शिवपुराणम्/संहिता ५ (उमासंहिता)/अध्यायः १७

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः १६ शिवपुराणम्/संहिता ५ (उमासंहिता)
अध्यायः १७
वेदव्यासः
अध्यायः १८ →

सनत्कुमार उवाच ।।
पाराशर्य्य सुसंक्षेपाच्छृणु त्वं वदतो मम ।।
मण्डलं च भुवस्सम्यक् सप्तद्वीपादिसंयुतम् ।। १ ।।
जंबू प्लक्षश्शाल्मलिश्च कुशः क्रौञ्चश्च शाककः ।।
पुष्पकस्सप्तमस्सर्वे समुद्रैस्सप्तभिर्वृताः ।। २ ।।
लवणेक्षुरसौ सर्पिर्दविदुग्धजलाशयाः।।
जम्बुद्वीपस्समस्तानामेतेषां मध्यतः स्थितः ।। ३ ।।
तस्यापि मेरुः कालेयमध्ये कनकपर्वतः ।।
प्रविष्टः षोडशाधस्ताद्योजनैस्तस्य चोच्छ्रयः ।।४।।
चतुरशीतिमानैस्तैर्द्वात्रिंशन्मूर्ध्नि विस्तृतः ।।
भूमिपृष्ठस्थशैलोऽयं विस्तरस्तस्य सर्वतः ।।५।।
मूले षोडशसाहस्रः कर्णिकाकार संस्थितः ।।
हिमवान् हेमकूटश्च निषधश्चास्य दक्षिणे ।।६।।
नीलः श्वेतश्च शृङ्गी च उत्तरे वर्षपर्वताः ।।
दशसाहस्रिकं ह्येते रत्नवंतोऽरुणप्रभाः ।।७।।
सहस्रयोजनोत्सेधास्तावद्विस्तारिणश्च ते।।
भारतं प्रथमं वर्षं ततः किंपुरुषं स्मृतम्।।८।।
हरिवर्षं ततो ऽन्यद्वै मेरोर्दक्षिणतो मुने ।।
रम्यकं चोत्तरे पार्श्वे तस्यांशे तु हिरण्मयम्।।९।।
उत्तरे कुरवश्चैव यथा वै भारतं तथा।।
नवसाहस्रमेकैकमेतेषां मुनिसत्तम ।। 5.17.१० ।।
इलावृतं तु तन्मध्ये तन्मध्ये मेरुरुच्छ्रितः ।।
मेरोश्चतुर्द्दिशं तत्र नवसाहस्रमुच्छ्रितम् ।। ११ ।।
इलावृतमृषिश्रेष्ठ चत्वारश्चात्र पर्वताः ।।
विष्कंभा रचिता मेरोर्योजिताः पुनरुच्छ्रिताः ।। १२ ।।
पूर्वे हि मन्दरो नाम दक्षिणे गन्धमादनः ।।
विपुलः पश्चिमे भागे सुपार्श्वश्चोत्तरे स्थितः ।।१३।।
कदंबो जंबुवृक्षश्च पिप्पलो वट एव च ।।
एकादशशतायामाः पादपा गिरिकेतवः ।। १४ ।।
जम्बूद्वीपस्य नाम्नो वै हेतुं शृणु महामुने ।।
विराजंते महावृक्षास्तत्स्वभावं वदामि ते ।। १५ ।।
महागज प्रमाणानि जम्ब्वास्तस्याः फलानि च ।।
पतंति भूभृतः पृष्ठे शीर्य्यमाणानि सर्वतः ।। १६ ।।
रसेन तेषां विख्याता जम्बूनदीति वै ।।
परितो वर्तते तत्र पीयते तन्निवासिभिः ।। १७ ।।
न स्वेदो न च दौर्गंध्यं न जरा चेन्द्रियग्रहः ।।
तस्यास्तटे स्थितानान्तु जनानां तन्न जायते ।।१८।।
तीरमृत्स्नां च सम्प्राप्य मुखवायुविशोषिताम् ।।
जाम्बूनदाख्यं भवति सुवर्णं सिद्धभूषणम्।। १९ ।।
भद्राश्वं पूर्वतो मेरोः केतुमालं च पश्चिमे ।।
वर्षे द्वे तु मुनिश्रेष्ठ तयोर्मध्य इलावृतम् ।। 5.17.२० ।।
वनं चैत्ररथं पूर्वे दक्षिणे गन्धमादनः ।।
विभ्राजं पश्चिमे तद्वदुत्तरे नन्दनं स्मृतम् ।। २१ ।।
अरुणोदं महाभद्रं शीतोदं मानसं स्मृतम् ।।
सरांस्येतानि चत्वारि देवभोग्यानि सर्वशः ।। २२ ।।
शीतांजनः कुरुंगश्च कुररो माल्यवांस्तथा ।।
चैकैकप्रमुखा मेरोः पूर्वतः केसराचलाः।।२३।।
त्रिकूटश्शिशिरश्चैव पतंगो रुचकस्तथा।।
निषधः कपिलायाश्च दक्षिणे केसराचलाः।।२४।।
सिनी वासः कुसुंभश्च कपिलो नारदस्तथा ।।
नागादयश्च गिरयः पश्चिमे केसराचलाः।२५।।
शंखचूडोऽथ ऋषभो हंसो नाम महीधरः।।
कालंजराद्याश्च तथा उत्तरे केसराचलाः।।२६।।
मेरोरुपरि मध्ये हि शातकौंभं विधेः पुरम्।।
चतुर्द्दशसहस्राणि योजनानि च संख्यया ।।२७।।
अष्टानां लोकपालानां परितस्तदनुक्रमात्।।
यथादिशं यथारूपं पुरोऽष्टावुपकल्पिताः ।। २८ ।।
तस्यां च ब्रह्मणः पुर्य्यां पातयित्वेन्दुमण्डलम् ।।
विष्णुपादविनिष्क्रांता गंगा पतति वै नदी ।। २९ ।।
सीता चालकनंदा च चक्षुर्भद्रा च वै क्रमात् ।।
सा तत्र पतिता दिक्षु चतुर्द्धा प्रत्यपद्यत ।। 5.17.३० ।।
सीता पूर्वेण शैलं हि नन्दा चैव तु दक्षिणे ।।
सा चक्षुः पश्चिमे चैव भद्रा चोत्तरतो व्रजेत् ।। ३१ ।।
गिरीनतीत्य सकलांश्चतुर्द्दिक्षु महांबुधिम् ।।
सा ययौ प्रयता सूता गंगा त्रिपथगामिनी ।। ३२ ।।
सुनीलनिषधौ यौ तौ माल्यवद्गन्धमादनौ ।।
तेषां मध्यगतो मेरुः कर्णिकाकारसंस्थितः ।। ३३ ।।
भारतः केतुमालश्च भद्राश्वः कुरवस्तथा ।।
पत्राणि लोकपद्मस्य मर्यादालोकपर्वताः ।।३४।।
जठरं देवकूटश्च आयामे दक्षिणोत्तरे ।।
गन्धमादनकैलासौ पूर्वपश्चिमतो गतौ ।। ३५ ।।
पूर्वपश्चिमतो मेरोर्निषधो नीलपर्वतः ।।
दक्षिणोत्तरमायातौ कर्णिकांतर्व्यवस्थितौ ।। ३६ ।।
जठराद्याः स्थिता मेरोर्येषां द्वौ द्वौ व्यवस्थितौ ।।
केसराः पर्वता एते श्वेताद्याः सुमनोरमाः ।।३७।।
शैलानामुत्तरे द्रोण्यस्सिद्धचारणसेविताः।।
सुरम्याणि तथा तासु काननानि पुराणि च ।।३८।।
सर्वेषां चैव देवानां यक्षगंधर्वरक्षसाम् ।।
क्रीडंति देवदैतेयाश्शैलप्रायेष्वहर्निशम् ।। ३९ ।।
धर्मिणामालया ह्येते भौमास्स्वर्गाः प्रकीर्तिताः ।।
न तेषु पापकर्तारो यांति पश्यंति कुत्रचित् ।। 5.17.४० ।।
यानि किंपुरुषादीनि वर्षाण्यष्टौ महामुने ।।
न तेषु शोको नापत्त्यो नोद्वेगः क्षुद्भयादिकम् ।। ४१ ।।
स्वस्थाः प्रजा निरातंकास्सर्वदुःखविवर्जिताः ।।
दशद्वादशवर्षाणां सहस्राणि स्थिरायुषः ।। ४२ ।।
कृतत्रेतादिकाश्चैव भौमान्यंभांसि सर्वतः ।।
न तेषु वर्षते देवस्तेषु स्थानेषु कल्पना ।। ४३ ।।
सप्तस्वेतेषु नद्यश्च सुजातास्स्वर्णवा लुकाः ।।
शतशस्संति क्षुद्राश्च तासु क्रीडारता जनाः ।।४४।।
इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां ब्रह्माण्डकथने जम्बूद्वीपवर्षवर्णनं नाम सप्तदशोध्यायः ।। १७ ।।