरेमाभि वाजान् ॥

35.11
अपाघम् अप किल्विषम् अप कृत्याम् अपो रपः ।
अपामार्ग त्वम् अस्मद् अप दुःष्वप्न्यꣳ सुव ॥

35.12
सुमित्रिया न ऽ आप ऽ ओषधयः सन्तु दुर्मित्रियास् तस्मै सन्तु यो ऽस्मान् द्वेष्टि यं च वयं द्विष्मः ॥

35.13
अनड्वाहम् आ रभामहे सौरभेयꣳ स्वस्तये ।
स न ऽ इन्द्र ऽ इव देवेभ्यो वह्निः संतरणो भव ॥

35.14
उद् वयं तमसस् परि स्वः पश्यन्त ऽ उत्तरम् ।
देवं देवत्रा सूर्यम् अगन्म ज्योतिर् उत्तमम् ॥

35.15
इमं जीवेभ्यः परिधिं दधामि मैषां नु गाद् अपरो ऽ अर्थम् एतम् ।
शतं जीवन्तु शरदः पुरूचीर् अन्तर् मृत्युं दधतां पर्वतेन ॥

35.16
अग्न ऽ आयूꣳषि पवस ऽ आ सुवोर्जम् इषं च नः ।
आरे बाधस्व दुच्छुनाम् ॥

35.17
आयुष्मान् अग्ने हविषा वृधानो घृतप्रतीको घृतयोनिर् एधि ।
घृतं पीत्वा मधु चारु गव्यं पितेव पुत्रम् अभि रक्षताद् इमान्त् स्वाहा ॥

35.18
परीमे गाम् अनेषत पर्य् अग्निम् अहृषत ।
देवेष्व् अक्रत श्रवः क ऽ इमाꣳ२ऽ आ दधर्षति ॥

35.19
क्रव्यादम् अग्निं प्र हिणोमि दूरं यमराज्यं गच्छतु रिप्रवाहः ।
इहैवायम् इतरो जातवेदा देवेभ्यो हव्यं वहतु प्रजानन् ॥

35.20
वह वपां जातवेदः पितृभ्यो यत्रैनान् वेत्थ निहितान् पराके ।
मेदसः कुल्या ऽ उप तान्त् स्रवन्तु सत्या ऽ एषाम् आशिषः सं नमन्ताꣳ स्वाहा ॥

35.21
स्योना पृथिवि नो भवानृक्षरा निवेशनी ।
यच्छा नः शर्म सप्रथाः ।
अप नः शोशुचद् अघम् ॥

35.22
अस्मात् त्वम् अधि जातो ऽसि त्वद् अयं जायतां पुनः ।
असौ स्वर्गाय लोकाय स्वाहा ॥

भाष्यम्(उवट-महीधर)

पञ्चत्रिंशोऽध्यायः।

तत्र प्रथमा।
अपे॒तो य॑न्तु प॒णयोऽसु॑म्ना देवपी॒यव॑: । अ॒स्य लो॒कः सु॒ताव॑तः ।
द्युभि॒रहो॑भिर॒क्तुभि॒र्व्य॒क्तं य॒मो द॑दात्वव॒सान॑मस्मै ।। १ ।।
उ० अपेतो यन्तु । पित्र्योऽध्यायः । आदित्यस्यार्षं देवानां वा । गायत्रीव पलाशशाखया व्यूहति । अपेतो यन्तु पणयः । अपयन्तु इतः स्थानात् पणयः असुराः असुम्नाश्च असुखकराः । देवपीयवश्व । पीयतिर्हिंसाकर्मा । देवानां हिंसितारः देवद्विषः । किमिति अस्य यजमानस्य लोकः । स्थानमत्र सुतावतः सोमाभिषवं कृतवतः। परं यजुः। द्युभिरहोभिरक्तुभिः । द्युशब्देन श्रुतौ ऋतव उक्ताः । ऋतुभिः अहोभिः अक्तुभिः रात्रिभिः व्यक्तं स्पष्टीकृतम् । यमः ददातु अवसानम् अवस्यत्यस्मिन्नित्यवसानम् । अस्मै यजमानाय ॥१॥
म० त्रयस्त्रिंशेऽध्याये सर्वमेधसंबन्धिनः कियतो मन्त्रानुक्त्वा प्रवायुमच्छेत्यारभ्य ( ३३ । ५५) अनारभ्याधीतान्मन्त्रानुक्त्वा चतुस्त्रिंशेऽध्याये तानेव समाप्येदानीं पञ्चत्रिंशेऽध्याये पितृमेधसंबन्धिनो मन्त्रा उच्यन्ते । स च पितृमेधो मृतस्य वर्षास्मरणे भवति । वर्षस्मृतौ तु विषमवर्षेषु भवति एकतारकनक्षत्रे चित्रादौ दर्शे वा ग्रीष्मे शरदि माघे भवति । पितृमेधं करिष्यता द्विजेन कुम्भेऽस्थिसंचयः कार्यः। मृतस्य च यावन्तोऽमात्यपुत्रपौत्रास्तावन्तः कुम्भाः कर्मदिने आनेयाः कुम्भेभ्योऽधिकानि छत्राणि च । ततोऽरण्ये कुम्भे कृतमस्थिसंचयनं ग्रामसमीपे समानीय शय्यायां कुम्भं संस्थाप्याहतवस्त्रैकदेशेन संवेष्ट्य मोहमयवादित्रेषु वाद्यमानेषु वीणायां च वाद्यमानायां मृतस्य पुत्रपौत्रा उत्तरीयैर्व्यजनैश्चास्थिकुम्भं वीजयन्तस्त्रिस्त्रिः प्रदक्षिणं परियन्ति । स्त्रियोऽपीति केचित् । रात्रेः पूर्वमध्यापरभागेषु तद्दिने बह्वन्नदानं कुर्वन्ति नृत्यगीतवादित्राणि च कारयन्ति अस्थिकुम्भायान्नमुपहरन्ति च । तत उपप्रातरस्थिकुम्भसहिताः पूर्वोक्तान्कुम्भाञ्छत्राणि चादाय ग्रामाद्दक्षिणस्यां बहिर्गच्छन्त्यध्वर्युयजमानामात्याः । श्मशानान्तं कर्म कुर्वतो यथा रविरुदयेत्तथा रात्रावारब्धव्यम् । तत्र वने गत्वा ग्रामान्मार्गादश्वत्थतिल्वकहरिद्रुस्फूर्जकविभीतकश्लेष्मातककोविदारादिभ्यश्च दूरे अन्यवृक्षगुल्मादिवृते ऊषरे वोदकप्रवणे दक्षिणप्रवणे समे वा सुखकारिणि रम्ये वनादुदकाद्वा पूर्वभागे उत्तरभागे वा वर्तमाने गर्तवति वीरणतृणवति प्रदेशे श्मशानार्थं दिक्कोणं पुरुषप्रमाणं क्षेत्रं मिमीते । पैतृक्यां द्विपुरुषं समचतुरस्रं कृत्वा करणीमध्येषु शङ्कवः स समाधिरिति ( यजुःपरिशिष्ट० ७॥२) शुल्बोक्तविधिना तच्चतुरस्रमुत्तरतः पश्चाच्च पृथु भवति । तत्र साधनप्रकारः पूर्वदक्षिणपार्श्वयोर्नवाङ्गुलानि स्वत्रयोदशांशेनाङ्गुलचतुर्थभागसहितानि पुरुषप्रमाणमध्ये न्यूनानि कार्याणि पश्चिमोत्तरपार्श्वयोस्तावन्ति पुरुषप्रमाणादधिकानि । तथाहि पुरुषमात्रक्षेत्रस्याक्ष्णया प्राचीं कृत्वा तत्प्रान्तयोः शङ्कुं निखाय सार्धाष्टादशाङ्गुलहीनां पुरुषद्वयप्रमाणामुभयतःपाशां रज्जुं मध्यमदेशे सलक्षणां कृत्वा पूर्वापरयोः शङ्कोस्तस्याः पाशौ प्रतिमुच्य मध्यलक्षणेन दक्षिणत आयम्य दक्षिणः कोणः साधनीयः । ततः सार्धाष्टादशाङ्गुलाधिकां पुरुषद्वयप्रमाणां रज्जुमुभयतःपाशां मध्यलक्षणयुतां कृत्वा शङ्कोः पाशौ प्रतिमुच्य मध्यलक्षणेनोत्तरत आयम्योत्तरकोणः साध्य इति । ततः पूर्वादिकोणेषु पालाशशमीवारणाश्ममयाश्चत्वारः शङ्कवो निखेयाः । एतत्कुर्वतां निकटे कश्चिद्यजमानपुरुषस्तृणपूलकमुच्छ्रित्य धारयेत् । कर्मसमाप्तौ गृहमागत्य तं गृहेषुच्छ्रयेत प्रजावृद्ध्यै इत्यादि बोध्यम् । कात्यायनः 'अपसलवि सृष्ट्या रज्वा परितत्याऽपेतो यन्त्विति पलाशशाखया व्युदूहति' (२१।३ । ३२ ) इति । अपसलवि अप्रादक्षिण्येन निष्पादितया रज्ज्वा तत्क्षेत्रं समन्तादप्रदक्षिणं संवेष्ठ्यापेतो यन्त्विति मन्त्रेण क्षेत्रमध्यपतितं तृणपर्णादिकं पलाशशाखया कृत्वा क्षेत्राद्बहिर्निष्कासयतीति सूत्रार्थः ॥ अस्याघ्यायस्य पितरो देवताः आदित्या ऋषयो देवा वा । आद्या गायत्री । पणन्ति परद्रव्यैर्व्यवहरन्तीति पणयोऽसुराः इतोऽपयन्तु अपगच्छन्तु 'व्यवहिताश्च' (पा. १।४। ८२) इत्युपसर्गस्य यन्त्विति क्रियापदेन व्यवधानम् । किंभूताः पणयः । असुम्नाः सुम्नमिति सुखनाम । नास्ति सुम्नं येभ्यस्ते असुखकराः। तथा देवपीयवः । पीयतिर्हिंसाकर्मा । देवान्पीयन्ति हिंसन्ति ते देवपीयवः देवद्विषः । किमित्यसुराणामपगमोऽर्थ्यते तत्राह । अस्य लोकः अस्य यजमानस्यास्थिभूतस्यायं लोकः स्थानम् । किंभूतस्यास्य । सुतवतः सोमाभिषवं कृतवतः सुषावेति सुतवान् तस्य 'षुञ् अभिषवे' क्तवतुप्रत्ययान्तः 'अश्वरश्मिमतिसु. मती' (३।६ । २) इत्यादिना प्रातिशाख्यसूत्रेण संहितायां सुतशब्दस्याकारे दीर्घः । द्युभिरहोभिरिति यजुः । यमोऽस्मै । यजमानायावसानं ददातु । अवस्यन्त्यस्मिन्नित्यवसानं स्थानम् । किंभूतं । द्युभिर्ऋतुभिः अहोभिः दिवसैः अक्तुभिः रात्रिभिश्च व्यक्तं स्पष्टीकृतम् । द्युशब्देन श्रुतौ ऋतव उक्ताः 'तदेनमृतुभिश्चाहोरात्रैश्च सलोकं करोति' ( १३ । ८ । २ । ३) इति श्रुतेः । क्रत्वाद्यधिष्ठातृदेवताभिः प्रकटितमस्मै यमो ददात्वित्यर्थः ॥ १॥

द्वितीया। ।
स॒वि॒ता ते॒ शरी॑रेभ्यः पृथि॒व्याँल्लो॒कमि॑च्छतु । तस्मै॑ युज्यन्तामु॒स्रिया॑: ।। २ ।।
उ० जपति । सविता ते गायत्री। सविता ते तव शरीरेभ्यः शरीराणामिति विभक्तिव्यत्ययः । पृथिव्यां लोकं स्थानं इच्छतु । नहि सवित्राऽननुज्ञातेनावस्थातुं शक्यते । द्वितीयं वाक्यम् । तस्मै क्षेत्राय शरीराय संस्कारार्थं युज्यन्तां शरीरे उस्रियाः अनड्वाहः ॥ २॥
म० 'औदुम्बरसीर उत्तरतो वा षङ्गवे युज्यमाने युङ्क्तेति संप्रेष्य सविता त इति जपति' ( का० २१।३ । ३४ ) इति । | ततोऽध्वर्युस्तां पलाशशाखां दक्षिणस्यां निरस्य परिश्रिद्भिर्वेष्टयित्वा तत्क्षेत्रस्य दक्षिणत उत्तरतो वा षड्भिरनडुद्भिः सीरं युनक्ति । तस्मिन् युज्यमाने युङ्क्तेति संप्रेष्य सवितेति मन्त्रं जपति । गायत्री । हे यजमान, सविता सूर्यः ते तव शरीरेभ्यः शरीराणां विभक्तिव्यत्ययः । पृथिव्यां लोकं स्थानमिच्छतु सवित्रनुज्ञां विना न केनापि स्थातुं शक्यते । द्वितीयं वाक्यमाह तस्मै इति । तस्मै सवित्रा दत्ताय क्षेत्राय संस्कारार्थम् उस्रियाः , अनड्वाहो युज्यन्तां युक्ता भवन्तु ॥ २ ॥

तृतीया।
वा॒युः पु॑नातु स॑वि॒ता पु॑नात्व॒ग्नेर्भ्राज॑सा॒ सूर्य॑स्य॒ वर्च॑सा । वि मु॑च्यन्तामु॒स्रिया॑: ।। ३ ।।
उ०. वायुः पुनातु । चतस्रः सीताः कर्षति चतुर्भिर्यजुर्भिः । वायुः पुनातु विदारयतु । सविता पुनातु विदारयतु । अग्नेर्भ्राजसा दीप्त्या विदारयतु । सूर्यस्य वर्चसा भ्राजिष्णुतया विदारयतु । विमुञ्चत्यनडुहः । विमुच्यन्तामुस्रियाः विमुच्यन्तां शरीरात् उस्रियाः अनड्वाहः ॥३॥
म० 'अनुरज्जु चतस्रः सीताः कृषति वायुः पुनात्विति प्रतिमन्त्रमुत्तरतः प्रतीचीं प्रथमामिति' (का० २११४।१-२)। अध्वर्युः परितो वेष्टितां रजुमनुलक्षीकृत्य वायुः पुनात्विति प्रतिमन्त्रं पादेन पादेन चतस्रः सीताः अप्रदक्षिणं कृषति । तत्र प्रथमां सीतामुत्तरपार्श्वे प्रतीचीं कृषति । दक्षिणतः सीरयोजनपक्षेऽपि तत्सीरमप्रदक्षिणमुत्तरत आनीय प्रथममुत्तरत एव कृषति । तदपसलवि पर्याहृत्योत्तरतः प्रतीचीं प्रथमाᳪं᳭ सीतां कृषति वायुः पुनात्विति सविता पुनात्विति जघनार्धन दक्षिणामग्नेर्भ्राजसेति दक्षिणार्धेन प्राचीᳪं᳭, सूर्यस्य वर्चसेत्यग्रेणोदीचीं' (१३ । ८ । २ । ६) इति श्रुतेः । चत्वारि यजूंषि लिङ्गोक्तदेवतानि । हे पृथिवि, वायुः त्वां पुनातु विदारयतु । सूर्यः त्वां पुनातु अग्नेर्भ्राजसा दीप्त्या सूर्यस्य वर्चसा तेजसा च त्वां विदारयतु। 'अनडुहो विमुच्य विमुच्यन्तामिति' (का० २१।४।४) एवं पूर्वोक्तचतुर्मन्त्रैः पार्श्वचतुष्के कर्षणं कृत्वा मध्येऽपि सर्वं क्षेत्रं यथा कृष्टं भवति तथा परिमिताः सीताः कृत्वा वृषभान्सीराद्विमुञ्चति । यजुः वृषदैवतम् । उस्रा धेनुः तदपत्यानि उस्रियाः अनड्वाहो विमुच्यन्तां सीराद्वियुज्यन्ताम् ॥ ३ ॥

चतुर्थी ।
अ॒श्व॒त्थे वो॑ नि॒षद॑नं प॒र्णे वो॑ वस॒तिष्कृ॒ता ।
गो॒भाज॒ इत्किला॑सथ॒ यत्स॒नव॑थ॒ पूरु॑षम् ।। ४ ।।
उ० अश्वत्थे व इति व्याख्यातम् ॥ ४ ॥
म० 'दक्षिणा सीरं निरस्याश्वत्थे व इति सर्वौषधं वपतीति' (का. २१ । ४ । ४) हलं दक्षिणदिशि तूष्णीं प्रक्षिप्य कृष्टक्षेत्रमध्ये सर्वोषधं वपति । अनुष्टुप् व्याख्याता (अ० १२ । क० ७९) ॥ ४ ॥

पञ्चमी।
स॒वि॒ता ते॒ शरी॑राणि मा॒तुरु॒पस्थ॒ आ व॑पतु । तस्मै॑ पृथिवि॒ शं भ॑व ।। ५ ।।
उ० शरीराणि निवपति । सविता ते । गायत्री । सविता ते तव शरीराणि अस्थीनि । मातुः पृथिव्याः उपस्थे उत्सङ्गे आवपतु स्थापयतु । तस्मै अस्थिरूपाय यजमानाय सवित्रा उप्ताय हे पृथिवि, शं भव सुखरूपा भव ॥ ५॥
म० 'सविता त इति शरीराणि निवपति मध्ये इति' (का० २१ । ४ । ५) । तस्य पुरुषमात्रस्य क्षेत्रस्य मध्ये शरीराणि मृतस्यास्थीनि राशीकरोति । एतच्च सूर्योदयकालं कर्तव्यम् 'यथा कुर्वतोऽभ्युदियात्' (१३ । ८।३।२) इति श्रुतेः । गायत्री सवितृदेवत्या । हे यजमान, सविता सूर्यः ते तव शरीराणि अस्थीनि मातुः पृथिव्याः उपस्थे उत्सङ्गे आवपतु स्थापयतु । हे पृथिवि भूमे, तस्मै सवित्रोप्तायास्थिरूपाय यजमानाय शं भव सुखरूपा भव ॥ ५॥

षष्ठी।
प्र॒जाप॑तौ त्वा दे॒वता॑या॒मुपो॑दके लो॒के नि द॑धाम्यसौ । अप॑ न॒: शोशु॑चद॒घम् ।। ६ ।।
उ० प्रजापतौ त्वा । यजुः कण्डिकाः । प्रजापतौ त्वाम् देवताया उपोदके उप समीपे उदकं यस्य स तथोक्तः । लोके स्थाने निदधामि । असाविति नामग्रहणम् । अनुदात्तत्वादामन्त्रितम् । तद्यथा हे देवदत्त, अप नः शोशुचदघम् । अपेत्य नः अस्मान् अत्यर्थं दहतु पापम् द्वेष्टॄन् । यद्वा प्रजापतिः अपशोशुचत् अत्यर्थं दहतु । नोऽस्माकमघं पापम् ॥ ६ ॥
म० उष्णिक् प्रजापतिदेवत्या अस्थिनिवापे एव निवियुक्ता । असाविति नामग्रहणमनुदात्तत्वादामन्त्रितम् । हे देवदत्त, उपोदके उदकसमीपवर्तिनि लोके स्थाने प्रजापतौ देवतायां त्वां निदधामि स्थापयामि । स प्रजापतिर्नोऽस्माकमघं पापं शोशुचत् अत्यर्थं दहतु । 'शुच शोके' यड्लुगन्तं रूपम् ॥ ६॥

सप्तमी।
परं॑ मृत्यो॒ अनु॒ परे॑हि॒ पन्थां॒ यस्ते॑ अ॒न्य इत॑रो देव॒याना॑त् ।
चक्षु॑ष्मते शृण्व॒ते ते॑ ब्रवीमि॒ मा न॑: प्र॒जाᳪं᳭ री॑रिषो॒ मोत वी॒रान् ।। ७ ।।
उ० प्रत्यागते जपति । परं मृत्यो त्रिष्टुप् मृत्युदेवत्या । हे मृत्यो, परं पन्थानमाश्रित्य । अनु परा इहि पराङ्मुखो भूत्वा आगच्छ । तं शब्देन दर्शयति । योऽसौ ते तव स्वभूतः अन्यः इतरः देवयानात् पितृयानाख्यः। अपिच चक्षुष्मते शृण्वते ते ब्रवीमि । षष्ठ्यर्थे चतुर्थी । चक्षुष्मतः शृण्वतः तव ब्रवीमि । अतिशयार्थं वचनम् । नहि तस्यादृष्टमश्रुतं चास्ति । मा च नः अस्माकं प्रजां रीरिषः हिंसीथाः । मोत वीरान् पुत्रान् ॥ ७ ॥
म०. 'प्रत्यागते परं मृत्यविति जपतीति' (का० २१ । ४।७)। दक्षिणां गत्वानुच्छ्वसन् कुम्भं प्रक्षिप्यैहीति कश्चिद्विप्रः प्रेषितोऽस्ति तस्मिन् कुम्भं क्षिप्ता प्रत्यागते सति यजमानोऽध्वयुर्वा जपति । मृत्युदेवत्या त्रिष्टुप् संकसुकदृष्टा । मृत्यो, परा पराङ्मुखो भूत्वा परमन्यं पन्थां पन्थानं मार्गमन्विहि अनुगच्छ । तमेव दर्शयति । यस्ते तव त्वदीयः पन्था देवयानात् पथः इतरः तुच्छः अन्यः पितृयानाख्यः देवा यान्ति यस्मिन् स देवयानः । किंच चक्षुष्मते ज्ञानिने शृण्वते च ते तुभ्यं मृत्यो, किंचिद् ब्रवीमि वदामि । आदरार्थं वचनम् । नहि तस्यादृष्टमश्रुतं वास्ति । षष्ठ्यर्थे चतुर्थ्यौ । चक्षुष्मतः शृण्वतस्तव वदामि । किम् । हे मृत्यो, नोऽस्माकं प्रजां सन्ततिं वंशपरम्परां मा रीरिषः मा हिंसीः । 'रिष वधे' स्वार्थे णिजन्तस्य लुङि रूपम् । उत अपिच वीरान्पुत्रान् मा हिंसीः ॥ ७ ॥

अष्टमी।
शं वात॒: शᳪं᳭ हि ते॒ घृणि॒: शं ते॑ भव॒न्त्विष्ट॑काः ।
शं ते॑ भवन्त्व॒ग्नय॒: पार्थि॑वासो॒ मा त्वा॒ऽभि शू॑शुचन् ।। ८ ।।
उ० यथार्थं कल्पयति अनुष्टुब्बृहतीभ्याम् । शं वातः सुखरूपो वातः ते भवतु । शं हि ते घृणिः सुखरूपश्च ते घृणिर्भवतु । घृणिरित्यहर्नाम । हीति स्वाध्यायार्थं । सुखरूपाश्च ते भवन्तु इष्टकाः । सुखरूपाश्च ते भवन्तु अग्नयः। पार्थिवाः पृथिव्यां भवाः पार्थिवासः । मा च त्वाम् अभिशूशुचन् अभितापयन्तु ॥८॥
म० 'शं वात इति यथाङ्गं कल्पयित्वेष्टकां निदधाति मध्ये तूष्णीमिति' (का० २१।४।८)। शं वात इति मन्त्रद्वयेन तानि मध्ये न्युप्तान्यस्थीनि यथाङ्गं कल्पयित्वा यदस्थि यस्याङ्गस्य तेनास्थ्ना तदङ्गकल्पनया प्राशिरसं पुरुषाकृतिं कृत्वा तन्मध्ये पादमात्रामिष्टकां तूष्णीं निदधाति । द्वे ऋचावनुष्टुब्बृहत्यौ विश्वदेवदेवते । हे यजमान, वातो वायुस्ते तव शं सुखरूपो भवतु । हि पुनः घृणिः सूर्यकिरणः ते तव शं सुखरूपो भवतु । इष्टका मध्ये प्रतिदिशं च तिस्रस्तिस्रः प्रक्षिप्तास्ते तव शं सुखरूपा भवन्तु । अग्नयश्च ते शं भवन्तु । पार्थिवासः पृथिव्यां भवाश्चाग्नयः त्वा त्वां माभिशूशुचन् मा शोचयन्तु अभितापयन्तु ॥ ८॥

नवमी।
कल्प॑न्तां ते॒ दिश॒स्तुभ्य॒माप॑: शि॒वत॑मा॒स्तुभ्यं॑ भवन्तु॒ सिन्ध॑वः ।
अ॒न्तरि॑क्षᳪं᳭ शि॒वं तुभ्यं॒ कल्प॑न्तां ते॒ दिश॒: सर्वा॑: ।। ९ ।।
उ० किंच । कल्पन्तां ते दिशः क्लृप्तास्ते दिशो भवन्तु । तुभ्यम् आपः शिवतमाः भवन्तु । तुभ्यं भवन्तु सिन्धवः समुद्राः शिवतमाः। अन्तरिक्षं शिवं तुभ्यं भवतु । कल्पन्तां ते दिशः सर्वाः । आदरार्थं पुनर्वचनं कार्त्स्न्यार्थं वा ॥ ९॥
म० दिशः ते तुभ्यं त्वदर्थं कल्पन्तां क्लृप्ता भवन्तु । आपो जलानि तुभ्यं शिवतमाः कल्याणकारिण्यो भवन्तु । सिन्धवः समुद्राश्च शिवतमास्तुभ्यं भवन्तु । अन्तरिक्षमाकाशं तुभ्यं शिवं कल्याणकारि भवतु । सर्वा दिशः ते तुभ्यं कल्पन्ताम् । आदरार्थं कार्त्स्न्यार्थं वा पुनर्वचनम् ॥ ९ ॥

दशमी।
अश्म॑न्वती रीयते॒ सᳪं᳭ र॑भध्व॒मुत्ति॑ष्ठत॒ प्र त॑रता॒ सखा॑यः ।
अत्रा॑ जही॒मोऽशि॑वा॒ ये अस॑ञ्छि॒वान्व॒यमुत्त॑रेमा॒भि वाजा॑न् ।। १० ।।
उ० अश्मन्वती रीयते। अश्मनस्त्रीन्विकिरन्ति ता अभ्युत्तरन्ति । त्रिष्टुब्वैश्वदेवी । अश्मन्वती पाषाणवती इयं नदी रीयते गम्यते अस्माभिः विषमम् । अतो ब्रवीमि । संरभध्वम् । संरम्भश्चोत्तरणाय प्रयत्नकरणम् । उत्तिष्ठत अभिमुखा भवत प्रतरत हे सखायः । किमित्यादरः । अत्रा. जहीमः परित्यजामः । अशिवाः अशान्ताः । ये असन् स्युः। शिवान् वाजान् अन्नविशेषान् वयम् अभ्युत्तरेम ॥१०॥
म०. 'अध्यधिगच्छन्त्यश्मन्वतीरिति' (का० २१।४।२१)। गर्तान्मृदमानीय पूर्ववर्जदिग्भ्यः कृष्ट्वा वा मृदमानीय तत् श्मशानं विप्रस्य मुखमितं क्षत्रस्योरोमितं वैश्यस्योरुमितं स्त्रिया भगमितं शूद्रस्य जानुमितं सर्वेषां वा जानुमितं मृदा कृत्वा शैवलैः कुशैश्च प्रच्छाद्य तद्दक्षिणतो गर्तौ खात्वा क्षीरोदकाभ्यां संपूर्य श्मशानोत्तरे सप्त गर्तान्खात्वा दक्षिणोत्तरान् जलेन संपूर्योत्तरगर्तेषु अध्वर्युयजमानामात्यांस्त्रीन्पाषाणान्प्रक्षिप्याश्मन्वतीरिति मन्त्रेण तद्गर्तोपरि गच्छन्ति । विश्वदेवदेवत्या त्रिष्टुप् सुचीकदृष्टा । हे सखायः मित्राणि, एषा अश्मन्वती पाषाणवती नदी रीयते गच्छति । 'री गतौ' दिवादिः आत्मनेपदी । अतो यूयं संरभध्वमुत्तरणाय प्रयतध्वम् । उत्तिष्ठत अभिमुखा भवत । प्रतरत प्रकर्षेण तां नदी तरत । किमिति । यतोऽत्र प्रदेशे ये अशिवाः अशान्ता दुष्टा राक्षसादयः असन् स्युः तान् वयं जहीमः परित्यजामः । तेषु त्यक्तेषु शिवान्सुखकरान् वाजानन्नविशेषान् वयमुत्तरेम प्राप्नुयाम ॥ १० ॥

एकादशी।
अपा॒घमप॒ किल्वि॑ष॒मप॑ कृ॒त्यामपो॒ रप॑: । अपा॑मार्ग॒ त्वम॒स्मदप॑ दु॒:ष्वप्न्य॑ᳪं᳭ सुव ।। ११ ।।
उ० अपामार्गेणापमृजति । अपाघम् अनुष्टुप् । हे अपामार्ग, त्वम् अस्मत् अस्मत्तः । अपसुव अपगमय अघं पापं मानसम् । अपगमय च किल्बिषं कीर्तिभेदकं पापमेव कायिकम् । अपगमय च कृत्याम् अभिचारम् । अपगमय च रपः । रपो रिप्रमिति पापनामनी भवतः । वाचिकं पापम् । अपगमय च दुःस्वप्न्यं दुःस्वप्ने भवं फलं दुःस्वप्न्यम् ॥ ११ ॥
म० 'अपाघमित्यपामार्गैरपमृजत इति' (का० २१ । ४ २२) । ते अमात्या यज्ञोपवीतिनो भूत्वाप उपस्पृश्य हस्तगृहीतैरपामार्गैः स्वशरीरं शोधयन्ते अपामार्गबीजैरुद्वर्तयन्तीति केचित् । लिङ्गोक्तदेवतानुष्टुप् शुनःशेपदृष्टा दुःस्वप्ननाशनी । हे अपामार्ग, त्वमस्मत् अस्मत्तः सकाशादघं मानसं पापमपसुव | 'षू प्रेरणे' अपगमयेत्यर्थः । किल्बिषं कीर्तिभेदकं कायिकं च पापमपसुव । कृत्यां परकृतमभिचारमपसुव । अप उ रपः 'रपो रिप्रमिति पापनामनी भवतः' (निरु. ४ । २१) इति यास्कः । रपः पापं वाचिकं च अपसुव उ चार्थे । दुःस्वप्न्यम् | दुष्टः स्वप्नो दुःस्वप्नः तत्र भवं दुःस्वप्नोत्थमसुखरूपं फलं चास्मत्तोऽपसुव ॥ ११॥

द्वादशी।
सु॒मि॒त्रि॒या न॒ आप॒ ओष॑धयः सन्तु दुर्मित्रि॒यास्तस्मै॑ सन्तु॒ योऽस्मान्द्वेष्टि॒ यं च॑ व॒यं द्वि॒ष्मः ।। १२ ।।
उ० सुमित्रिया न इति व्याख्यातम् ॥ १२ ॥
म० 'सुमित्रिया न इति स्नात्वाहतवाससोऽनडुत् पुच्छमन्वारभ्यानड्वाहमित्युद्वयमित्यागच्छन्तीति' (का० २१ । ४ । २३) सुमित्रिया इति मन्त्रेण स्नात्वा नूतनवस्त्राणि परिहितवन्तोऽनड्वाहमिति मन्त्रेण वृषपुच्छमन्वारभ्य उद्वयं तमिति मन्त्रेण यजमानामात्या ग्राममागच्छन्ति । यद्यप्यत्र सुमित्रिया इति मन्त्रेण स्नानमुक्तं तथापि सुमित्रिया इत्यपोऽञ्जलिनादाय दुर्मित्रिया इति द्वेष्यं परिषिञ्चतीति' (का० १८ । ५। १५) द्वयं विधेयम् । 'दुर्मित्रिया द्विष्म इति यामस्य दिशं द्वेष्या स्यात्तां दिशं परासिञ्चेत् तेनैव तं पराभावयति' (१३ । ८।४।५) इति श्रुतेः । व्याख्याता (अ० ६ । क० २२ । अ० २० । क. १९)॥ १२॥

त्रयोदशी।
अ॒न॒ड्वाह॑म॒न्वार॑भामहे॒ सौर॑भेयᳪं᳭ स्व॒स्तये॑ । स न॒ इन्द्र॑ इव दे॒वेभ्यो॒ वह्नि॑: स॒न्तार॑णो भव ।। १३ ।।
उ० अनडुत्पुच्छमन्वारब्धा आगच्छन्ति । अनड्वाहम् । आनडुही अनुष्टुप् । उत्तरोऽर्धर्चः प्रत्यक्षकृतः अतो यच्छब्दाध्याहारेण सामर्थ्यम् । या त्वाम् अनड्वाहं अन्वारभामहे आलभामहे । सौरभेयं सुरभ्या अपत्यम् 'स्त्रीभ्यो ढक्' । स्वस्तये अविनाशाय । स त्वम् नः अस्माकम् इन्द्रइव देवेभ्यः देवानामिति विभक्तिव्यत्ययः । वह्निर्वोढा संतारणश्च भव ॥ १३॥
म० अनुष्टुप् अनडुद्देवत्या । उत्तरोऽर्धर्चः प्रत्यक्षकृतः ततः सर्वनाम्नोऽध्याहारेण सामर्थ्यम् । वयं यमनड्वाहमन्वारभामहे आलभामहे स्पृशामः । किंभूतम् । सौरभेयं सुरभ्याः अपत्यम् 'स्त्रीभ्यो ढक्' (पा० ४।१।१२०) इति ढक् । किमर्थम् । स्वस्तये अविनाशाय । हे अनड्वन् , स त्वं नोऽस्माकं संतरणः तारको दुःखनाशको भव । किंच त्वं वह्निः देवानां वोढा । तत्र दृष्टान्तः । देवेभ्यः इन्द्र इव । इन्द्रो यथा देवार्थं तारको भवति ॥ १३॥

चतुर्दशी। .
उद्व॒यं तम॑स॒स्परि॒ स्व: पश्य॑न्त॒ उत्त॑रम् ।
दे॒वं दे॑व॒त्रा सूर्य॒मग॑न्म॒ ज्योति॑रुत्त॒मम् ।। १४ ।।
उ० उद्वयमिति व्याख्यातम् ॥ १४ ॥
म० उद्वयं तमिति ग्राममागच्छन्ति । व्याख्याता (अ. २० । क० २१)॥ १४ ॥

पञ्चदशी।
इ॒मं जी॒वेभ्य॑: परि॒धिं द॑धामि॒ मैषां॒ नु गा॒दप॑रो॒ अर्थ॑मे॒तम् ।
श॒तं जी॑वन्तु श॒रद॑: पुरू॒चीर॒न्तर्मृ॒त्युं द॑धतां॒ पर्व॑तेन ।। १५ ।।
उ०. मर्यादाया एव लोष्टमाहृत्यान्तेन तोरणे निदधाति । इमं जीवेभ्यः । त्रिष्टुप् मृत्युदेवत्या । इमं लोष्टं जीवेभ्यः अर्थाय । परिधिं परिधीयत इति परिधिः तं परिधिम् । दधामि स्थापयामि । किमर्थमिति चेत् । मा गात् मा गच्छतु एषां जीवानां मध्ये अपरः नु क्षिप्रं वेदोक्तादायुषोऽर्वाक् पितृलोकम् । एतमर्थं पुरस्कृत्य सर्वथा शतं जीवन्तु शरदः पुरूचीः बह्वञ्चनाः दानाध्ययनयागानुकूला: अन्तर्मृत्युं दधताम् अन्तर्दधातु मृत्युम् पर्वतेन इव लोष्ठेन ॥ १५॥ |
म० 'ग्रामश्मशानान्तरे मर्यादालोष्टं निदधातीमं जीवेभ्य इति' (का० २१।४।२४)। स्वनिवासग्रामस्य श्मशानस्य च मध्ये मर्यादालोष्टं महत्तरं मृत्खण्डमध्वर्युरेव निदधाति । मनुष्यदेवत्या त्रिष्टुप् संकसुकदृष्टा । जीवेभ्यः विद्यमानजन्त्वर्थमिमं परिधिं मर्यादां दधामि स्थापयामि । कथमिति चेत् । । एषां जीवानां मध्ये अपरः कश्चित् नु क्षिप्रं वेदोक्तादायायुषोऽर्वाक् एतमर्थं पितृलोकगमनलक्षणं कार्यमुद्दिश्य मा गात् मा गच्छतु । एते जीवाः शतं शरदः जीवन्तु शतवर्षायुषो भवन्तु । किंभूताः शरदः । पुरूचीः पुरु बहु अञ्चन्तीति पुरूच्यः दानाध्ययनयागानुकूलाः । किंच पर्वतेन लोष्टेनैव मृत्युमन्तर्दधतां मृत्युमन्तर्हितं कुर्वन्तु एते जीवाः ॥ १५ ॥

षोडशी।
अग्न॒ आयू॑ᳪं᳭षि पवस॒ आ सु॒वोर्ज॒मिषं॑ च नः । आ॒रे बा॑धस्व दु॒च्छुना॑म् ।। १६ ।।
उ० जुहोति द्वाभ्याम् । अग्न आयूᳪं᳭षि । व्याख्यातम् ॥ १६ ॥
म० 'अञ्जनाभ्यञ्जने कृत्वौपासनं परिस्तीर्य वारणान् परिधीन्परिधाय वारणेन स्रुवेणैकामाहुतिं जुहोत्यग्न आयूᳪं᳭ष्यायुष्मानग्न इति' (का० २१ । ४ । २५)। कज्जलादिना नेत्राञ्जनमञ्जनम् तैलेन पादाञ्जनमभ्यञ्जनम् तद्वयं कृत्वा औपासनं कर्तुरावसथ्याग्निं दर्भैः परिस्तीर्य वारणवृक्षावयवांश्चतुरः परिधींश्चतुर्दिक्षु तूष्णीमेव परिधाय वारणेन स्रुवेणैकामाहुतिं जुहोति ऋग्द्वयेन । औपासनः प्रेतस्यैव । तस्यैवाद्वारेण निरसनीयत्वादिति हरिस्वामिनः । कर्तुरेवौपासने होमस्तस्यैकदेशनिरसनमिति कर्कादयः। व्याख्याता (अ० १९ । क० ३८)॥१६॥

सप्तदशी।
आयु॑ष्मानग्ने ह॒विषा॑ वृधा॒नो घृ॒तप्र॑तीको घृ॒तयो॑निरेधि ।
घृ॒तं पी॒त्वा मधु॒ चारु॒ गव्यं॑ पि॒तेव॑ पु॒त्रम॒भि र॑क्षतादि॒मान्त्स्वाहा॑ ।। १७ ।।
उ० आयुष्मानग्ने । वसुरन्ता त्रिष्टुप् । इमा स्वाहेति यजुः । हे अग्ने, यः त्वम् आयुष्मान् तं त्वां ब्रवीमि । हविषा वृधानः वर्धमानः । घृतप्रतीकः । प्रतीकं मुखम् । घृतयोनिः घृतसंस्थानः एधि भव । उत्तरवेद्यां धारणाभिप्रायमेतत् । घृतं च पीत्वा । मधु मधुरसम् । चारु सुगन्धि । गव्यं गोविकारसंभूतम् । पिता इव पुत्रम् अभिरक्षतात् । 'तुह्योस्तातङा शिष्यन्यतरस्याम्' इति तातङादेशः । अभिरक्ष इमान् जीवान् । स्वाहा सुहुतमस्तु ॥ १७ ॥
म० अग्निदेवत्या त्रिष्टब् वैखानसदृष्टा । हे अग्ने, त्वमेवंभूत एधि भव । किंभूतः । आयुष्यमान् चिरंजीवी । तथा हविषा वृधानः वर्धतेऽसौ वृधानः 'बहुलं छन्दसि' (पा० २।४ ७३) इति शानचि शपो लुक् । तथा घृतप्रतीकः घृतं प्रतीकं मुखं यस्य । घृतयोनिः घृतं योनिरुत्पत्तिस्थानं यस्य उत्तरवेद्या धारणाभिप्रायमेतत् । स त्वं गव्यं गोसंबन्धि घृतं पीत्वा इमान् जीवान् अभिरक्षतादभिरक्ष 'तुह्योस्तातङाशिष्यन्यतरस्यां' (पा. ७ । १ । ३५) इति हेस्तातङादेशः । तत्र दृष्टान्तः । पिता पुत्रमिव यथा पिता पुत्रं रक्षति । किंभूतं घृतम् । मधु मधुरं । चारु सुगन्धि । स्वाहा सुहुतमस्तु ॥१७॥

अष्टादशी।
परी॒मे गाम॑नेषत॒ पर्य॒ग्निम॑हृषत । दे॒वेष्व॑क्रत॒ श्रव॒: क इ॒माँ२।। आ द॑धर्षति ।। १८ ।।
उ० अथैषां परिदां दधाति अनुष्टुभा । परीमे गामनेषत । इमे जीवाः परि सर्वतः गाम् अनेषत । नयतेर्लुङि सिच एतद्रूपम् । परिणीतवन्तः गाम् । अनडुत्पुच्छालम्बनाभिप्रायमेतत् । पर्यग्निमहृषत पर्यहृष्यत । हरतेरेतद्रूपम् । परिहृतवन्तः अग्निम् । यस्मिन्नग्नावेतत्कर्म क्रियते तमग्निं परिहृतवन्तः । अद्वारेणोपासनं निरस्यतीत्येतदभिप्रायमेतत् । देवेषु ऋत्विक्षु । अक्रत । अकृषतेति प्राप्ते सिचो लोपश्छान्दसः । श्रवः धनं दक्षिणालक्षणम् । अथेदानीं कृतकृत्यान् इमान् कः को नाम । आदधर्षति आधर्षयितुं आक्रमितुं शक्नुयात् । अशक्यप्रतिक्रिया ह्येते वर्तन्त इत्यभिप्रायः ॥ १८॥
म०. 'अथैषां परिदां वदन्ति । परीमे गामनेषतेति ।' (का० । २१ । ४ । २६) अध्वर्युयजमानामात्यानां परिदाम् परिदा रक्षणम् सत्संज्ञं मन्त्रं वदति 'दाङ् पालने' परिदीयते समन्ताद्रक्ष्यतेऽनेनेति परिदाः रक्षणः तम् । इन्द्रदेवत्यानुष्टुप् भरद्वाजात्मजशिरिम्बिठदृष्टा । इमे जीवाः गामनड्ड्वाहं पर्यनेषत परिणीतवन्तः अनडुत्पुच्छालभनाभिप्रायम् । नयतेर्लुङि तङि सिचि प्रथमबहुवचने रूपम् 'व्यवहिताश्च' (पा. १ । ४ । ८२) इति परेर्व्यवधानं क्रियापदेन । इमे जीवाः अग्निं च पर्यहृषत परिहृतवन्तः । यस्मिन्नग्नावेतत्कर्म कृतं तं परिजह्रुः । अद्वारेणौपासनं निरस्यतीत्येतदभिप्रायम् । इमे देवाः दीव्यन्ति कर्मसु दीप्यन्ते ते देवाः ऋत्विजः तेषु श्रवः धनं दक्षिणालक्षणमक्रत कृतवन्तः। अकृषतेति प्राप्ते सिचो लोपे अक्रतेति रूपम् । अत एतैः कर्मभिः कृतकृत्यानिमाञ्जीवान् कोनाम आदधर्षति आकर्षयितुं पराभवितुं शक्नुयात् । अशक्यप्रतिक्रिया एते जाता इति भावः ॥ १८ ॥

एकोनविंशी ।
क्र॒व्याद॑म॒ग्निं प्र हि॑णोमि दू॒रं य॑म॒राज्यं॑ गच्छतु रिप्रवा॒हः ।
इहै॒वायमित॑रो जा॒तवे॑दा दे॒वेभ्यो॑ ह॒व्यं व॑हतु प्रजा॒नन् ।। १९ ।।
उ०. अद्वारेणोपासनं निरस्यति । क्रव्यादमग्निम् । त्रिष्टुप् । अथ येन पुरुषं दहति स क्रव्यात् । क्रव्यादमग्निम् । प्रहिणोमि प्रेषयामि दूरमपुनरागमनाय । यमराज्यं गच्छन्तु रिप्रवाहः । रिप्रमिति पापनाम । रिप्रं मृतं वहति प्रापयति भस्मीभावमिति रिप्रवाहः । जपति । इह ग्रहे एव अयम् इतरः क्रव्यादादन्यः जातवेदाः जातप्रज्ञानः । देवेभ्यः हव्यं हविः वहतु । प्रजानन् स्वमधिकारम् ॥ १९॥ |
म० 'अद्वारेणौपासनं निरस्यति क्रव्यादमिति' (का० २१ ४ । २७) । आहुतिहोमानन्तरं यत्र हुतं तस्यौपासनस्यैकशेषं निरस्यति । प्रेतस्यैवोपासन इति पक्षे सर्वमपि निरस्यति । अग्निदेवत्या त्रिष्टुप् दमनदृष्टा । येन पुरुषो दह्यते स क्रव्यात् तं क्रव्यादमग्निमहं दूरम् अपुनरागमनाय प्रहिणोमि प्रेषयामि । स प्रहितः क्रव्यादग्निः यमराज्यं गच्छतु यमस्य राज्यं प्रति व्रजतु । किंभूतः । रिप्रवाहः 'रिप्रमिति पापनाम' (नि० ४ । २१) | रिप्रं पापं वहति नाशयति रिप्रवाहः । 'इहैवायमिति जपति' (का० २१ । ४ । २८)। यजमानो जपति । अयमितरः क्रव्यादादन्यो जातवेदाः जातप्रज्ञानोऽग्निः इहैवास्मिन्नेव गृहे सदने देवेभ्योऽर्थाय हव्यं हविः वहतु प्रापयतु । किं कुर्वन् । प्रजानन् स्वाधिकारं जानानः । इति पितृमेधः समाप्तः । उपधानासन्दीवृषभयवानजीर्णान् तद्दक्षिणात्वेन दद्यात् । इच्छन् . हेमाद्यपि दद्यात् ॥ १९ ॥

विशी।
वह॑ व॒पां जा॑तवेदः पि॒तृभ्यो॒ यत्रै॑ना॒न्वेत्थ॒ निहि॑तान् परा॒के ।
मेद॑सः कु॒ल्या उप॒ तान्त्स्र॑वन्तु स॒त्या ए॑षामा॒शिष॒: सं न॑मन्ता॒ᳪं᳭ स्वाहा॑ ।। २० ।।
उ० वपां जुहोति । वह वपाम् त्रिष्टुप् । वह प्रापय । वपाम् । हे जातवेदः पितृभ्यः । यत्र यस्मिन्प्रदेशे एतान पितॄन् वेत्थ जानासि । निहितान् स्थापितान् । पराके पराक्रान्ते सुदूरेऽपि । तस्याश्च वपायाः सकाशात् मेदसः कुल्या नद्यः निःसृत्य उपस्रवन्तु । तान् पितॄन्प्रति । एषां च दातृणाम् सत्या अवितथा आशिषः संनमन्तां प्रह्वीभवन्तु । स्वाहेति यजुः ॥ २०॥
म० जातवेदोदेवत्या त्रिष्टुप् । अस्या विनियोगः श्रौतसूत्रे नास्ति । किंतु गृह्यसूत्रेऽस्ति । तथाहि 'मध्यमा गवा तस्यै वपां जुहोति वह वपां जातवेदः पितृभ्यः' (पार० ३।३) इति । अस्यार्थः । मध्यमाष्टका गोपशुना कार्या तस्या धेनोर्वपां जुहोति वह वपामिति मन्त्रेणेत्यर्थः । हे जातवेदः, जातं वेदो धनं यस्मात् स जातवेदाः तत्संबोधने हे जातवेदः, पितृभ्योर्थाय त्वं वपां धेनुसंबन्धि चर्मविशेषं त्वं वह प्रापय । पराके पराक्रान्ते दूरेऽपि यत्र यस्मिन्देशे निहितान्स्थापितानेनान्पितॄन् त्वं वेत्थ जानासि तत्र वहेत्यर्थः । तस्याः वपायाः निःसृत्य मेदसः धातुविशेषस्य कुल्याः नद्यः तान्पितॄन् प्रति उपस्रवन्तु प्रसरन्तु । किंच एषां दातॄणामाशिषः मनोरथाः सत्याः अवितथाः सन्नमन्तां प्रह्वीभवन्तु । स्वाहा सुहुतमस्तु । स्वाहेति ऋग्भिन्नं यजुः ॥ २०॥

एकविंशी । ।
स्यो॒ना पृ॑थिवि नो भवानृक्ष॒रा नि॒वेश॑नी । यच्छा॑ न॒: शर्म॑ स॒प्रथा॑: ।
अप॑ न॒: शोशु॑चद॒घम् ।। २१ ।।
उ० स्योना पृथिवि । पार्थिवी गायत्री । स्योना सुखरूपा हे पृथिवि, नः अस्माकम् भव अनृक्षरा च । ऋक्षरः कण्टकः। अनृक्षरा अकण्टका । निवेशनी च साधुप्रतिष्ठाना । किंच । यच्छा नः प्रयच्छ च नः अस्माकम् शर्म शरणम् । सप्रथाः सर्वतः पृथुः । अप नः शोशुचदघमिति व्याख्यातम् ॥२१॥
म०. पृथिवीदेवत्या गायत्री मेधातिथिदृष्टा यजुरन्ता । अस्या अपि श्रौते विनियोगो नास्ति स्मार्ते स्रस्तरारोहणे शयने विनियोगः । तथाहि 'स्योना पृथिवि नो भवेति दक्षिणपार्श्वे प्राक्शिरसः संविशन्तीति' (पार० ३ । २) । हे पृथिवि, त्वं नोऽस्माकं स्योना सुखरूपा भव । किंभूता त्वम् । अनृक्षरा ऋक्षरः कण्टकः। 'ऋच्छतेः कण्टकः कन्तपो वा कण्टतेर्वा कृन्ततेर्वा स्याद्गतिकर्मणः' (निरु० ९ । ३२ ) इति यास्कः । तद्र्(हणं चौरदायादादिदुःखनिवृत्त्यर्थम् । न सन्ति ऋक्षराः कण्टकाः दुःखदायिनो यस्यां सा अनृक्षरा । तथा निवेशनी निविशन्ति जनाः यस्यां सा निवेशनी साधुप्रतिष्ठाना 'करणाधिकरणयोश्च' (पा० ३ । ३ । ११७) इति ल्युट् । तथा सप्रथाः प्रथनं प्रथः विस्तारः प्रथसा सह वर्तमाना सप्रथाः सर्वतः पृथुः । किंच नोऽस्मभ्यं शर्म शरणं यच्छ देहि । अतः परं यजुः तद्विनियोगो गृह्यसूत्रे संबन्धिमरणनिमित्ते स्नाने जलापनोदने । तथाहि 'सव्यस्यानामिकया अपनोद्याप नः शोशुचदघमिति' (पार० ३ । १०) । इदं जलं नोऽस्माकमघं पापमपशोशुचत् अपशोचयतु दहतु ॥ २१॥

द्वाविंशी।
अ॒स्मात्त्वमधि॑ जा॒तो॒ऽसि॒ त्वद॒यं जा॑यतां॒ पुन॑: । अ॒सौ स्व॒र्गाय॑ लो॒काय॒ स्वाहा॑ ।। २२ ।।
इति माध्यन्दिनीयायां वाजसनेयसंहितायां पञ्चत्रिंशोऽध्यायः ॥ ३५ ॥
उ० अस्मात्त्वम् । गायत्री यजुरन्ता एकात्राहुतिः । अनिरुक्ताग्नेयी । अस्माद्यजमानात् । हे अग्ने, त्वम् अधिजातोसि यतः अतो ब्रवीमि । अयं पुनर्जायमानः त्वत् त्वत्तः जायतामुत्पद्यताम् । असाविति नामग्रहणम् । तद्यथा देवदत्तः स्वर्गाय लोकाय स्वर्गलोकप्राप्त्यर्थम् । त्वत्तो ह्ययं जायमानः त्वद्वश्य एव स्यादित्यभिप्रायः। स्वाहेति संप्रदानमस्तु ॥२२॥
इति उवटकृतौ मन्त्रभाष्ये पञ्चत्रिंशोऽध्यायः ॥ ३५ ॥
म० 'आहुतिं जुहोति पुत्रो भ्रातान्यो वा ब्राह्मणोऽस्मात्त्वमधिजातोऽसीति' (का० २५ । ७ । ३७) । साग्निकस्य पात्रप्रतिपत्त्यन्ते दाहात्पूर्वमाज्याहुतिं पुत्रादिर्जुहोति । अग्निदेवत्या गायत्री अनिरुक्ता । हे अग्ने, त्वमस्मात् यजमानात् आधानकाले अधिजातोऽसि उत्पन्नोऽसि । अतोऽयं यजमानः पुनः त्वत् त्वत्तः जायतामुत्पद्यताम् । असाविति विशेषनामवचनः । तथाहि देवदत्तः स्वर्गाय लोकाय स्वर्गलोकप्राप्त्यर्थं त्वत्तो जायताम् । त्वद्वंश्य एव भवत्विति भावः । स्वाहा सुहुतमस्तु ॥ २२ ॥
श्रीमन्महीधरकृते वेददीपे मनोहरे । पञ्चत्रिंशोऽयमध्यायः पितृमेधाभिधोऽगमत् ॥ ३५ ॥