शिशुपालवधम्/नवमः सर्गः

विकिस्रोतः तः
← अष्ठमः सर्गः शिशुपालवधम्
नवमः सर्गः
माघः
दशमः सर्गः →

अभितापसंपदमथोष्णरुचिर्निजतेसामसहमान इव ।
पयसि प्रपित्सुरपराम्बुनिधेरधिरोढुमस्तगिरिमभ्यपतथ् ।। ९.१ ।।

गतया पुरः प्रतिगवाक्षमुखं दधती रतेन भृशमुत्सुकतां ।
मुहुरन्तारालभुवमस्तगिरेः सवितुश्च योषिदमिमीत दृशा ।। ९.२ ।।

विरलात पच्छविरनुष्णवपुः परितो विपाण्डु दधदभ्रशिरः ।
अभवद्गतः परिणतिं शिथिलः परमन्दसूर्यनयनो दिवसः ।। ९.३ ।।

अपराह्नशीतलतरेण शनैरनिलेन लोलितलताङ्गुलये ।
निलयाय शाखिन इवाह्रयते दुदुराकुलाः खगकुलानि गिरः ।। ९.४ ।।

उपसंध्यमास्त तनु सानुमतः शिखरेषु तत्क्षणमशीतरुचः ।
करजालमस्तमयेऽपि सतामुतितं खलूच्चतरमेव पदं ।। ९.५ ।।

प्रतिकूलमुपगते हि विधौ विफलत्वमेति बहुसाधनता ।
अवलम्बनाय दिनभर्तुरभून्न पतिष्यतः करसहस्रमपि ।। ९.६ ।।

नवकुङ्कुमारुणपयोधरया स्वकरावसक्तरुचिराम्बरया ।
अतिसक्तिमेत्य वरुणस्य दिशा भृशमन्वरज्यदतुषारकरः ।। ९.७ ।।

गतवत्यराजत जपाकुसुमस्तबकद्युतौ दिनकरेऽवनतिं ।
बहलानुरागकुरुविन्ददलप्रतिबद्धमध्यमिव दिग्वलयं ।। ९.८ ।।

द्रुतशातकुम्भनिभमंशुमतो वपुरर्धमग्नवपुषः पयसि ।
रुरुचे विरिञ्चिनखभिन्नबृहद्दणडकैकतरखण्डमिव ।। ९.९ ।।

अनुरागवन्तमपि लोचनयोर्दधतं वपुः सुखमतापकरं ।
निरकासयद्रविमपेतवसुं वियदालयादपरदिग्गणिका ।। ९.१० ।।

अभितिग्मरश्मि चिरमविरमादवधानखिन्नमनिमेषतया ।
विगलन्नमधुव्रतकुलाश्रुजलं न्ममीलदब्जनयनं नलिनी ।। ९.११ ।।

अविभाव्यतारकमदृष्टहिमद्युतिबिम्बमस्तमितभानु नभः ।
अवसन्नतापमतमिस्रमभादपदोषतैव विगुणस्य गुणः ।। ९.१२ ।।

रुचिधाम्नि भर्तरि भृशं विमलाः परलोकमभ्युपगते विवशुः ।
ज्वलनं त्विषः कथमितरथा सुलभोऽन्यजन्मनि स एव पतिः ।। ९.१३ ।।

विहिताञ्जलिर्जनतया दधती विकसत्कुसुम्भकुसुमारुणतां ।
चिरमुज्झितापि तनुरौज्झदसौ न पितृप्रसूः प्रकृतिमात्मभुवः ।। ९.१४ ।।

अथ सान्द्रसान्ध्यकिरणारुणितं हरिहेतिहूति मिथुनं पततोः ।
पृथगुत्पपात विरहार्तिदलद्धृदयस्रुतासृगनुलिप्तमिव ।। ९.१५ ।।

निलयः श्रियः सततमेतदिति प्रथितं यदेव जलजन्म तया ।
दिवसात्ययात्तदपि मुक्तमहो चपलाजनं प्रति न चोद्यमदः ।। ९.१६ ।।

दिवसोऽनुमित्रमगमद्वलयं किमिहास्यते बत मयाबलया ।
रुचिभर्तुरस्य विरहाधिगमादिति संध्ययापि सपदि व्यगमि ।। ९.१७ ।।

पतिते पतङ्गमृगराजि निजप्रतिबिम्बरोषित इवाम्बुनिधौ ।
अथ नागयूथमलिनानि जगत्परितस्तमांसि परितस्तरिरे ।। ९.१८ ।।

व्यसरन्नु भूधरगुहान्तरतः पचलं बहिर्भहलपङ्करुचि ।
दिवसावसानपटुनस्तमसो बहिरेत्य चाधिकमभक्त गुहाः ।। ९.१९ ।।

किमलम्बताम्बरविलग्नमधः किमवर्धतोर्ध्वमवनीतलतः ।
विससार तिर्यगथ दिग्भ्य इति प्रचुरीभवन्न निरधारि तमः ।। ९.२० ।।

स्थगिताम्बरक्षितितले परितस्तिमिरे जनस्य दृशमन्धयति ।
दधिरे रसाञ्जनमपूर्वतः प्रियवेश्मवर्त्म सुदृशो ददृशुः ।। ९.२१ ।।

अवधार्य कार्यगुरुतामभवन्न भयाय सान्द्रतमसन्तमसं ।
सुतनोः स्तनौ च दयितोपगमे तनुर्ॐअराजिपथवेपथवे ।। ९.२२ ।।

ददृशेऽपि भास्कररुचाह्नि न यः स तमीं तमोबिरभिगम्य ततां ।
द्युतिमग्रहीद्ग्रहगणो लघवः प्रकटीभवन्ति मलिनाश्रयतः ।। ९.२३ ।।

अनुलेपनानि कुसुमान्यबलाः कृतमन्यवः पतिषु धीपशिखाः ।
समयेन तेन चिरसुप्तमनोभवबोधनं सममबोधिषत ।। ९.२४ ।।

वसुधान्तनिःसृतमिवाहिपतेः पटलं फणामणिसहस्ररुचां ।
स्फुरदंशुजालमथ शीतरुचः ककुभं समस्कुरुत माधवनीं ।। ९.२५ ।।

विशदप्रभापरिगतं विबभावुदयाचलव्यवहितेन्दुवपुः ।
मुखमप्रकाशदशनं शनकैः सविलासहासमिव शक्रदिशः ।। ९.२६ ।।

कलया तुषारकिरणस्य पुरः परिमन्दभिन्नतिमिरौघजटं ।
क्षणमभ्यपद्यत जनैर्न मृषा गगनं गणादिपतिमूर्तिरिति ।। ९.२७ ।।

नवचन्द्रकाकुसुमकीर्णतमःकबरीभृतो मलयजार्द्रमिव ।
ददृशे ललाटतटहारि हरेर्हरितो मुखे तुहिनरश्मिदलं ।। ९.२८ ।।

प्रथमं कलाभवदथार्धमथो हिमदीधितिर्महदभूदुदितः ।
दधति ध्रुवं क्रमश एव न तु द्युतिशालिनोऽपि सहसोपचयं ।। ९.२९ ।।

उदमज्जि कैटभजितः शयनादपनिद्रपाण्डुरसरोजरुचा ।
प्रथमप्रबुद्धनदराजसुतावदनेन्दुनेव तुहिनद्युतिना ।। ९.३० ।।

अथ लक्षमणागतकान्तवपुर्जलधिं विलङ्घ्य शशिदाशरथिः ।
परिवारितः परित ऋक्षगणैस्तिरौघराक्षसकुलं बिभिदे ।। ९.३१ ।।

उपजीवति स्म सततं दधतः परिमुग्धतां वणिगिवोडुपतेः ।
घनवीथवीथिमवतीर्णवतो निधिरम्भसामुपचयाय कलाः ।। ९.३२ ।।

रजनीमवाप्य रुचमाप शशी सपदि व्यभूषयदसावपि तां ।
अविलम्बितक्रममहो महतामितरेतरकृतिमच्चरितं ।। ९.३३ ।।

दिवसं भृशोष्णरुचिपादहतां रुदतीमिवानवरतलिरुतैः ।
मुहुरामृशन्मृगधरोऽग्रकरैरुदशिस्वसत्कुमुदिनीवनितां ।। ९.३४ ।।

प्रतिकामिनीति ददृशुश्चकिताः स्मरजन्मघर्मपयसोपचितां ।
सुदृशोभिभर्तृशशैरश्मिगलज्जलबिन्दुमिन्दुमणिदारुवधूं ।। ९.३५ ।।

अमृतद्रवैर्विदधब्जदृशाममपमार्गमोषधिपतिः स्म करैः ।
परितो विसर्पि परितापि भृशं वपुषोऽवतारयति मानविषं ।। ९.३६ ।।

अमलात्मसु प्रतिफलन्नभितस्तरुणीकपोलफलकेषु मुहुः ।
विससार सान्द्रतरमिन्दुरुचामधिकावभासितदिशां निकरः ।। ९.३७ ।।

उपगूढवेलमलघूर्मिभुजैः सरितामचुक्षुपदधीशमपि ।
रजनीकरः किमिव चित्रमदो यदुरागिणां गणमनङ्गलघुं ।। ९.३८ ।।

भवनोदरेषु परिमन्दतया शयितोऽलसः स्फटिकयष्टिरुचः ।
अवलम्ब्य जालकमुखोपगतानुदतिष्ठदिन्दुकिरणान्मदनः ।। ९.३९ ।।

अविभावितेषुविषयः प्रथमं मदनोऽपि नूनमभवत्तमसा ।
उदिते दिशः प्रकटयत्यमुना यदघर्मधाम्नि धनुराचकृषे ।। ९.४० ।।

युगपद्विकासमुदयाद्गमिते शशिनः शिलीमुखगणोऽलभत ।
द्रुतमेत्य पुष्पधनुषो धनुषः कुमुदेऽङ्गनामनसि चावसरं ।। ९.४१ ।।

ककुभां मुखानि सहसोज्ज्वलयन्दधदाकुलत्वमधिकं रतये ।
अदिदीपदिन्दुरपरो दहनः कुसुमेषुमत्रिनयनप्रभवः ।। ९.४२ ।।

इति निश्चितप्रियतमागतयः सितदीधितावदयवत्यबलाः ।
प्रतिकर्म कर्तुमुचक्रमिरे समये हि सर्वमुपकारि कृतं ।। ९.४३ ।।

सममेकमेव दधतुः सुतनोरु हारभूषणमुरोजतटौ ।
घटते हि संहततया जनितामिदमेव निर्विरतां दधतोः ।। ९.४४ ।।

कदलीप्रकाण्डरुचिरोरुतरौ जघनस्थलीपरिसरे महति ।
रशनाकलापकगुणेन वधूर्मकरध्वजद्विरदमाकलयथ् ।। ९.४५ ।।

अदरेष्वलक्तकरसः सुदृशां विशदं कपोलभुवि लोध्ररजः ।
नवमञ्जनं नयनपङ्कजयोर्बिभिदे न शङ्खनिहितात्पयसः ।। ९.४६ ।।

स्फुरदुज्वलाधरदलैर्विसद्दशनांशुकेशकरैः परितः ।
धृतमुग्धगण्डफलकैर्विबभुविकसद्भिरास्यकमलैः प्रमदाः ।। ९.४७ ।।

भजते विदेशमधिकेन जितस्तदनुप्रवेशमथवा कुशलः ।
मुखमिन्दुरुज्ज्वलकपोलमतः प्रतिमाच्छलेन सुदृशामविशथ् ।। ९.४८ ।।

ध्रुवमागताः प्रतिहतिं कठिने मदनेषवः कुचतटेमहति ।
इतराङ्गवन्न यदिदं गरिमग्लपितावलग्नमगमत्तनुतां ।। ९.४९ ।।

न मनोरमास्वपि विशेषविदां निरचेष्ट योग्यमिदमिति ।
गृहमेष्यति प्रियतमे सुदृशां वसनाङ्गरागसुमनःसु मनः ।। ९.५० ।।

वपुरन्वलिप्त परिरम्भसुखव्यवधानभीरुकतया न वधूः ।
क्षमस्य वाढमिदमेव हि यत्प्रियसंगमेष्वनवलेपमदः ।। ९.५१ ।।

निजपाणिपल्लवतलस्खलनादभिनासिकविवरमुत्पतितैः ।
अपरा परीक्ष्य शनकैर्मुमुदे मुखवासमास्यकमलश्वसनैः ।। ९.५२ ।।

विधृते दिवा सवयसा च पुरः परिपूर्णमण्डलविकाशभृति ।
हिमधाम्नि दर्पणतले च मुहुः स्वमुखश्रियं मृगदृशो ददृशुः ।। ९.५३ ।।

अधिजानु बाहुमुपधाय नमत्करपल्लवार्पितकपोलतलं ।
उदकण्ठि कण्ठपरिवर्तिकलस्वरसून्यगानपयापरया ।। ९.५४ ।।

प्रणयप्रकाशनविदो मधुराः सुतरामभीष्टजनचित्तहृतः ।
प्रजिघाय कान्तमनु मुग्धतरस्तरुणीजनो दृश इवाथ सखीः ।। ९.५५ ।।

न च मेऽवगच्छति यथा लघुतां करुणां यथा च कुरुते स मयि ।
निपुणं तथैनमुपगम्य वदेरभिदूति काचिदिति संदिदिशे ।। ९.५६ ।।

दयितया मानपरयापरया त्वरितं ययावगदितापि सखी ।
किमु चोदिताः प्रियहितार्थकृतः कृतिनो भवन्ति सुहृदः सुहृदां ।। ९.५७ ।।

प्रतिभिद्य कान्तमपराधकृतं यदि तावदस्य पुनरेव मया ।
क्रियतेऽनुवृत्तिरुचितैव ततः कलयेदमानमनसं सखि मां ।। ९.५८ ।।

अवधीर्य धैर्यकलिता दयितं विदधे विरोधमथ तेन सह ।
तव गोप्यते किमिव कर्तुमिदं न सहास्मि साहसमसाहसिकी ।। ९.५९ ।।

तदुपेत्य मा स्म तमुपालभथाः क्ल दोषमस्य न हि विद्म वयं ।
इति सम्प्रधार्य रमणाय वधूर्विहितागसेऽपि विससर्ज सखीं ।। ९.६० ।।

ननु सन्दिशेति सुदृशोदितया त्रपया न किञ्चन किलाभिदधे ।
निजमैक्षि मन्दमनिशं निशितैः क्रशितं शरीरमशीरशरैः ।। ९.६१ ।।

ब्रुवते स्म दूत्य उपसृत्य नरान्तरवत्प्रगल्भमतिगर्भगिरः ।
सुहृदर्थमीहितमजिह्मधियां प्रकृतेर्विराजति विरुद्धमपि ।। ९.६२ ।।

मम रूपकीर्तिमहरद्भुवि यस्तदनु प्रविष्टहृदयेयमिति ।
त्वयि मत्सरादिव निरस्तदयः सुतरां क्षिणोति खलु तां मदनः ।। ९.६३ ।।

तव सा कथासु परिघट्टयति श्रवणं यदङ्गुलिमुखेन मुहुः ।
घनतां ध्रुवं नयति तेन भवद्गुणपूगपूरितमतृप्ततया ।। ९.६४ ।।

उपतप्यमानमलघूष्णिभिः श्वसितैः सितेतरसरोजदृशः ।
द्रवतां न नेतुमधरं क्षमते नवनागवल्लिदलरागरसः ।। ९.६५ ।।

दधति स्फुटं रत्पतेरिषवः शिततां यदुत्पलपलाशदृशः ।
हृदयं निरन्तरबृहत्कठिनस्तनमणडलावरणमप्यभिदन् ।। ९.६६ ।।

कुसुमादपि स्मितदृशः सुतरां सुकुमारमङ्गमिति नापरथा ।
अनिशं निजैरकरुणः करुणं कुसुमेषुरुत्तपाति यद्विशिखैः ।। ९.६७ ।।

विषतां निषेवितमपक्रियया समुपैति सर्वमिति सत्यमदः ।
अमृतुतस्रुऽपि विरहाद्भवतो यदमूं दहन्ति हिमरश्मिरुचः ।। ९.६८ ।।

उदितं प्रियां प्रति सहार्दमिति श्रदधीयत प्रियतमेन वचः ।
विदितेङ्गिते हि पुर एव जने सपदीरिताः खलु लगन्ति गिरः ।। ९.६९ ।।

दयिताहृतस्य युवभिर्मनसः परिमूढतामिव गतैः प्रथमं ।
उदिते ततः सपदि लब्धपदैः क्षणदाकरेऽनुपदिभिः प्रयये ।। ९.७० ।।

निपपात सम्भ्रमभृतः श्रवणादसितभ्रुवः प्रणदितासिकुलं ।
दयितावलोकविकसन्नयनप्रसरप्रणुन्नमिव वारिरुहं ।। ९.७१ ।।

उपनेतुमुन्नतिमतेव दिवं कुचयोर्युगेन तरसा कलितां ।
रभसोत्थितामुपगतः सहसा परिरभ्य कञ्चन वधूमरुधथ् ।। ९.७२ ।।

अनुदेहमागतवतः प्रतिमां परिणायकस्य गुरुमुद्वहता ।
मुकुरेण वेपथुभृतोऽतिभरात्कथमप्यपाति न वधूकरतः ।। ९.७३ ।।

अवनम्य वक्षसि निमग्नकुचद्वितयेन गाढमुपगूढवता ।
दयितेन तत्क्षणचलद्रशनाकलकिङ्किणीरवमुदासि वधूः ।। ९.७४ ।।

कररुद्धनीवि दयितोपगतौ गलितं त्वराविरहितासनया ।
क्षणदृष्टहाटकशिलासदृशस्फुरदूरुभित्ति वसनं ववसे ।। ९.७५ ।।

पिदधानमन्वगुपगम्य दृशौ ब्रुवते जनाय वद कोऽयमिति ।
अभिधातुमध्यवससौ न गिरा पुलकैः प्रियं नववधून्यगदथ् ।। ९.७६ ।।

उदितोरुसादमतिवेपथुमत्सुदृशोऽभिभर्तृ विधुरं त्रपया ।
वपुरादरातिशयशंसि पुनः प्रतिपत्तिमूढमपि वाढमभूथ् ।। ९.७७ ।।

पिमन्धराभिरलघूरुभरादधिवेश्म पत्युरुपचारविधौ ।
स्खलिताभिरप्यनुपदं प्रमदाः प्रणयातिभूमिमगमन्गतिभिः ।। ९.७८ ।।

मधुरान्नतभ्रू ललितं च दृशोः सकरप्रयोगचतुरं च वचः ।
प्रकृति स्थमेव निपुणागमितं स्फुचनृत्तलीलमभवत्सुतनोः ।। ९.७९ ।।

तदयुक्तमङ्ग तव विश्वसृजा न कृतं यदीक्षणसहस्रतयं ।
प्रकटीकृता जगति येन खलु स्फुटमिन्द्रताद्य मयि गोत्रभिदा ।। ९.८० ।।

न विभावयत्यनिशमक्षिगतामपि मां भवानतिसमीपतया ।
हृदयस्थितामपि पुनः परितः कथमीक्षते बहिरभीष्टतामां ।। ९.८१ ।।

इति गन्तुमिच्छुमभिधाय पुरः क्षणदृष्टिपातविकसद्वदनां ।
स्वकरावलम्बनविमुक्तगलत्कलकाञञ्चि काञ्चिदरुणत्तरुणः ।। ९.८२ ।।

अपयाति सरोषया निरस्ते कृतकं कामिनि चुक्षुषे मृगाक्ष्या ।
कलयन्नपि सव्यथोऽवतस्थेऽशकुनेन स्खलितः किलेतरोऽपि ।। ९.८३ ।।

आलोक्य प्रियतममंशुके विनीवौ यत्तस्थे नामितमुखेन्दु मानवत्या ।
तन्नूनं पदमवलोकयांबभूवे मानस्य द्रुतमपयानमास्थितस्य ।। ९.८४ ।।

सुदृशः सरसव्यलीक तप्तस्तरसास्लष्टवतः सयौवनोष्मा ।
कथमप्यभवत्स्मरानलोष्मणः स्तनभारो न नखंपचः प्रियस्य ।। ९.८५ ।।

दधत्युरोजद्वयमुर्वशीतलं भुवो गतेव स्वयमुर्वशी तलं ।
बभौ मुखेनाप्रतिमेन काचन श्रियाधिका तां प्रति मेनका च न ।। ९.८६ ।।

इत्थं नारीर्घटयितुमलं कामिभिः काममासन्प्रालेयांशोः सपदि रुचयः शान्तमानान्तरायाः ।
आचार्यत्वं रतिषु विलसन्मन्मथश्रीविलासा ह्रीप्रत्यूहप्रशमकुशलाः शीधवश्चक्रुरासां ।। ९.८७ ।।