शिशुपालवधम्/दशमः सर्गः

विकिस्रोतः तः
Jump to navigation Jump to search
← नवमः सर्गः शिशुपालवधम्
दशमः सर्गः
माघः
एकादशः सर्गः →

सञ्जितानि सुरभीण्यथ यूनामुल्लसन्नयनवारिरुहाणि ।
आयुषः शुघटितानि सुरायाः पात्रतां प्रियतमावदनानि ।। १०.१ ।।

सोपचारमुपशान्तविचारं सानुतर्षमनुतर्षपदेन ।
ते मुहूर्तमथ मूर्तमपीप्यन्प्रम मानमवधूय वधूः स्वाः ।। १०.२ ।।

कान्ताकान्तवदनप्रतिबिम्बे भग्नबालसहकारसुगन्धौ ।
स्वादुनि प्रणदितालिनि शीते निर्विवार मधुनीन्द्रियवर्गः ।। १०.३ ।।

कापिशायनसुगन्धि विघूर्णन्नुन्मदोऽधिशयितुं समशेत ।
फुल्लदृष्टि वदनं प्रमदानामब्जचारु चषकं च षडङ्ध्रिः ।। १०.४ ।।

बिम्बितं बृतपरिस्रुति जानन्भाजने जलजमित्यबलायाः ।
घ्रातुमक्षि पतति भ्रमरः स्म भ्रान्तिभाजि भवति क्व विवेकः ।। १०.५ ।।

दत्तमिष्टतमया मधु पत्युर्बाडमाप पिबतो रसवत्तां ।
यत्सुवर्णमुकुटांशुभिरासाच्चेतनाविरहितैरपि पतिं ।। १०.६ ।।

स्वदनेन सुतनोरविचारादोष्ठतः समचरिष्ट रसोऽत्र ।
अन्यमन्यदिव यन्मनधु यूनः स्वादमिष्टमतनिष्ट तदेव ।। १०.७ ।।

बिभ्रतौ मधुरतामतिमात्रं रागिभिर्युगपदेव पपाते ।
आननैर्मधुरसो विकसदभिर्नासिकाभिरसितोत्पलगन्धः ।। १०.८ ।।

पतिवत्यभिमते मधुतुल्यस्वादमोष्ठकं विददङ्क्षौ ।
लभ्यते स्म परिरक्ततयात्मा यावकेन वियतापि युवत्याः ।। १०.९ ।।

कस्यचित्समदनं मदनीयप्रयसीवदनपानपरस्य ।
स्वादितः सकृदिवासव एव प्रत्युत क्षणविदंशपदेऽभूथ् ।। १०.१० ।।

पीतशीतधुमधुरैर्मिधुनानामाननैः परिहृतं चषकान्तः ।
व्रीडया रुददिवालिविरावैर्नीलनीरजमगच्छदधस्ताथ् ।। १०.११ ।।

प्रातिभत्रिसरकेण गतानां वक्रवाक्यरचनारमणीयः ।
गूढसूचितरहस्यसहासः सुभ्रुवां प्रववृते परिहासः ।। १०.१२ ।।

हावकारि हसितं वचनानां खौशलं दृशि विकारविशेषाः ।
चकिरे भृशमृजोरपि वध्वाः कामिनेव तरुणेन मदेन ।। १०.१३ ।।

अप्रसन्नमपराद्धरि पत्यौ कोपदीप्तमुररीकृतधैर्यं ।
क्षालितं नु शमितं नु वधूनां द्रवितं नु हृदयं मधुवारैः ।। १०.१४ ।।

सन्तमेव चिरप्रकृतत्वादप्रकाशितमद्द्युतङ्गे ।
विभ्रमं मधुमदः प्रमदानां धातुलीनमुपसर्ग इवार्थं ।। १०.१५ ।।

सावशेषपदमुक्तमुपेक्षा स्रस्तमाल्यवसनाभरणेषु ।
गन्तुमुत्थिमकारणतः स्म द्योतयन्ति मदविभ्रममासां ।। १०.१६ ।।

मद्यमन्दविगलत्त्रपमीषच्चक्षुरुन्मिषितपक्ष्म दधत्या ।
वीक्ष्यते स्म शनकैर्नववध्वा कामिन्ॐउखमध्ॐउखयैव ।। १०.१७ ।।

या कथञाचन सखीवचनेन प्रागभिप्रियतमं प्रजगल्भे ।
व्रीडाजाड्यमभजन्मधुपा सा स्वां मदात्प्रकृतिमेति हि सर्वः ।। १०.१८ ।।

छादितः कथमपि त्रपययान्तर्यः प्रियं प्रति चिराय रमण्याः ।
वारुणीमदविशङागमथाविश्चक्षुषोऽभवदसाविव रागाः ।। १०.१९ ।।

आगतानगणितप्रतियातान्वल्लभानभिसिसारयिषूणां ।
प्रापि चेतसि सविप्रतिसारे सुभ्रुवामवसरः सरकेण ।। १०.२० ।।

मा पुनस्तमभिसीसरमागस्कारिणं मदविमोहितचित्ता ।
योषिदित्यभिलाष न हालां दुस्त्यजः खलु सुखादपि मानः ।। १०.२१ ।।

ह्रीविमोहमहरद्दयितानामन्तिकं रतिसुखाय निनाय ।
सप्रसादमिव सेवितमासीत्सद्य एव फलदं मधु तासां ।। १०.२२ ।।

दत्तमात्तमदनं दयितेन व्याप्तमतिशाकेन रसेन ।
सस्वदे मुखसुरं प्रमदाभ्यो नाम रूढमपि च व्युदपादि ।। १०.२३ ।।

लब्धसौरभगुणो मदिराणामङ्गनास्यचषकस्य च गन्धः ।
मोदितालिरितरेतरयोगादन्यतामभजतातिशयं नु ।। १०.२४ ।।

मानभङ्गपचटुना सुरतेच्छां तन्वता प्रथयता दृशि रागं ।
लेभिरे सपदि भावयतान्तर्योषितः प्रणयिनेव मदेन ।। १०.२५ ।।

पानधौतनवयावकरागं सुभ्रुवो निभृतचुम्बनदक्षाः ।
प्रेयसामधररागरसेन स्वं किलाधरमुपालि ररञ्जुः ।। १०.२६ ।।

अर्पितं रसितवत्यपि नामग्राहमन्ययुवतेर्दयितेन ।
उज्झति स्म मदमप्यपिबन्ती वीक्ष्य मद्यमितरा तु ममाद ।। १०.२७ ।।

अन्यान्यवनितागतचित्तं चित्तनाथमभिशङ्कितवत्या ।
पीतभूरिसुरयापि नमेदे निर्वृतिर्हिमनसो मदहेतुः ।। १०.२८ ।।

कोपवत्यनुनयानगृहीत्वा प्रागथो मधुमदाहितमोहा ।
कोपितं विरहखेदितचित्ता कान्तमेव कलयन्त्यनुनिन्ये ।। १०.२९ ।।

कुर्वता मुकुलिताक्षियुगानामङ्गसादमवसादितवगचां ।
ईर्ष्ययेव हरता ह्रियमासां तद्गुणः स्वयमकारि मदेन ।। १०.३० ।।

गण्डभित्तिषु पुरा सदृशीषु व्याञ्जि नाञ्जितदृशां प्रतिमेन्दुः ।
पानपाटलितकान्तिषु पश्चाल्लोध्रचूर्णतिलकाकृतिरासीथ् ।। १०.३१ ।।

उद्धतैरिव परस्परसङ्गादीरितान्युभयतः कुचकुम्भैः ।
योषितामतिमदेन जुघूर्णुर्विभ्रमातिशयपुंसि वपूंषि ।। १०.३२ ।।

चारुता वपुरभूषयदासां तामनूननवयौवनयोगः ।
तं पुनर्मकरकेतनलक्षक्ष्मीस्तां मदो दयितसंगमभूषः ।। १०.३३ ।।

क्षीबतामनुगतास्वनुवेलं तासु रोषपरितोषवतीषु ।
अग्रहीन्न सशरं धनुरुज्झामास नूज्झितनिषङ्गमनङ्गः ।। १०.३४ ।।

शहङ्गयान्ययुवतौ वनिताभिः प्रत्यभेदि दयितः स्फुटमेव ।
न क्षमं भवति तत्वविचारे मत्सरेण हतसंवृति चेतः ।। १०.३५ ।।

आननैर्विचकसे हृषिताभिर्वल्लभानभि तनूभिरभावि ।
आर्द्रतां हृदयमाप च रोषो लोलति स्म वचनेषु वधूनां ।। १०.३६ ।।

रूपमप्रतिविधानमनोज्ञं प्रेम कार्यमनपेक्ष्य विकासि ।
चाटु चाकृतकसंभ्रममासां कार्मणत्वमगमन्रमणेषु ।। १०.३७ ।।

लीलयैव सुतनोस्तुलयित्वा गौरवाढ्यमपि लावणिकेन ।
मानवञ्जनविदा वदनेन क्रीतमेव हृदयं दयितस्य ।। १०.३८ ।।

स्पर्शभाजि विशदच्छविचारौ कल्पिते मृगदृशां सुरताय ।
सन्नतिं दधति पेतुरजस्रं दृष्टयः प्रियतमे शयने च ।। १०.३९ ।।

यूनि रागतरलैरपि तिर्यक्पातिभिः श्रुतिगुणेन युतस्य ।
दीर्घदर्शिभिरकारि वधूनां लङ्घनं न नयनैः श्रवणस्य ।। १०.४० ।।

संकथेच्छुरभिधातुमनीशा संमुखी न च बभूव दिदृक्षुः ।
स्पर्शनेन दयितस्य नतभ्रूरङ्गचपलापि चकम्पे ।। १०.४१ ।।

उत्तरीयविनयात्त्रपमाणा रुन्धती किल तदीक्षणमार्गं ।
आचरिष्ट विकटेन विवोढुर्वक्षसैव कुचमणडलमन्या ।। १०.४२ ।।

अंशुकं हृतवता तनुबाहुस्वस्तिकापिहितमुग्धकुचाग्रा ।
भिन्नशङ्खवलयं परिणेत्रा पर्यरम्भि रभसादचिरोढा ।। १०.४३ ।।

संजहार सहसा परिरब्धप्रेयसीषु विरहय्य विरोधं ।
संहितं रतिपतिः स्मितभिन्नक्रोधमाशु तरुणेषु महेषुं ।। १०.४४ ।।

स्रंसमानमुपयन्तरि वध्वाः श्लिष्टवत्युपसपक्षि रसेन ।
आत्मनैव रुरुधे कृतिनेव स्वसङ्गि वसनं जघनेन ।। १०.४५ ।।

पीडिते पुर उरः प्रतिषेधं भर्तरि स्तनयुगेन युवत्याः ।
स्पष्टमेव दलतः प्रतिनार्यस्तन्मयत्वमभवद्धृदयस्य ।। १०.४६ ।।

दीपितस्मरमुरस्यपपीडं वल्लभे घनमभिष्वजमाने ।
वक्रतां न ययतुः कुचकुम्भौ सुभ्रुवः कठिनतातिशयेन ।। १०.४७ ।।

संप्रवेष्टुमिव योषित ईषुः श्लिष्यतां हृदयमिष्टतमानां ।
आत्मनः सततमेव तदन्तर्वर्तिनो न खलु नूनमजानन् ।। १०.४८ ।।

स्नहनिर्भरमदत्त वधूनामार्द्रतां वपुरसंशयमन्तः ।
यूनि गाढपरिरम्भिणि वस्त्रक्नोपमम्बु ववृषे यदनेन ।। १०.४९ ।।

न स्म माति वपुषः प्रमदानामन्तरिष्टतमसङ्गमजन्मा ।
तद्बहुर्बहिरवाप्य विकासं व्यानशे तनुरुहाण्यपि हर्षः ।। १०.५० ।।

यत्प्रियव्यतिकराद्वनितानमङ्गजेन पुलकेन बभूवे ।
प्रापि तेन भृशमुच्छ्वसिभिर्नीविभिः सपदि बन्धनमोक्षः ।। १०.५१ ।।

ह्रीभरादवनतं परिरम्भे रागवानवटुजेष्ववकृष्य ।
अर्पितोष्ठदलमाननपद्मं योषितो मुकुलिताक्षमधासीथ् ।। १०.५२ ।।

पल्वोपमितसाम्यसपक्षं दष्टत्यधरबिम्बमभीष्टे ।
पर्यकूजि सरुजेव तरुण्यास्तारलोलवलयेन करेण ।। १०.५३ ।।

केनचितन्मधुरमुल्बणरागं बाष्पतप्तमधिकं विरहेषु ।
ओष्ठपल्लवमवाप्य मुहूर्त सुभ्रुवः सरसमक्षि चुचुम्बे ।। १०.५४ ।।

रेचितं परिजनेन महीयः केवलाभिरतदम्पति धाम ।
साम्यमाप कमलासखविष्वक्सेनसेवितयुगान्तपयोधेः ।। १०.५५ ।।

आवृतान्यपि निरन्तरमुच्चैर्योषितामुरसिजद्वतयेन ।
रागिणामित इतो विमृशद्भिः पाणिभिर्जगृहिरे हृदयानि ।। १०.५६ ।।

कामिनामसकलानि विभुग्नैः स्वदवारिमृदुभिः करजाग्रैः ।
आक्रियन्त कठिनेषु कथञ्चित्कामिनीकुचतटेषु पदानि ।। १०.५७ ।।

सोष्मणः स्तनशिलाशिखराग्रादात्तघर्मसलिलैस्तरुणानां ।
उच्छ्वसत्कमलचारुषु हस्तैनिम्ननाभिसरसीषु निपेते ।। १०.५८ ।।

आमृशद्भिरभितो वलिवीचिर्लोलमानवितताङ्गुलिहस्तैः ।
सुभ्रुवामनुभवात्प्रतिपेदे मुष्टिमेयमिति मघ्यमभीष्टैः ।। १०.५९ ।।

प्राप्य नाभिनदमज्जनमाशु प्रस्थितं निवसनग्रहणाय ।
औपनीविकमरुन्ध किल स्त्री वल्लभस्य करमात्मकराभ्यां ।। १०.६० ।।

कामिनः कृतरतोत्सवकालक्षेपमाकुलवधूकरसङ्गि ।
मेखलागुणविलग्नमसूयां दीर्घसूत्रमकरोत्परिधानं ।। १०.६१ ।।

अम्बरं विनयतः प्रियपाणेर्योषितस्य करयोः कलहस्य ।
वारणमिव विधातुमभीक्ष्णं कक्ष्यया च वलयैश्च शिशिञ्चे ।। १०.६२ ।।

ग्रन्थिमुद्ग्रथयितुं हृदयदेशे वाससः स्पृशति मानधनायाः ।
भ्रूयुगेण सपदि प्रतिपेदे र्ॐअभिश्च सममेव विभेदः ।। १०.६३ ।।

आशु लङ्घितवतीष्टकराग्रे नीवीमर्धमुकुलीकृतदृष्ट्या ।
रक्तवैणिक हताधरतन्त्रीमण्डलक्वणितचारु चुकूजे ।। १०.६४ ।।

आयताङ्गुलिरभूदतिरिक्तः सुभ्रुवां क्रशिमशालिनि मध्ये ।
श्रोणिषु प्रियकरः पृथुलासु स्पर्शमाप सकलेन तलेन ।। १०.६५ ।।

चक्रुरेव ललनोरुषु राजीः स्पर्शलोभवशलोलकराणां ।
कामिनामनिभृतान्यपि रम्भास्त म्भक्ॐअलतलेषु नखानि ।। १०.६६ ।।

ऊरुमूलचपलेक्षणमघ्नन्यैर्वतंसकुसुमैः प्रियमेताः ।
चक्रिरे सपदि तानि यथार्थ मन्मथस्य कुसुमायुधनाम ।। १०.६७ ।।

धैर्यमुल्बणमनोभवभवा वामतां च वपुरर्पितवत्यः ।
व्रीडितं ललित सौरतधार्ष्ट्यास्तेनिरेऽभिरुचितेषु तरुण्यः ।। १०.६८ ।।

पाणिरोधमविरोधवाञ्छं भर्त्सनाश्च मधुरस्मितगर्भाः ।
कामिनः स्म कुरुते करभोरुर्हारि शुष्करुदितं च सुखऽपि ।। १०.६९ ।।

वारणार्थपदगद्गदवाचामीर्ष्यया मुहुरपत्रपया च ।
कुर्वते स्म सुदृशामनुकूलं प्रतिकूलिकतयैव युवानः ।। १०.७० ।।

अन्यकालपरिहार्यमजस्रं तद्द्वयेन विदधे द्वयमेव ।
धृष्टता रहसि भर्तृषु ताभिर्निर्दयत्वमितरैरबलासु ।। १०.७१ ।।

बाहुपीडनकचग३हणाभ्यामाहतेन नखदन्तनिपातैः ।
बोधितस्तनुशयतरुणीनामुन्मिमील विशदं विषमेषु ।। १०.७२ ।।

कान्तया सपदि कोऽप्युपगूढः प्रौढपाणिरपनेतुमियेष ।
संहतस्तनतिरस्कृतदृष्टिर्भ्रष्टमेव न दुकूलमपश्यथ् ।। १०.७३ ।।

आहतं कुचतटेन तरुण्याः साधु सोढममुनेति पपात ।
त्रुट्यतः प्रियतमोरसि हारात्पुष्पवृष्चटरिव मौक्तिकवृष्टिः ।। १०.७४ ।।

सीत्कृतानि मणितं करुणोक्तिः स्निग्धमुक्तमलमर्थवचांसि ।
हासभूषणरवाश्च रमण्याः कामसूत्रपदतामुपजग्मुः ।। १०.७५ ।।

उद्धतैर्निभृतमेकमनेकैश्छदवन्मृगदृशामविरामैः ।
श्रूयते स्म मणितं कलकाञ्चीनूपुरध्वनिभिरक्षतमेव ।। १०.७६ ।।

ईदृशस्य भवतः खतमेतल्लाघवं मुहुरतीव रतेषु ।
क्षिप्तमायतमदर्शयदुर्व्या काञ्चिदाम जघनस्य महत्वं ।। १०.७७ ।।

प्रप्यते स्म गतचित्रकचित्रैश्चत्रमार्द्रनखलक्ष्मकपोलैः ।
दध्रिरेऽथ रभसच्युतपुष्पाः स्वबिन्दुकुसुमान्यलकान्ताः ।। १०.७८ ।।

यद्यदेव रुरुचे रुचिरेभ्यः सुभ्रुवो रहसि त्तदकुर्वन् ।
आनुकूलिकतया हि नराणामाक्षिपन्ति हृदयानि तरुण्यः ।। १०.७९ ।।

प्राप्य मन्मथरसादतिभूमिं दुर्वहस्तनभराः सुरतस्य ।
शश्रमुः श्रमजलार्द्रललाटश्लिष्टकेशमसितायतकेश्यः ।। १०.८० ।।

संगताभिरुचितैश्चलितापि प्रागमुच्यत चिरेण सखीव ।
भूय एव समगंस्त रतान्ते ह्रीवधूभिरसहा विरहस्य ।। १०.८१ ।।

प्रेक्षणीयकमेव क्षणमासन्ह्रीविभङ्गुरविलोचनपाताः ।
संभ्रमद्रुतगृहीतदुकूलच्छाद्यमानवपुषः सुरतान्ताः ।। १०.८२ ।।

अप्रभूतमतनीयसि तन्वी काञ्चिधाम्निपिहितैकतरोरु ।
क्ष्ॐअमाकुलकरा विचकर्ष कान्तापल्लवमभीष्टतमेन ।। १०.८३ ।।

मृष्टचन्दनविशेषकभक्तिर्म्रषाटभूषणकदर्थितमाल्यः ।
सापराध इव मण्डनमासीदात्मनैव सुदृशामुपभोगः ।। १०.८४ ।।

योषितः पतितकाञ्चनकाञ्चौ मोहनातिरभसेन नितम्बे ।
मेखलेव परितः स्म विचित्रा राजते वननखक्षतलक्ष्मीः ।। १०.८५ ।।

भातु नाम सुदृशां दशनाङ्कः पाटलो धवलगणडतलेषु ।
दन्तवाससि समानगुणश्रीः संमुखोऽपि परभागमवाप ।। १०.८६ ।।

सुभ्रुवामधिपयोधरपीठं पीडनैस्त्रुटितवत्यपि पत्युः ।
णुक्तमौक्तिकलघुगुणशेषा हारयष्चिरभवत्गुरुरेव ।। १०.८७ ।।

विश्रमार्थमुपगूढमजस्रं यत्प्रियैः प्रथमरत्यवसाने ।
योषितामुदितमन्मथमादौ तद्द्वितीयसुरतस्य बभूव ।। १०.८८ ।।

आस्तृतेऽभिनवपल्लवपुष्पैरप्यनारतरताभिरताभ्यः ।
दीयते स्म शयितुं शयनीये न क्षणः क्षणदयापि वधूभ्यः ।। १०.८९ ।।

योषितामतितरां नखलूनं गात्रमुज्जवलतया न खलूनं ।
क्षोभमाशु हृदयं नयदूनां रागवृद्धिमकरोन्न यदूनां ।। १०.९० ।।

इति मदमदनाभ्यां रागिणः स्पष्टरागननवरतरतश्रीसङ्गिनस्तानवेक्ष्य ।
अभजत परिवृत्तिं साथ पर्यस्तहस्ता रजनिरवनतेन्दुर्लज्जयाध्ॐउखीव ।। १०.९१ ।।