शिवपुराणम्/संहिता ४ (कोटिरुद्रसंहिता)/अध्यायः ३३

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ३२ शिवपुराणम्/संहिता ४ (कोटिरुद्रसंहिता)
अध्यायः ३३
वेदव्यासः
अध्यायः ३४ →

सूत उवाच ।।
पुत्रं दृष्ट्वा कनिष्ठाया ज्येष्ठा दुःखमुपागता ।।
विरोधं सा चकाराशु न सहंती च तत्सुखम् ।। १ ।।
सर्वे पुत्रप्रसूतिं तां प्रशशंसुर्निरन्तरम् ।।
तया तत्सह्यते न स्म शिशो रूपादिकं तथा ।।२।।
सुप्रियं तनयं तं च पित्रोस्सद्गुणभाजनम् ।।
दृष्ट्वाऽभवत्तदा तस्या हृदयं तप्तमग्निवत् ।।३।।
एतस्मिन्नंतरे विप्राः कन्यां दातुं समागताः ।।
विवाहं तस्य तत्रैव चकार विधिवच्च सः ।।४।।
सुधर्मा घुश्मया सार्द्धमानन्दं परमं गतः ।।
सर्वे संबंधिनस्तस्यां घुश्मायां मानमादधुः ।।५।।
तं दृष्ट्वा सा सुदेहा हि मनसि ज्वलिता तदा ।।
अत्यन्तं दुःखमापन्ना हा हतास्मीति वादिनी ।।६।।
सुधर्म्मा गृहमागत्य वधूं पुत्रं विवाहितम् ।।
उत्साहं दर्शयामास प्रियाभ्यां हर्षयन्निव ।। ७ ।।
अभवद्धर्षिता घुष्मा सुदेहा दुःखमागता ।।
न सहंती सुखं तच्च दुःखं कृत्वापतद्भुवि ।।८।।
घुश्माऽवदद्वधूपुत्रौ त्वदीयौ न मदीयकौ ।।
वधूः पुत्रश्च तां प्रीत्या प्रसूं श्वश्रममन्यत ।। ९ ।।
भर्त्ता प्रियां तां ज्येष्ठां च मेने नैव कनिष्ठिकाम् ।।
तथापि सा तदा ज्येष्ठा स्वान्तर्मलवती ह्यभूत् ।। 4.33.१० ।।
एकस्मिन्दिवसे ज्येष्ठा सा सुदेहा च दुःखिनी ।।
हृदये संचिचिन्तेति दुःखशांतिः कथं भवेत् ।। ११ ।।
सुदेहोवाच ।।
मदीयो हृदयाग्निश्च घुश्मानेत्रजलेन वै ।।
भविष्यति ध्रुवं शांतो नान्यथा दुःखजेन हि ।। १२ ।।
अतोऽहं मारयाम्यद्य तत्पुत्रं प्रियवादिनम् ।।
अग्रे भावि भवेदेवं निश्चयः परमो मम ।।१३।।
सूत उवाच ।।
कदर्य्याणां विचारश्च कृत्याकृत्ये भवेन्नहि।।
कठोरः प्रायशो विप्राः सापत्नो भाव आत्महा ।। १४ ।।
एकस्मिन्दिवसे ज्येष्ठा सुप्तं पुत्रं वधूयुतम् ।।
चिच्छिदे निशि चांगेषु गृहीत्वा छुरिकां च सा ।। १५ ।।
सर्वांगं खण्डयामास रात्रौ घुश्मासुतस्य सा ।।
नीत्वा सरसि तत्रैवाक्षिपद्दृप्ता महाबला ।। १६ ।।
यत्र क्षिप्तानि लिंगानि घुश्मया नित्यमेव हि।।
तत्र क्षिप्त्वा समायाता सुष्वाप सुखमागता।।१७।।
प्रातश्चैव समुत्थाय घुश्मा नित्यं तथाकरोत्।।।
सुधर्मा च स्वयं श्रेष्ठो नित्यकर्म समाचरत् ।।१८।।
एतस्मिन्नंतरे सा च ज्येष्ठा कार्यं गृहस्य वै ।।
चकारानन्दसंयुक्ता सुशांतहृदयानला।।१९।।
प्रातःकाले समुत्थाय वधूश्शय्यां विलोक्य सा।।
रुधिरार्द्रां देहखंडैर्युक्तां दुःखमुपागता ।।4.33.२०।।
श्वश्रूं निवेदयामास पुत्रस्ते च कुतो गतः।।
शय्या च रुधिरार्द्रा वै दृश्यंते देहखंडकाः।।२१।।
हा हतास्मि कृतं केन दुष्टं कर्म शुचिव्रते।।
इत्युच्चार्य रुरोदातिविविधं तत्प्रिया च सा।।२२।।
ज्येष्ठा दुःखं तदापन्ना हा हतास्मि किलेति च ।।
बहिर्दुःखं चकारासौ मनसा हर्षसंयुता।।२३।।
घुश्मा चापि तदा तस्या वध्वा दुखं निशम्य सा।।
न चचाल व्रतात्तस्मान्नित्यपार्थिवपूजनात्।।२४।।
मनश्चैवोत्सुकं नैव जातं तस्या मनागपि।।
भर्तापि च तथैवासीद्यावद्व्रतविधिर्भवेत्।।२५।।
मध्याह्ने पूजनांते च दृष्ट्वा शय्यां भयावहाम्।।
तथापि न तदा किञ्चित्कृतं दुःखं हि घुश्मया।।२६।।
येनैव चार्पितश्चायं स वै रक्षां करिष्यति ।।
भक्तप्रियस्स विख्यातः कालकालस्सतां गतिः ।। २७ ।।
यदि नो रक्षिता शंभुरीश्वरः प्रभुरेकलः ।।
मालाकार इवासौ यान्युङ्क्ते तान्वियुनक्ति च ।। २८ ।।
अद्य मे चिंतया किं स्यादिति तत्त्वं विचार्य सा ।।
न चकार तदा दुःखं शिवे धैर्यं समागता ।।२९।।
पार्थिवांश्च गृहीत्वा सा पूर्ववत्स्वस्थमानसा ।।
शंभोर्नामान्युच्चरंती जगाम सरसस्तटे ।। 4.33.३० ।।।
क्षिप्त्वा च पार्थिवांस्तत्र परावर्त्तत सा यदा ।।
तदा पुत्रस्तडागस्थो दृश्यते स्म तटे तया।।३१।।
पुत्र उवाच ।।
मातरेहि मिलिष्यामि मृतोऽहं जीवितोऽधुना ।।
तव पुण्यप्रभावाद्धि कृपया शंकरस्य वै ।। ३२ ।।
।। सूत उवाच ।।
जीवितं तं सुतं दृष्ट्वा घुष्मा सा तत्प्रसूर्द्विजाः ।।
प्रहृष्ट्वा नाभवत्तत्र दुःखिता न यथा पुरा ।। ३३ ।।
एतस्मिन्समये तत्र स्वाविरासीच्छिवो द्रुतम् ।।
ज्योतिरूपो महेशश्च संतुष्टः प्रत्युवाच ह ।।३४।।
शिव उवाच ।।
प्रसन्नोऽस्मि वरं ब्रूहि दुष्टया मारितो ह्ययम् ।।
एनां च मारयिष्यामि त्रिशूलेन वरानने ।। ३५ ।।
।। सूत उवाच ।।
पुरा तदा वरं वव्रे सुप्रणम्य शिवं नता ।।
रक्षणीया त्वया नाथ सुदेहेयं स्वसा मम ।। ३६ ।।
शिव उवाच ।।
अपकारः कृतस्तस्यामुपकारः कथं त्वया ।।
क्रियते हननीया च सुदेहा दुष्टकारिणी ।। ३७ ।।
घुश्मोवाच ।।
तव दर्शनमात्रेण पातकं नैव तिष्ठति ।।
इदानीं त्वां च वै दृष्ट्वा तत्पापं भस्मतां व्रजेत् ।।३८।।
अपकारेषु यश्चैव ह्युपकारं करोति च ।।
तस्य दर्शनमात्रेण पापं दूरतरं व्रजेत् ।।३९।।
इति श्रुतं मया देव भगवद्वाक्यमद्भुतम् ।।
तस्माच्चैवं कृतं येन क्रियतां च सदाशिव ।।4.33.४०।।
सूत उवाच ।।
इत्युक्तस्तु तया तत्र प्रसन्नोऽत्यभवत्पुनः ।।
महेश्वरः कृपासिंधुः समूचे भक्तवत्सलः।।४१।।
शिव उवाच।।
अन्यद्वरं ब्रूहि घुश्मे ददामि च हितं तव ।।
त्वद्भक्त्या सुप्रसन्नोऽस्मि निर्विकारस्वभावतः ।। ४२ ।।
सूत उवाच ।।
सोवाच तद्वचश्श्रुत्वा यदि देयो वरस्त्वया ।।
लोकानां चैव रक्षार्थमत्र स्थेयं मदाख्यया ।।४३।।
तदोवाच शिवस्तत्र सुप्रसन्नो महेश्वरः ।।
स्थास्येऽत्र तव नाम्नाहं घुश्मेशाख्यस्सुखप्रदः ।। ४४ ।।
घुश्मेशाख्यं सुप्रसिद्धं लिंगं मे जायतां शुभम् ।।
इदं सरस्तु लिंगानामालयं जायतां सदा ।। ४५ ।।
तस्माच्छिवालयं नाम प्रसिद्धं भुवनत्रये ।।
सर्वकामप्रदं ह्येतद्दर्शनात्स्यात्सदा सरः ।।४६।।
तव वंशे शतं चैकं पुरुषावधि सुव्रते ।।
ईदृशाः पुत्रकाः श्रेष्ठा भविष्यंति न संशयः ।। ४७ ।।
सुस्त्रीकास्सुधनाश्चैव स्वायुष्याश्च विचक्षणाः ।।
विद्यावंतो ह्युदाराश्च भुक्तिमुक्तिफलाप्तये ।।४८।।
शतमेकोत्तरं चैव भविष्यंति गुणाधिकाः ।।
ईदृशो वंशविस्तारो भविष्यति सुशोभनः ।।४९।।
सूत उवाच ।।
इत्युक्त्वा च शिवस्तत्र लिंगरूपोऽभवत्तदा ।।
घुश्मेशो नाम विख्यातः सरश्चैव शिवालयम् ।। 4.33.५० ।।
सुधर्मा स च घुश्मा च सुदेहा च समागताः ।।
प्रदक्षिणं शिवस्याशु शतमेकोत्तरं दधुः ।। ५१ ।।
पूजां कृत्वा महेशस्य मिलित्वा च परस्परम् ।।
हित्वा चांतर्मलं तत्र लेभिरे परमं सुखम् ।। ५२ ।।
पुत्रं दृष्ट्वा सुदेहा सा जीवितं लज्जिताभवत् ।।
तौ क्षमाप्याचरद्विप्रा निजपापापहं व्रतम् ।। ५३ ।।
घुश्मेशाख्यमिदं लिंगमित्थं जातं मुनीश्वराः ।।
तं दृष्ट्वा पूजयित्वा हि सुखं संवर्द्धते सदा ।। ५४ ।।
इति वश्च समाख्याता ज्योतिर्लिंगावली मया ।।
द्वादशप्रमिता सर्वकामदा भुक्ति मुक्तिदा ।। ५५ ।।
एतज्ज्योतिर्लिंगकथां यः पठेच्छृणुयादपि ।।
मुच्यते सर्वपापेभ्यो भुक्तिं मुक्तिं च विंदति ।। ५६ ।।
इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसहितायां धुश्मेशज्योतिर्लिंगोत्पत्तिमाहात्म्यवर्णनं नाम त्रयस्त्रिंशोऽध्यायः ।। ३३ ।।

इति द्वादशज्योतिर्लिंगमाहात्म्यं समाप्तम् ।।