शिवपुराणम्/संहिता ५ (उमासंहिता)/अध्यायः ३३

विकिस्रोतः तः
← अध्यायः ३२ शिवपुराणम्/संहिता ५ (उमासंहिता)
अध्यायः ३३
वेदव्यासः
अध्यायः ३४ →

सूत उवाच ।।
एष मन्वन्तरे तात सर्गस्स्वारोचिषे स्मृतः ।।
वैवस्वते तु महति वारुणे वितते क्रतौ ।। १ ।।
जुह्वानस्य ब्रह्मणो वै प्रजासर्ग इहोच्यते ।।
पूर्वं यानथ ब्रह्मर्षीनुत्पन्नान्सप्त मानसान् ।। २ ।।
पुत्रान्वै कल्पयामास स्वयमेव पितामहः ।।
तेषां विरोधो देवानां दानवानां महानृषे ।। ३ ।।
दिति विनष्टपुत्रा तु कश्यपं समुपस्थिता ।।
स कश्यपः प्रसन्नात्मा सम्गयगाराधितस्तया ।।४।।
वरेणच्छंदयामास सा च वव्रे वरं तदा।।
पुत्रमिन्द्रवधार्थाय समर्थममितौजसम् ।। ५ ।।
स तस्यै च वरं प्रादात्प्रार्थितं सुमहातपाः ।।
ब्रह्मचर्य्यादिनियमं प्राह चैव शतं समाः ।। ६ ।।
धारयामास गर्भं तु शुचिस्सा वरवर्णिनी ।।
ब्रह्मचर्य्यादिनियमं दितिर्दध्रे तथैव वै ।। ७ ।।
ततस्त्वाधाय सोऽदित्यां गर्भं तं शंसितव्रतः ।।
जगाम कश्यपस्तप्तुं तपस्संहृष्टमानसः ।। ८ ।।
तस्याश्चैवांतरं प्रेप्सुस्सोऽभवत्पाकशासनः ।।
ऊनवर्षे शते चास्या ददर्शान्तरमेव सः।।९।।
अकृत्वा पादयोः शौचं दितिरर्वाक्शिरास्तदा ।।
निद्रामाहारयामास भाविनोऽर्थस्य गौरवात् ।। 5.33.१० ।।
एतस्मिन्नन्तरे शक्रस्तस्याः कुक्षिं प्रविश्य सः ।
वज्रपाणिस्तु तं गर्भं सप्तधा हि न्यकृन्तत ।। ११ ।।
स पाट्यमानो गर्भोऽथ वज्रेण प्ररुरोद ह ।।
रुदन्तं सप्तधैकैकं मारोदीरिति तान्पुनः ।।
चकर्त वज्रपाणिस्तान्नेव मम्रुस्तथापि ते ।। १२ ।।
ते तमूचुः पात्यमानास्सर्वे प्रांजलयो मुने ।।
नो जिघांससि किं शक्र भ्रातरो मरुतस्तव ।। १३ ।।
इंद्रेण स्वीकृतास्ते हि भ्रातृत्वे सर्व एव च ।।। ।
तत्यजुर्द्दैत्यभावं ते विप्रर्षे शंकरेच्छया।।१४।।
मरुतो नाम ते देवा बभूवुस्तु महाबलाः।।
खगा एकोनपंचाशत्सहाया वज्रपाणिनः।।१५।।। ।
तेषामेव प्रवृद्धानां हरिः प्रादात्प्रजापतिः ।।
क्रमशस्तानि राज्यानि पृथुपूर्वं शृणुष्व तत् ।। १६ ।।
अरिष्टपुरुषो वीरः कृष्णो जिष्णुः प्रजापतिः ।।
पर्जन्यस्तु धनाध्यक्षस्तस्य सर्वमिदं जगत् ।।१७।।
भूतसर्गमिमं सम्यगवोचं ते महामुने ।।
विभागं शृणु राज्यानां क्रमशस्तं ब्रुवेऽधुना ।। १८ ।।
अभिषिच्याधिराज्ये तु पृथुं वैन्यं पितामहः ।।
ततः क्रमेण राज्यानि व्यादेष्टुमुपचक्रमे ।। १९ ।।
द्विजानां वीरुधां चैव नक्षत्रग्रहयोस्तथा ।।
यज्ञानां तपसां चैव सोमं राज्येऽभ्यषेचयत्।।5.33.२०।।
अपां तु वरुणं राज्ये राज्ञां वैश्रवणं प्रभुम्।।
आदित्यानां तथा विष्णुं वसूनामथ पावकम् ।।२१।।
प्रजापतीनां दक्षं तु मरुतामथ वासवम् ।।
दैत्यानां दानवानां च प्रह्लादममितौजसम् ।।२२।।
वैवस्वतं पितॄणां च यमं राज्येऽभ्यषेचयत् ।।
मातॄणां च व्रतानां च मन्त्राणां च तथा गवाम् ।। २३ ।।
यक्षाणां राक्षसानां च पार्थिवानां तथैव च ।।
सर्वभूतपिशाचानां गिरिशं शूलपाणिनम् ।।२४।।
शैलानां हिमवन्तं च नदीनामथ सागरम् ।।
मृगाणामथ शार्दूलं गोवृषं तु गवामपि ।।२५।।
वनस्पतीनां वृक्षाणां वटं राज्येऽभ्यषेचयत् ।।
इति दत्तं प्रजेशेन राज्यं सर्वत्र वै क्रमात् ।। २६ ।।।
पूर्वस्यां दिशि पुत्रं तु वैराजस्य प्रजापतेः ।।
स्थापयामास सर्वात्मा राज्ये विश्वपतिर्विभुः ।।२७।।
तथैव मुनिशार्दूल कर्दमस्य प्रजापतेः ।।
दक्षिणस्यां तथा पुत्रं सुधन्वानमचीक्लृपत् ।।२८।।
पश्चिमायां दिशि तथा रजसः पुत्रमच्युतम्।।
केतुमन्तं महात्मानं राजानं व्यादिशत्प्रभुः ।। २९ ।।
तथा हिरण्यरोमाणं पर्जन्यस्य प्रजापतेः ।।
उदीच्यां दिशि राजानं दुर्धर्षं सोऽभ्यषेचयत् ।। 5.33.३० ।।
तस्य विस्तारमाख्यातं पृथोर्वेन्यस्य शौनक।।
महर्ध्ये तदधिष्ठानं पुराणे परिकीर्तितम्।।३१।।
इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां सर्गवर्णनं नाम त्रयस्त्रिंशत्तमोध्यायः ।।३३।।