शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्)/चतुर्थः सर्गः(रैवतकवर्णनम्)

विकिस्रोतः तः
← तृतीयः सर्गः(पुरीप्रस्थानम्) शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्)
चतुर्थः सर्गः(रैवतकवर्णनम्)
माघः
पञ्चमः सर्गः(सेनानिवेशनम्) →


चतुर्थः सर्गः।

 निःश्वासधूमं सह रत्नभाभिर्भित्त्वोत्थितं भूमिमिवोरगाणाम् ।
 नीलोपलस्यूतविचित्रधातुमसौ गिरिं रैवतकं ददर्श ॥१॥

 निःश्वासेति ॥ नीलोपलैरिन्द्रनीलमणिभिः स्यूताः प्रोता विचित्रा नानावर्णा धातवो गैरिकादयो यस्य तम् । अत एव रत्नभाभिर्मणिप्रभाभिः सह भूमिं भित्त्वा, उत्थितमूर्ध्वं निर्गतं उरगाणां निःश्वासधूमं फूत्कारबाष्पमिव स्थितं रैवताख्यं गिरिमसौ हरिददर्श । स्यूतेति सीव्यतेः कर्मणि क्तः । 'च्छ्वोः शूडनुनासिके च' (६।४।१९) इत्युडादेशे यणादेशः । अत्र गिरेविशिष्टवर्णनीयत्वेन विशिष्टधूमत्वोत्प्रेक्षणाद्गुणनिमित्तजातिस्वरूपोत्प्रेक्षा । सर्गेऽस्मिन्ननावृत्तानि । तत्रादावष्टादशोपजातयः । तल्लक्षणं तूक्तमतीतानन्तरसर्गादौ । अत्रासर्गसमाप्येर्गिरिवर्णनमेव ॥१॥

 गिरिं ददर्शेत्युक्तम् , कीदृगित्याकाङ्क्षायामेकान्वयेनाष्टाभिर्विशिनष्टि-

 गुर्वीरजस्रं दृषदः समन्तादुपर्युपर्यम्बुमुचां वितानैः ।
 विन्ध्यायमानं दिवसस्य भर्तुमार्गं पुनारोध्दुमिवोन्नमद्भिः ॥२॥

 गुर्वीरिति ॥ गुर्वीमहतीर्दृषदः । शिलातटीरिxx। पाषाणप्रस्तरग्रावोपलाश्मानः शिला दृषत्' इत्यमरः । उपर्युपरि दृषदां समीपे । उपरिप्रदेश इत्यर्थः । 'उपर्यध्यधसः सामीप्ये' (८1१७) इति द्विर्भावे तद्योगाद्वितीयेति । यथाह वामनः-'उपर्यादिषु सामीप्ये द्विरुक्तेषु द्वितीया' इति । समन्तादजस्रमुन्नमद्भिः । देशकालाविच्छेदेनोत्पतद्भिरित्यर्थः । अत एव तैरम्बुमुचां वितानैर्मेघवृन्दैनिमित्तैर्दिवसस्य भर्तुः सूर्यस्य मार्गं पुना रोद्धुम् । संहितायां 'रो रि' (८।३।१४) इति रलोपः 'ढ्रलोपे-' (६।३।१११) इति दीर्घः। विन्ध्यायमानमिव विन्ध्यवदाचरन्तम्। तद्वद्वर्धमानमिव स्थितमित्यर्थः । आचारे क्यङन्ताल्लटः शानजादेशः। अत्राविच्छिन्नमेघोन्नमनेन विन्ध्यायमानत्वोत्प्रेक्षणात् क्रियानिमित्तक्रियास्वरूपोत्प्रेक्षा ॥२॥

 क्रान्तं रुचा काञ्चनवप्रभाजा नवप्रभाजालभृतां मणीनाम् ।
 श्रितं शिलाश्यामलताभिरामं लताभिरामन्त्रितषट्पदाभिः ॥३॥

 क्रान्तमिति ॥ पुनः नवानि प्रभाजालानि बिभ्रतीति नवप्रभाजालभृतः तेषां मणीनां संबन्धिन्या काञ्चनवप्रभाजा स्वर्णसानुप्रसृतया रुचा दीप्त्या कान्तं व्याप्तम् । पुनः शिलानां मेचकोपलानां, इन्द्रनीलानां वा श्यामलतया श्यामलिम्ना अभिरामम् । तथा आमन्त्रितपट्पदाभिः मकरन्दपूरितत्वादाहूतभृङ्गाभिः लताभिः श्रितं व्यासम् । इतःपरं द्व्यन्तरमेकं यमकं वक्ष्यति । तत्र तदेवालंकारः। अर्थालंकारस्त्वभ्युच्चेय इति यथासंभवमूह्यम् । यमकलक्षणं त्वाचार्यदण्डिनोक्तम्-'अव्यपेतव्यपेतात्मा वामनः- या वृत्तिर्वर्णसंहतेः । यमकं तच्च पादानामादिमध्यान्तगोचरम् ॥ एकद्वित्रिचतुष्पादयमकानां प्रकल्पना । आदिमध्यान्तमध्यान्तमध्याद्याद्यन्तसर्वतः ॥ अत्यन्तं बहवस्तेषां भेदाः संभेदयोनयः । सुकरा दुष्कराश्चैव दृश्यन्ते तत्र केचन ॥' इति ॥३॥

 सहस्रसंख्यैर्गगनं शिरोभिः पादैर्भुवं व्याप्य वितिष्ठमानम् ।
 विलोचनस्थानगतोष्णरश्मिनिशाकरं साधु हिरण्यगर्भम् ॥४॥

 सहस्रेति ॥ सहस्रमिति संख्या येषां तैः सहस्रसंख्यैः शिरोभिः शिखरैः शीर्षैश्च गगनं तथा तत्संख्यैः पादैः प्रत्यन्तपर्वतैश्चरणैश्च भुवं च व्याप्य वितिष्ठमानमवतिष्ठमानम् । 'समवप्रविभ्यः स्थः' (१॥३।२२) इत्यात्मनेपदम् । विलोचनयोर्यत्स्थानं योग्यदेशस्तद्गतावुष्णरश्मिनिशाकरौ यस्य तम् । अन्यत्र नेत्रीकृतार्केन्दुमित्यर्थः । अतः साधु सत्यं हिरण्यगर्भं ब्रह्माणमिवेत्युत्प्रेक्षा । 'सहस्रशीर्षा' इत्यादिश्रुतेरिति भावः । हिरण्यगर्भो निधिगर्भश्च ॥ ४ ॥

 क्वचिज्जलापायविपाण्डुराणि धौतोत्तरीयप्रतिमच्छवीनि ।
 अभ्राणि बिभ्राणमुमाङ्गसङ्गविभक्तभस्मानमिव स्मरारिम् ॥५॥

 क्वचिदिति ॥ पुनः क्वचिदेकदेशे जलानामपायेनापगमेन विपाण्डुराणि शुभ्राणि अत एव धौतं क्षालितं यदुत्तरीयं तत्प्रतिमा तत्समा छविर्येषां तान्यभ्राणि मेघान् बिभ्राणं दधानम् । भृञः कर्तरि शानच् । अत एवोमायाः पार्वत्या अङ्गसङ्गेनार्धभागेन विभक्तं एकभागस्थापितं भस्म यस्य तं स्मरारिं हरमिव स्थितमित्युपमालंकारः ॥ ५॥

 छायां निजस्त्रीचटुलालसानां मदेन किंचिच्चटुलालसानाम् ।
 कुर्वाणमुत्पिञ्जलजातपत्रैर्विहंगमानां जलजातपत्रैः ॥६॥

 छायामिति ॥ पुनः निजस्त्रीणां चटुषु प्रियवचनेषु लालसा लोलुपाः । 'लोलुपो लोलुभो लोलो लम्पटो लालसोऽपि च' इति यादवः। तेषां निजस्त्रीचटुलालसानां मदेन किंचिदीषच्चटुलाश्चपलास्तेऽलसाश्च । विशेषणयोरपि मिथो विशेषणविशेष्यभावविवक्षया विशेषणसमासः । तेषां चटुलालसानां विहंगमानां हंसादीनामुत्पिञ्जलानि जातान्युत्पिञ्जलजातानि । पूर्ववत् समासः । तानि पत्राणि येषां तैरुत्पिञ्जलजातपत्रैः । उत्पिञ्जरीभूतदलैरित्यर्थः । रलयोरभेदः। जलजातपत्रैः जलजैरेवातपत्रैः छायां कुर्वाणम् । एतेन महती कमलाकरसमृद्धिर्व्योज्यते । यमकरूपकयोः संकरः ॥ ६॥

 स्कन्धाधिरूढोज्ज्वलनीलकण्ठानुर्वीरुहः श्लिष्टतनूनहीन्द्रैः।
 प्रनर्तितानेकलताभुजाग्रान् रुद्राननेकानिव धारयन्तम् ॥७॥

 स्कन्धेति ॥ पुनः स्कन्धं प्रकाण्डमधिरूढा उज्ज्वला नीलकण्ठा मयूरा येषां तान् , अन्यत्र स्कन्धाधिरूढा अंसस्थिता नीलाः कण्ठा येषां तान् । 'अंसप्रकाण्डयोः स्कन्धः' इति विश्वः । अहीन्द्रैः श्लिष्टतनून् व्याप्तदेहान् । एकत्र तदावासस्वादन्यत्र तद्भूषणत्वाच्चेति भावः । प्रनर्तितान्यनेकलतानामेव भुजानां लतानामिव च भुजानामग्राणि येषां तानत एवानन्तानसंख्यान् रुद्रानिव स्थितानित्युप्रेक्षा । उर्वीरुहो वृक्षान् धारयन्तमुद्वहन्तम् ॥ ७ ॥

 विलम्बिनीलोत्पलकर्णपूराः कपोलभित्तीरिव लोध्रगौरीः ।
 नवोलपालंकृतसैकताभाः शुचीरपः शैवलिनीर्दधानम् ॥ ८॥

 विलम्बीति ॥ विलम्बिनो नीलोत्पलान्येव कर्णपूराः कर्णावतंसा यासां ताः । लोध्रेण लोध्ररजसा गौरीरवदाताः । 'षिद्गौरादिभ्यश्च' (४।१।४१) इति ङीष् । कपोलभित्तीः स्त्रीणां गण्डस्थलीरिव स्थिताः । उपमान्तरमाह-नवा उलपा बल्वजतृणानि । 'उलपा बल्वजाः प्रोक्ताः' इति विश्वः। तैरलंकृतानां सैकतानामाभेवाभा यासां ताः । कुतः । शुचीः शुद्धाः शैवलवतीरपो दधानम् । शुचित्वशैवलत्वाभ्यां बिम्बप्रतिबिम्बभावेनोपमाद्वयम् ॥ ८॥

 राजीवराजीवशलोलभृङ्गं मुष्णन्तमुष्णं ततिभिस्तरूणाम् ।
 कान्तालकान्ता ललनाः सुराणां रक्षोभिरक्षोभितमुद्वहन्तम् ॥ ९॥

 राजीवेति ॥ पुनः राजीवराजीनां पद्मपङक्तीनां वशा अधीना लोलाश्चला भुंगा यस्मिंस्तं राजीवराजीवशलोलभृङ्गं तरूणां ततिभिः सङ्घैरुष्णमातपं मुष्णन्तं हरन्तं कान्ता रम्या अलकान्ताश्चूर्णकुन्तलाग्राणि यासां ताः कान्तालकान्ताः । "अलकाश्चूर्णकुन्तलाः' इत्यमरः । सुराणां ललनाः स्त्रियोऽप्सरसो रक्षोभी राक्षसैरक्षोभितमनभिभूतं यथा तथोद्वहन्तम् ॥ ९ ॥

 नन्वल्पीयानयं कश्चिदैवतको नाम शिलोच्चयः कथमियद्वर्ण्यत इति शङ्कां निरस्यति-

 मुदे मुरारेरमरैः सुमेरोरानीय यस्योपचितस्य शृङ्गैः।
 भवन्ति नोद्दामगिरां कवीनामुच्छ्रायसौन्दर्यगुणा मृषोद्याः ॥ १०॥

 मुद इति ॥ मुरारेर्मुदे संतोषायामरैः कर्तृभिः सुमेरोः शृङ्गैः करणैरानीयोपचितस्य वर्धितस्य । आनीतैः शृङ्गैरुपचितस्येत्यर्थः । उपचये करणानां शृङ्गाणामर्थादानयनकर्मत्वम् । यस्य शैलस्योच्छ्रायः औन्नत्यं, सौन्दर्यं च तयोर्गुणा उत्कर्षा उद्दामगिरां प्रगल्भवाचां कवीनां मृषा उद्यन्त इति मृषोद्याः मिथ्यावाच्या न भवन्ति । मेरुशृङ्गेषु सर्वगुणसं भवादिति भावः । 'राजसूयसूर्यमृषोद्य-'(३।१।११४) इत्यादिना वदेः क्यबन्तो निपातः । उत्कृष्टः श्राय उच्छ्राय इति घञन्तेनोपसर्गस्य समासः । न तूपसृष्टाद्धञ्प्रत्ययः । “श्रिणीभुवोऽनुपसर्गे' (३।३।२४) इति नियमात् । मुद इत्यादिश्लोकसप्तके यच्छब्दस्य दृष्टोऽयं शैलः स इत्यनेनान्वयः । मेरुशृङ्गासंबन्धेऽपि संबन्धवर्णनादतिशयोक्तिः ॥ १० ॥

 यतः परार्ध्यानि भृतान्यनूनैः प्रस्थैर्मुहुर्भूरिभिरुच्छिखानि ।
 आढ्यादिव प्रापणिकादजस्रं जग्राह रत्नान्यमितानि लोकः ॥ ११॥

 यत इति ॥ लोकः परार्ध्यानि श्रेष्ठानि, अनूनैर्महद्भिः, भूरिभिः प्रभूतैः । 'प्रभूतं प्रचुरं प्राज्यं भूरि' इत्यमरः । प्रस्थैः सानुभिर्मानविशेषैश्च । 'प्रस्थोऽस्त्री सानुमानयोः' इत्यमरः । भृतानि संभृतानि मितानि च उच्छिखान्युश्मीनि अमितान्यपरिमितानि रत्नानि यतः शैलादाढ्याद्धनिकात् । 'इभ्य आढ्यो धनी' इत्यमरः । प्रपणो व्यवहारः प्रयोजनमस्य प्रापणिको वणिक् । 'तदस्य प्रयोजनम्' इति ठक् । 'पण्याजीवाः प्रापणिका वैदेहा नैगमाश्च ते । वणिजः' इति वैजयन्ती । तस्मादिवाजस्रं मुहुर्जग्राह । उपमालंकारः ॥ ११ ॥

 अखिद्यतासन्नमुदग्रतापं रविं दधानेऽप्यरविन्दधाने ।
 भृङ्गावलर्यस्य तटे निपीतरसा नमत्तामरसा न मत्ता ॥ १२॥

 अखिद्यतेति ॥ आसन्नमौन्नत्यात् संनिहितमत एवोदग्रतापं दुःसहातपं रविं दधानेऽपि, अरविन्दधान इति विरोधः । अरविन्दानां धाने निधाने इति परिहारः। धीयतेऽस्मिन्निति धानम् । अधिकरणे ल्युट् । शब्दश्लेषमूलो विरोधालंकारः । यस्य गिरेस्तटे निपीतरसा नितरां पीतमकरन्दा नमन्ति तामरसानि पङ्केरुहाणि भारभूतया यया सा नमत्तामरसा । 'पङ्केरुहं तामरसम्' इत्यमरः । अत एव मत्ता भृङ्गावलिर्नाखिद्यत न खिन्ना । खिदेदैवादिकात्कर्तरि लङ् । अत्यन्तसूर्यसंनिधानेऽप्यरविन्दाकरविहारान्मधुकरास्तापं नापुरित्यर्थः ॥ १२ ॥

 यत्राधिरूढेन महीरुहोच्चैरुन्निद्रपुष्पाक्षिसहस्रभाजा ।
 सुराधिपाधिष्ठितहस्तिमल्ललीलां दधौ राजतगण्डशैलः ॥ १३ ॥

 यत्रेति ॥ यत्र शैले रजतस्य विकारो राजतः । 'प्राणिरजतादिभ्योऽञ्' (४।३।१५४) इत्यञ्प्रत्ययः । स चासौ गण्डशैलश्च । 'गण्डशैलास्तु च्युताः स्थूलोपला गिरेः' इत्यमरः । उन्निद्राणि विकसितानि पुष्पाण्यक्षीणीवेत्युपमितसमासः । तेषां सहस्रं भजतीति तद्भाजा अधिरूढेनोच्चैर्महीरुहा वृक्षेण सुराधिपेन देवेन्द्रेणाधिष्ठितो यो हस्ती मल्ल इव तस्यैरावतस्य लीलां शोभां दधौ । ऐरावतस्य धावल्यादिति भावः । 'हस्तिमल्लोऽभ्रमातङ्गे हस्तिमल्लो विनायके' इति विश्वः । अत्र लीलामिव लीलामिति सादृश्याक्षेपान्निदर्शनालंकारः ॥ १३ ॥

 विभिन्नवर्णा गरुडाग्रजेन सूर्यस्य रथ्याः परितः स्फुरन्त्या ।
 रत्नैः पुनर्यत्र रुचा रुचं स्वामानिन्यिरे वंशकरीरनीलैः ॥ १४॥

 विभिन्नेति ॥ गरुडाग्रजेनारुणेन विभिन्नवर्णा अन्यथाकृतवर्णाः । अरुणिमानमापादिता इत्यर्थः । सूर्यस्य संबन्धिनो रथं वहन्तीति रथ्या रथाश्वाः । 'तद्वहति रथयुगप्रासङ्गम्' (४।४।७६) इति यत्प्रत्ययः । यत्र शैले वंशकरीरनीलैर्वंशाङ्कुरश्यामै रत्नैः । मरकतैरित्यर्थः । 'वंशाङ्कुरे करीरोऽस्त्री' इत्यमरः । वंशशब्दस्याम्लानताहेतोरलूनतायाः प्रतिपत्त्यर्थत्वादपौनरुक्त्यम् । अत एवैकार्थपदमप्रयोज्यमित्युक्त्वा करिकलभकर्णावतंसादिषु प्रतिपत्तिविशेषकरेषु न दोष इत्याह वामनः। न विशेषश्चेदिति । परितः स्फुरन्त्या रुचा स्वप्रभया करणेन, पुनः स्वां रुचं निजहरितवर्णमेवानिन्यिरे आनीताः । नयतेर्द्विकर्मकात्प्रधाने कर्मणि लिट् । 'प्रधानकर्मण्याख्येये लादीनाहुर्द्विकर्मणाम्' इति वचनात् । अत्र विभिन्नवर्णा इत्येकस्तद्गुणः । रथ्यानां स्वगुणत्यागेन गरुडाग्रजगुणग्रहणात्पुनस्तत्त्यागेन मरकतगुणग्रहणादपरस्तद्गुणस्तदुपजीवीति सजातीययोः संकरः । तेन गिरेः सूर्यमण्डलपर्यन्तमौन्नत्यं वस्तु व्यज्यते । 'तद्गुणः स्वगुणत्यागादन्योत्कृष्टगुणग्रहः ॥ १४ ॥

 यत्रोज्झिताभिर्मुहुरम्बुवाहैः समुन्नमद्भिर्न समुन्नमद्भिः ।
 वनं बवाधे विषपावकोत्था विपन्नगानामविपन्नगानाम् ॥ १५ ॥

  यत्रेति ॥ यत्र शैले समुन्नमद्भिः समुत्पतद्भिः अम्बुवाहैः उज्झिताभिस्त्यक्ताभिरद्भिर्मुहुः समुन्नं सम्यगुन्नं क्लिन्नम् । सिक्तमित्यर्थः । 'उन्दी क्लेदने' इति धातोः कर्मणि क्तः । 'नुदविद-' (८।२।५६) इत्यादिना निष्ठानत्वम् । विपन्नगा विगतसर्पा न भवन्तीत्यविपन्नगाः । सपन्नगा इत्यर्थः । तेषामविपन्नगानां नगानां वृक्षाणां वनं विषपावकोत्था विषाग्निसमुत्था विपत् आपत् न बबाधे । नित्यं वर्षानुसङ्गाद्विषाग्निक्षोभो वृक्षाणामकिंचित्कर इति भावः ॥ १५ ॥

 फलद्भिरुष्णांशुकराभिमर्शात्कार्शानवं धाम पतङ्गकान्तैः ।
 शशंस यः पात्रगुणाद्गुणानां संक्रान्तिमाक्रान्तगुणातिरेकाम् ॥ १६ ॥

 फलद्भिरिति ॥ यः शैल उष्णांशुकराभिमर्शादर्ककरसंपर्कात् कृशानोरिदं कार्शानवमाग्नेयं धाम तेजः फलद्भिरुद्रिद्भिः । अग्निकरसामर्थ्याभिव्यञ्जकैरिति भावः । पतङ्गकान्तैः सूर्यकान्तैः । दृष्टान्तभूतैरिति भावः । गुणानां संक्रान्तिमन्यत्र संक्रमणम् । संक्रान्तगुणानित्यर्थः । पात्रगुणादाधारगुणसहकारादाक्रान्तः प्राप्तो गुणातिरेकः कार्यविशेषाधानरूपो गुणोत्कर्षों यस्यास्तां शशंस प्रतिपादयामास । अर्कत्विषां सर्वत्र संक्रमणाविशेषेऽपि सूर्यकान्तेष्वेव ज्वलनजननदर्शनात् सर्वत्रापि संक्रम्यकारिणां गुणानामाधारगुणसहकारात् कार्यविशेषाधायकत्वमिति निश्चयोऽत्रैव जायत इत्यर्थः । ततश्च सहकारशक्तिविरहिणी सहजशक्तिरनुपकारिणीति भावः । वृत्त्यनुप्रासोऽलंकारः ॥ १६ ॥

 दृष्टोऽपि शैलः स मुहुर्मुरारेरपूर्ववद्विस्सयमाततान ।
 क्षणे क्षणे यन्नवतामुपैति तदेव रूपं रमणीयतायाः ॥ १७ ॥

 दृष्टोऽपीति ॥ मुहुर्दृष्टोऽपि स शैलो मुरारेरपूर्वेणादृष्टपूर्वेण तुल्यमपूर्ववत् । 'तेन तुल्यं क्रिया चेत्-' (५।१।११५) इति वतिः । विस्मयमाततान । अतिरमणीयत्वादिति भावः । तथा हि-क्षणे क्षणे प्रतिक्षणम् । वीप्सायां द्विर्भावः । नवतामपूर्ववद्भावमुपैतीति यत् , तन्नवत्वोपगमनमेव रमणीयताया रूपं स्वरूपम् । लक्षणमित्यर्थः । अत्र रमणीयत्वलक्षणस्य वाक्यार्थस्य विस्मये हेतुत्वसमर्थनाद्वाक्यार्थहेतुकं काव्यलिङ्गमलंकारः ॥ १७ ॥

 उच्चारणज्ञोऽथ गिरां दधानमुच्चा रणत्पक्षिगणास्तटीस्तम् ।
 उत्कं धरं द्रष्टुमवेक्ष्य शौरिमुत्कंधरं दारुक इत्युवाच ॥ १८ ॥

 उच्चारणज्ञ इति ॥ अथ हरिविस्मयानन्तरं गिरां वाक्यानामुच्चारणं जानातीत्युच्चारणज्ञ उक्तिकुशलः । 'आतोऽनुपसर्गे कः' (३।२।३) इति कप्रत्ययः । न

पाठा०-१ "भिमर्षात्'. 'इगुपध' (३।१।१३५) इत्यादिना 'आकारादनुपपदात्कर्मोपपदो भवति विप्रतिषेधेन' इति वचनात् । दारुकः कृष्णसारथिरुच्चा उन्नता रणन्तः शब्दायमानाः पक्षिगणा यासु ता रणत्पक्षिगणास्तटीर्दधानं तं पूर्वोक्तं । धरतीति धरं पर्वतम् । पचाद्यच् । 'अहार्यधरपर्वताः' इत्यमरः । द्रष्टुमुत्कमुत्सुकम् । 'उत्क उन्मनाः' (५।२।८०) इति निपातः । उत्कंधरमौत्सुक्यादुन्नमितकंधरं शौरिमवेक्ष्य इति वक्ष्यमाणक्रमेण वाचमुवाच । नहीङ्गितज्ञोऽवसरेऽवसीदतीति भावः ॥ १८ ॥

 इतःप्रभृति यमकानन्तरश्लोकेषु वसन्ततिलकावृत्तं नियमेनाह-

  आच्छादितायतदिगम्बरमुच्चकैर्गा-
   माक्रम्य संस्थितमुदग्रविशालशृङ्गम् ।
  मूर्ध्निस्खलत्तुहिनदीधितिकोटिमेन-
   मुद्वीक्ष्य को भुवि न विस्मयते नगेशम् ॥ १९ ॥

 आच्छादितेति ॥ आच्छादितान्यावृतानि आयतानि दीर्घाणि दिशोऽम्बरं खं च दिगम्बराणि येन तम् , अन्यत्राच्छादितं वसितमायतं दिगेवाम्बरं वासो येन तं तथोक्तम् । उच्चकैरुन्नतां गां भुवमाक्रम्य व्याप्य संस्थितम् । तथोदग्राण्युन्नतानि विशालानि च शृङ्गाणि शिखराणि यस्य तम् । अन्यत्रोदने विशाले शृङ्गे विषाणे यस्य तं उच्चकैरुन्नतं गां वृषभमाक्रम्य अधिष्ठाय संस्थितमित्यर्थः । 'शृङ्गं विषाणे शिखरे' इति, 'गौः स्वर्गे वृषभे रश्मौ वज्रे चन्द्रमसि स्मृतः । अर्जुनीनेत्रदिग्बाणभूवाग्वारिषु गौर्मता ॥' इति च विश्वः । मूर्ध्नि शिखरे । अन्यत्र शिरसि स्फुरन्ती तुहिनदीधितेरिन्दोः कोटि: रश्मिः, कला च यस्य तमेनं नगेशं नगश्रेष्ठं रैवतकं कैलासनायकमीश्वरं चोद्वीक्ष्य को न विस्मयते । सर्वोऽपि विस्मयत इत्यर्थः । नेयं तुल्ययोगिता । प्रकृताप्रकृतविषये तदनुत्थानात् । नापि समासोक्तिः । तस्या विशेषणसाम्यजीवित्वात् । नापि श्लेषः । उभयश्लेषे विशेष्यश्लेषयोगात् । तस्मात्प्राकरणिकार्थमात्रपर्यवसिताभिधाव्यापारेणापि शब्देनार्थान्तरधीकृद्ध्व्- -रित्याहुः । तदुक्तं काव्यप्रकाशे–'अनेकार्थस्य शब्दस्य वाचकत्वे नियन्त्रिते ।संयोगाद्यैरवाच्यार्थधीकृद्व्यापृतिरञ्जनम् ॥' इति । वृत्तलक्षणं तु-'उक्ता वसन्ततिलका तभजा जगौ गः' इति ॥ १९ ॥

 उदयति विततोर्ध्वररश्मिरज्जावहिमरुचौ हिमधाम्नि याति चास्तम् ।
 वहति गिरिरयं विलम्बिघण्टाद्वयपरिवारितवारणेन्द्रलीलाम् ॥ २० ॥

 उदयतीति ॥ वितता ऊर्ध्वाश्च रश्मिरज्जवो रश्मयो रज्जव इव यस्य तस्मिन् विततोर्ध्वररश्मिरज्जौ अहिमरुचौ सूर्ये उदयत्युदयमाने । 'अय गतौ' इति स्वरितेतं केचिदिच्छन्ति । ततः शतरि सप्तमी । तथा विततोलरर्ध्वरश्मिरज्जौ हिमधाम्नि चन्द्रे चास्तं यात्यस्तमयमाने । यातेः शतरि सप्तमी । अयं गिरिर्विलम्बिना विशेष लम्ब-

१ 'इट किट कटी गतौ' इत्यत्र केचिदीकारप्रश्लेषं वर्णयन्ति इति, अनेनैव श्लोकेन कविना 'घण्टामाघः' इति नाम लब्धम् , इति च वल्लभदेवः. मानेन घण्टाद्वयेन परिवारितस्य वेष्टितस्य वारणेन्द्रस्य लीलां शोभां वहति । अत्र लीलामिव लीलामिति सादृश्याक्षेपान्निदर्शना । तथा सूर्याचन्द्रमसावस्य कुक्षिसमानकक्षां विभ्रत इति महदौन्नत्यं व्यज्यते । पुष्पिताग्रा वृत्तम् । 'अयुजि नयुगरेफतो यकारो युजि च नजौ जरगाश्च पुष्पिताग्रा' इति ॥ २० ॥

 वहति यः परितः कनकस्थलीः सहरिता लसमाननवांशुकः ।
 अचल एष भवानिव राजते स हरितालसमाननवांशुकः ॥ २१ ॥

 वहतीति ॥ लसमाना दीप्यमाना नवांशवो यस्य स लसमाननवांशुकः । शैषिकः कप्प्रत्ययः । योऽचलः सहरिताः सदूर्वाः । 'हरितेति च दूर्वायां हरिद्वर्णयुतेऽन्यवत्' इति विश्वः । कनकस्य स्थलीः स्वर्णभूमीः। 'जानपद-' (४।१।४२) इत्यादिना अकृत्रिमार्थे ङीष् । परितो वहति स एषोऽचलः हरितालेन कर्चूरेण समानं नवमंशुकं वासो यस्य स हरितालसमाननवांशुकः पीताम्बरो भवानिव राजते । द्रुतविलम्बितं वृत्तम् । 'द्रुतविलम्बितमाह नभौ भरौ' इति लक्षणात् ॥२१ ॥

  पाश्चात्यभागमिह सानुषु संनिषण्णा:
   पश्यन्ति शान्तमलसान्द्रतरांशुजालम् ।
  संपूर्णलब्धललनालपनोपमान-
   मुत्सङ्गसङ्गिहरिणस्य मृगाङ्कमूर्तेः ॥ २२ ॥

 पाश्चात्येति ॥ इहाद्रौ सानुषु संनिषण्णाः स्थिता जनाः शान्तमलं कलड़्कस्य पुरोवर्तित्वान्निष्कलङ्कमत एव सान्द्रतरमंशुजालं यस्य तं संपूर्ण परिपूर्णंं लब्धं प्राप्तं ललनालपनोपमानं स्त्रीमुखसादृश्यं येन तम् । 'आननं लपनं मुखम्' इत्यमरः । कुतः । उत्सङ्गसङ्गिहरिणस्याङ्कस्थमृगस्य मृगाङ्का मृगचिह्ना मृगचिह्ना मूर्तिर्यस्य तस्य मृगाङ्कमूर्तेश्चन्द्रस्य पश्चाद्भवः पाश्चात्यः । 'दक्षिणापश्चात्पुरसस्त्यक्' (४।२।९८)। स चासौ भागश्च तं पाश्चात्यभागं पृष्ठभागं पश्यन्ति । पाश्चात्यभागदर्शनातिशयोक्त्या तादृगौन्नत्यध्वनिः । वसन्ततिलका वृत्तम् ॥ २२ ॥

 कृत्वा पुंवत्पातमुच्चैर्भृगुभ्यो मूर्ध्नि ग्राव्णां जर्जरा निर्झरौघाः ।
 कुर्वन्ति द्यामुत्पतन्तः स्मरार्तस्वर्लोकस्त्रीगात्रनिर्वाणमत्र ॥ २३ ॥

 कृत्वेति ॥ अत्राद्रौ निर्झरौघा गिरिनदप्रवाहाः । 'प्रवाहो निझरो झरः' इत्यमरः । चूतवृक्ष इत्यादिवत्सामान्यविशेषभावादपुनरुक्तिः । पुंवत् पुंभिस्तुल्यम्। 'तेन तुल्यं क्रिया चेत्-' (५।१।११५) इति वतिः । उच्चैर्भृगुभ्योऽतटेभ्यः । 'प्रपातस्वतटो भृगुः' इत्यमरः । ग्राव्णां शिलानां मूर्ध्नि पातं कृत्वा पतित्वा जर्जराः शकलीभूता द्यामाकाशं प्रत्युत्पतन्तः स्मरार्तानां स्वर्लोकस्त्रीणां खेचरीणामप्सरसां गात्रनि र्वाणमङ्गनिर्वृतिं कुर्वन्ति । 'अनुष्ठानासमर्थस्य वानप्रस्थस्य जीर्यतः ।भृग्वग्निजलसंपातैर्मरणं प्रविधीयते ॥' इति विहितभृगुपातिनां पुंसां स्वर्लोकगामिनामिहोपमानता । शालिनी वृत्तम् । 'शालिन्युक्ता म्तौ तगौ गोऽब्धिलोकैः' इति ॥ २३ ॥

  स्थगयन्त्यमूः शमितचातकार्तस्वरा
   जलदास्तडित्तुलितकान्तकार्तस्वराः ।
  जगतीरिह स्फुरितचारुचामीकरा:
   सवितुः क्वचित् कपिशयन्ति चामी कराः ॥ २४ ॥

 स्थगयन्तीति ॥ इहाद्रौ क्वचिदमूर्जगतीभूमीः । 'जगती भुवने भूमौ' इति विश्वः । शमिताश्चातकानामार्तस्वरा यैस्ते शमितचातकार्तस्वराः । 'सर्वसहापतितमम्बु न चातकानाम्' इति भूमिगतस्य तेषां विषाभत्वादभौमाम्बुदानेनोज्जीवयन्तीत्यर्थः । किंच तडिद्भिस्तुलितान्युपमितानि कान्तानि कार्तस्वराणि सुवर्णानि यैस्ते तडित्तुलितकान्तकार्तस्वराः । तडित्स्फुरणे तेषामपि तद्वत्स्फुरणादिति भावः । ते जलदाः स्थगयन्त्याच्छादयन्ति । 'स्थग आच्छादने' इति चौरादिकः । क्वचित्तु स्फुरितान्युल्लसितानि चारूणि चामीकराणि सुवर्णानि यैस्ते स्फुरितचारुचामीकरा अमी सवितुः कराः, आतपाश्च कपिशयन्ति कपिशिताः कुर्वते । क्वचिदृष्टिः क्वचिदातपश्चेति महदाश्चर्यमिति भावः । पथ्या वृत्तम् । 'सजसा यलौ च सह गेन पथ्या मता ॥ २४ ॥

  उत्क्षिप्तमुच्छ्रितसितांशुकरावलम्बै-
   रुत्तम्भितोडुभिरतीवतरां शिरोभिः ।
  श्रद्धेयनिर्झरजलव्यपदेशमस्य
   विष्वक्तटेषु पतति स्फुटमन्तरीक्षम् ॥ २५ ॥

 उत्क्षिप्तमिति ॥ उच्छ्रिता उत्क्षिप्ताः सितांशोश्चन्द्रस्य करा अंशवो हस्ताश्चावलम्बो येषां तैः । उत्तम्भितान्युडूनि यैस्तैः । उडूनि चावष्टभ्येत्यर्थः । शिरोभिः शिखरैर्मस्तकैश्चातीवतरां भृशतरम् । अतीवशब्दादव्ययादामुप्रत्ययः । उत्क्षिप्तमुद्यम्य धृतं अन्तरीक्षं श्रद्धेयः सादृश्याद्विश्वसनीयो निर्झरजलमिति व्यपदेशो व्यवहारो यस्य तत् । दृढतरां निर्झरजलधियं कुर्वदित्यर्थः । अस्याद्रेस्तटेषु विष्वक् सम न्तात् पतति स्फुटं सत्यम् । इन्दुकरानुडूनि चावष्टभ्य शिरोभिर्धियमाणमपि दुरुद्धरत्वाद्भ्रश्यदन्तरीक्षमेवेदं न तु जलम् । सादृश्यात्तु व्यपदेशो दुर्वार इति सर्वतः पातिता, निर्झरजलं चोत्प्रेक्ष्यते । तेनोत्सेधविस्तारावस्य व्यज्यते ॥ २५ ॥

  एकत्र स्फटिकतटांशुभिन्ननीरा
   नीलाश्मद्युतिभिदुराम्भसोऽपरत्र ।
  कालिन्दीजलजनितश्रियः श्रयन्ते
   वैदग्धीमिह सरितः सुरापगायाः ॥ २६ ॥

 एकत्रेति ॥ एकत्र एकस्मिन्भागे स्फटिकस्य यत्तटं तस्यांशुभिर्विभिन्ननीरा मिश्रोदकाः । शुभ्रजला इत्यर्थः । अपरत्र अपरस्सिन्भागे नीलाश्मनामिन्द्रनीलानां द्युतिभिर्भिदुराणि मिश्राण्यम्भांसि यासां ताः । नीलसलिला इत्यर्थः । इहाद्रौ सरितः कलिन्दस्याद्रेरपत्यं स्त्री कालिन्दी यमुना । 'कालिन्दी सूर्यतनया यमुना शमनस्वसा' इत्यमरः । तस्या जलैर्जनिता श्रीः शोभा यस्यास्तस्याः । तत्संगताया इत्यर्थः । सुरापगाया गङ्गाया वैदग्धीं शोभां श्रयन्ते भजन्ति । विदग्धस्य भावो वैदग्धी । ब्राह्मणादित्वात् 'गुणवचन-' (५।१।१२४) इत्यादिना ष्यञ्प्रत्ययः । 'षिद्गौरादिभ्यश्च' (४।१।४१) इति ङीष् । सोऽपि त्वस्य बाहुलकत्वादिह वैकल्पिकः । अत एव 'ष्यञः षित्करणादीकारो बहुलम्' इति वामनः । अत्र सितासितमणिगुणग्रहणात्सरितां यमुनासंगतगङ्गाशोभासादृश्याक्षेपात्तद्गुणोत्थापिता निदर्शना । प्रहर्षिणी वृत्तम् । 'म्नौ ज्रौ गस्त्रिदशयतिः प्रहर्षिणीयम्' ॥ २६ ॥

 इतस्ततोऽस्मिन्विलसन्ति मेरोः समानवप्रे मणिसानुरागाः ।
 स्त्रियश्च पत्यौ सुरसुन्दरीभिः समा नवप्रेमणि सानुरागाः ॥ २७ ॥

 इत इति ॥ मेरोः समानवप्रे तुल्यप्रस्थे अत एवास्मिन्नद्रावितस्ततो मणिसानुरागा रत्नतटकान्तयो विलसन्ति प्रसरन्ति । किंच नवं प्रेम यस्य तस्मिन्नवप्रेमणि पत्यौ अनुरागेण सह वर्तन्त इति सानुरागाः सुरसुन्दरीभिः समाः सरूपाः स्त्रियश्चेतस्ततो विसलन्ति क्रीडन्ति ।अन्योन्यमनुरागिणोऽनुरूपाश्चेह विलासिनस्तदनुरूपाणि च विहारस्थलानि सन्तीति भावः ॥ २७ ॥

  उच्चैर्महारजतराजिविराजितासौ
   दुर्वर्णभित्तिरिह सान्द्रसुधासवर्णा ।
  अभ्येति भसपरिपाण्डुरितस्मरारे-
   रुद्वह्निलोचनललामललाटलीलाम् ॥ २८ ॥

 उच्चैरिति ॥ इहाद्रौ सान्द्रया सुधया लेपविशेषेणामृतेन वा सवर्णा समानवर्णा । 'ज्योतिर्जनपद-' (६।३।८५) इत्यादिना समानस्य सादेशः । 'लेपभेदेऽमृते सुधा' इति वैजयन्ती । महारजतराजिविराजिता काञ्चनरेखाशोभिता असौ पुरोवर्तिनी उच्चैरुन्नता दुर्वर्णभित्ती रजतभित्तिः । 'महारजतकाञ्चने' इति,'दुर्वणं रजतं रूप्यम्' इति चामरः । भस्मना परिपाण्डुरितस्य स्मरारेरुद्वह्नि उद्गतार्चिलोचनमेव ललामं भूषणं यस्य तस्य ललाटस्य लीलां शोभामभ्येति भजतीति निदर्शनालंकारः । 'ललामं पुच्छपुण्ड्राश्वभूषाप्राधान्यकेतुषु' इत्यमरः ॥ २८ ॥

 अयमतिजरठाः प्रकामगुर्वीरलघुविलम्बिपयोधरोपरुद्धाः ।
 सततमसुमतामगम्यरूपाः परिणतदिक्करिकास्तटीर्बिभर्ति ॥ २९ ॥

 अयमिति ॥ अयं गिरिः अतिजरठा अतिकठिनाः, अतिजरतीश्च । 'जरठः कठिने जीर्णे' इति वैजयन्ती । प्रकामं गुर्वीः श्रेष्ठाः, स्थौल्याद्दुर्भराश्व प्रकामगुर्वीः । 'गुरुस्तु गीष्पतौ श्रेष्ठे गुरौ पितरि दुर्भरे' इति शब्दार्णवः । विस्पष्टपटुवत् 'मयूर व्यंसकादयश्च' (२।१।७२) इति समासः । अलघुभिर्विलम्बिभिर्लम्बमानैः पयोधरैर्मेघैः, स्तनैश्च । 'स्त्रीस्तनाब्दौ पयोधरौ' इत्यमरः। उपरुद्धा आवृताः निबद्धाः सततं सर्वदाऽसुमतां प्राणभृतामगम्यरूपा अत्युन्नतत्वाद्दुरारोहस्वरूपाः, अन्यत्र वृद्धत्वाद्गमनानर्ह विग्रहाः । 'त्यजेदन्त्यकुलोत्पन्नां वृद्धां स्त्रीं कन्यकां तथा' इति गमननिषेधादिति भावः। परिणतास्तिर्यग्दन्तप्रहारिणो दिक्करिणो दिग्गजा यासु ताः परिणतदिक्करिकाः। 'तिर्यग्दन्तप्रहारस्तु गजः परिणतो मतः' इति हलायुधः । 'इनः स्त्रियाम्' (५।४।१५२) इति समासान्तः कप्प्रत्ययः । अन्यत्र परिणताः किणीभूता दिशो दन्तक्षतविशेषाः करिकाः, नखव्रणाश्च यासां ताः । 'दिग्दष्टे वर्तुलाकारे करिका नखरेखिका' इति वैजयन्ती । तटीर्बिभर्ति । अत्र प्रकृततटीविशेषणमहिम्ना अप्रकृतवृद्धाङ्गनाप्रतीतेः समासोक्तिः। पुष्पिताग्रा वृत्तमुक्तम् ॥ २९ ॥

  धूमाकारं दधति पुरः सौवर्णे
   वर्णेनाग्नेः सदृशि तटे पश्यामी ।
  श्यामीभूताः कुसुमसमूहेऽलीनां
   लीनामालीमिह तरवो बिभ्राणाः ॥ ३० ॥

 धूमेति ॥ इहाद्रौ पुरोऽग्रे वर्णेनाग्नेः सदृशि समाने । अग्निसमानवर्ण इत्यर्थः । सौवर्णे सुवर्णविकारे तटे कुसुमसमूहे लीनां स्थिताम् । 'ल्वादिभ्यः' (८।२।४४) इति निष्ठानत्वम् । अलीनां भृङ्गाणामालीमावलीं बिभ्राणा अत एव श्यामीभूता अमी तरवो धूमाकारं धूमसाम्यं दधति । त्वं पश्य । स्वर्णतटमग्निवद्भाति, श्यामास्तरवो धूमवद्भान्तीत्युपमा । जलधरमाला वृत्तम् । 'अब्ध्यङ्गैः* स्थाज्जलधरमाला म्भौ स्मौ' इति लक्षणात् ॥ ३० ॥

  व्योमस्पृशः प्रथयता कलधौतभित्ती-
   रुन्निद्रपुष्पचणचम्पकपिङ्गभासः ।
  सौमेरवीमधिगतेन नितम्बशोभा-
   मेतेन भारतमिलावृतवद्विभाति ॥ ३१ ॥

 व्योमेति ॥ व्योमस्पृशोऽभ्रंकषाः उन्निद्रैर्विकसितैः पुष्पैर्वित्ता उन्निद्रपुष्पचणाः । `तेन वित्त-'(५।२।२६) इति चणप्प्रत्ययः । ते च ते चम्पकाश्च तद्वत् पिङ्गभासः पिङ्गवर्णाः कलधौतभित्तीः कनकतटीः । 'कलधौतं रौप्यहेम्नोः' इति विश्वः । प्रथयता प्रकटयता अत एव सौमेरवीं सुमेरुसंबन्धिनीं नितम्बशोभां कटकलक्ष्मीमधिगतेन प्राप्तवता । 'गत्यर्थाकर्मक-' (३।४।७२) इत्यादिना गमेः कर्तरि क्तः । एतेन रैवतकाद्रिणा भारतं भरतस्य राज्ञ इदं भारताख्यं वर्षं भूखण्डम् । 'स्याद्वृष्टौ लोकधात्वंशे वत्सरे वर्षमस्त्रियाम्' इत्यमरः ।इलावृतवदिलावृतवर्षमिव विभातीत्युपमा । नवखण्डस्य जम्बूद्वीपस्य हिमाद्रेर्दक्षिणभूखण्डं हैमवतापरनामकं भारतवर्षं सुमेरुयोगात् सौमेरवापराख्यं मध्यमखण्डमिलावृतवर्षम् । अत एव 'नाम्नेदं भारतं वर्षं हिमाद्रेस्तच्च दक्षिणे । तेन हैमवतं नाम परेष्वप्येवमुन्नयेत् ॥ इलावृतं सौमेरवं सुमेरोः परितो हि तत् ॥' इति वैजयन्ती ॥ ३१ ॥

  • [अब्ध्यष्टाभिर्जलधरमाला म्भौ स्मौ' इति वृत्तरत्नाकरपाठः, स एव साधीयान्.]

 रुचिरचित्रतनूरुहशालिभिर्विचलितैः परितः प्रियकव्रजैः।
 विवधरत्नमयैरभिभात्यसाववयवैरिव जङ्गमतां गतैः ॥ ३२ ॥

 रुचिरेति ॥ असौ गिरिः रुचिरैरुज्ज्वलैः, चित्रैर्नानावणैः, तनूरुहैर्लोमभिः शालन्त इति तथोक्तैः परितः प्रचलितैः प्रसरद्भिः प्रियकाः कम्बलप्रकृतयो मृगविशेषाः । 'प्रियको रोमभिर्युक्तो मृदूच्चमसृणैर्धनैः' इति वैजयन्ती। तेषां व्रजैः समूहैः जङ्गमतां चरिष्णुतां गतैर्विविधरत्नमयैरवयवैः स्वाङ्गैरिव प्रतिभातीत्युत्प्रेक्षा । द्रुतविलम्बितं वृत्तम् ॥ ३२ ॥

 कुशेशयैरत्र जलाशयोषिता मुदा रमन्ते कलभा विकस्वरैः ।
 प्रगीयते सिद्धगणैश्च योषितामुदारमन्ते कलभाविकस्वरैः ॥ ३३ ॥

 कुशेशयैरिति ॥ अत्रादौ जलाशयोषिता जलाशयेषु हृदेषु उषिता वसन्तः । 'गत्यर्थाकर्मक-' (३।४।७२) इत्यादिना वसतेः कर्तरि क्तः । संप्रसारणम् ‘मतिबुद्धिपूजार्थेभ्यश्च' (३।२।१८८) इति चकाराद्वर्तमानार्थता । कलभास्त्रिंशद्वर्षकरिणः । त्रिंशद्वर्षस्तु कलभः' इति वैजयन्ती । विकस्वरैर्विकसनशीलैः । 'स्थेशभासपिसकसो वरच्' (३।२।१७५)। कुशेशयैः शतपत्रैः । 'शतपत्रं कुशेशयम्' इत्यमरः । मुदा प्रीत्या रमन्ते क्रीडन्ति । करिविहाराणां कमलाकराणामयमाकर इति भावः । किंच कला अव्यक्तमधुराः। विकारो मानसो भावः स प्रयोजनमेषां भाविकाः । उद्दीपका इत्यर्थः । कला भाविकाश्च स्वराः षड्जादयो येषां तैः कलभाविकस्वरैः सिद्धगणैः सुरसङ्घैः, योषितां स्वस्त्रीणामन्ते समीपे उदारमुच्चैः प्रगीयते च । भूस्वर्गोऽयमिति भावः ॥ ३३ ॥

  आसादितस्य तमसा नियतेर्नियोगा-
   दाकाङ्क्षतः पुनरपक्रमणेन कालम् ।
  पत्युस्त्विषामिह महौषधयः कलत्र-
   स्थानं परैरनभिभूतममूर्वहेन्ति ॥ ३४ ॥

 आसादितस्येति ॥ इहाद्रौ अमूर्महौषधयो नियतेर्नियोगादस्मिन्काले इदं भावीति दैवशासनात् । तमसान्धकारेण, तत्प्रायेण व्यसनेन वा आसादितस्याक्रान्तस्य पुनरपक्रमणेन पुनरावृत्त्या कालं समागमकालमाकाङ्क्षतः । पुनरागत्य संगन्तुमिच्छत इत्यर्थः । त्विषां पत्युः सूर्यस्य संबन्धि परैस्तेजोऽन्तरैः, पुरुषान्तरैश्चानभिभूतमतिरस्कृतमनुपहतं च कलत्रस्थानं कलत्रभूतानां त्विषां स्थानं स्थितिं वहन्ति । निर्वहन्तीत्यर्थः । स्त्रीणां स्त्रीष्वेव रक्षणं कार्यमिति भावः । यथा केनचिदापदि न्यासीकृतानि कलत्राणि संरक्ष्य कालान्तरे साधवस्तस्मै प्रयच्छन्ति तद्वदोषधयोऽपि त्विषस्त्विषां पत्युरर्पयन्तीत्यर्थः । एतच्च तासां सूर्यास्तसमये प्रज्वलनादुदये विपर्ययाञ्चोपचर्यते । अत्र विशेषणसाम्यादर्कादीनामापन्नादिसाम्यप्रतीतेः समासोक्तिरलंकारः ॥ ३४ ॥

पाठा०-१ 'भजन्ति'.

 वनस्पतिस्कन्धनिषण्णबालप्रवालहस्ताः प्रमदा इवात्र ।
 पुष्पेक्षणैर्लम्भितलोचकैर्वा मधुव्रतवातवृतैर्व्रतयः ॥ ३५ ॥

 वनस्पतीति ॥ अत्राद्रौ वनस्पतयो वृक्षाः । 'वनस्पतिर्वृक्षमात्रे विनापुष्पफलद्रुमे' इति विश्वः । तेषां स्कन्धेषु प्रकाण्डेषु, अंसेषु च निषण्णाः सक्ता बालप्रवाला बालपल्लवा हस्ता इव यासां तास्तथोक्ताः । मधूनि व्रतयन्ति भुञ्जते इति मधुव्रता मधुपास्तेषां व्रातेन वृन्देन वृतैश्छन्नैः । अत एव लम्भिताः प्रापिता लोचकास्तारकाणि, कज्जलानि च यैस्तैर्वा । तैरिव स्थितरित्युत्प्रेक्षा । इवार्थे वाशब्दः तद्वदुत्प्रेक्षायां चोक्तः । 'लोचको मांसपिण्डे स्यादक्षितारे च कज्जले' इति विश्वः । पुष्पैरीक्षणैरिव पुष्पेक्षणैरुपलक्षिता व्रतत्यो लताः । प्रमदा इव लक्ष्यन्त इति शेषः । 'न प्रसिद्धे क्रियाध्याहारदोषः' इत्याह वामनः । लिङ्गाध्याहारवदिति ॥ ३५॥

 विहगाः कदम्बसुरभाविह गाः कलयन्त्यनुक्षणमनेकलयम् ।
 भ्रमयन्नुपैति मुहुरभ्रमयं पवनश्च धूतनवनीपवनः ॥ ३६ ॥

 विहगा इति ॥ कदम्बैः सुरभिः सुगन्धिस्तस्मिन् कदम्बसुरभाविहाद्रौ विहगाः पक्षिणोऽनुक्षणं प्रतिक्षणं अनेके बहुविधा लया विच्छेदा यस्मिन्कर्मणि तद्यथा तथा गाः वाचः । शब्दानित्यर्थः । कलयन्त्युच्चारयन्ति । 'अर्जुनीनेत्रदिग्बाणभूवाग्वारिषु गौर्मता' इति विश्वः । किंच धूतानि कम्पितानि नवानि नीपवनानि कदम्बकाननानि येन स धूतनवनीपवनः । 'नीपप्रियककदम्बास्तु हलिप्रियः' इत्यमरः । अयं पवनो मुहुरभ्रं मेघं भ्रमयमुपैति । प्रमिताक्षरावृत्तम् । 'प्रमिताक्षरा सजससैरुदिता' इति लक्षणात् ॥ ३६॥ क्क्विद्वद्भिरागमपरैर्विवृतं कथंचि-    च्छ्रुत्वापि दुर्गहमनिश्चितधीभिरन्यैः ।   श्रेयान् द्विजातिरिव हन्तुमघानि दक्षं    गूढार्थमेष निधिमन्त्रगणं बिभर्ति ॥ ३७ ॥</poem>}}  विद्वद्भिरिति ॥ एषोऽद्रिः श्रेयान् श्रेष्ठः द्विजातिर्ब्राह्मण इव आगमो निधि- कल्पो, मन्त्रशास्त्रं च स एव परं प्रधानं येषां तैरागमपरैर्विद्वद्भिर्निधीनां मन्त्राणां च साधनविधानज्ञैः कथंचिद्विवृतं स्वरूपतः प्रकाशितम् । नास्ति निश्चिता इदमित्थमिति निश्चयात्मिका धीर्येषां तैरनिश्चितधीभिरन्यैरशास्त्रज्ञैः श्रुत्वाऽपि इह निधिरस्ति, ईदृङ्महिमा असौ मन्त्र इति चाप्तमुखादाकर्ण्यापि दुर्ग्रहं दुःसाधनम् ।

अघानि दुःखान्येनांसि च हन्तुं दक्षं समर्थम् । 'दुःखैनोव्यसनेष्वधम्' इति वैजयन्ती । गूढः संवृतोऽर्थो धनं, अभिधेयं च यस्मिंस्तं गूढार्थम् । निधयो मन्त्रा इव, अन्यत्र निधय इव मन्त्रास्तेषां गणं बिभर्ति । द्विजातिर्मन्त्रगणमिव निधिगणमेष बिभर्तीत्युपमार्थः ॥ ३७॥

  विम्बोष्ठं बहु मनुते तुरंगवक्र-
   श्चुम्बन्तं मुखमिह किंनरं प्रियायाः।
  श्लिष्यन्तं मुहुरितरोऽपि तं निजस्त्री-
   मुत्तुङ्गस्तनभरभङ्गभीरुमध्याम् ॥ ३८ ॥

 बिम्बोष्ठमिति ॥ इहाद्रौ तुरंगस्य वक्रमिव वक्रं यस्य स तुरंगवक्रो देवयोनिविशेषः । सप्तम्युपमानपूर्वपदस्य बहुव्रीहिरुत्तरपदलोपश्चेत्युष्ट्रमुखवत् समासः । बिम्बकल्प ओष्ठो यस्य तं बिम्बोष्टमित्युपमालंकारः । 'ओत्वोष्टयोः समासे वा पररूपं वक्तव्यम्' (वा०) इत्योकारः । प्रियाया मुखं चुम्बन्तं किंनरं मानुषमुखमश्वाङ्गं देवयोनिविशेषं बहु गुरु यथा तथा मनुतेऽवबुध्यते । तुरंगवक्त्रस्य चुम्बनासंभवादिति भावः । इतरः किंनरोऽप्युत्तुङ्गस्तनभरेण यो भङ्गस्तस्माद्भीमध्यो यस्यास्तां निजस्त्रीं स्वस्त्रियम् । 'वाम्शसोः' (६|४|८०) इति विकल्पादियङादेशाभावः । मुहुः श्लिष्यन्तं मानुषाङ्गत्वादालिङ्गन्तं तुरंगवत्रं बहु यथा तथा मनुते । तुरंगवपुषः किंनरस्याश्लेषासंभवादिति भावः । दुर्लभं प्रियं भवतीति रहस्यम् । मध्यस्याभङ्गेऽपि भङ्गोक्तेरतिशयोक्तिरुपमया संसृज्यते । प्रहर्षिणीवृत्तमुक्तम् ॥३८॥

 यदेतदस्यानुतटं विभाति वनं ततानेकतमालतालम् ।
 न पुष्पितात्र स्थगितार्करश्मावनन्तताने कतमा लताऽलम् ३९

 यदिति ॥ अस्याद्रेरनुतटं तटेषु । विभक्त्यर्थेऽव्ययीभावः । तता विस्तृता अनेके बहवस्तमालास्तालाश्च यस्मिंस्तत्ततानेकतमालतालं यदेतत्पुरोवर्ति वनं विभाति स्थगितार्करश्मौ तिरोहितातपे अनन्ततानेऽपारविस्तारेऽत्र वने कतमा लता का वा लता अलमत्यन्तं न पुष्पिता । संजातपुष्पा न भवतीति शेषः । सर्वापि पुष्पितेत्यर्थः ॥ ३९ ॥

  दन्तोज्वलासु विमलोपलमेखलान्ताः
   सद्रत्नचित्रकटकासु बृहन्नितम्बाः ।
  अस्मिन् भजन्ति घनकोमलगण्डशैला
   नार्योऽनुरूपमधिवासमधित्यकासु ॥ ४०॥

 दन्तोज्ज्वलाखिति ॥ अस्मिन्नद्रौ दन्ता निकुञ्जाः, दशनाश्च । 'दन्तो निकुञ्जे दशने' इति विश्वः । तैरुज्वलासु रुचिरासु सदत्वैश्चित्राणि कटकानि सानूनि, वलयानि च यासां तासु । 'कटकं वलये सानौ' इति विश्वः । अधित्यकासूर्ध्वभूमिषु । 'भूमिरूमधित्यका' इत्यमरः । 'उपाधिभ्यां त्यकन्नासन्नारूढयोः' (५।२।३४) इत्यधिशब्दात्त्यकन्प्रत्ययः । विमलोपला उज्वलशिलाः, उज्वलमणयो वा मेखलाः काञ्झ्योः, नितम्बभूमयश्च । 'मेखला खड्गबन्धे स्यात्काञ्चीशैलनितम्बयोः' इति विश्वः । ताभिरन्ता रम्याः । 'मृताववसिते रम्ये समाप्तावन्त इष्यते' इति शब्दार्णवे । बृहन्तो नितम्बाः कटिपश्चाद्भागाः शिखराणि च यासां ताः । 'नितम्बो पाठा०-१ 'बिम्बौष्टं'. । रोधसि स्कन्धे शिखरेऽपि कटेरधः' इति विश्वः । घना विपुलाः कोमलाः श्लक्ष्णा गण्डशैला गण्डस्थलानि; स्थूलोपलाश्च यासां ता नार्योऽनुरूपमिच्छासदृशं, आत्मसदृशं वाधिवासं भजन्ति । अत्र नारीणामधित्यकानां च प्रकृतत्वात्केवलप्रकृतगोचरा श्लेषोपस्थापिता तुल्ययोगिता । अत एवोभयविशेषणान्युभयत्र विभक्तिविपरिणामेन योज्यानि ॥ ४०॥

  अनतिचिरोज्झितस्य जलदेन चिर-
   स्थितबहुबुद्बुदस्य पयसोऽनुकृतिम् ।
  विरलविकीर्णवज्रशकला सकला-
   मिह विदधाति धौतकलधौतमही ॥४१॥

 अनतिचिरेति ॥ इहाद्रौ विरलं यथा तथा विकीर्णाः प्रसरणशीला वज्रशकलाः श्वेतहीरखण्डानि यस्यां सा धौता शुभ्रा कलधौतमही रजतभूमिः । 'कलधौतं रूप्यहेम्नोः' इति विश्वः।जलदेनानतिचिरोज्झितस्य तत्कालमुक्तस्य । शुभ्रस्येति भावः । चिरस्थिताश्विरस्थायिनो बहवश्व बुद्बुदा जलस्फोटा यस्मिंस्तस्य पयसोऽम्भसः सकलामनुकृतिं समग्रसादृश्यं विदधाति । अत्र मेघोज्झितजलस्य स्थिरबुद्बुदासंबन्धेऽपि संभावनया संबन्धोक्तेरतिशयोक्तिः । कुररीरुता वृत्तम् । कुररीरुता नजभजैर्लगयुक्' इति लक्षणात् ॥ ४१ ॥

  वर्जयन्त्या जनैः संगमेकान्तत-
   स्तर्कयन्त्या सुखं सङ्गमे कान्ततः ।
  योषयैष स्मरासन्नतापाङ्गया
   सेव्यतेऽनेकया संनतापाङ्गया ॥४२॥

 वर्जयन्त्येति ॥ एकान्तत एकान्ते । रहसीत्यर्थः । कान्ततः कान्तेन । प्रियेणेत्यर्थः । उभयत्रापि सार्वविभक्तिकस्तसिः । संगमे सति सुखं तर्कयन्त्या उत्प्रेक्षमाणया । विस्रब्धं विहारमाकाङ्क्षन्त्येत्यर्थः । अत एव जनैः सङ्गं वर्जयन्त्या । कुतः । स्मरणासन्नतापानि प्राप्तज्वराण्यङ्गानि यस्यास्तया स्मरासन्नतापाङ्गया । 'अङ्गगात्रकण्ठेभ्यश्चेति वक्तव्यम्' (वृत्तिवा०) इति विकल्पादिह पक्षे टाप् । संनतौ नम्रावपाङ्गौ यस्यास्तया संनतापाङ्गया स्मरतापात् कूणितनेत्रया अनेकया योषया।अनेकाभिर्योषाभिरित्यर्थः । जातावेकवचनम् । 'स्त्री योषिदबला योषा नारी सीमन्तिनी वधूः' इत्यमरः । एषोऽद्रिः सेव्यते । इच्छाविहारस्थानानीह सन्तीति भावः । स्रग्विणी वृत्तम् । 'रैश्चतुर्भिर्युता स्रग्विणी संमता' इति लक्षणात् ॥४२॥

  संकीर्णकीचकवनस्खलितैकवाल-
   विच्छेदकातरधियश्चलितुं चमर्यः ।
  अस्मिन् मृदुश्वसनगर्भतदीयरन्ध्र-
   नियंत्खनश्रुतिसुखादिव नोत्सहन्ते ॥४३॥

 संकीर्णेति ॥ अस्मिन्नद्रौ संकीर्णा मिथः यंदष्टाः कीचका वेणुविशेषाः ।

"वेणवः कीचकास्ते स्युर्ये स्वनन्त्यनिलोद्धताः' इत्यमरः । तेषां वने स्खलितस्यैकवालस्यैकरोम्णो विच्छेदात् कातरा त्रास्ता धीर्यासां ताश्चमर्यो मृदुश्वसनो मन्दमारुतो गर्भे येषां तेभ्यस्तदीयरन्ध्रेभ्यः कीचकविवरेभ्यो निर्यतो निर्गच्छतः स्वनस्य श्रुत्या श्रवणेन यत्सुखं तस्मादिवेति हेतूत्प्रेक्षा । चलितुं नोत्सहन्ते । वस्तुतस्तु वालप्रियत्वादिति भावः । 'शकधृष्-' (३।४।६५) इत्यादिना तुमुन्प्रत्ययः ॥४३॥

  मुक्तं मुक्तागौरमिह क्षीरमिवाभ्रैः-
   र्वापीष्वन्तर्लीनमहानीलदलासु ।
  शस्त्रीश्यामैरंशुभिराशु द्रुतमम्भ-
   श्छायामच्छामृच्छति नीलीसलिलस्य ॥४४॥

 मुक्तमिति ॥ इहाद्वौ अन्तर्लीनानि महानीलदलानीन्द्रनीलविशेषखण्डानि यासु तासु । 'सिंहलस्याकरोद्भूता महानीलास्तु ते मताः' इति भगवानगस्त्यः । वापीषु दीर्घिकास्वभ्रैर्मेधैर्मुक्तं वृष्टं मुक्तागौरं मौक्तिकशुभ्रं अत एव क्षीरमिव स्थितम् । शस्त्री छुरिका । 'स्थाच्छस्त्री चासिपुत्री च च्छुरिका चासिधेनुका' इत्यमरः । 'बह्वादिभ्यश्च' (४।१।४५) इति ङीष् । शस्त्रीवच्छयामैरंशुभिरन्तर्गतेन्द्रनीलमरीचिभिराशु तत्क्षणमेव द्रुतं लोलितं सत् । छुरितमित्यर्थः । नीलीसलिलस्य नीलाख्यौषधिपत्ररसस्य । 'नीली काला क्लीतकिका' इत्यमरः । अच्छां छायां कान्तिमृच्छति । तत्सदृशीं छायां गच्छतीत्यर्थः । अतो निदर्शनालंकारः । स च मुक्तागौरं, क्षीरमिव, शस्त्रीश्यामैरिति चोपमात्रयेणान्तर्लीनमहानीलदलासु वापी- ष्विति पदार्थहेतुकं काव्यलिङ्गं तेनोत्थापितेनांशुभिर्द्रुतमिति तद्गुणोत्थापित इत्यङ्गा- ङ्गिभावेन संकरः । क्षीरमिवेत्यनेनेन्द्रनीलानां सौष्ठ्यं सूचितम् । 'क्षीरमध्ये क्षिपेन्नीलं क्षीरं चेन्नीलतां ब्रजेत् । इन्द्रनीलमिति ख्यातम्' इति लक्षणसंभवात् । तेनात्र नीलीरसोपमानेन तद्वर्णा एवेति सूचितम् । 'नीलीरसनिभाः केचिच्छंभु- कण्ठनिभाः परे' इत्यादिनाऽगस्त्येन रत्नशास्त्र एषामेकादशविधच्छायाभिधाना- दिति । मत्तमयूरं वृत्तम् । 'वेदै रन्ध्रैर्म्तौ यसगा मत्तमयूरम्' इति लक्षणात् ॥४४॥

 या न ययौ प्रियमन्यवधूभ्यः सारतरागमना यतमानम् ।
 तेन सहेह बिभर्ति रहः स्त्री सा रतरागमनायतमानम् ॥४५॥

 या नेति ॥ इहाद्रावन्यवधूभ्यः ख्यन्तरेभ्यः । 'पञ्चमी विभक्ते' (२।३।४२) इति पञ्चमी । सारतरं श्रेष्ठमागमनं यस्याः सा सारतरागमना । श्लाध्यसंगमेत्यर्थः । या स्त्री यतमानं स्वप्राप्त्यै प्रयतमानम् । प्रार्थयमानमित्यर्थः । 'यती प्रयत्ने' शानच् । प्रियं न ययौ । सा तथा प्रतिकूलापि स्त्री रहस्तेन प्रियेण सह अनायतमानमदीर्घरोषं यथा तथा रतरागं सुरताभिलाषं बिभर्ति । अयमतिमानवतीरपि सद्य एवोद्दीपय-

तीति भावः । दोधकवृत्तम् । 'दोधकवृत्तमिदं भभभा गौ' इति लक्षणात् ॥४५॥

  भिन्नेषु रत्नकिरणैः किरणेष्विहेन्दो-
   रुच्चावचैरुपगतेषु सहस्रसंख्याम् ।
  दोषापि नूनमहिमांशुरसौ किलेति
   व्याकोशकोकनदतां दधते नलिन्यः ॥ ४६॥

 भिन्नेष्विति ॥ इहाद्राविन्दोः किरणेषु उदञ्चश्चावाञ्चश्च तैरुच्चावचैः । अनेकविधैरित्यर्थः । 'उच्चावचं नैकभेदम्' इत्यमरः । मयूरव्यंसकादिषूच्चोच्चनीचाच्पराञ्चोञ्चावर्चकिंचनाकुतोभयानीति तत्पुरुषे निपातनात्साधुः । रत्नकिरणैर्भिन्नेषु मिश्रेषु अत एव सहस्रसंख्यामुपगतेषु सत्सु । नलिन्यः पद्मिन्यः । 'नलं पद्मे नलं तृणम्' इति शाश्वतः । असौ प्रकाशमानोऽहिमांशुः । किलेति । सहस्रकिरणत्वात् सूर्य एवेति संभावनाबुद्ध्येत्यर्थः । 'वार्तासंभाव्ययोः किल' इत्यमरः । दोषापि रात्रावपि । सप्तम्यर्थेऽव्ययम् । 'दिवाह्वीत्यथ दोषा च नक्तं च रजनौ' इत्यमरः । व्याकोशकोकनदतां विकचपद्मतां दधते स्वीकुर्वन्ति । नूनमित्युत्प्रेक्षायाम् । 'अथ रक्तसरोरुहम् । रक्तोत्पलं कोकनदम्' इति, 'व्याकोशविकचस्फुटाः' इति चामरः । इह देवभूमित्वान्नित्यपद्मा नलिन्य इति भावः । इह नलिनीनां दोषातनविकासासंबन्धेऽपि तत्संबन्धरूपयातिशयोक्त्या तस्येन्दावर्कभ्रान्तिनिमित्तोत्प्रेक्षया भ्रान्तिमदलंकारो व्यज्यते ॥ ४६॥

 अपशङ्कमङ्कपरिवर्तनोचिताश्चलिताः पुरः पतिमुपैतुमात्मजाः ।
 अनुरोदितीव करुणेन पत्रिणां विरुतेन वत्सलतयैष निम्नगाः ४७

अपशङ्कमिति ॥ अपशङ्कं निःशङ्कमङ्कपरिवर्तनेषूत्सङ्गलुण्ठनेषूचिताः परिचिताः पतिं भर्तारमुपैतुं पुरोऽग्रे चलिताः प्रयाता आत्मजाः, स्वसंभवा दुहितृश्च निम्नगा नदीः करुणेन दीनेन पत्रिणां पक्षिणां विरुतेन क्रोशनेन निमित्तेनैषोऽद्रिर्वत्सलतया वात्सल्येन । स्नेहेनेत्यर्थः । श्रीमान् स्निग्धस्तु वत्सलः' इत्यमरः । 'वत्सांसाभ्यां कामबले' (५।२।९८) इति लच्प्रत्ययः । अनुरोदितीवानुक्रोशतीवेत्युत्प्रेक्षा । 'रुदश्च पञ्चभ्यः' (७३।९८) इति गुणः । 'रुदादिभ्यः सार्वधातुके' (७।२७६) इतीट् ॥ ४७ ॥

 मधुकरविटपानमितास्तरुपङ्क्तीबिभ्रतोऽस्य विटपानमिताः ।
 परिपाकपिशङ्गलतारजसा रोधश्चकास्ति कपिशं गलता ॥४८॥

 मधुकरेति ॥ मधुकरा एव विटास्तेषां पानं चुम्बनमिताः प्राप्ताः । इणः कर्तरि क्तः । विटपैः शाखाविस्तारैरानमिताः विटपानमिताः । विस्तारो विटपोs- स्त्रियाम्' इत्यमरः । तरुपङ्क्तीर्बिभ्रतोऽस्याद्रेः रोधो नितम्बो गलता पतता परिपाकेण पिशङ्गीनां लतानां रजः पुष्परेणुः तेन परिपाकपिशङ्गलतारजसा कपिशं पिशङ्गं चकास्ति । मात्रावृत्तिष्वियमार्यागीतिरष्टगणा । 'अर्धे वसुगण आर्यागीतिः' इति पिङ्गलनागः (३१)॥४८॥

  प्राग्भागतः पतदिहेदमुपत्यकासु
   शृङ्गारितायतमहेभकराभमम्भः।
  संलक्ष्यते विविधरत्नकरानुविद्ध-
   मूर्ध्वप्रसारितसुराधिपचापचारु ॥ ४९ ॥

 प्राग्भागत इति ॥ इहाद्रौ प्राग्भागत ऊर्ध्वप्रदेशादुपत्यकास्वधःप्रदेशेषु । 'उपत्यकाद्रेरासन्ना' इत्यमरः । 'उपाधिभ्याम्-' (५।२।३४) इत्यादिनोपशब्दा. त्यकन्प्रत्ययः । पतत् शृङ्गारः सिन्दूरादिमण्डनमस्य संजातः शृङ्गारितः । 'शृङ्गारः सुरते नाट्ये रसे दिग्गजमण्डने' इति विश्वः । आयतो दीर्घः तस्य महेभकरस्याभेवाभा यस्य तत् विविधरत्नानां करैरंशुभिरनुविद्धमनुरञ्जितमिदमम्भ ऊर्ध्वप्रसारितं यत् सुराधिपचापमिन्द्रधनुस्तद्वच्चारु संलक्ष्यते । अत्रेन्द्रचापस्योर्ध्वत्वासंबन्धेऽपि संबन्धोक्तेरतिशयोक्तिः । अभूतोपमेति मतान्तरम् । तिरोहितविवक्षायां तूपमानस्य प्रसिद्धत्वादुपमैवेयम् ॥ ४९ ॥

  दधति च विकसद्विचित्रकल्प-
   द्रुमकुसुमैरभिगुम्फितानिवैताः ।
  क्षणमलघुविलम्बिपिच्छदाम्नः
   शिखरशिखाः शिखिशेखरानमुष्य ॥५०॥

 दधतीति ॥ किं चेति चार्थः । अमुष्याद्रेरेताः शिखराणि शृङ्गाण्येव शिखाः केशपाश्यः । 'शिखा चूडा केशपाशी' इत्यमरः । विकसद्भिर्विचित्रै र्नानावर्णैः कल्पद्रुमकुसुमैरभिगुम्फितान् ग्रथितानिव स्थितानित्युत्प्रेक्षा । अलघूनि विलम्बीनि, लम्बमानानि च पिच्छान्येव दामानि स्रजो येषु तान् शिखिनः केकिन एव शेखरानापीडान् क्षणं दधतीव । 'शिखावलः शिखी केकी' इति, 'शिखास्नापीडशेखराः' इति चामरः । अत्र कुसुमगुम्फेनोत्प्रेक्षालिङ्गेन पिच्छादीनां दामादिरूपकसिद्धिस्तदुत्थापिता चोत्प्रेक्षेति संकरः । पुष्पिताग्रा वृत्तमुक्तम् ॥ ५० ॥

 सवधूकाः सुखिनोऽस्मिन्ननवरतममन्दरागतामरसदृशः।
 नासेवन्ते रसवन्न नवरतममन्दरागतामरसदृशः ॥५१॥

 सवधूका इति ॥ अस्मिन्नद्रौ अवरे न भवन्तीत्यनवराः श्रेष्ठा अनवरतमाः, श्रेष्ठतमाश्च मन्दरागतैरमरैः सदृशः, सरूपाश्च अनवरतममन्दरागतामरसदृशः अमन्दरागाण्यतिरक्तानि तामरसानि पङ्केरुहाणीव दृशो येषां तेऽमन्दरागतामरसदृशो रक्तनेत्राः । 'पङ्केरुहं तामरसम्' इत्यमरः । सुखिनो भोगिनः सहवधूभिः सवधूकाः सन्तः । तेन सहेति तुल्ययोगे' (२।२।२८) इति बहुव्रीहिः । 'नद्यृतश्च' (५।४।१५३) इति कप् । रसवत् सानुरागम् । 'गुणे रागे द्रवे रसः' इत्यमरः ।

नवरतं नूतनसुरतं नासेवन्त इति न, किंत्वासेवन्त एवेत्यर्थः । 'संभाव्यनिषेधनिवर्तने द्वौ प्रतिषेधौ' इति वामनः । विशिष्टसुरतानां सेवनस्य सामान्यतः प्रसक्तेः । उपमालंकारः । गतेयमार्यागीतिः ॥

  आच्छाद्य पुष्पपटमेष महान्तमन्त-
   रावर्तिभिर्गृहकपोतशिरोधराभैः ।
  स्वाङ्गानि धूमरुचिमागुरवीं दधानै-
   र्धूपायतीव पटलैर्नवनीरदानाम् ॥ ५२ ॥

 आच्छाद्येति ॥ एषोऽद्विमहान्तं पुष्पाण्येव पट इति रूपकं तमाच्छाद्य अन्तः पटाभ्यन्तर आवर्तिभिरभीक्ष्णं भ्रमद्भिः । 'बहुलमाभीक्ष्ण्ये (३।२।८१) इति णिनिः । गृहकपोतशिरोधराभा गृहपारावतकण्ठस्याभेवाभा येषां तैरित्युपमा । 'पारावते कपोतः स्यात्' इति विश्वः । अगुरोः कालागुरोरिमामागुरवीम् । 'कालागुर्वगुरुः स्यात्' इत्यमरः । धूमरुचिं धूमकान्तिम् । तत्सदृशी मित्यर्थः । अत एव निदर्शना । दधानैर्नवनीरदानां पटलैः स्वाङ्गानि धूपायतीव धूपैरिवाधिवासयतीवेत्युप्रेक्षा रूपकोपमानिदर्शनाभिरङ्गैः संकीर्यते । 'धूप संतापे' इति धातोः 'गुपूधूपविच्छिपणिपनिभ्य आयः' (३।१।२८) इत्यायप्रत्ययः ॥ ५२ ॥

  अन्योन्यव्यतिकरचारुभिर्विचित्रै-
   रत्रसन्नवमणिजन्मभिर्मयूखैः ।
  विस्मेरान् गगनसदः करोत्यमुष्मि-
   न्नाकाशे रचितमभित्ति चित्रकर्म ॥ ५३॥

 अन्योन्येति ॥ अमुष्मिन्नद्रावन्योन्येषां व्यतिकरेण मिश्रणेन चारुभिः अत एव विचित्रैर्नानावणैरत्रस्यन्तः त्रासदोषेणादुष्यन्तः । 'त्रासो भीमणिदोषयोः' इति विश्वः । 'वा भ्राश-' (३।१७०) इत्यादिना वैकल्पिकः श्यन्प्रत्ययः । तेभ्यो नवमणिभ्यो जन्म येषां तैर्मयूखैराकाशे रचितमभित्ति अकुड्यम् । अनाधारमित्यर्थः । चित्रकर्म कर्तृ । गगनसदः खेचरान् विस्मेरान् विस्मयशीलान् करोति । 'नमिकम्पि-' (३।२।१६७) इत्यादिना रप्रत्ययः । अत्र मणिमयूखेषु खे चित्रकर्मभ्रान्तिमतामेवाभित्तिचित्रकर्मेत्यकारणकार्योत्पत्तिवर्णनाभान्तिमदलंकारोत्थापिता विभावनेति संकरः । 'कारणेन विना कार्यस्योत्पत्तिः स्याद्विभावना' इति । प्रहर्षिणी वृत्तम् ॥ ५३॥

  समीरशिशिरः शिरःसु वसतां
   सतां जवनिका निकामसुखिनाम् ।
  बिभर्ति जनयन्नयं मुदमपा-
   मपायधवला बलाहकततीः॥५४॥

 समीरेति ॥ समीरेण मारुतेन शिशिरः शीतलः शिरःसु शिखरेषु वसतां निकामसुखिनामत्यन्तसुखिनां सतां पुण्यवतां मुदं जनयन्नयमद्विरपामम्भसामपायेनापगमेन धवला बलाहकततीर्मेघपङ्क्तीरेव जवनिकास्तिरस्करिणीर्बिभर्ति । अनावृतेष्वपि शिखरेषु क्रीडने मेधैरेवावरणतां संपाद्य मुदं जनयतीत्यर्थः ।। अत्र बलाहकततिष्वारोप्यमाणानां जवनिकानां मुदं जनयन्निति प्रकृतोपयोगिवर्णनात् परिणामालंकारः । 'आरोप्यमाणस्य प्रकृतोपयोगित्वे परिणामः' इति लक्षणात् । रूपके तूपरञ्जनमात्रमिति भेदः । जलोद्धतगतिर्वृत्तम् । 'रसैर्जसजसा जलोद्धतगतिः' इति लक्षणात् ॥ ५४ ॥

  मैत्र्यादिचित्तपरिकर्मविदो विधाय
   क्लेशप्रहाणमिह लब्धसबीजयोगाः।
  ख्यातिं च सत्त्वपुरुषान्यतयाधिगम्य
   वाञ्छन्ति तामपि समाधिभृतो निरोद्धुम् ॥५५।।

 मैत्रीति ॥ इहाद्रौ समाधिं योगं बिभ्रतीति समाधिभृतो योगिनः । मैत्रीकरुणा-मुदिता-उपेक्षेति चतस्रश्चित्तवृत्तयः । तत्र पुण्यकृत्सु मैत्री । दुःखिषु करुणा । सुखिषु मुदिता अनुमोदनम् । पापिषु उपेक्षा । मैत्री आदिर्येषां तानि चित्तस्य परिकर्माणि प्रसाधकानि । शोधकानीत्यर्थः । तानि विन्दन्ति लभन्ते इति तद्विदस्तद्भाजः तैः । क्षीणान्तःकरणमला इत्यर्थः । अत एव क्लेशप्रहाणं विधाय । 'अविद्यास्मितारागद्वेषाभिनिवेशाः पञ्च क्लेशाः' । तत्रानित्येषु नित्यत्त्वाभिमानः, अनात्मनि च देहेन्द्रियादावात्मधीरित्यादिविभ्रमोऽविद्या । अस्मिता अहंकारः । रागोऽभिमतविषयाभिलाषः । द्वेषोऽनभिमतेषु रोषः । अभिनिवेशः कार्याकार्येष्वाग्रहः । ते हि पुरुषं क्लिश्यन्तीति क्लेशाः क्लेशहेतवः । पचाद्यच् । तेषां प्रहाणं क्षयः । 'कृत्यचः' (८।४।२९) इति णत्वम् । तद्विधाय । क्लेशान् हित्वेत्यर्थः । अतो लब्धः सबीजः सावलम्बनो योगो यैस्ते लब्धसबीजयोगाः सन्तः । आलम्बनमेव व्यनक्ति । सत्त्वेति । सत्त्वपुरुषयोः प्रकृतिपुरुषयोरन्यतयाऽन्यत्वेन मिथोभिन्नत्वेन ख्यातिं, ज्ञानं चाधिगम्य । प्रकृतिपुरुषौ भिन्नाविति ज्ञात्वेत्यर्थः । 'प्रकृतिपुरुषयोविवेकाग्रहणात् संसारः । विवेकग्रहणान्मुक्ति रिति सांख्याः । अथ तां ख्यातिमपि निरोढुं निवर्तयितुं वाञ्छन्ति वृत्तिरूपाम् । तां निवर्त्य स्वयंप्रकाशतयैव स्थातुमिच्छन्तीत्यर्थः । 'प्रकृतावुपरतायां पुरुषस्वरूपेणावस्थानं मुक्तिः' इति सांख्यसिद्धान्तः । न केवलं भोगभूरियं, किंतु मोक्षक्षेत्रमपीति भावः ॥ ५५॥

  मरकतमयमेदिनीपु भानो-
   स्तरुविटपान्तरपातिनो मयूखाः ।
  अवनतशितिकण्ठकण्ठलक्ष्मी-
   मिह दधति स्फुरिताणुरेणुजालाः ॥५६ ॥

 मरकतेति ॥ इहाद्रौ मरकतानां विकारा मरकतमय्यस्तासु मेदिनीषु । 'स्त्रियाः पुंवत्-' (६३३४) इत्यादिना पुंवद्भावः । तरूणां विटपाः पल्लवाः तेषामन्तरैस्वकाशैः पतन्तीति तथोक्ताः । विटपः पल्लवे षिङ्गे विस्तारे स्तम्भशाखयोः' इति

विश्वः । स्फुरितानि अणुरेणूनां सूक्ष्मरजसां जालानि येषु ते भानोर्मयूखाः अवनतस्य शितिकण्ठकण्ठस्य मयूरकंधराया लक्ष्मीं दधतीति निदर्शनालंकारः । पुष्पिताग्रा वृत्तम्॥५६॥

 या बिभर्ति कलवल्लकीगुणवानमानमतिकालिमाऽलया।
 नात्र कान्तमुपगीतया तया स्वानमा नमति कालिमालया ॥५७॥

 येति ॥ अत्राद्रौ अत्यत्यन्तः कालिमा कार्ष्ण्यं यस्याः साऽतिकालिमा । अतिश्या- मेत्यर्थः । न विद्यते लयो लयनं क्वचिदवस्थानं यस्याः सा अलया। भ्रमन्ती- त्यर्थः । अत एव सस्वनेति भावः । या अलिमाला कलोऽव्यक्तमधुरः वल्लकीगुण- स्वानस्य वीणातन्त्रीशब्दस्य मानमुपमानं विभर्ति । तन्त्रीवद्ध्वनतीत्यर्थः । उपमालं- कारः । उपगीतया समीपे गातुं प्रवृत्तयैव, न तु पूर्वं गायन्त्येवेति भावः । 'आदि- कर्मणि क्तः कर्तरि च' (३।४।७१) इति क्तः । तयाऽलिमालया भृङ्गावल्या स्वानमा सुखेनानमयितुमाक्रष्टुं शक्या 'ईषद्दुस्' (३।३।१२६) इत्यादिना स्वल्प- त्ययः । का वा स्त्री कान्तं प्रियं न नमति । सर्वापि मानं विहाय कान्तं सद्यः प्रणमत्येव, तथोद्दीपकत्वाद्गानस्येत्यर्थः । रथोद्धता वृत्तम् । 'रो नराविति रथोद्धता लगौ' इति लक्षणात् ॥ ५७ ॥

  सायं शशाङ्ककिरणाहतचन्द्रकान्त-
   निस्यन्दिनीरनिकरेण कृताभिषेकाः ।
  अर्कोपलोल्लसितवहिभिरह्नि तप्ता-
   स्तीव्रं महाव्रतमिवात्र चरन्ति वप्राः ॥ ५८॥

 सायमिति ॥ इहाद्रौ वप्राः सानवः । 'वप्रोऽस्त्री सानुमानयोः' इत्यमरः । सायं रात्रौ शशाङ्ककिरणैराहतेभ्यश्चन्द्रकान्तेभ्यो निस्यन्दिना प्रस्राविणा नीरनि- करेण जलपूरेण कृताभिषेकाः कृतस्नानाः । अह्नि अर्कोपलेभ्यः सूर्यकान्तेभ्य उल्लसि- तैरुत्थितैर्वह्निभिस्तप्ताः सन्तस्तीव्रमुग्रं दुश्चरं महाव्रतं महातपश्चरन्तीवेत्युत्प्रेक्षा॥५०॥

  एतस्मिन्नधिकपयाश्रियं वहन्त्यः
   संक्षोभं पवनभुवा जवेन नीताः।
  वाल्मीकेररहितरामलक्ष्मणानां
   साधर्म्यं दधति गिरां महासरस्यः ॥ ५९॥

 एतस्मिन्निति ॥ एतस्मिन्नद्रौ अधिकपयःश्रियमधिकां जलसमृद्धिं वहन्त्यः, अन्यत्र तु अधिकाः कपयः सुग्रीवादयो वर्ण्यत्वेन यासु ताः अधिकपयः श्रियं गुणालंकारादिशोभां वहन्त्यः । पवनाद्भवतीति पवनभूस्तेन पवनभुवा वायुजन्येन जवेन वेगेन संक्षोभं चलनं नीताः, अन्यत्र तु जवेन जविना । 'जवो जविनि वेगे स्यात्' इति विश्वः । पवनभुवा हनुमता संक्षोभमौद्धत्यंं नीताः । हनुमद्वेगवर्ण- नया प्रागल्भ्यं नीता इत्यर्थः । वाक्पक्षे सर्वत्र षष्ट्या विपरिणामः कार्यः । महास- रस्यो महासरांसि अरहिताववर्जितौ रामलक्ष्मणौ याभिस्तासाम् , अन्यत्र तु रामो रमणः अरहितरामा अवियुक्तरामाः लक्ष्मणाः सारसयोषितो यासु ताः । केचि. त्त्वरहितरामा अवियुक्तस्त्रीकाः लक्ष्मणाः सारसा इति पुंपक्षिपरत्वेन व्याचक्षते । तेषां 'हंसस्य योषिद्वरटा सारसस्य तु लक्ष्मणा' । 'लक्ष्मणौषधिसारस्योः' इत्याद्यमरविश्वप्रकाशादिवाक्यगतनियतस्यर्थताविरोधः । तासां वाल्मीकेर्गिरां साधर्म्यं सादृश्यं दधति । अत्र पवनभुवा जवेनेत्यत्रैकवृन्तावलम्बिफलद्वयवदभग्नैकपादगतत्वेनार्थद्वयप्रतीतेरर्थश्लेषः । अन्यत्र पदभङ्गेनार्थद्वयप्रतीतेर्जतुकाष्ठवच्छब्दयोरेव मिथः श्लिष्टत्वाच्छन्दश्लेष इत्युभयसाहित्यादुभयश्लेषोऽयं प्रकृताप्रकृतगोचरः, उपमा त्वङ्गमिति संकरः ॥ ५९॥

  इह मुहर्मुदितैः कलभै रवः
   प्रतिदिशं क्रियते कलभैरवः ।
  स्फुरति चानुवनं चमरीचयः
   कनकरत्नभुवां च मरीचयः ॥६०॥

 इहेति ॥ इहाद्रौ मुदितैरिच्छाविहारसंतुष्टैः कलभैः करिपोतैः कलभः करिशावकः' इत्यमरः । दिशि दिशि प्रतिदिशं । यथार्थेऽव्ययीभावः । 'अव्ययीभावे शरत्प्रभृतिभ्यः' (५।४।१०७) इति समासान्तोऽच्प्रत्ययः। कलश्चासौ भैरवश्व कलभैरवो मधुरभीषणः । विशेषणयोरपि कुपाणिखञ्जवदैच्छिकोपसर्जनत्वविवक्षया विशेषणसमासः । रवो बृंहणध्वनिर्मुहुः क्रियते । अनुवनं वने वने चमरीचयः चमरीमृगसङ्घः स्फुरति । किंच कनकरत्नानां या भुवस्तासां मरीचयः किरणाश्च स्फुरन्ति । समृद्धिमद्वस्तुवर्णनादुदात्तालंकारे यमकस्याभ्युञ्चयः ॥ ६० ॥

  त्वक्साररन्ध्रपरिपूरणलब्धगीति-
   रस्मिन्नसौ मृदितपक्ष्मलरल्लकाङ्गः।
  कस्तूरिकामृगविमर्दसुगन्धिरेति
   रागीव सक्तिमधिकां विषयेषु वायुः ॥ ६१॥

 त्वगिति ॥ अस्मिन्नद्रौ त्वचि सारो येषां ते त्वक्सारा वंशाः । 'वंशे त्वक्सारकर्मारत्वचिसारतृणध्वजाः' इत्यमरः । तेषां रन्ध्राणि तेषां परिपूरणेन ध्मापनेन लब्धा गीतिर्गानसुखं येन सः । मृदितानि संमृष्टानि पक्ष्मलानि लोमशानि रल्लकानां कम्बलमृगाणां, कम्बलानां वाङ्गानि शरीराणि येन सः । 'रल्लकः कम्बलमृगे कम्बले परिकीर्तितः' इति वैजयन्ती । एतेन स्पर्शसुखमुक्तम् । कस्तूरिकामृगाणां विमर्दैन संघर्षेण सुगन्धिः शोभनगन्धः । यद्यपि गन्धस्यत्वे तदेकान्तग्रहणं कर्तव्यमित्युक्तम् , तथापि 'निरङ्कुशाः कवयः' इत्यपर्यनुयोगः । असावेवंभूतो वायू रागीव कामीव विषयेषु प्रदेशेषु च । 'विषयः स्यादिन्द्रियार्थे देशे जनपदेऽपि च' इति विश्वः । अधिकां सक्तिं व्यासक्तिमेति गच्छति ॥ ६१ ॥

  प्रीत्यै यूनां व्यवहिततपनाः
   प्रौढध्वान्तं दिनमिह जलदाः।
  दोषामन्यं विदधति सुरत-
   क्रीडायासश्रमशमपटवः ॥ ६२ ॥

 प्रीत्यै इति ॥ इहाद्रौ युवतयश्च युवानश्च तेषां यूनाम् । 'पुमान्स्त्रिया' (१॥

२।६७) इत्येकशेषः । प्रीत्यै व्यवहिततपनाः तिरोहितार्काः । अत एव सुरतान्येव क्रीडास्ताभिर्य आयासो व्यायामस्तेन यः श्रमः खेदः । 'श्रमः खेदोऽध्वरत्यादेः' (दशरूपके ४।१२) इति लक्षणात् । तस्य शमे वारणे पटवः समर्था जलदाः प्रौढध्वान्तं मेघावरणाद्गाढान्धकार दिनं दिवसं दोषां रात्रिमात्मानं मन्यत इति दोषामन्यं रात्रिमानिनं विदधति । मेघावरणमहिम्ना दिवसः स्वयमप्यात्मानं रात्रिं मन्यते, किमुतान्य इत्यर्थः । दोषेत्यव्ययं तदुपपदान्मन्यतेर्धातोः 'आत्ममाने खश् च' (३।२।८३) इति खशप्रत्ययः । इह यूनां दोषावद्दिवापि विस्रम्भं विहाराः संभवन्तीति भावः । भ्रमरविलसितं वृत्तम् । 'म्भौ न्लौ गः स्याभ्द्रमरविलसितम्' इति लक्षणात् ॥ ६२॥

  भग्नो निवासोऽयमिहास्य पुष्पैः
   सदानतो येन विषाणिनाऽगः ।
  तीव्राणि तेनोज्झति कोपितोऽसौ
   सदानतोयेन विषाणि नागः ॥ ६३ ॥

 भग्न इति ॥ इहाद्रौ अस्य नागस्य निवास आश्रयः सदा पुष्पैरानतो नम्रोऽयं न गच्छतीत्यगो वृक्षो दानतोयैर्मदोदकैः सह वर्तते यस्तेन सदानतोयेन । मत्तेनेत्यर्थः । येन विषाणिना दन्तिना भग्नस्तेन विषाणिना कोपितः कोपं प्रापितोऽसौ नागः सर्पस्तीव्राणि विषाणि गरलान्युज्झति वमति । परप्रतीकाराक्षमस्य क्रोधः स्वाश्रयमेव व्याहन्तीति भावः ॥ ६३ ॥

  प्रालेयशीतमचलेश्वरमीश्वरोऽपि
   सान्द्रेभचर्मवसनावरणोऽधिशेते ।
  सर्वर्तुनिर्वृतिकरे निवसन्नुपैति
   न द्वन्द्वदुःखमिह किञ्चिदकिञ्चनोऽपि ॥ ६४ ॥

 प्रालेयेति ॥ ईश्वरः शिवोऽपि, किमुतान्य इति भावः । सान्द्रं यदिभचर्म तदेव वसनं तदेवावरणं छादनं यस्य सः तथा सन् । न त्वनावरणो नापि शिथिलावरण इति भावः । प्रलयादागतं प्रालेयं हिमम् । 'तत आगतः' (४।३।७४) इत्यणि 'केकयमित्रयुप्रलयानां यादेरियः' (७।३।२) इति यशब्दस्येयादेशः । तेन शीतं शीतलमचलेश्वरं हिमवन्तमधिशेते । तस्मिञ्शेत इत्यर्थः ।

अधिशीङ्स्थासां कर्म' (१।४।४६) इति कर्मत्वम् । सर्वर्तुभिर्निर्वृतिकरे सदासुखकर इहाद्रौ निवसन पुनर्नास्ति किंचनास्येत्यकिंचनो निःस्वोऽपि । उच्चावचेत्यादिना मयूरव्यंसकादिषु निपातनात्तत्पुरुषः । किंचिदल्पमपि द्वन्द्वदुःखं शीतोष्णदुःखं नोपैति । नित्यं संनिहितानामृतूनामन्योन्यदोषनिवारकत्वादिति भावः । 'द्वन्द्वं युग्महिमोष्णादि मिथुनं कलहो रहः' इति वैजयन्ती । अत्रोपमानाद्धिमाचलादुपमेयस्याधिक्यवर्णनाद्व्यतिरेकः ॥ ६४ ॥

  नवनगवनलेखाश्याममध्याभिराभिः
   स्फटिककटकभूभिर्नाटयत्येष शैलः ।
  अहिपरिकरभाजो भास्मनैरङ्गरागै-
   रधिगतधवलिम्नः शूलपाणेरभिख्याम् ॥६५॥

 नवेति ॥ एष शैलो रैवतको नवया नगवनलेखया तरुवनपङ्त्कया श्यामो मध्यो मध्यभागो यासां ताभिराभिः स्फटिकानां कटकभूभिस्तटप्रदेशैः करणैरहिरेव परिकरो गात्रिकाबन्धस्तं भजतीति तस्याहिपरिकरभाजः । 'भवेत्परिकरो व्राते पर्यङ्कपरिवारयोः । प्रगाढे गात्रिकाबन्धे विवेकारम्भयोरपि' इति विश्वः । 'भजो ण्विः' (३।२।६२)। भास्मनैर्भस्ममयैः । वैकारिकोऽणप्रत्ययः । अणिति प्रकृतिभावात् 'नस्तद्धिते' (६।४।१४४) इति टिलोपो न । अङ्गरागैरनुलेपनैरधिगतधवलिम्नः प्राप्तधावल्यस्य शूलं पाणौ यस्य तस्य शूलपाणेरीश्वरस्य । 'प्रहरणार्थेभ्यः परे निष्ठासप्तम्यौ भवतः' (वा०) । अभिख्यां शोभाम् । 'अभिख्या नामशोभयोः' इत्यमरः । 'आतश्चोपसर्गे (३।३।१०६) इत्यङ्प्रत्ययः । नाटयत्यनुकरोति । निदर्शनालंकारः । मालिनी वृत्तमेतत् ॥ ६५ ॥

  दधद्भिरभितस्तटौ विकचवारिजाम्बू
   नदैर्विनोदितदिनक्लमाः कृतरुचश्च जाम्बूनदैः ।
  निषेव्य मधु माधवाः सरसमत्र कादम्बरं
   हरन्ति रतये रहः प्रियतमाङ्गकादम्बरम् ॥६६॥

 दधद्भिरिति ॥ अत्राद्रौ माधवस्य इमे माधवा यादवाः विकचानि वारिजानि येषु तान्यम्बूनि ययोस्तौ विकचवारिजाम्बू अभित उभयतस्तटौ दधद्भिर्नदैरम्बुप्रवाहैः । प्राक्स्रोतसो नद्यः, प्रत्यक्स्रोतसो नदाः नर्मदां विनेत्याहुः । विनोदितो दिनक्लमो येषां ते । विहारापनीताह्निकसंतापा इत्यर्थः । किंच जाम्बूनदस्य विकारैर्जाम्बूनदैः कनकभूषणैः कृतरुचो जनितशोभाः सन्तः रसवत्स्वादवत् । 'रसो गन्धे रसे स्वादे' इति विश्वः । कादम्ब इक्षुः । 'कादम्बः कलहंसेक्ष्वोः' इति विश्वः । कादम्बं राति रलयोरभेदाल्लाति प्रकृतित्वेनादत्त इति कादम्बरमैक्षवम् । 'पानसं द्राक्षमाधूकं खार्जूरं तालमैक्षवम्' इति स्मरणात् । 'आतोऽनुपसर्गे कः' (३।२।३)। मधु मद्यम् । एवं च मधुकादम्बरशब्दयोः सामान्यविशेषपरत्वादपौनरुक्त्यम् । निषेव्य पीत्वा । क्षत्रियाणां पैष्ट्या एव निषेधादिति भावः । रतये सुरतार्थं रहः प्रियतमानां प्रेयसीनामङ्गादेवाङ्गकाद्गात्रादम्बरं वस्त्रं हरन्ति । यादवाश्चेह मधुपानरतोत्सवैर्विस्रब्धं विहरन्तीति भावः । पृथ्वीवृत्तम् । 'जसौ जसयला वसुग्रहयतिश्च पृथ्वी गुरुः' इति लक्षणात् ॥ ६६ ॥

  दर्पणनिर्मलासु पतिते घनतिमिरमुषि
   ज्योतिषि रौप्यभित्तिषु पुरः प्रतिफलति मुहुः।

  व्रीडमसंमुखोऽपि रमणैरपहृतवसनाः
   काञ्चनकंदरासु तरुणीरिह नयति रविः ॥६७॥

 दर्पणेति ॥ इहाद्रौ रविर्दर्पणनिर्मलासु पुरः रौप्यभित्तिषु । काञ्चनकंदराग्रवर्तिरजतसानुषु पतिते संक्रान्ते घनं सान्द्रं यत्तिमिरं तन्मुष्णाति हरतीति तन्मुट् । क्विप् । तस्मिञ्ज्योतिषि स्वतेजसि काञ्चनकंदरासु मुहुः प्रतिफलति संमूर्च्छति सति रमणैरपहृतवसनास्तरुणीरसंमुखोऽपि कंदरानभिमुखोऽपि व्रीडं त्रपाम् । यद्यपि 'गुरोश्च हलः' (३।३।१०३) इति स्त्रियामप्रत्ययः । अत एव मन्दाक्षं हीस्त्रपा व्रीडा' इत्यमरः । तथापि तत्र स्त्रीत्वाविवक्षायां बाहुलकत्वान्नपुंसकत्वं च । अत एव 'अविधौ गुरोः स्त्रियां बहुलविवक्षा' इति वामनः । नयति प्रापयति । 'नीवह्योर्हरतेश्चैव' इति द्विकर्मकता । यस्मिन् सुवर्णकंदरासु क्रीडार्थं प्रविष्टाः स्त्रियोऽन्धकार इति कृत्वा पुरुषैरपहृतवस्त्राः सत्यः । पुरःस्थितरौप्यभित्तितेजसामन्तःप्रतिबिम्बवत्प्रकाशे सति सलज्जा इति भावः । अत्र काञ्चनकंदराणामसंमुखार्कज्योतिःप्रतिफलनासंबन्धेऽपि संबन्धोक्तेरतिशयोक्तिः । वंशपत्रपतितं वृत्तम् । 'दिङ्गुनि वंशपत्रपतितं भरनभनलगैः' इति लक्षणात् ॥ ६७ ॥

  अनुकृतशिखरौघश्रीभिरभ्यागतेऽसौ
   त्वयि सरभसमभ्युत्तिष्ठतीवाद्रिरुच्चैः ।
  द्रुतमरुदुपनुन्नैरुन्नमद्भिः सहेलं
   हलधरपरिधानश्यामलैरम्बुवाहैः ॥१८॥

इति श्रीमाघकृतौ शिशुपालवधे महाकाव्ये यङ्के
रैवतकवर्णनं नाम चतुर्थः सर्गः ॥ ४ ॥

 अनुकृतेति ॥ असावुच्चरुन्नतोऽद्रिः रैवतकः त्वयि अभ्यागते सति अनुकृता शिखरौघाणां श्रीयैंस्तैस्तथोक्तैः । शिखरौघभ्रमकारिभिरिति भावः । अत एवात्र श्रीरिव श्रीरिति निदर्शनया भ्रान्तिमदलंकारो व्यज्यते । द्रुतमरुता शीघ्रमारुतेनोपनुन्नैः प्रेरितैः अत एव सहेलं सलीलमुन्नमद्भिरुत्पतद्भिः । धरतीति धरः । पचाद्यच् । हलस्य धरो हलधरो बलभद्गः तस्य परिधानान्यम्बराणि तद्वच्छ्यामलैः श्यामैरम्बुवाहैर्निमित्तेन सरभसमभ्युत्तिष्ठतीव प्रत्युत्थानं करोतीवेति क्रियानिमित्ता क्रियास्वरूपोत्प्रेक्षा । विशिष्टमेघोन्नमनक्रियया प्रत्युत्थानक्रियोत्प्रेक्षणात् सा चोक्तनिदर्शनानुप्राणितेति संकरः । शाब्दस्तु वृत्त्यनुप्रासः । मालिनी वृत्तम् । “ननमयययुतेयं मालिनी भोगिलोकैः” इति ॥ ६८ ॥

इति श्रीमहोपाध्यायकोलाचलमल्लिनाथसूरिविरचिते
शिशुपालवधकाव्यव्याख्याने सर्वङ्कषाख्ये चतुर्थः सर्गः ॥ ४ ॥