सामग्री पर जाएँ

शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्)/सप्तदशः सर्गः(यदुवंशक्षोभणम्)

विकिस्रोतः तः
← षोडशः सर्गः(दूतसंवादवर्णनम्) शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्)
सप्तदशः सर्गः(यदुवंशक्षोभणम्)
माघः
अष्टादशः सर्गः(सङ्कुलयुद्धवर्णनम्) →


सप्तदशः सर्गः।

 इतीरिते वचसि वचस्विनामुना युगक्षयक्षुभितमरुद्गरीयसि ।
 प्रचुक्षुभे सपदि तदम्बुराशिना समं महाप्रलयसमुद्यतं सदः ॥१॥

 इतीति ॥ इतीत्थममुना वचस्त्रिना वाग्मिना । 'मनस्विना' इति पाठे मनस्विना धीरेण दूतेन युगक्षये कल्पान्ते क्षुभित उद्धतो मरुत्तद्वद्गरीयसि वचसि ईरिते सति । तदम्बुराशिना युगक्षयवर्धिना समं तुल्यं यथा तथा सदो हरेरास्थानं महाप्रलये सर्वसंहारे समुद्यतमुद्युक्तं सत् सपदि प्रचुक्षुभे प्रचुकोप । कल्पोद्धतमहामारुतेन महार्णव इव तद्वचनेन तत्सदः क्षुभितमासीदित्यर्थः । उपमा । रुचिरा वृत्तम् । 'चतुर्ग्रहैरिह रुचिरा जभस्जगा' इति लक्षणात् ॥१॥

 अथाष्टादशभिः सभाक्षोभं वर्णयति-

 सरागया स्रुतघनघर्मतोयया कराहतिध्वनितपृथूरुपीठया ।
 मुहुर्मुहुर्दशनविखण्डितोष्ठया रुषा नृपाः प्रियतमयेव भेजिरे ॥२॥

 सरागयेत्यादि ॥ नृपा राजानः सह रागेण पाटलिम्ना, अनुरागेण च सरागया । 'तेन सहेति तुल्ययोगे' (२।२।२८) इति बहुव्रीहिः । स्रुतं घनं सान्द्रं घर्मतोयं स्वेदोदकं यस्यां सा तया कराहत्या पाणितलास्फालनेन ध्वनितं पृथु महदुरु पीठमिव उरुपीठं यस्यां तया मुहुर्मुहुर्दशनविखण्डितोष्टया दन्तदष्टाधरया । रुषा प्रियतमयेव भेजिरे। आविष्टोऽनाविष्टश्च रौद्रस्थायी क्रोधः प्रादुरभू'दित्यर्थः । उपमालंकारः॥

 अथ सप्तदशभी राज्ञां क्रोधानुभावानाह-

 अलक्ष्यत क्षणदलिताङ्गदे गदे करोदरप्रहितनिजांसधामनि ।
 समुल्लसच्छकलितपाटलोपलैः स्फुलिङ्गवान्स्फुटमिव कोपपावकः३

 अलक्ष्यतेत्यादि ॥ करोदरप्रहितं पाणितलास्फालितं निजमंसधाम स्वांसप्रदेशो येन तस्मिन् । अत एव क्षणाद्दलिताङ्गदे भग्नकेयूरे गदे गदाख्ये कृष्णानुजे समुल्लसद्भिरुत्पतद्भिः शकलितैः शकलीकृतैर्दलदङ्गदगलितैः पाटलोपलैः पद्मरागैः कोपपावकः स्फुलिङ्गवानिव स्फुटं व्यक्तमलक्ष्यतेत्युत्प्रेक्षा । 'त्रिषु स्फुलिङ्गोऽग्निकणः' इत्यमरः ॥ ३ ॥

 अवज्ञया यदहसदुच्चकैर्वलः समुल्लसद्दशनमयूखमण्डलः ।
 रुषारुणीकृतमपि तेन तत्क्षणं निजं वपुः पुनरनयनिजां रुचिम् ॥४॥

 अवशयेति ॥ बलो बलभद्रः समुल्लसत्समन्ततः प्रसरद्दशनमयूखमण्डलं दन्तरश्मिपटलं यस्य स सन् अवज्ञयाऽनादरेण उच्चैरहसदिति यत् तेन हासेन रुषारुणीकृतमपि निजं वपुः तत्क्षणं तस्मिन्क्षणे । अत्यन्तसंयोगे द्वितीया । पुनरुचिं धावल्यमेवानयत् । अत्र वपुषः स्वधावल्यत्यागेन दन्तधावल्यस्वीकारात्तद्गुणालंकारः । 'तद्गुणः स्वगुणत्यागादन्योत्कृष्टगुणाश्रयात्' इति लक्षणात् ॥४॥

 यदुत्पतत्पृथुतरहारमण्डलं व्यवर्तत द्रुतमभिदूतमुल्मुकः ।
 बृहच्छिलातलकठिनांसघट्टितं ततोऽभवद्भ्रमितमिवाखिलं सदः ५

 यदिति ॥ उल्मको नाम राजा उत्पतदुल्लुठत्पृथुतरं हारमण्डलं मुक्ताकलापो यस्मिन्कर्मणि तद्यथा तथा अभिदूतं दूताभिमुखं व्यवर्तत विवृत्त इति द्रुतं यत् ततो विवर्तनादखिलं संदः बृहता शिलातलकठिनेनांसेन स्कन्धेन घट्टितं भ्रमितमिवाभवत् । विवर्तवेगवशोत्थादसघट्टनाशमितमिवाभूदित्युप्रेक्षा ॥ ५ ॥

 प्रकुप्यतः श्वसनसमीरणाहतिस्फुटोष्मभिस्तनुवसनान्तमारुतैः ।
 युधाजितः कृतपरितूर्णवीजनं पुनस्तरां वदनसरोजमखिदत् ॥६॥

 प्रकुप्यत इति ॥ प्रकुप्यतोऽतिक्रुध्यतो युधाजितो नाम राज्ञो वदनसरोज श्वसनसमीरणस्य निःश्वासमारुतस्याहतिभिः स्फुटः प्रकट ऊष्मा उष्णत्वं येषां ते तैः तनुवसनान्तमारुतैः सूक्ष्मवस्त्राञ्चलवातैः कृतं परिपूर्णवीजनं शीघ्रविधूननं यस्य तत् । अतिशीघ्र वीज्यमानमपीत्यर्थः । पुनस्तरां पुनरत्यन्तम् । अव्ययादा-

पाठा०-१ 'जगत् मुप्रत्ययः । अस्विदत्स्विद्यति स्म । स्विदेर्लुङि पुषादित्वादङ्प्रत्ययः । अत्रोष्मविशेषणगत्या स्वेदहेतुत्वाकाव्यलिङ्गम् , वीजनेऽपि स्वेद इति विरोधः । वीचिरयं चुरादिष्वन्वेषणीयः ॥ ६ ॥

 प्रजापतिक्रतुनिधनार्थमुत्थितं व्यतर्कयज्ज्वरमिव रौद्रमुद्धतम् ।
 समुद्यतं सपदि वधाय विद्विषामतिक्रुधं निषधमनौषधं जनः ॥७॥

 प्रजेति ॥ जनः सपदि विद्विषां वधाय समुद्यतमुद्युक्तं उद्धतं तीव्रम् अत एवातिक्रुधमधिकक्रोधि । अनौषधम् । अप्रतीकारमित्यर्थः । निषधं निषधाख्यं नृपं प्रजापतिक्रतुनिधनार्थं दक्षाध्वरध्वंसनार्थमुत्थितं रुद्रस्येमं रौद्रं रुद्रसंबन्धिनं ज्वरमिव वीरभद्ररूपिणमित्यर्थः । व्यतर्कयत् । अत्र राज्ञोऽपि प्रजापतित्वा- त्पुनः प्रजापतिक्रतुनिधनार्थमुत्थितः साक्षाद्दक्षाध्वरविध्वंसी वीरभद्र एवायमित्युत्प्रेक्षितवानित्यर्थः । उपमा ॥ ७ ॥

 परस्परं परिकुपितस्य पिंषतः क्षतोर्मिकाकनकपरागपङ्किलम् ।
 करद्वयं सपदि सुधन्वनो निजैरनारतस्रुतिभिरधाव्यताम्बुभिः॥८॥

 परस्परमिति ॥ परिकुपितस्यातिक्रुद्धस्य अत एव परस्परं पिंषतः पीडयतः। करद्वयमित्यर्थः । सपदि सुधन्वनो राज्ञः क्षतानां पिष्टानामूर्मिकाणामङ्गुलीयकानां कनकपरागेण सुवर्णचूर्णेन पङ्किलं पङ्कवत् । पिच्छादित्वान्मत्वर्थीय इलप्रत्ययः । 'अङ्गुलीयकमूर्मिका' इत्यमरः । करद्वयं पाणियुग्मं निजैः करद्वयजन्यैरेवानारतस्रुतिभिरविरतस्रावैरम्बुभिः । स्वेदोदकैरधाव्यताक्षाल्यत । गतिशुद्ध्योः' इति धातोः कर्मणि लङ् । अनोर्मिकाणां करद्वयस्य च परागत्वपङ्किलत्वासंबन्धेऽपि संबन्धोक्तेरतिशयोक्ती तयोः संकरः॥८॥

 निरायतामनलशिखोज्वलां ज्वलन्नखप्रभाकृतपरिवेषसंपदम् ।
 अविभ्रमद्भ्रमदनलोल्मुकाकृति प्रदेशिनी जगदिव दग्धुमाहुकिः ९

 निरिति ॥ आहुकिर्नाम राजा निरायतां प्रसारितां अनलशिखाग्निज्वाला तद्वदुज्ज्वलां ज्वलन्तीभिर्नखप्रभाभिः कृता परिवेषसंपत्परिधिशोभा यस्यास्ताम् । अत एव भ्रमतोऽनलोल्युकस्यालातस्येवाकृतिः संस्थानं यस्यास्ताम् । 'अङ्गारोऽलातमुल्मुकम्' इत्यमरः । प्रदेशिनी जगद्दग्धुमिवेत्युत्प्रेक्षा । अविभ्रमद्रमयति स्म । भ्रमेणी चङ् । दूतसंतर्जनाय भ्राम्यमाणनखप्रभापटला तर्जनी जगद्दाहाय भ्राम्यमाणाऽलातचक्रवदलक्ष्यतेत्यर्थः ॥ ९॥

 दुरीक्षतामभजत मन्मथस्तथा यथा पुरा परिचितदाहधार्यया ।
 ध्रुवं पुरः सशरममुं तृतीयया हरोऽपि न व्यसहत वीक्षितुं दृशा १०

 दुरीक्षतामिति ॥ मन्मथः प्रद्युम्नावतारः कामस्तथा दुरीक्षतां दुर्दिनत्वम् । ईक्षतेः खलन्तात्तल्प्रत्ययः । अभजत । यथा हरोऽपि पुरा पूर्वजन्मनि परिचित-

पाठा०-१ 'तेनैव तच्छब्द इति विशेषोक्तिश्चेति संकरः। वीजनमित्यजेर्वीयस्य रूपकमिति केचित् । तस्माद्वीजिरन्य एवायं चुरादिषु गवेष्टव्यः'. "धावु । मभ्यस्तं दाहधाष्ट्यं दहनसाहसं यस्यास्तया तृतीयया दृशा सशरममुं मन्मर्थ ध्रुवं पुनर्वीक्षितुं न व्यसहत न शक्तः । 'परिनिविभ्यः सेवसितसयसिवुसहसुदः स्तुस्वञ्जाम्' (८३३७०) 'सिवादीनां वाड्व्यवायेऽपि' (८।३।७१) इति विकल्पान्ने पत्वम् । अनयोत्प्रेक्षया रुद्रस्यापि भीषणः किमुतान्येषामिति वस्तु व्यज्यते ॥ १० ॥

 विचिन्तयन्नुपनतमाहवं रसादुरः स्फुरत्तनुरुहमग्रपाणिना ।
 परामृशत्कठिनकठोरकामिनीकुचस्थलप्रमुषितचन्दनं पृथुः ॥११॥

 विचिन्तयन्निति ॥ पृथु म राजा उपनतं प्राप्तमाहवं युद्धं रसागणरागा. द्विचिन्तयन् कदेति ध्यायन् कठिनेन कर्कशेन कठोरेण प्रवृद्धेन कामिन्याः कुच- स्थलेन प्रमुषितमपहृतं चन्दनं यस्य तत् । एतेनास्य सुरतसमरयोः समरसत्वं व्यज्यते । अत एव स्फुरत्तनुरुहमुदञ्चत्पुलकमुरः अग्रश्चासौ पाणिश्चेति समाना- धिकरणसमासः । अत एव 'हस्ताग्राग्रहस्तादयो गुणगुणिनोभेंदाभेदयो रिति वामनः । तेनाप्रपाणिना पाणितलेन परामृशत्परामृष्टवान् । रणकण्डूलपाणि- त्वादिति भावः । अत एव यदन्येषां रोषजनकं दूतवाक्यं तदागामिरणकारण- तयास्य हर्षहेतुरिति श्लोकार्थः ॥११॥

  विलचितस्थितिमभिवीक्ष्य रूक्षया
   रिपोर्गिरा गुरुमपि गान्दिनीसुतम् ।
  जनस्तदा युगपरिवर्तवायुभि-
   विवर्तिता गिरिपतयः प्रतीयिरे ॥ १२ ॥

 विलचितेति ॥ गुरुं स्वभावतो धीरमपि सन्तं रूक्षया परुषया रिपोर्गिरा दूतवाचा विलचितस्थितिमुल्लचितमर्यादं क्रोधादुन्मर्यादम् । विकुर्वाणमित्यर्थः । गान्दिनीसुतमक्रूरमभिवीक्ष्य जनैस्तदा अक्रूरविक्रियालोकनसमये युगपरिवर्तवा- युभिः कल्पान्तवातैर्विवर्तिताः स्थानादुच्चालिता गिरिपतयोऽद्रयः प्रतीयिरे विश- श्वसिरे । अक्रूरविक्रियादर्शनागिरिचलनमपि युगान्ते संभावितमेवेति जनैर्विश्वस्त- मित्यर्थः । 'प्रत्ययोऽधीनशपथज्ञानविश्वासहेतुषु' इत्यमरः । प्रतिपूर्वादिणः कर्मणि अत्र कल्पान्ते गिरिचलनविक्रियाकल्पेयमरविक्रियेति वाक्यभेदेन सादृश्याक्षेपान्निदर्शनालंकारः । तेनाङ्करस्य लोकोत्तरं धैर्य नैसर्गिकमिति वस्तु व्यज्यते ॥ १२॥

 विवर्तयन्मदकलुषीकृते दृशौ कराहतक्षितिकृतभैरवारवः ।
 क्रुधा दधत्तनुमतिलोहिनीमभूत्प्रसेनजिद्गज इव गैरिकारुणः॥१३॥

 विवर्तयन्निति ॥ मदो मद्यविकारो दानं च । 'मदो मद्येभदानयोः' इति विश्वन कलुषीकृत आकुलीकृते दृशौ विवर्तयन्पूर्णयन्करेण पाणिना शुण्डा. दण्डेन चाहतायां क्षितौ भूमौ कृतो भैरवारवो भयंकरध्वनिर्येन सः । क्रोधा- त्सध्वानं करेण क्षितिमाघ्नन्नित्यर्थः । क्रुधा क्रोधेन अतिलोहिनीमतिलोहिताम् । लिट् । 'वर्णादनुदात्तात्तोपधात्तो नः' (१९३९) इति विकल्पान्ङीष् तकारस्य च नकारः । तनुं वपुर्दधत्प्रसेनजिन्नाम राजा गैरिकारुणो धातुरक्तो गज इवाभूत् । तद्वदलक्ष्यतेत्यर्थः ॥ १३॥

 सकुङ्कुमैरविरलमम्बुबिन्दुभिर्गवेषणः परिणतदाडिमारुणैः ।
 स मत्सरस्फुटितवपुर्विनिःसृतैर्बभौ चिरं निचित इवासृजां लवैः १४

 सकुङ्कुमैरिति ॥ स प्रसिद्धो गवेषणो नाम राजा सकुङ्कुमैः सर्वाङ्गीणकश्मीरजलेपैरित्यर्थः । अत एव परिणतदाडिमारुणैः परिपक्वदाडिमबीजरक्तैरम्बुबिन्दुभिः । क्रोधसात्त्विकैः स्वेदबिन्दुभिरित्यर्थः । मत्सरेणान्तःसंभृतेनात्युत्कटवैरेण स्फुटितान्निभिन्नाद्वपुषो विनिःसृतैरसृजां लवैरसृग्बिन्दुभिरविरलं निरन्तरं निचितो व्याप्त इव चिरं बभौ । उत्प्रेक्षा ॥ १४ ॥

 ससंभ्रमं चरणतलाभिताडनस्फुटन्महीविवरवितीर्णवर्त्मभिः ।
 खेः करैरनुचिततापितोरगं प्रकाशतां शिनिरनयद्रसातलम् ॥१५॥

 ससंभ्रममिति ॥ शिनिः सात्यकेः पितामहः ससंभ्रमं ससत्वरं चरणतलाभिताडनेन पादतलाभिघातेन स्फुटन्त्या दलन्त्या मह्या विवरैश्छिद्रैर्वितीर्णवर्त्मभिर्दत्तमार्गः । तत्प्रसरणैरित्यर्थः । रवेः करैरनुचितं पूर्वमपरिचितमिदं यथा तथा तापिताः संतापं गमिता उरगा यस्मिंस्तत् रसातलं प्रकाशतां प्रकटत्वमनयत् । अत्र महीरविकरोरगरसातलानां क्रमेण स्फुटनान्तःप्रवेशतापप्रकाशनैरसंबन्धेऽपि संबन्धोक्तेरतिशयोक्तिः । पादाहननैरमानुषीं तीव्रतां व्रजति स्मेति ध्वनिः ॥१५॥

 प्रतिक्षणं विधुवति शारणे शिरः शिखिद्युतः कनककिरीटरश्मयः।
 अशङ्कितं युधमधुना विशन्त्वमी क्षमापतीनिति निरराजयन्निव १६

 प्रतीति ॥ शारणे नाम राज्ञि प्रतिक्षणं शिरो विधुवति क्रोधात्कम्पयति सति । धुवस्तौदादिकाल्लटः शत्रादेशः 'अचि श्रुधातु-' (६।४।७७) इत्यादिनोवङदेशः। शिखिवद्योतन्त इति शिखिद्युतोऽग्निप्रभाः । क्विप् । कनककिरीटरश्मयो नीराजनकर्तारः अमी भूपाः अधुना अशङ्कितं निःशङ्कं युधमाजिम् । 'सामित्याजिसमिद्युधः' इत्यमरः । विशन्त्विति क्षमापतीन्निरराजयन्निव नीराजयन्ति स्मेवेत्युत्प्रेक्षा । 'नीराजनात्स्याद्विजय' इत्यागमः ॥ १६ ॥

 दधौ चलत्पृथुरसनं विवक्षया विदारितं विततबृहद्भुजालतः ।
 विदूरथः प्रतिभयमासकंदरं चलत्फणाधरमिव कोटरं तरुः॥१७॥

 दधाविति ॥ वितते विस्तृते बृहत्यौ भुजे लते इव यस्य स विदूरथो नाम राजा । विवक्षया किमपि वक्तुमिच्छया विदारितं व्यात्तं अत एव चलन्ती पृथुमहती रसना जिह्वा यस्मिंस्तम् । 'रसज्ञा रसना जिह्वा' इत्यमरः । प्रतिभयं 'भयंकरमास्यं कंदर इवास्यकंदरस्तम् । 'दरी तु कंदरो वा स्त्री' इत्यमरः । तरुः चलन्फणाधरः फणी यस्मिंस्तत्कोटरमिव । 'निष्कुहः कोटरं वा ना' इत्यमरः । दधौ । श्रौती पूर्णोपमा ॥ १७ ॥

पाठा०-१ 'सारणे'.

 समाकुले सदसि तथापि विक्रियां मनोऽगमन्न मुरभिदः परोदितः।
 घनाम्बुभिर्बहुलितनिम्नगाजलैजलं न हि व्रजति विकारमम्बुधेः१८

 समाकुल इति ॥ परोदितैः शत्रुवाक्यैः सदसि आस्थाने तथा समाकुले क्षुभितेऽपि मुरभिदो हरेर्मनो विक्रियां क्षोभं नागमत् । तथा हि-बहुलितानि बहुलीकृतानि क्षोभितानि निम्नगाजलानि यैस्तर्घनाम्बुभिर्मेघोदकैरम्बुधेर्जलं विकारं न व्रजति । यथा वर्षोदकैनद्यः क्षुभ्यन्ति न समुद्रस्तद्वदिति भावः । दृष्टान्तालंकारः॥१८॥

 परानमी यदपवदन्त आत्मनः स्तुवन्ति च स्थितिरसतामसाविति ।
 निनाय नो विकृतिमविस्मितः स्मितं मुखं शेरच्छशधरमुग्धमुद्धवः॥

 परानिति ॥ अमी खलाः परानन्यानपवदन्ते निन्दन्ति । 'अपाद्वदः' (१॥३॥ ७३) इत्यात्मनेपदम् । आत्मनः स्वान् स्तुवन्ति चेति यत् असावसतां खलानां स्थितिः प्रकृतिरिति । इति मत्वेत्यर्थः । गम्यमानार्थत्वादप्रयोगः । अन्यथा पौनरुक्त्यमित्यालंकारिकाः। विस्मितो न भवतीत्यविस्मितो दूतप्रलापैर्न विस्मयं न गतः उद्धवः । स्मितं स्मेरम् । उभयत्र कर्तरि क्तः । अत एव शरच्छशधरमुग्धं शरदिन्दुसुन्दरमित्युपमा । मुखं विकृतिं न निनाय न प्रापयामास । न हि महतां निन्दा स्तुतिर्वा विकारकारणमिति भावः ॥ १९॥

 निराकृते यदुभिरिति प्रकोपिभिः स्पशे शनैर्गतवति तत्र विद्विषाम् ।
 मुरद्विषः स्वनितभयानकानकं बलं क्षणादथ समनह्यताजये ॥२०॥

 निराकृत इति ॥ तत्र सदसि इतीत्थं प्रकोपिभिरतिक्रुद्धैर्यदुभिः विद्विषां स्पशे चरे । 'अपसर्पश्चरः स्पशः' इत्यमरः । निराकृते धिक्कृते शनैर्गतवति गच्छति सति । सागसोऽपि दूतस्यावध्यत्वादिति भावः । अथ दूतगमनानन्तरं स्वनितेन ध्वनिना भयानका भयंकरा आनकाः पटहा यस्मिंस्तन्मुरद्विषो बलं क्षणादाजये युद्धाय समनह्यत संनद्धम् ॥ २० ॥

 मुहुः प्रतिस्खलितपरायुधा युधि स्थवीयसीरचलनितम्बनिर्भराः ।
 अदंशयन्नरहितशौर्यदंशनास्तनूरयं नय इति वृष्णिभूभृतः॥२१॥

 मुहुरिति ॥ वृष्णिभूभृतो यादवनरेन्द्राः मुहुरसकृद्युधि प्रतिस्खलितपरायुधाः भग्नप्रतिपक्षायुधाः स्थवीयसीः स्थूलतराः । पराक्रमानुरूपप्रकर्षवतीरित्यर्थः । 'स्थूलदूर-' (६।४।१५६) इत्यादिना पूर्वस्य गुणलोपौ । अचलनितम्बनिर्भरा अद्रिकटकनिबिडाः । अन्तःसारवतीरित्यर्थः । अरहितमव्यक्तं शौर्यमेव दंशनं वर्म यासां तास्तनूर्देहान् अयं नय इति वर्मधारणं नीतिरिति हेतोः न तु भयादिति भावः । अदंशयन्नवर्मयन् । दंशेरनुदात्तेत्वात्परस्मैपदं चिन्त्यमित्याहुः । अत एव भट्टमल्लः-'संवर्मयति संनह्यत्यात्मने सज्जतीत्यमी । संदंशते दंशयते संनाहे पदपञ्चकम् ॥' इति । केचित्तु चुरादिषूभयपदिषु पठन्ति । अत्र साभि प्रायविशेषणत्वात्परिकरालंकारः ॥ २१ ॥

पाठा०-१ 'दधत्'. २ 'स्मेरं दधत् .

 दुरुद्वहाः क्षणमपरैस्तदन्तरे रणश्रवादुपचयमाशु विभ्रति ।
 महीभुजां महिमभृतां न संममुर्मुदोऽन्तरा वपुषि बहिश्च कञ्चुकाः २२

 दुरुद्वहा इति ॥ महिमभृतामैश्वर्यवतां महीभुजां राज्ञां संबन्धिनी रणश्रवाद्युद्धश्रवणादाशु शीघ्रमुपचयं वृद्धिं बिभ्रति बिभ्राणे वपुषि अपरैरन्यैः क्षणं क्षणमपि दुरुद्वहा दुर्भराः मुदः संतोषाः अन्तरा अन्तराले न संममुः । बहिः कञ्जुकाश्च न संममुः न मान्ति स्म । नावर्तन्तेत्यर्थः । पूर्वत्र आधेयाधि- क्यादुत्तरत्राधाराधिक्यादिति विवेकः । अत्र मुदां कञ्चुकानां च प्रकृतानामेव विशेषणसाम्यादौपम्यगतायां केवलकृतास्पदा तुल्ययोगिता ॥ २२ ॥

 सकल्पनं द्विरदगणं वरूथिनस्तुरङ्गिणो जयनयुजश्च वाजिनः ।
 त्वरायुजः स्वयमपि कुर्वतो नृपाः पुनःपुनस्तदधिकृतानतत्वरन् २३

 सकल्पनमिति ॥ द्विरदगणं सह कल्पनया सकल्पनं यथोचितसंनाहस- हितम् । 'कल्पना सज्जना समे' इत्यमरः । वरूथो रथगुप्तिरेषामस्तीति वरू- थिनो रथान् । 'रथगुप्तिर्वरूथो ना' इत्यमरः । तुरङ्गिणोऽश्वयुक्तान् वाजिनोऽश्वान् जयनयुजः पल्ययनादिसंयुक्तान् । संपदादिभ्यः क्लिप् । 'जयनं स्यात्तुरङ्गादिसं- नाहे विजयेऽपि च' इति विश्वः । स्वयं त्वरायुजः त्वरायुक्तान् स्वतः कुर्वतोऽपि । स्वत एव त्वरया कुर्वाणानपीत्यर्थः । तदधिकृतान्हस्त्यादिषु नियुक्तपुरुषान्नृपाः पुनः पुनरतत्वरत्वरयन्ति स्म । तेषां तथा रणौत्सुक्यादिति भावः । त्वरेणौ चङि 'अत्स्मृदृत्वरप्रथम्रदस्तृस्पशाम्' (७/४।९५) इत्यभ्यासस्याकारः ॥ २३ ॥

 युधे परैः सह दृढबद्धकक्षया कलक्वणन्मधुपकुलोपगीतया ।
 अदीयत द्विपघटया सवारिभिः करोदरैः स्वयमथ दानमक्षयम् २४

 युध इति ॥ अथ परैः सह युधे युद्धाय दृढबद्धा कक्षा मध्यबन्धनं यस्या- स्तया । 'कक्षा बृहतिकायां स्यात्काञ्च्यां मध्येभबन्धने' इति विश्वः । अन्यत्र दृढोद्योगायेत्यर्थः । कलं क्वणता मधुपकुलेनालिगणेनोपगीतया बन्दिमागधस्तुतया चेति गम्यते । द्विपघटया कर्त्र्या स्वयं सवारिभिः सोदकैः करोदरैः पुष्कराग्रैः पाणितलाग्रैश्चाक्षयमपरिमितं दानं मदः अदीयत, दानं द्रव्यं चादीयत दत्तम् । अत्र प्रस्तुतगजघटाविशेषणसाम्येनाप्रस्तुतदानकर्तृप्रतीतेः समासोक्तिरलंकारः ॥ २४ ॥

 सुमेखलाः सिततरदन्तचारवः समुल्लसत्तनुपरिधानसंपदः ।
 रणैषिणां पुलकभृतोऽधिकंधरं ललम्बिरे सदसिलताः प्रिया इव २५

 सुमेखला इति ॥ शोभना मेखला बन्धनसूत्राणि कायश्च यासां ताः सुमेखलाः । मेखला खड्गबन्धे स्यात्काञ्चीशैलनितम्बयोः' इति विश्वः । सिततरैर्दन्तैर्दन्तमयत्सरुभिर्दशनैश्च चारवः उल्लसन्त्यः तनवः सूक्ष्माः परिधानसंपदः कोशसंपदो वस्त्रसंपदश्च यासां ताः पुलकभृतः छायाभृत: रोमाञ्चधारिप्यश्च सदसिलताः चारुखड्गवल्लयः प्रिया इव रणैषिणां रणाकाङ्क्षिणां कंधरास्वधिकंधरमधिकण्ठम् । विभक्त्यर्थेऽव्ययीभावः । ललम्बिरे । लना इत्यर्थः । श्लेषः श्लिष्टोपमा वा मतभेदात् ॥ २५ ॥

 मनोहरैः प्रकृतिमनोरमाकृतिर्भयप्रदैः समितिषु भीमदर्शनः ।
 सदैवतैः सततमथानपायिभिर्निजाङ्गवन्मुरजिदसेव्यतायुधैः ॥२६॥

 मनोहरैरिति ॥ अथ प्रकृतिमनोरमाकृतिः स्वभावसुन्दरमूर्तिः समितिषु युद्धेषु भीमं दर्शनं यस्य स भीमदर्शनो मुरजिद्धरिः मनोहरैः प्रकृतिमनोहरैः समितिषु भयप्रदैः सदैवतैः अधिदेवतायुक्तैः सततमनपायिभिरायुधैः शार्ङ्गा- दिभिर्निजाङ्गवत्पृथगवस्थितैः शरीरैरिवेत्युप्रेक्षा । असेव्यत सेवितः ॥ २६ ॥

 अवारितं गतमुभयेषु भूरिशः क्षमाभृतामथ कटकान्तरेष्वपि ।
 मुहुर्युधि क्षतसुरशत्रुशोणितप्लुतप्रधिं रथमधिरोहति स्म सः ॥२७॥

 अवारितमिति ॥ अथायुधसंनिधानानन्तरं स हरिरुभयेषु द्वयेषु । द्विवि- धेष्वित्यर्थः । क्षमाभृतां राज्ञां, गिरीणां च कटकान्तरेष्वपि शिबिराभ्यन्तरेषु, नितम्बावकाशेषु च भूरिशो बहुशः अवारितमप्रतिहतं गतं प्रस्थितं मुहुरस- कृद्युधि क्षतानां सुरशत्रूणामसुराणां शोणितैः प्लुताः सिक्ताः प्रधयो नेमयो यस्य तम् । 'चक्रधारा प्रधिर्नेमिः' इति हलायुधः । रथमधिरोहति स्म आरुरोह ॥ २७ ॥

 उपेत्य च वनगुरुपक्षमारुतं दिवस्त्विषा कपिशितदूरदिङ्मुखः ।
 प्रकम्पितस्थिरतरयष्टि तत्क्षणं पतत्पतिः पदमधिकेतनं दधौ ॥२८॥

 उपेत्येति ॥ किंचेति चार्थः । पतत्पतिरण्डजमण्डलेश्वरः । “पतत्पत्ररथा- ण्डजाः' इत्यमरः । त्विषा कान्त्या कपिशितानि कपिशीकृतानि दूराणि दिङ्मु- खानि येन सः । स्वनेन गुरुर्महान्पक्षमारुतो यस्मिन्कर्मणि तत्तथा दिवः स्वर्गा- दुपेत्यागत्य तत्क्षणं तस्मिन्क्षणे प्रकम्पिता स्थिरतरा निश्चला यष्टिरावास- स्तम्भो यस्मिंस्तत्तथा अधिकेतनं केतने । विभक्त्यर्थेऽव्ययीभावः । पदं दधौ निहितवान् ॥ २८॥

 1गभीरताविजितमृदङ्गनादया स्वनश्रिया हतरिपुहंसहर्षया ।
 प्रमोदयन्नथ मुखरान्कलापिनः प्रतिष्ठते नवधनवद्रथः स्म सः॥२९॥

 गभीरतेति ॥ अथ गरुडागमनानन्तरं स रथो नवघनवत् नवघनेन नवाम्बु- देन तुल्यम् । 'तेन तुल्यम्-' (५।१।११५) इति वतिप्रत्ययः । गभीरतया गाम्भीर्येण विजितो मृदङ्गनादो यया तया हतो रिपुहंसानां हंसानामिव रिपूर्णां हर्षो यया तया स्वनश्रिया ध्वनिसंपदा मुखरान्कूजतः कलापिनो मयूरान्प्रमोदयन् पाठा०-१ 'गभीरया'. प्रतिष्ठते स प्रतस्थे । 'समवप्रविभ्यः स्थः' (१॥३।२२) इत्यात्मनेपदम् । 'लट् स्मे' (३।२।११८) इति भूते लट् । तद्धितगता श्रौती पूर्णोपमा ॥ २९ ॥

 निरन्तरस्थगितदिगन्तरं ततः समुच्चलद्धलमवलोकयञ्जनः ।
 विकौतुकः प्रकृतमहाप्लवेऽभवद्विशृङ्खलं प्रचलितसिन्धुवारिणि ॥३०

 निरन्तरेति ॥ ततो रथप्रस्थानानन्तरं निरन्तरं नीरन्ध्रं स्थगितान्याच्छा- दितानि दिगन्तराणि येन तत् । समुच्चलत् प्रतिष्ठमानं तद्वलं सैन्यमवलोकयन् जनो लोकः प्रकृतः प्रक्रान्तो महाप्लवो महापूरो जगत्संप्लवरूपो येन तस्मिन् विशृङ्खलमप्रतिघातं प्रचलितं क्षुभितं यत्सिन्धोरब्धेर्वारि तस्मिन्विकौतुको निवृ- त्तकौतूहलोऽभवत् । कल्पान्तक्षुभितवारिधेर्वारिवच्च तद्वलं सकलजगत्संहारश- ङ्कयालक्ष्यतेत्यर्थः । अत्रान्यदर्शनादन्यदिक्षानिवृत्तेर्बलवारिधिवारिणोरेकत्वाक्षेपे बाधात्सादृश्याक्षेपाद्वाक्यभेदेन प्रतिबिम्बकरणान्निदर्शनालंकारः ॥ ३० ॥

 बर्बृहिरे गजपतयो महानकाः प्रदध्वनुर्जयतुरगा जिहेषिरे ।
 1असंभवद्गिरिवरगह्वरैरभूत्तदा रवैर्दलित इव स्व आश्रयः ॥३१॥

 बबृंहिर इति ॥ गजपतयो बबृंहिरे बबृंहुः । बृंहणं चक्रुरित्यर्थः । 'बृहि वृद्धौ शब्दे च' आत्मनेपदं चिन्त्यम् । अत एव भट्टमल्लः-'हेषते हेषतेऽश्वानां हस्तिनां बृंहतीति च' इति । महानकाः प्रध्वनुः । जयशीलास्तुरगा जयतुरगा जिहेषिरे । हेषां चक्रुरित्यर्थः । 'हेषृ ह्रेषृ अव्यक्ते शब्दे' । तदा तस्मिन्काले असं- भवन्त्यन्तर्धातुमपर्याप्नुवन्ति गिरिवरगह्वराणि येषां तैः गिरिवरगह्वरेषु अमाद्भिः। अवर्तमानैरित्यर्थः । रवैर्बृंहणादिघोषैः । स्व आश्रयः स्वसमवायिकारणमाकाशो दलित इव विदारित इवाभूदित्युत्प्रेक्षा तया तेषामतितीव्रत्वं व्यज्यते ॥ ३१ ॥

 अनारतं रसति जयाय दुन्दुभौ मधुद्विषः फलदलघुप्रतिस्वनैः ।
 विनिष्पतन्मृगपतिभिर्गुहामुखैर्गताः परां मुदमहसन्निवाद्रयः॥३२॥

 अनारतमिति ॥ मधुद्विषो हरेः दुन्दुभौ रणभेर्यां जयायानारतमश्रान्तं रसति ध्वनति सति फलन्तः संक्रामन्तोऽलघवो महान्तः प्रतिस्वनाः प्रतिध्व- नयो येषु तैः विनिष्पतन्तः क्षोभान्निर्गच्छन्तः मृगपतयः सिंहा येभ्यस्तैर्गुहा- भिरेव मुखैरद्रयः परां मुदं गताः सन्तः अहसन्निव । सिंहानां धावल्याद्ध्वनि- योगाच्च हसनोत्प्रेक्षा ॥ ३२ ॥

 जडीकृतश्रवणपथे दिवौकसा चमूरवे विशति सुराद्रिकंदराः ।
 अनर्थकैरजनि विदग्धकामिनीरतान्तरक्वणितविलासकौशलैः॥३३॥

 जडीकृतेति ॥ दिवमोको येषां तेषां दिवौकसां देवानाम् । कंदरान्तर्गतानामित्यर्थः । जडीकृतश्रवणपथे बधिरीकृतश्रोत्रमार्गे । सापेक्षत्वेऽपि गमकत्वात्समासः । चमूरवे सेनाघोषे सुराद्रिकंदराः मेरुगह्वराणि विशति सति । विदग्धकामिनीनां प्रौढाङ्गनानां रतान्तरे सुरतमध्ये कणितविलासाः कूजितसंपदस्तासु पाठा०-१ 'असंभवद्भुतगिरिकन्दरैः'. यानि कौशलानि तैरनर्थकैरजनि जातम् । प्रेयसां बाधिर्यादिति भावः । अत्र श्रोत्रजाड्यस्य विशेषणगत्या क्वणितानर्थक्यहेतुत्वात्काव्यलिङ्गम् । तदुपजीवितेन क्वणितानामानर्थक्यासंबन्धेऽपि तत्संबन्धोक्तेरतिशयोक्त्युत्पादनयोरङ्गाङ्गिभावेन संकरः॥३३॥

 अरातिभिर्युधि सहयुध्वनो हताञ्जिघृक्षवः श्रुतरणतूर्यनिःस्वनाः ।
 अकुर्वत प्रथमसमागमोचितं चिरोज्झितं सुरगणिकाः प्रसाधनम् ३४

 अरातिभिरिति ॥ सह युध्यन्त इति तान्सहयुध्वनः । 'सहे च' (३।२। ९६) इति क्वनिप् । अत एवारातिभिर्युधि हतान् जिघृक्षवो ग्रहीतुमिच्छवः स्वयं- वरणकामाः । ग्रहेः सन्नन्तादुप्रत्ययः । सुरगणिका अप्सरसः श्रुतरणतूर्यनिःस्वनाः सत्यश्चिरोज्झितम् । प्रायेण प्रवीरसंवादाभावादिति भावः । प्रथमसमागमोचि- तम् । अतिमोहनमित्यर्थः । प्राथम्यं च पुंसामिदं प्रथमत्वादिति भावः । प्रसाध. नमकुर्वत । परिष्कृतवत्य इत्यर्थः । 'प्रतिकर्म प्रसाधनम्' इत्यमरः । अत्र स्वयंवर- णतूर्यश्रवणयोर्विशेषणगत्या प्रसाधनहेतुत्वात्काव्यलिङ्गम् ॥ ३४ ॥

 प्रचोदिताः परिचितयन्तृकर्मभिर्निपादिभिर्विदितयताङ्कुशक्रियैः ।
 गजाः सकृत्करतललोलनालिकाहता मुहुः प्रणदितघण्टमाययुः ३५

 प्रचोदिता इति ॥ परिचितं यन्तृकर्म सादिकृत्यं यैस्तैः । स्वभ्यस्तगजशास्त्रै- रित्यर्थः । अत एव विदिते यताङ्कुशक्रिये यतयाताख्ये पादाङ्कुशकर्मणी यैस्तैः । 'पादकर्म यतं प्रोक्तं यातमङ्कुशवारणम्' इति हलायुधः । निषादिभिर्यन्तृभिः प्रचोदिताः प्रेरिता गजाः सकृदेकवारमेव करतललोलाभिः 1पाणितलचलिता- भिर्नालिकाभिरन्तर्नाडिकाभिः हतास्ताडिताः तथापि मुहुः प्रणदिता असकृद्ध्वनन्ती घण्टा यस्मिन्कर्मणि तत्तथा आययुः प्रस्थातुमागताः । स्वभावोक्तिः ॥ ३५ ॥

 सविक्रमक्रमणचलैरितस्ततः प्रकीर्णकैः क्षिपत इव क्षिते रजः।
 व्यरंसिपुर्न खलु जनस्य दृष्टयस्तुरंगमादभिनव2भाण्डभारिणः॥३६

 सविक्रमेति ॥ सविक्रमेण साङ्गिविन्यासविशेषेण क्रमणेन गमनेन चलैः प्रकीर्णकैश्चामरैः । 'चामरं तु प्रकीर्णकम्' इत्यमरः । क्षिते रजः स्वखुरोद्धतमित- स्ततः क्षिपतो निरस्यत इव स्थितादित्युप्रेक्षा । अभिनव2भाण्डभारिणः प्रत्यग्रा- भरणधारिणः । 'स्याद्भाण्डमश्वाभरणे' इत्यमरः । तुरंगमात्तुरंगमेभ्यः । जाता- वेकवचनम् । 'जुगुप्साविरामप्रमादार्थानामुपसंख्यानम्' (वा०) इत्यपादानत्वम् । जनस्य दृष्टयो न व्यरंसिषुर्न विरताः खलु । रमेलुंङि 'व्याङ्परिभ्यो रमः' (१॥३॥ ८३) इति परस्मैपदं 'यमरमनमातां सक्च' (७।२।७३) इति सगिडागमौ । इटि 'नेटि' (७।२।४) इति वृद्धिप्रतिषेधः ॥ ३६ ॥

 अथ त्रिभिर्विशेषकेणाह-

 चलाङ्गुलीकिसलयमुद्धतैः करैरनृत्यत स्फुटकृतकर्णतालया ।
 मदोदकद्रवकटभित्तिसङ्गिभिः कलस्वरं मधुपगणैरगीयत ॥३७॥

पाठा०-१ 'कन्दराघाताच्चलिताभिः'. २ भाण्डहारिणः'.  चलेत्यादि ॥ स्फुटं कृतः कर्णतालः कर्णताडनं यया तया द्विपघटया का चलाङ्गुल्य एव किसलया यस्मिन्कर्मणि तत्तथोद्धतैः करैर्हस्तैरनृत्यत अनर्ति । भावे लङ् । तथा मदोदकेन द्रवास्वार्द्रासु कटभित्तिषु गण्डस्थलेषु सङ्गिभिरासक्तैः मधुपगणैर्भमरगणैः कलस्वरं मधुरस्वरमगीयत गीतम् । भावे लङ् ॥ ३७॥

 असिच्यत प्रशमितपांशुभिर्मही मदाम्बुभिधृतनवपूर्णकुम्भया ।
 अवाद्यत श्रवणसुखं समुन्नमत्पयोधरध्वनिगुरु तूर्यमाननैः ॥३८॥

 असिच्यतेति ॥ धृतौ नवौ पूर्णकुम्भौ शिरःपिण्डकलशौ यया तया द्विपघ- टया कर्त्र्या । 'कुम्भौ घटेभमूर्धांशौ' इत्यमरः । प्रशमितपांशुभिर्मदाम्बुभिर्मही पृथ्वी असिच्यत सिक्ता । आननैर्मुखैः करणैः श्रवणयोः सुखयतीति सुखं सुख- करम् । 'सुखहेतौ सुखे सुखम्' इति शब्दार्णवे । समुन्नमत्पयोधरध्वनिगुरु उद्य- न्मेघगर्जितगम्भीरं तूर्यमवाद्यत वादितम् । स्वमुखबृंहणैरेव तूर्यं संपादित. मित्यर्थः ॥ ३८॥

 उदासिरे पवनविधूतवाससस्ततस्ततो गगनलिहश्च केतवः ।
 यतः पुरः प्रतिरिपु शार्ङ्गिणः स्वयं व्यधीयत द्विपघटयेति मङ्गलं ३९

        (विशेषकम् ।)

 उदासिर इति ॥ पवनेन विधूतवाससः कम्पितपटाः गगनलिहोऽभ्रंकषाः केतवो ध्वजाश्च ततस्ततः तत्र तत्र उदासिरे उत्क्षिप्ता इतीत्थं द्विपघटया प्रतिरिपु रिपून्प्रति । आभिमुख्येऽव्ययीभावः । यतो गच्छतः । इणो लटः शत्रादेशः । शार्ङ्गिणः पुरोऽग्रे स्वयं मङ्गलं व्यधीयत विहितम् । अत्र श्लोकत्रये प्रस्तुतद्विपघट- विशेषणसाम्यादप्रस्तुतमङ्गलाचरणपरपुरन्ध्रीप्रतीतेः समासोक्तिरलंकारः ॥ ३९ ॥

 न शून्यतामगमदसौ निवेशभूः प्रभूततां दधति बले चलत्यपि ।
 पयस्यभिद्रवति भुवं युगावधौ सरित्पतिर्न हि समुपैति रिक्ततां ४०

 नेति ॥ प्रभूततां भूमानं दधति दधाने बले सैन्ये चलति प्रतिष्ठमानेऽपि असौ निवेशभूः सेनानिवेशभूमिः शून्यतां रिक्ततां नागमत् । तथा हि-युगा- वधौ युगान्ते पयसि भुवमभिद्रवत्यभिप्लवमाने सति सरित्पतिः समुद्रो रिक्ततां न समुपैति हि । दृष्टान्तालंकारः ॥ ४० ॥

 यियासितामथ मधुभिद्विवस्वता जनो जरन्महिषविषाणधूसराम् ।
 पुरः पतत्परवलरेणुमालिनीमलक्षयद्दिशमभिधूमितामिव ।। ४१ ॥

 यियासितामिति ॥ अथ मधुभिद्धरिरेव विवस्वान् तेन यियासितां यातुमिष्टां जिगमिषिताम् । यातेः सन्नन्तात्कर्मणि क्तः । पततोऽभिधावतः परबलस्य शत्रुसैन्यस्य रेणून् मलते धारयतीति तन्मालिनी । मलतेर्णिनिप्रत्ययः । अत एव जरतो वृद्धस्य महिषस्य विषाणवद्धूसरां धूम्रां पुरोऽग्रे दिशमभितो धूमोऽस्याः संजातस्तामभिभूमितामिव जनो लोकोऽलक्षयत् ।मधुभिद्विवस्वतेति रूपकोत्थापिताऽग्रदिशि धूमितत्वोत्प्रेक्षेति संकरः । अत्राहुः-'अङ्गारिणी दिग्र्विविप्रयुक्ता यस्यां रविस्तिष्ठति सा प्रदीप्ता । प्रधूमिता यास्यति यां दिनेशः शेषाः प्रशस्ताः शुभदाश्च ताः स्युः ॥' इति ॥ ४१ ॥

 मनस्विनामुदितगुरुप्रतिश्रुतिः श्रुतस्तथा न निजमृदङ्गनिःस्वनः ।
 यथा पुरःसमरसमुद्यतद्विषद्बलानकध्वनिरुदकर्षयन्मनः॥४२॥

 मनस्विनामिति ॥ उदिता उत्पन्ना गुरुगंभीरा प्रतिश्रुतिः प्रतिध्वनिर्यस्य सः निजमृदङ्गनिःस्वनः स्वसेनातूर्यघोषः श्रुतः सन् तथा मनस्विनां मनो नोद- कर्षयन्नाचकर्ष । कृषिरयं स्वार्थण्यन्तः । यथा पुरोऽग्रे समरसमुद्यते समरोद्युक्ते द्विषद्धले शत्रुसैन्ये ये आनकास्तेषां ध्वनिरुदकर्षयत् । एतेनैषां वीरस्थायी महोत्साह उक्तः । अत्र भयंकरस्यापि परसैन्यघोषस्योत्साहजनकत्वं महावीरेषु न विरुध्यत इति विरोधाभासोऽलंकारः । भीहेतौ सत्यपि भयानुत्पत्तेर्विशेषो- क्तिविरुद्धकार्योत्पत्तेर्विषमभेदश्चेति संकरः ॥ ४२ ॥

 यथा यथा पटहरवः समीपतामुपागमत्स हरिवराग्रतःसरः ।
 तथा तथा हृषितवपुर्मुदाकुला द्विषां चमूरजनि जनीव चेतसा ॥४३॥

 यथा यथेति ॥ हरिर्वरो जामातेव हरिवरः । 'वरो जामातृवर्ययोः' इति विश्वः । तस्याग्रतः सरतीत्यग्रतःसरोऽग्रेसरः । 'पुरोऽग्रतोऽग्रेषु सर्तेः' (३।२।१८) इति टप्रत्ययः। स पूर्वोक्तः पटहरवो यथा यथा यावद्यावत् समीपतामासन्नतामुपा- गमत् तथा तथा तावत्तावत् द्विषतां चमूर्जनीव वधूरिव । जनी सीमन्तिनी वधूः' इति विश्वः । चेतसा मुदाकुला आनन्दाविला हृषितवपू रोमाञ्चिताङ्गी । 'हृषेर्लो- मसु' (७।२।२९) इतीडागमः । अजनि जाता । जनेः कर्तरि लुङ् 'दीपजन- (३।१।६१) इत्यादिना चिण् प्रत्ययः । वधूवरसमागमवत्प्रतिद्वन्द्विसमागमो महोत्साहवर्धनो वीरसेनाया इत्युपमार्थः। तेन सैन्ययोरन्योन्यशब्दश्रवणकारिणी प्रत्यासत्तिरासीदिति व्यज्यते ॥ ४३ ॥

 प्रसारिणी सपदि नभस्तले ततः समीरणभ्रमितपरागरूषिता ।
 व्यभाव्यत प्रलयजकालिकाकृतिर्विदूरतः प्रतिबलकेतनावलिः ४४

 प्रसारिणीति ॥ ततः श्रवणानन्तरं सपद्यविलम्बेन नभस्तले प्रसारिणी व्याप्ता समीरणेन वायुना भ्रमितेन परागेण रूषिता रूक्षीकृता अत एव प्रलय- जायाः कल्पान्तप्रादुर्भूतायाः कालिकाया महाकाल्या आकृतिरिवाकृतिर्यस्याः मा प्रतिबले प्रतिपक्षसैन्ये केतनावलिर्ध्वजपङ्क्तिर्विदूरतो दूरादलक्ष्यत । एतावता प्रत्यासत्तिरासीदित्यर्थः । उपमालंकारः ॥ ४४ ॥

 क्षणेन च प्रतिमुखतिग्मदीधितिप्रतिप्रभास्फुरदसिदुःखदर्शना ।
 भयंकरा भृशमपि दर्शनीयतां ययावसावसुरचमूश्च भूभृताम् ॥४५॥

 क्षणेनेति ॥ प्रतिमुखस्याभिमुखस्य तिग्मरश्मेरुष्णांशोः प्रतिप्रभाभिः प्रतिफलितदीप्तिभिः स्फुरद्भिर्देदीप्यमानैरसिभिः खङ्गैर्दुःखं दुष्करं दर्शन यस्याः सा। दुर्दर्शेत्यर्थः । असावसुरचमूश्चैद्यसेना क्षणेन च भूभृतां हरिसैनिकानां भृशं भयं करोतीति भयंकरापि । 'मेघर्तिभयेषु कृञः' (३।२।४३) इति खच्प्रत्ययः । दर्शनीयतां मनोहरतामिति विरोधः । दृष्टिविषयतां ययावित्यविरोधः । अत एव विरोधाभासोऽलंकारः ॥ ४५ ॥

 पयोमुचामभिपततां दिवि द्रुतं विपर्ययः परित इवातपस्य सः ।
 समक्रमः समविषमेष्वथ क्षणात्क्षमातलं बलजलराशिरानशे॥४६॥

 पयोमुचामिति ॥ अथासुरसेनादर्शनानन्तरं समविषमेषु निम्नोन्नतेषु सम- क्रमस्तुल्यसंचारः बलजलराशिः सैन्यसागरः दिवि व्योम्नि द्रुतमभिपततामभि- धावतां पयोमुचां संबन्धी आतपस्य विपर्ययः छायेव परितः क्षणारक्षमातलं भूतलमानशे । 'अशू व्याप्तौ', 'अत आदेः' (७/४/७०) इत्यभ्यासदीर्घः । 'अश्नोतेश्च' (७/४/७२) इति नुमागमः । उपमालंकारः ॥ ४६॥

 ममौ पुरः क्षणमिव पश्यतो महत्तनूदरस्थितभुवनत्रयस्य तत् ।
 विशालतां दधति नितान्तमायते बलं द्विषां मधुमथनस्य चक्षुषि ४७

 ममाविति ॥ पुरोऽग्रे क्षणमिव पश्यतः क्षणमात्रं विलोकयतः । इवशब्दो वाक्यालंकारे । तनौ क्षोदीयस्युदरे कुक्षौ स्थितं भुवनत्रयं यस्य तस्य मधुमथनस्य हरेः संबन्धिनि विशालतां वैपुल्यं दधति दधाने नितान्तमायते दीर्घे द्राधीयसि चक्षुषि महत् तत् द्विषां बलं ममौ ववृते । क्षणमीक्षणादेव परबले इयत्तां परि- चिच्छेदेत्यर्थः । क्षोदीयस्यपि कुक्षौ भुवनत्रयं परिच्छिदतः हरेरतिमहति चक्षुषि अल्पबलपरिच्छेदः कियानिति भावः । अत्र भुवनत्रयापेक्षया आधारस्य कुक्षेर- ल्पत्वाच्चक्षुरपेक्षया आधेयस्य बलस्याल्पत्वाच्चाधिकालंकारौ संकीर्यते ॥ ४७ ॥

 भृशस्विदः पुलकविकासिमूर्तयो रसाधिके मनसि निविष्टसाहसाः।
 मुखे युधः सपदि रतेरिवाभवन्ससंभ्रमाः क्षितिपचमूवधूगणाः ४८

 भृशेति ॥ क्षितिपचम्वो वध्व इवेत्युपमितसमासः । रतेरिवेति लिङ्गात् । तासां गणाः युधो मुखे युद्धारम्भे रतेर्मुखे रत्यारम्भ इव सपदि भृशं स्विद्य- न्तीति भृशस्विदः । क्लिप् । पुलकविकासिमूर्तयो रोमाञ्चोदञ्चितगात्राः रसः वीरः शृङ्गारश्च तेनाधिके निर्भरे मनसि निविष्टसाहसाः प्रविष्टधार्ष्टयाः ससंभ्रमाः ससत्वराश्चाभवन् । यादृशी वधूनां सुरतरसकर्मण्युत्कण्ठा तादृशी चमूनां समर- कर्मणीत्युपमार्थः । तेनैतासां समरसुरतयोः समरसत्वं व्यज्यते ॥ ४० ॥

 ध्वजांशुकैर्धुवमनुकूलमारुतप्रसारितैः प्रसभकृतोपहूतयः ।
 यदूनभि द्रुततरमुद्यतायुधाः क्रुधा परं रयमरयः प्रपेदिरे ॥४९॥

 ध्वजांशुकैरिति ॥ अस्यः चैद्यपक्षाः अनुकूलमारुतेन प्रसारितैर्ध्वजांशुकैर्ध्रुवं प्रसभेन बलात्कारेण कृतोपहूतयः । कृताह्वाना इवेत्यर्थः । यदूनभि यादवान्प्रति द्रुततरमुद्यतायुधा उत्क्षिप्तायुधाः सन्तः क्रुधा क्रोधेन परमधिकं रयं त्वरां प्रपेदिरे । ध्वजांशुकदर्शनोत्थक्रोधहेतुकस्य शीघ्राभिपातस्य ध्वजाह्वानहेतुकत्वमु- प्रेक्ष्यते ध्रुवमिति ॥ ४९ ॥

 हरेरपि प्रति परकीयवाहिनीरधिस्यदं प्रववृतिरे चमूचराः ।
 विलम्बितुं न खलु सहा मनस्विनोविधित्सतः कलहमवेक्ष्य विद्विषः

 हरेरिति ॥ हरेरपि चमूषु चरन्तीति चमूचराः सैनिकाः । चरेष्टः । परेषा- मिमाः परकीया वाहिनीः सेनाः प्रति अधिस्यदमधिकरयं यथा तथा । 'रंहस्तरसी तु रयः स्यदः' इत्यमरः। प्रववृतिरे प्रवृत्ताः । तथा हि-मनस्विनो धीराः कलहं युद्धं विधित्सतः विधातुमिच्छतः । दधातेः सन्नन्ताल्लटः शतरि रूपम् । तान्विद्विषः शत्रूनवेक्ष्य विलम्बितुम् । 'शकधृष-' (३।४।६५) इत्या- दिना तुमुन्प्रत्ययः । सहन्त इति सहाः क्षमाः । पचाद्यच् । न खलु । सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासः ॥ ५० ॥

 1उपाहितैर्वपुषि निवातवर्मभिः स्फुरन्मणिप्रसृतमरीचिसूचिभिः ।
 निरन्तरं नरपतयो रणाजिरे रराजिरे शरनिकराचिता इव ॥५१॥

 उपाहितैरिति ॥ रणाजिरे रणाङ्गणे नरपतयो राजानो वपुषि उपाहितैरा- मुक्तैः स्फुरन्तो मणिप्रसृता रत्ननिर्गता मरीचय एव सूचयो येषां तैः निवातव- र्मभिरच्छिन्द्रकञ्चुकैः । 'निवातो दृढसंनाहे निर्वाते चाश्रयेऽपि च' इति विश्वः । 'तनुत्रं वर्म कञ्चुकम्' इत्यमरः । निरन्तरं नीरन्ध्रं शरनिकरैराचिताः प्रोता इव रराजिरे । 'फणां च सप्तानाम्' (६।४।१२५) इति विकल्पादेत्वाभ्यासलोपा- भावः । मणिरोचिषः सादृश्याच्छरनिकरत्वोत्प्रेक्षा ॥ ५१ ॥

 अथोच्चकैर्जरठकपोतकंधरातनूरुहप्रकरविपाण्डुरद्युति ।
 वलैश्चलच्चरणविधूतमुच्चरद्धनावलीरुदचरत क्षमारजः ॥ ५२ ।।

 अथेति ॥ अथानन्तरं उच्चकैरुन्नतं जरठकपोतकंधरातनूरुहप्रकरविपाण्डुर- द्युति जीर्णपारावतकंधरारोमनिकरधूसरच्छायमित्युपमा । 'पारावतः कपोतः' इत्यमरः । बलैः सैन्यैश्चलद्भिश्वरणैर्विधूतमुद्भूतं प्रेरितं सदुच्चरदुत्पतत्क्ष- मारजो भूरेणुर्घनावलीर्घनपङ्कीरुदचरत् । प्रचक्रामेत्यर्थः । 'उदश्वरः सकर्मकात्' (१॥३॥५३) इत्यात्मनेपदम् । अस्य प्रत्युदाहरणमुच्चरदिति । अत्र भूरेणोर्मेघ- मण्डलाक्रमणासंबन्धेऽपि संबन्धोक्तेरतिशयोक्तिरुपमासंकीर्णा ॥ ५२ ॥

 विषङ्गिभिर्भृशमितरेतरं क्वचित्तुरंगमैरुपरि निरुद्धनिर्गमाः ।
 चलाचलैरनुपदमाहताः खुरैर्विबभ्रमुश्चिरमध एव धूलयः॥५३ ।।

 विषङ्गिभिरिति ॥ चलाचलैश्चटुलैः खुरैरनुपदं प्रतिपदमाहता उद्धताः भृशमितरेतरं परस्परम् । 'निरन्तरम्' इति पाठेऽभितो निरन्तरं नीरन्ध्र विषङ्गि- भिर्मिथः श्लिष्टैस्तुरङ्गमैरुपरि निरुतो निर्गमो यासां ताः धूलयः क्वचित् चिरमध

पाठा०-१ निवाततां दधदपि वर्म बिभ्रतः'. २ "भिः क्वचिदभितो निरन्तरं तुरङ्गमैः'. एव विबभ्रमुर्नोत्पेतुरिति भावः । अत्रोद्धतानामधोभ्रमणविरोधस्योपरिनिर्गमरो- धेन विशेषणगत्या परिहारात्काव्यलिङ्गसंकीर्णो विरोधाभासोऽलंकारः ॥ ५३ ॥

 गरीयसः प्रचुरमुखस्स रागिणो रजोऽभवव्द्यवहितसत्त्वमुत्कटम् ।
 सिसृक्षतः सरसिजजन्मनो जगद्बलस्य तु क्षयमपनेतुमिच्छतः ५४

 गरीयस इति ॥ गरीयसः सर्वलोकपितामहत्वात्पूज्यतरस्य, अन्यत्र महत्त- रस्य प्रचुरमुखस्य । चतुर्मुखस्येत्यर्थः । अन्यत्र बहुप्रवाहस्य रागिणो रक्तवर्णस्य, अन्यत्र रणे रागिणोऽनुरागवतः एवंभूतस्य सरसिजजन्मनो ब्रह्मणो जगत्सिसृ- क्षतः जगस्रष्टुमिच्छतः सतः । सृजेः सन्नन्ताल्लटः शत्रादेशः । व्यवहितसत्त्वं तिरस्कृतसत्त्वगुणकं, अन्यत्र तिरोहितजन्तुकं रजो रजोगुणो रेणुश्चोत्कटमुद्रित- मभवत् । बलस्य सैन्यस्य तु जगत्क्षयमपनेतुमिच्छतः सतोऽभवत् । अत्र ब्रह्म- बलयोर्गरीयस्त्वादिसाधर्म्येऽपि रजःशब्देनैकस्य सिसृक्षोरन्यस्य संजिहीर्षोरिति व्यतिरेकः श्लेषोत्थापित इति संकरः ॥ ५४॥

 पुरा शरक्षतिजनितानि संयुगे नयन्ति नः प्रसभमसृञ्जि पङ्कताम् ।
 इति ध्रुवं 1व्यंलगिपुरात्तभीतयः खमुच्चकैरनलसखस्य केतवः ॥५५॥

 पुरेति ॥ संयुगे युद्धे सति शरक्षतिजनितानि क्षतजानि असृञ्जि रुधिराणि नोऽस्मान्प्रसभं प्रसह्य पङ्कतां पुरा नयन्ति नेष्यन्ति । यावत्पुरानिपातयोर्लट्' (३।३।४) इति भविष्यदर्थे लट् । इतीत्थमालोक्य ध्रुवमात्तभीतयः प्राप्तभयाः सन्तोऽनलसखस्याग्निमित्रस्य वायोः केतवो रेणवः । तल्लिङ्गत्वात्तस्येति भावः । उच्चकैरुन्नतं खमाकाशं व्यलगिषुः । वियदारूढा इत्यर्थः । ध्रुवमित्युत्प्रेक्षायाम् ॥५५॥

 2क्वचिल्लसद्धननिकुरम्बकर्बुरः क्वचिद्धिरण्मयकणपुञ्जपिञ्जरः ।
 क्वचिच्छरच्छशधरखण्डपाण्डुरः खुरक्षतक्षितितलरेणुरुद्ययौ ॥५६॥

 क्वचिदिति ॥ क्वचिल्लसन्धननिकुरम्बवन्नवाभ्रपटलवत्कर्बुरः शबलः । क्वचि- द्धिरण्मयकणपुञ्जपिञ्जरः कनकचूर्णराशिकपिशः । क्वचिच्छरच्छशधरखण्डपाण्डुरः खुरैः क्षतस्य क्षितितलस्य रेणुरुद्ययौ उजगाम । अत्रोपमात्रयस्य संसृष्टिः ॥ ५६ ॥

 महीयसां महति दिगन्तदन्तिनामनीकजे रजसि मुखानुषङ्गिणि ।
 विसारितामजिहत कोकिलावलीमलीमसा ज3लदमदाम्बुराजयः ५७

 महीयसामिति ॥ महति अनीकजे सेनासमुत्थे रजसि महीयसां दिगन्ता एव दन्तिनः तेषां मुखानि पुरोभागा एव मुखान्याननानि इति श्लिष्टरूपकम् । तेष्वनुषङ्गिणि लग्ने सति । कोकिलावलीवन्मलीमसा मलिना जलदा दिङ्मुखसङ्गिन एव ये मेघास्त एव मदाम्बुराजयो मदरेखाः विसारितां प्रसृमरत्वमजिहतागच्छन्त । प्राप्ता इत्यर्थः । पांशुपातस्य दन्तिनां मदहेतुत्वादिति भावः । तदुक्तं पाठा०-१ 'व्यलसिषुः'. २ 'समुन्नमद्धन-'. ३ 'बहुल'. महाभारते-'स्त्रियो जारेण तुष्यन्ति गावः स्वच्छन्दचारतः । कुञ्जराः पांशुवर्षेण ब्राह्मणाः परनिन्दया ॥' इति । दिगन्तलम्बिनो मेघाः सेनारजोमेलनाबहुली- बभूवुरित्यर्थः । अत्र दिगन्तेषु तन्मेघेषु च दन्तित्वतन्मदत्वरूप णात्समस्तवस्तु- वर्ति सावयवरूपकं मुखमेव मुखमिति श्लिष्टपरम्परितमिति संकरः । अजिहतेति ओहाङो लङि तङ्श्नाभ्यस्तयोरातः' (६।४।११२) इत्याकारलोपः 'अदभ्य- स्तात्' (७।१।४) इत्यदादेशः ॥ ५७ ॥

 शिरोरुहैरलिकुलकोमलैरमी मुधा मृधे मृषत युवान एव मा ।
 बलोद्धतं धवलितमूर्धजानिति ध्रुवं जनाञ्जरत इवाकरोद्रजः ॥५८।।

 शिरोरुहैरिति ॥ अलिकुलकोमलैर्भ्रमरवृन्दमनोरमैः शिरोरुहैः केशैरुपल- क्षिता अमी राजानो युवान एव मुधा वृथा मृधे युद्धे । 'मृधमास्कन्दनम्' इति युद्धपर्यायेष्वमरः । मा मृषत न मृयन्ताम् । म्रियतेर्माङि लुङि 'न माङ्योगे' (६।४।७४) इत्यडभावः । 'उश्च' (१।२।१२) इति सिचः कित्त्वान्न गुणः । इति । इत्थमालोच्येत्यर्थः । बलोद्धतं रजः कर्तृ धवलितमूर्धजान्धवली- कृतकेशाञ्जनान् जरत इवाकरोत् । वृद्धानिवाकरोदित्यर्थः । ध्रुवमित्युप्रेक्षायाम् । अत्रेवशब्दस्यावधारणार्थत्वान्न तेन पौनरुक्त्यम् । 'इवौपम्येऽवधारणे' इति विश्वः । 'प्रवयाः स्थविरो वृद्धो जीनो जीर्णो जरन्नपि' इत्यमरः । 'जीर्यतेरतृन्' (३।२। १०४) इत्यतृन्प्रत्ययः ॥ ५८॥

 सुसंहतैर्दधदपि धाम नीयते तिरस्कृतिं बहुभिरसंशयं परैः।
 यतः क्षितेरवयवसंपदोऽणवस्त्विषां निधेरपि वपुरावरीषत ॥५९॥

 सुसंहतैरिति ॥ धाम तेजो दधदपि दधानोऽपि । तेजस्व्यपीत्यर्थः । परैरन्यैः सुसंहतैः सुसंगतैः परैरैक्यं गतैश्च बहुभिस्तिरस्कृतिं नीयते । असंशयं निश्चि- तम् । अर्थाभावेऽव्ययीभावः । कुतः । यतोऽणवः सूक्ष्माः क्षितेरवयवसंपदो रेणु- समृद्धयः त्विषां निधेः सूर्यस्यापि वपुरावरीषत आच्छादितवत्यः । वृङो लुङि 'वृतो वा' (७।२।३८) इतीटो दीर्घः । विशेषेण सामान्यसमर्थनरूपोऽर्थान्तरन्यासः ५९

 द्रुतद्रवद्रथचरणक्षतक्षमातलोल्लसद्भहुलरजोवगुण्ठितम् ।
 युगक्षयक्षणनिरवग्रहे जगत्पयोनिधेर्जल इव मग्नमाबभौ ॥ ६० ॥

 द्रुतेति ॥ द्रुतं शीघ्रं द्रवतां धावतां रथानां चरणैश्चक्रैः क्षताक्षुण्णात् क्षमा- तलादुल्लसता पतता बहुलेन सान्द्रेण रजसावगुण्ठितमाच्छादितं जगद्युगक्षयक्षणे कल्पान्तकाले निरवग्रहे निष्प्रतिबन्धे पयोनिधेर्जले मग्नमिवाबभावित्युप्रेक्षा ॥६०॥

 समुल्लसद्दिनकरवऋकान्तयो रजस्वलाः परिमलिताम्बरश्रियः ।
 दिगङ्गनाःक्षणमविलोकनक्षमाः शरीरिणां परिहरणीयतां ययुः६१

 समुल्लसदिति ॥ समुल्लसन्ती दिनकरस्येव वक्त्रस्य कान्तिर्यासां ताः रजो रेणुरेव रज आर्तवमासामस्तीति रजस्वलाः । 'रजःकृष्यासुतिपरिषदो वलच्' (५।२।११२) इत्यादिना मत्वर्थीयो वलच्प्रत्ययः । धूलिधूसरा उदक्यश्च । परि- मलिताः परितः संजातमला अम्बरस्याकाशस्येवाम्बरस्य वस्त्रस्य च श्रीर्यासां ताः पाठा०-१ 'म्रियतां'. अत एवाविलोकनक्षमा विलोकनानर्हाः दिश एवाङ्गना दिगङ्गानाः शरीरिणां प्राणिनां क्षणमीपत्कालं परिहरणीयतामगम्यतां ययुः । तस्मात् 'मलवद्वाससं न संविशेदेव' इत्यादिनिषेधादिति भावः । श्लिष्टपरम्परितरूपकम् ॥ ६१ ॥

 निरीक्षितुं वियति समेत्य कौतुकात्पराक्रमं समरमुखे महीभृताम् ।
 रजस्ततावनिमिषलोचनोत्पलव्यथाकृति त्रिदशगणैः पलाय्यत ६२

 निरीक्षितुमिति ॥ त्रिदशगणैर्देवगणैः समरमुखे रणारम्भे महीभृतां राज्ञां पराक्रमं निरीक्षितुं वियति कौतुकात्समेत्य रजस्ततौ रजःस्तोमे न निमिषन्त्यनि- मिषाणि पक्ष्मपातरहितानि । मिषेः पचाद्यच् । कुटादित्वान्न गुणः । तेषां लोच. नोत्पलानां व्यथाकृति दुःखकारिण्यां सत्याम् । कृजः क्विप् । पलाय्यताधाव्यत ॥ भावे परापूर्वादयतेर्लङि तङ् 'उपसर्गस्यायतौ' (८।२।१९) इति रेफस्य लत्वम् । अत्र लोचनोत्पलानां व्यथाऽसंबन्धेऽपि संबन्वोक्तेरतिशयोक्तिभेदः ॥ ६२ ॥

 विषङ्गिणि प्रतिपदमापिवत्यपो हताचिरद्युतिनि समीरलक्ष्मणि ।
 शनैःशनैरुपचितपङ्कभारिकाः पयोमुचः प्रययुरपेतवृष्टयः ॥६३ ॥

 विषङ्गिणीति ॥ विषङ्गिणि विषक्ते अत एव हताचिरद्युतिनि विरमिता- चिरद्युतिनि समीरलक्ष्मणि वातकेतौ रजसि प्रतिपदं प्रतिक्षणमपोऽम्भांस्यपिब- त्याकर्षति सति अत एवापेतवृष्टयो निवृत्तवर्षाः पयोमुचः उपचिताः प्रवर्धिताः पङ्कभारिकाः पङ्कभरणानि येषां ते उपचितपङ्कमारिकाः सन्तः । 'पर्यायार्हर्णो- त्पत्तिषु ण्वुल' (३।३।१११) इत्यर्हणार्थे ण्वुल प्रत्ययः । अर्हणं च करणसामर्थ्यम् । अत एव भाराच्छनैः शनैः प्रययुः प्राप्ताः । अत्र पयोमुचां पङ्कभरणासंबन्धेऽपि तत्संबन्धोक्तेरतिशयोक्तिः ॥ ६३ ॥

 नभोनदीव्यतिकरधौतमूर्तिभिर्वियद्गतैरनधिगतानि लेभिरे ।
 चलच्चमूतुरगखुराहतोत्पतन्महीरजःस्नपनसुखानि दिग्गजैः॥६४॥

 नभोनदीति ॥ नभोनदीव्यतिकरेणाकाशगङ्गाया अवगाहेन धौतमूर्तिभिः क्षालिताङ्गैः वियद्गतैः खेचरैः अत एव दिग्गजैरनधिगतान्यननुभूतचराणि चल- द्भिश्वमूतुरगखुरैराहतम् अत एवोत्पतदुद्गच्छन्महीरजस्तेन स्नपनमभिषेचनं तेन यानि सुखानि तानि लेभिरे । कुञ्जराः पांशुवर्षेणेत्युदाहृतम् । अत्रापि दिग्ग. जानां रजःस्नपनासंबन्धेऽपि संबन्धोक्तेरतिशयोक्तिः ॥ ६४ ॥

 गजव्रजाक्रमणभरावनम्रया रसातलं यदखिलमानशे भुवा ।
 नभस्तलं बहुलतरेण रेणुना ततोऽगमत्रिजगदिवैकतां स्फुटम् ६५

 गजेति ॥ यद्यस्माद्गजव्रजानामाक्रमणभरेण पादक्षेपगौरवेणावनम्रया भुवा- खिलं रसातलं पातालमानशे व्याप्तम् । यद्यस्माच्च नभस्तलं बहुलतरेण रेणुना आनशे ततः कारणात्रिजगजगत्रयम् । तद्धितार्थ-' (२।१।५१) इत्यादिना समाहारे द्विगुः । 'द्विगुरेकवचनम्' (२।४।१)। एकतां भूलोकतामिवागमत् । स्फुटमित्युत्प्रेक्षायाम् ॥ ६५॥

पाठा०-१ 'स्फुटं ततस्त्रिजगदगच्छदेकताम्'.

 समस्थलीकृतविवरेण पूरिता महीभृतां बलरजसा महागुहाः।
 रहस्त्रपाविधुरवधूरतार्थिनां नभःसदामुपकरणीयतां ययुः ॥ ६६ ॥

 समेति ॥ समस्थलीकृतानि विवराणि निन्नस्थानानि येन तेन बलरजसा पूरिताः महीभृतां भूधराणां महागुहाः । रहो रहसि । अत्यन्तसंयोगे द्वितीया । त्रपया विधुराणां विलक्षाणां वधूनां रतं सुरतमर्थयन्त इति तदर्थिनां नभःसदां सुराणामुपकरणीयतामुपकारकत्वं ययुः । तासां रजःपूरणात्पुंसामन्धकरणत्वादिति भावः । 'कृत्यल्युटो बहुलम्' (३।३।११३) इत्यनीयरः कर्बर्थता । अत्र रजःपू- रणस्य विशेषणगत्योपकारकहेतुत्वात्काव्यलिङ्गभेदस्तथोपकारकत्वासंबन्धेऽपि संब- धोक्तेरतिशयोक्तिरिति संकरः ॥ ६६ ॥

 गते मुखच्छदपटसादृशीं दृशः पथस्तिरो दधति घने रजस्यपि ।
 मदानिलैरधिमधुचूतगन्धिभिर्द्विपा द्विपानभिययुरेव रंहसा ॥६७॥

 गत इति ॥ छाद्यतेऽनेनेति छदः । मुखस्य छदो मुखच्छदः । 'पुंसि संज्ञायां घः प्रायेण' (३।३।११८) इति घप्रत्ययः 'छादेर्धेऽद्वयुपसर्गस्य' (६४९६) इति ह्रस्वः । स चासौ पटश्च तत्सादृशीं तत्सादृश्यम् । ब्राह्मणादित्वात्व्यञ्प्रत्यये 'षिद्गौरादिभ्यश्च' (४।१।४१) इति ङीष् । स च ष्यञः पित्करणादीकारो बहुल मिति वामनवचनाद्वैकल्पिकः । गते प्राप्ते । गजानां युद्धपूर्वकाले मुखाव- रणकारणात्तत्सदृशे घने सान्द्रे रजसि दृशो दृष्टेः पथो मार्गांस्तिरोदधति छादयति सत्यपि । अधिमधोरधिकमकरन्दस्य चूतस्येव गन्धो येषां तैः । 'उपमानाच्च' (५।४।१३७) इति गन्धस्यत्वे तदेकान्तग्रहणं तु व्यभिचारि । मदानिलैरभि- ज्ञानैर्द्विपा गजाः द्विपान्गजान्प्रति रंहसा वेगेनाभिययुरेव । अत्र तिरोहितदृष्टेर- भियानविरोधस्य मदानिलैः परिहाराद्विरोधाभासोऽलंकारः ॥ ६७ ॥

 मदाम्भसा परिगलितेन सप्तधा गजाञ्जनः शमितरजश्चयानधः।
 उपर्यवस्थितघनपांशुमण्डलानलोकयत्ततपटमण्डपानिव ॥ ६८॥

 मदाम्भसेति ॥ सप्तधा 'कराकटाभ्यां मेढ्राच्च नेत्राभ्यां च मदस्रुतिः' इति पालकाप्ये । सप्तभिः स्रोतोभिः परिगलितेन स्रुतेन मदाम्भसा अधः शमितो रजश्चयो यैस्तान् उपर्यवस्थितानि तथैव स्थितानि धनानि सान्द्राणि पांशुमण्डलानि पूर्वोत्थरजःपुञ्जा येषां तान्गजान् जनो लोकस्तता उपरि वितताः पटमण्डपा येषां तानिवेत्युत्प्रेक्षा । अलोकयत् ॥ ६८ ॥

 अन्यूनोनन्नतयोऽतिमात्रपृथवः पृथ्वीधरश्रीभृत-
  स्तन्वन्तः कनकावलीभिरुपमां सौदामनीदामभिः ।
 वर्षन्तः शममानयन्नुपलसच्छृङ्गारलेखायुधाः
  काले कालियकायकालवपुषः पांसून्गजाम्भोमुचः ॥६९॥

इति श्रीमाघकृतौ शिशुपालवधे महाकाव्ये यके यदुवंश-
क्षोभणो नाम सप्तदशः सर्गः ॥ १७ ॥

 अन्यूनेति ॥ अन्यूनोन्नतयो महोच्छ्रायाः अतिमात्रपृथवोऽत्यन्तविपुलाः

अत एव पृथ्वीधरश्रीभृतः शैलशोभाधारिण इति निदर्शनालंकारः। कनकाव- लीभिराबरणहेतुहेमराजिभिः करणैः । सुदान्ना पर्वतेनैकदिशः सौदामन्यो विद्युतः । तेनैकदिक्' (४।३।११२) इत्यण्प्रत्यये ङीप् । ताभिर्दामभिरिव सौदामनीदामभिर्विद्युल्लताभिरुपमां सादृश्यं तन्वन्तः । 'तडित्सौदामनी विद्युत्' इत्यमरः । 'अतुलोपमाभ्याम्-' इति सदृशवचनस्यैव निषेधादिह सादृश्य- वाचित्वात्तृतीया । उपलसन्तः शृङ्गाराः सिन्दूरादिमण्डलान्येव लेखायुधानि सुरधनूंषि येषां ते तथोक्ताः । 'शृङ्गारः सुरते नाट्ये रसे च गजमण्डने । लेखो लेख्ये सुरे' इति च विश्वः । कालियस्य कालियनागस्य कायवत्कालवपुषः कृष्णदेहाः । गजा एवाम्भोमुचो मेघाः काले योग्यकाले वर्षन्तो मदाम्बु मुञ्चन्तः पांशून् शमं शान्तिमानयन्प्रापयन् । रूपकालंकारः । शार्दूलविक्रीडितं वृत्तमुक्तम् ६९

इति श्रीमहोपाध्यायकोलाचलमल्लिनाथसूरिविरचितशिशुपालवध-
काव्यव्याख्यायां सर्वकषाख्यायां सप्तदशः सर्गः ॥ १७ ॥