शिवपुराणम्/संहिता ५ (उमासंहिता)/अध्यायः १८

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः १७ शिवपुराणम्/संहिता ५ (उमासंहिता)
अध्यायः १८
वेदव्यासः
अध्यायः १९ →

सनत्कुमार उवाच ।।
वक्ष्येऽहं भारतं वर्षं हिमाद्रेश्चैव दक्षिणे ।।
उत्तरे तु समुद्रस्य भारती यत्र संसृतिः ।।१।।
नवयोजनसाहस्रो विस्तारोऽस्य महामुने ।।
स्वर्गापवर्गयोः कर्मभूमिरेषा स्मृता बुधैः ।।२।।
यतस्संप्राप्यते पुंभिस्स्वर्गो नरक एव च ।।
भारतस्यापि वर्षस्य नव भेदान्ब्रवीमि ते ।। ३ ।।
इंद्रद्युम्नः कसेरुश्च ताम्रवर्णो गभस्तिमान् ।।
नागद्वीपस्तथा सौम्यो गन्धर्वस्त्वथ वारुणः ।। ४ ।।
अयं तु नवमस्तेषां द्वीपस्सागरसंभृतः ।।
योजनानां सहस्रं तु द्वीपोऽयं दक्षिणोत्तरः ।। ५ ।।
पूर्वे किराता यस्य स्युर्दक्षिणे यवनाः स्थिताः ।।
पश्चिमे च तथा ज्ञेया उत्तरे हि तपस्विनः ।। ६ ।।
ब्राह्मणाः क्षत्रिया वैश्या मध्ये शूद्राश्च भूयशः।।
इज्या युद्धपणा सेवा वर्तयन्तो व्यवस्थिताः ।।७।।
महेंद्रो मलयस्सह्यः सुदामा चर्क्षपर्वतः।।
विंध्यश्च पारियात्रश्च सप्तात्र कुलपर्वताः।८।
वेदस्मृतिपुराणाद्याः पारियात्रोद्भवा मुने।।
सर्वपापहरा ज्ञेया दर्शनात्स्पर्शनादपि।९।
नर्मदा सुरसाद्याश्च सप्तान्याश्च सहस्रशः।।
विंध्योद्भवा महानद्यस्सर्वपापहराश्शुभाः।5.18.१०।
गोदावरी भीमरथी तापीप्रमुखनिम्नगाः।।
गिरेर्विनिर्गता ऋक्षात्सद्यः पापभयापहाः ।।११।।
सह्यपादोद्भवा नद्यः कृष्णावेण्यादिकास्तथा ।।
कृतमाला ताम्रपर्णी प्रमुखा मलयोद्भवाः ।।१२।।
त्रियामा चर्षिकुल्याद्या महेन्द्रप्रभवा स्मृताः ।।
ऋषिकुल्या कुमार्य्याद्याः शुक्तिमत्पादसंभवाः।।१३।।
नानाजनपदास्तेषु मंडलेषु वसन्ति वै ।।
आसां पिबंति पानीयं सरत्सु विविधेषु च।।१४।।
चत्वारि भारते वर्षे युगान्यासन्महामुने ।।
कृतादीनि न चान्येषु द्वीपेषु प्रभवंति हि।।१५।।
दानानि चात्र दीयंते सुकृतैश्चात्र याज्ञिकैः ।।
तपस्तपंति यतयः परलोकार्थमादरात् ।।१६।।
यतो हि कर्मभूरेषा जम्बूद्वीपे महामुने ।।
अत्रापि भारतं श्रेष्ठमतोऽन्या भोगभूमयः ।।१७।।
कदाचिल्लभते मर्त्यस्सहस्रैर्मुनिसत्तम ।।
अत्र जन्मसहस्राणां मानुष्यं पुण्यसंचयैः ।।१८।।।
स्वर्गापवर्गास्पदमार्गभूते धन्यास्तु ते भारतभूमिभागे ।।
गायंति देवाः किल गीतकानि भवंति भूयः पुरुषास्सुरास्ते।।१९।।
अवाप्य मानुष्यमयं कदाचिद्विहृत्य शंभोः परमात्मरूपे ।।
फलानि सर्वाणि तु कर्मजानि यास्याम्यहं तत्तनुतां हि तस्य।।5.18.२०।।
आप्स्यंति धन्याः खलु ते मनुष्याः सुखैर्युताः कर्मणि सन्निविष्टाः ।।
जनुर्हि येषां खलु भारतेऽस्ति ते स्वर्गमोक्षोभयलाभवन्तः।।२१।।
लक्षयोजनविस्तारस्समस्तपरिमण्डलः ।।
जम्बूद्वीपो मया ख्यातः क्षारोदधिसुसंवृतः ।।२२।।
संवेष्ट्य क्षारमुदधिं शतसाहस्रसम्मितम् ।।
ततो हि द्विगुणो ब्रह्मन्प्लक्षद्वीपः प्रकीर्तितः ।।२३।।
गोमंतश्चैव चन्द्रश्च नारदो दर्दुरस्तथा ।।
सोमकस्सुमनाश्शैलो वैभ्राजश्चैव सत्तमः ।।२४।।
वर्षाचलेषु रम्येषु सहितास्सततं प्रजाः ।।
वसंति देवगंधर्वा वर्षेष्वेतेषु नित्यशः ।।२५।।
नाधयो व्याधयो वापि जनानां तत्र कुत्रचित् ।।
दश वर्षसहस्राणि तत्र जीवंति मानवाः ।।२६ ।।
अनुतप्ता शिखी चैव पापघ्नी त्रिदिवा कृपा ।।
अमृता सुकृता चैव सप्तैवात्र च निम्नगाः ।। २७ ।।
क्षुद्रनद्यस्तथा शैलास्तत्र संति सहस्रशः ।।
ताः पिबंति सुसंहृष्टा नदीर्जनपदास्तु ते ।। २८ ।।।
न तत्रापि युगावस्था यथास्थानेषु सप्तसु ।।
त्रेतायुगसमः कालस्सर्वदैव महामुने ।।२९।।
विप्रक्षत्रियवैश्यास्ते शूद्राश्च मुनिसत्तम ।।।
कल्पवृक्षसमानस्तु तन्मध्ये सुमहातरुः ।। 5.18.३० ।।
प्लक्षस्तन्नामसंज्ञो वै प्लक्षद्वीपो द्विजोत्तम ।।
इज्यते तत्र भगवाञ्छंकरो लोकशंकरः ।।३१।।
हरिश्च भगवान्ब्रह्मा यन्त्रैर्मन्त्रैश्च वैदिकैः।।
संक्षेपेण तथा भूयश्शाल्मलिं त्वं निशामय ।। ३२ ।।
सप्तवर्षाणि तत्रैव तेषां नामानि मे शृणु ।।
श्वेतोऽथ हरितश्चैव जीमूतो रोहितस्तथा ।। ३३ ।।
वैकलो मानसश्चैव सुप्रभस्सप्तमो मुने ।।
शाल्मलेन तु वृक्षेण द्वीपः शाल्मलिसंज्ञकः ।। ३४ ।।
द्विगुणेन समुद्रेण सततं संवृतः स्थितः ।।
वर्षाभिव्यंजका नद्यस्तासां नामानि मे शृणु ।। ३५ ।।
शुक्ला रक्ता हिरण्या च चन्द्रा शुभ्रा विमोचना ।।
निवृत्तिः सप्तमी तासां पुण्यतोया सुशीतलाः ।। ३६ ।।
सप्तैव तानि वर्षाणि चतुर्वर्णायुतानि च ।।
भगवन्तं सदा शंभुं यजंते विविधैर्मखैः ।। ३७ ।।
देवानां तत्र सान्निध्यमतीव सुमनोरमे ।।
एष द्वीपस्समुद्रेण सुरोदेन समावृतः ।। ३८ ।।
द्विगुणेन कुशद्वीपः समंताद्बाह्यतः स्थितः ।।
वसंति तत्र दैतेया मनुजैस्सह दानवाः ।। ३९ ।।
तथैव देवगन्धर्वा यक्षाः किंपुरुषादयः ।।
वर्णास्तत्रैव चत्वारो निजानुष्ठानतत्पराः ।। 5.18.४० ।।
तत्रैव च कुशद्वीपे ब्रह्माणं च जनार्द्दनम् ।।
यजंति च तथेशानं सर्वकामफलप्रदम् ।। ४१ ।।
कुशेशयो हरिश्चैव द्युतिमान्पुष्पवांस्तथा ।।
मणिद्रुमो हेमशैलस्सप्तमो मन्दराचलः ।। ४२ ।।
नद्यश्च सप्त तासां तु नामानि शृणु तत्त्वतः ।।
धूतपापा शिवा चैव पवित्रा संमितिस्तथा ।। ४३ ।।
विद्या दंभा मही चान्या सर्वपापहरास्त्विमाः ।।
अन्यास्सहस्रशस्संति शुभापो हेमवालुकाः ।। ४४ ।।
कुशद्वीपे कुशस्तम्बो घृतोदेन समावृतः ।।
क्रौञ्चद्वीपो महाभाग श्रूयतां चापरो महान् ।। ४५ ।।
द्विगुणेन समुद्रेण दधिमंडेन चावृतः ।।
वर्षाचला महाबुद्धे तेषां नामानि मे शृणु ।। ४६ ।।
क्रौञ्चश्च वामनश्चैव तृतीयश्चांधकारकः ।।
दिवावृतिर्मनश्चैव पुण्डरीकश्च दुन्दुभिः ।। ४७ ।।
निवसंति निरातंका वर्षशैलेषु तेषु वै ।।
सर्वसौवर्णरम्येषु सुहृद्देवगणैः प्रजाः ।। ४८ ।।
ब्राह्मणाः क्षत्त्रिया वैश्याश्शूद्राश्चानुक्रमोदिताः ।।
संति तत्र महानद्यस्सप्तान्यास्तु सहस्रशः ।।४९।।
गौरी कुमुद्वती चैव सन्ध्या रात्रिर्मनोजवा ।।
शांतिश्च पुंडरीका च याः पिबन्ति पयश्शुभम् ।।5.18.५०।।
भगवान्पूज्यते तत्र योगरुद्रस्वरूपवान् ।।
दधिमण्डोदकश्चापि शाकद्वीपेन संवृतः।।५१।।
द्विगुणेनाद्रयस्सप्त तेषां नामानि मे शृणु।।
पूर्वे तत्रोदयगिरिर्जलधारः परे यतः ।। ५२ ।।
पृष्ठतोऽस्तगिरिश्चैव ह्यविकेशश्च केसरी ।।
शाकस्तत्र महावृक्षस्सिद्धगंधर्वसेवितः ।।५३।।
तत्र पुण्या जनपदाश्चातुर्वर्ण्यसमन्विताः ।।
नद्यश्चात्र महापुण्यास्सर्वपापभयापहाः ।।५४।।
सुकुमारी कुमारी च नलिनी वेणुका तथा ।।
इक्षुश्च रेणुका चैव गभस्तिस्सप्तमी तथा ।।५५।।
अन्यास्सहस्रशस्तत्र क्षुद्रनद्यो महामुने ।।
महीधरास्तथा संति शतशोऽथ सहस्रशः ।। ५६ ।।
धर्महानिर्न तेष्वस्ति स्वर्गादागत्य मानवाः ।।
वर्षेषु तेषु पृथिवीं विहरन्ति परस्परम् ।।५७।।
शाकद्वीपे तु वै सूर्य्यः प्रीत्या जनपदैस्सदा ।।
यथोक्तैरिज्यते सम्यक्कर्मभिर्नियतात्मभिः ।। ५८ ।।
क्षीरोदेनावृतस्सोऽपि द्विगुणेन समंततः ।।
क्षीराब्धिस्सर्वतो व्यास पुष्कराख्येन संवृतः ।। ५९ ।।
द्विगुणेन महावर्षस्तत्र ख्यातोऽत्र मानसः।।
योजनानां सहस्राणि पंचैवोर्ध्वसमुच्छ्रितः ।। 5.18.६० ।।
तानि चैव तु लक्षाणि सर्वतो वलयाकृति।।
पुष्करद्वीपवलयो मध्येन विभजंति च।।६१।
तेनैव वलया कारा द्वीपवर्षसमाकृतिः।।
दशवर्षसहस्राणि तत्र जीवंति मानवाः।।६२।।
निरामया वीतशोका रागद्वेषविवर्जिताः।।
अधर्मो न मतस्तेषां न बंधवधकौ मुने ।। ६३ ।।
सत्यानृते न तस्यास्तां सदैव वसतिस्सदा ।।
तुल्यवेषास्तु मनुजा हेमवर्णैकरूपिणः ।। ६४ ।।
वर्षश्चायं तु कालेय भौम स्वर्गोपमो मतः ।।
सर्वस्य सुखदः काले जरारोगविवर्जितः ।। ६५ ।।
पुष्करे धातकीखण्डे महावीते महामुने ।।।
न्यग्रोधं पुष्करद्वीपे ब्रह्मणः स्थानमुत्तमम् ।।६६।।
तस्मिन्निवसते ब्रह्मा पूज्यमानस्सुरासुरैः।।
स्वादूदकेनांबुधिना पुष्करः परिवेष्टितः।। ।। ६७ ।।
एवं द्वीपास्समुद्रैस्तु सप्त सप्तभिरावृताः ।।
द्वीपाश्चैव समुद्राश्च समाना द्विगुणैः परैः ।। ६८ ।।
उक्तातिरिक्तता तेषां समुद्रेषु समानि वै ।।
पयांसि सर्वदाऽल्पत्वं जायते न कदाचन।६९।।
स्थालीस्थमग्निसंयोगादधःस्थं मुनिसत्तमः ।।
तथेन्दुवृद्धौ सलिलमूर्द्ध्वगं भवति ध्रुवम् ।।5.18.७०।।
उदयास्तमनेत्विंदोर्वर्द्धंत्यापो ह्रसन्ति च ।।
अतो न्यूनातिरिक्ताश्च पक्षयोः शुक्लकृष्णयोः ।। ७१ ।।
अपां वृद्धिक्षयौ दृष्टौ शतशस्तु दशोत्तरम्।।
समुद्राणां मुनिश्रेष्ठो सर्वेषां कथितं तव।।७२।।
भोजनं पुष्करद्वीपे प्रजास्सर्वाः सदैव हि ।।
खंडस्य कुर्वते विप्र तत्र स्वयमुपस्थितम् ।।७३।।
स्वांगदो यस्य पुरतो नास्ति लोकस्य संस्थितिः।।
द्विगुणा हिरण्मयी भूमिस्सर्वजंतुविवर्जिता।।७४।।
लोकालोकस्ततश्शैलस्सहस्राण्यचलो हि सः।।
उच्छ्रयेण हि तावंति योजनायुतविस्तृतः ।।७५।।।
तमश्चांडकटाहेन सेयमुर्वी महामुने ।।
पंचाशत्कोटिविस्तारा सद्वीपा समहीधरा ।।७६।।
आधारभूता सर्वेषां सर्वभूतगुणाधिका।।
सेयं धात्री च कालेय सर्वेषां जगतामिला।।७७।।
इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां ब्रह्माण्डकथने सप्तदीपवर्णनं नामाष्टादशोऽध्यायः।।१८।।