शिवपुराणम्/संहिता ५ (उमासंहिता)/अध्यायः ३५

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ३४ शिवपुराणम्/संहिता ५ (उमासंहिता)
अध्यायः ३५
वेदव्यासः
अध्यायः ३६ →

।। सूत उवाच ।।
विवस्वान्कश्यपाज्जज्ञे दाक्षायण्यां महाऋषेः ।।
तस्य भार्याऽभवत्संज्ञा त्वाष्ट्री देवी सुरेणुका ।। १ ।।
मुनेऽसहिष्णुना तेन तेजसा दुस्सहेन च ।।
भर्तृरूपेण नातुष्यद्रूप यौवनशालिनी ।। २ ।।
आदित्यस्य हि तद्रूपमसहिष्णुस्तु तेजसः ।।
दह्यमाना तदोद्वेगमकरोद्वरवर्णिनी ।। ३ ।।
ऋषेऽस्यां त्रीण्यपत्यानि जनयामास भास्करः ।।
संज्ञायां तु मनुः पूर्वं श्राद्धदेवः प्रजापतिः ।। ४ ।।
यमश्च यमुना चैव यमलौ संबभूवतुः ।।
एवं हि त्रीण्यपत्यानि तस्यां जातानि सूर्य्यतः ।। ५ ।।
संवर्तुलं तु तद्रूपं दृष्ट्वा संज्ञा विवस्वतः ।।
असहंती ततश्छायामात्मनस्साऽ सृजच्छुभाम् ।। ६ ।।
मायामयी तु सा संज्ञामवोचद्भक्तितश्शुभे ।।
किं करोमीह कार्य्यं ते कथयस्व शुचिस्मिते ।। ७ ।।
संज्ञोवाच ।।
अहं यास्यामि भद्रं ते ममैव भवनं पितुः ।।
त्वयैतद्भवने सत्यं वस्तव्यं निर्विकारतः ।। ८ ।।
इमौ मे बालकौ साधू कन्या चेयं सुमध्यमा ।।
पालनीयाः सुखेनैव मम चेदिच्छसि प्रियम्।। ९ ।।
छायोवाच ।।
आकेशग्रहणाद्देवि सहिष्येऽहं सुदुष्कृतम् ।।
नाख्यास्यामि मतं तुभ्यं गच्छ देवि यथासुखम् ।। 5.35.१० ।।
सूत उवाच ।।
इत्युक्ता साऽगमद्देवी व्रीडिता सन्निधौ पितुः ।।
पित्रा निर्भर्त्सिता तत्र नियुक्ता सा पुनः पुनः ।।११।।
अगच्छद्वडवा भूत्वाऽऽच्छाद्यरूपं ततस्त्वकम् ।।
कुरुंस्तदोत्तरान्प्राप्य नृणां मध्ये चचार ह ।। १२ ।।
संज्ञां तां तु रविर्मत्वा छायायां सुसुतं तदा ।।
जनयामास सावर्णिं मनुं वै सविता किल ।। १३ ।।
संज्ञाऽनु प्रार्थिता छाया सा स्वपुत्रेऽपि नित्यशः ।।
चकाराभ्यधिकं स्नेहं न तथा पूर्वजे सुते ।। १४ ।।
अनुजश्चाक्षमस्तत्तु यमस्तं नैव चक्षमे ।।
स सरोषस्तु बाल्याच्च भाविनोऽर्थस्य गौरवात् ।। १५ ।।
छायां संतर्जयामास यदा वैवस्वतो यमः ।।
तं शशाप ततः क्रोधाच्छाया तु कलुषीकृता ।। १६ ।।
चरणः पततामेष तवेति भृशरोषितः ।।
यमस्ततः पितुस्सर्वं प्रांजलिः प्रत्यवेदयत् ।। १७ ।।
भृशं शाप भयोद्विग्नस्संज्ञावाक्यैर्विचेष्टितः ।।
मात्रा स्नेहेन सर्वेषु वर्तितव्यं सुतेषु वै ।।१८।।
स्नेहमस्मास्वपाकृत्य कनीयांसं बिभर्ति सा।।
तस्मान्मयोद्यतः पादस्तद्भवान् क्षंतुमर्हति ।।१९।।
शप्तोहमस्मि देवेश जनन्या तपतांवर ।।
तव प्रसादाच्चरणो न पतेन्मम गोपते ।। 5.35.२० ।।
सवितोवाच ।।
असंशयं पुत्र महद्भविष्यत्यत्र कारणम् ।।
येन त्वामाविशत्क्रोधो धर्मज्ञं सत्यवादिनम् ।। २१ ।।
न शक्यते तन्मिथ्या वै कर्त्तुं मातृवचस्तव ।।
कृमयो मांसमादाय गमिष्यंति महीतले ।।२२।।
तद्वाक्यं भविता सत्यं त्वं च त्रातौ भविष्यसि ।।
कुरु तात न संदेहं मनश्चाश्वास्य स्वं प्रभो ।। २३ ।।
सूत उवाच ।।
इत्युक्त्वा तनयं सूर्यो यमसंज्ञं मुनीश्वर ।।
आदित्यश्चाब्रवीत्तान्त्तु छायां क्रोधसमन्वितः ।।२४।।
सूर्य उवाच ।।
हे प्रिये कुमते चंडि किं त्वयाऽऽचरितं किल।।
किं तु मेऽभ्यधिकः स्नेह एतदाख्यातुमर्हसि ।।२५।।
सूत उवाच ।।
सा रवेर्वचनं श्रुत्वा यथा तथ्यं न्यवेदयत् ।।
निर्दग्धा कामरविणा सांत्वयामास वै तदा ।। २६ ।।
छायोवाच।।
तवातितेजसा दग्धा इदं रूपं न शोभते ।।
असहंती च तत्संज्ञा वने वसति शाद्वले ।।२७।।
श्लाघ्या योगबलोपेता योगमासाद्य गोपते ।।
अनुकूलस्तु देवेश संदिश्यात्ममयं मतम् ।। २८ ।।
रूपं निवर्तयाम्यद्य तव कांतं करोम्यहम् ।।
सूत उवाच ।।
तच्छ्रुत्वाऽपगतः क्रोधो मार्तण्डस्य विवस्वतः ।।२९।।
भ्रमिमारोप्य तत्तेजः शातयामास वै मुनिः ।।
ततो विभ्राजितं रूप तेजसा संवृतेन च ।। 5.35.३० ।।
कृतं कांततरं रूपं त्वष्ट्रा तच्छुशुभे तदा ।।
ततोभियोगमास्थाय स्वां भार्य्यां हि ददर्श ह ।।३१।।
अधृष्यां सर्वभूतानां तेजसा नियमेन च ।।
सोऽश्वरूपं समास्थाय गत्वा तां मैथुनेच्छया।।३२।।
मैथुनाय विचेष्टंतीं परपुंसोभिशंकया ।।
मुखतो नासिकायां तु शुक्रं तत् व्यदधान्मुने ।।३३।।
देवौ ततः प्रजायेतामश्विनौ भिषजां वरौ ।।
नासत्यौ तौ च दस्रौ च स्मृतौ द्वावश्विनावपि ।।३४।।
तौ तु कांतेन रूपेण दर्शयामास भास्करः ।।
आत्मानं सा तु तं दृष्ट्वा प्रहृष्टा पतिमादरात् ।। ३५ ।।
पत्या तेन गृहं प्रायात्स्वं सती मुदितानना ।।
मुमुदातेऽथ तौ प्रीत्या दंपतो पूर्वतोधिकम् ।। ३६ ।।
यमस्तु कर्मणा तेन भृशं पीडितमानसः ।।
धर्मेण रंजयामास धर्मराज इमा प्रजाः ।। ३७ ।।
लेभे स कर्मणा तेन धर्मराजो महाद्युतिः ।।
पितॄणामाधिपत्यं च लोकपालत्वमेव च ।।३८।।
मनुः प्रजापतिस्त्वासीत्सावर्णिस्स तपोधनः ।।
भाव्यः स कर्मणा तेन मनोस्सावर्णिकेंतरे ।। ३९ ।।
मेरुपृष्ठे तपो घोरमद्यापि चरते प्रभुः ।।
यवीयसी तयोर्या तु यमी कन्या यशस्विनी ।। 5.35.४० ।।
अभवत्सा सरिच्छ्रेष्ठा यमुना लोकपा वनी ।।
मनुरित्युच्यते लोके सावर्णिरिति चोच्यते ।। ४१ ।।
य इदं जन्म देवानां शृणुयाद्धारयेत्तु वा ।।
आपदं प्राप्य मुच्येत प्राप्नुयात्सुमहद्यशः ।।४२।।
इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां मन्वन्तरकीर्तने वैवस्वतवर्णनं नाम पचत्रिंशोऽध्यायः।।३५।।