शिवपुराणम्/संहिता ४ (कोटिरुद्रसंहिता)/अध्यायः ३२

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ३१ शिवपुराणम्/संहिता ४ (कोटिरुद्रसंहिता)
अध्यायः ३२
वेदव्यासः
अध्यायः ३३ →

।। सूत उवाच ।।
अतः परं च घुश्मेशं ज्योतिर्लिंगमुदाहृतम्।।
तस्यैव च सुमाहात्म्यं श्रूयतामृषिसत्तमः ।।१।।
दक्षिणस्यां दिशि श्रेष्ठो गिरिर्देवेति संज्ञकः ।।
महाशोभान्वितो नित्यं राजतेऽद्भुत दर्शनः ।। २ ।।
तस्यैव निकटे कश्चिद्भारद्वाजकुलोद्भवः ।।
सुधर्मा नाम विप्रश्च न्यवसद्ब्रह्मवित्तमः ।। ३ ।।
तस्य प्रिया सुदेहा च शिवधर्मपरायणः ।।
पतिसेवापरा नित्यं गृहकर्मविचक्षणा ।।४।।
सुधर्मा च द्विजश्रेष्ठो देवतातिथिपूजकः ।।
वेदमार्गपरो नित्यमग्नि सेवापरायणः ।।५।।
त्रिकालसंध्यया युक्तस्सूर्य्यरूपसमद्युतिः ।।
शिष्याणां पाठकश्चैव वेदशास्त्रविचक्षणः ।।६।।
धनवांश्च परो दाता सौजन्यगुणभाजनः ।।
शिवकर्मरतो नित्यं शैवश्शैवजनप्रियः ।। ।।७।।
आयुर्बहु व्यतीयाय तस्य धर्मं प्रकुर्वतः ।।
पुत्रश्च नाभवत्तस्य ऋतुः स्यादफलः स्त्रियाः ।।८।।
तेन दुःखं कृतं नैव वस्तुज्ञानपरेण हि ।।
आत्मनस्तारकश्चात्मा ह्यात्मनः पावनश्च सः ।। ९ ।।
इत्येवं मानसं धृत्वा दुःखं न कृतवान्स्तदा ।।
सुदेहा च तदा दुःखं चकार पुत्रसम्भवम् ।।4.32.१०।।
नित्यं च स्वामिनं सा वै प्रार्थयद्यत्नसाधने ।।
पुत्रोत्पादनहेतोश्च सर्वविद्याविशारदम् ।। ११ ।।
सोऽपि स्त्रियं तदा भर्त्स्य किं पुत्रश्च करिष्यति ।।
का माता कः पिता पुत्रः को बंधुश्च प्रियश्च कः ।। १२ ।।
सर्वं स्वार्थपरं देवि त्रिलोक्यां नात्र संशयः ।।
जानीहि त्वं विशेषेण बुद्ध्या शोकं न वै कुरु ।। १३ ।।
तस्माद्देवि त्वया दुःखं त्यजनीयं सुनिश्चितम् ।।
नित्यं मह्यं त्वया नैव कथनीयं शुभव्रते ।। १४ ।।
एवं तां सन्निवार्य्यैव भगवद्धर्मतत्परः ।।
आसीत्परमसंतुष्टो द्वन्द्वदुःखं समत्यजत् ।। १५।।
कदाचिच्च सुदेहा वै गेहे च सहवासिनः ।।
जगाम प्रियगोष्ठ्यर्थं विवादस्तत्र संगतः ।।१६।।
तत्पत्नी स्त्रीस्वभावाच्च भर्त्सिता सा तया तदा ।।
उक्ता चेति दुरुक्त्या वै सुदेहा विप्रकामिनी।।१७।।
द्विजपत्न्युवाच ।। अपुत्रिणि कथं गर्वं कुरुषे पुत्रिणी ह्यहम् ।।
मद्धनं भोक्ष्यते पुत्रो धनं ते कश्च भोक्ष्यते ।। १८ ।।
नूनं हरिष्यते राजा त्वद्धनं नात्र संशयः ।।
धिग्धिक्त्वां ते धनं धिक्च धिक्ते मानं हि वन्ध्यके ।। १९ ।।
।। सूत उवाच ।।
भर्त्सिता ताभिरिति सा गृहमागत्य दुःखिता ।।
स्वामिने कथयामास तदुक्तं सर्वमादरात् ।। 4.32.२० ।।
ब्राह्मणोऽपि तदा दुःखं न चकार सुबुद्धिमान् ।।
कथितं कथ्यतामेव यद्भावि तद्भवेत्प्रिये ।। २१ ।।
इत्येवं च तदा तेन ह्याश्वस्तापि पुनः पुनः ।।
न तदा सात्यजद्दुःखं ह्याग्रहं कृतवत्यसौ ।। २२ ।।
।सुदेहोवाच ।।
यथा तथा त्वया पुत्रस्समुत्पाद्यः प्रियोऽसि मे ।।
त्यक्षामि ह्यन्यथाहं च देहं देहभृतां वर ।। २३ ।।
सूत उवाच ।।
एवमुक्तं तया श्रुत्वा सुधर्मा ब्राह्मणोत्तमः ।।
शिवं सस्मार मनसा तदाग्रहनिपीडितः।।२४।।
अग्नेरग्रेऽक्षिपत्पुष्पद्वयं विप्रो ह्यतंद्रितः ।।
मनसा दक्षिणं पुष्पं तन्मेने पुत्रकामदम् ।। २५ ।।
एवं कृत्वा पणं पत्नीमुवाच ब्राह्मणस्स च ।।
अनयोर्ग्राह्यमेकं ते पुष्पं पुत्र फलाप्तये ।।२६।।
तया च मनसा धृत्वा पुत्रश्चैव भवेन्मम ।।
तदा च स्वामिना यच्च धृतं पुष्पं समेतु माम् ।। २७ ।।
इत्युक्त्वा च तया तत्र नमस्कृत्य शिवं तदा ।।
नत्वा चाग्निं पुनः प्रार्थ्य गृहीतं पुष्पमेककम् ।। २८ ।।
स्वामिना चिंतितं यच्च तद्गृहीतं तया न हि ।।
सुदेहया विमोहेन शिवेच्छासंभवेन वै।।२९।।
तद्दृष्ट्वा पुरुषश्चैव निश्वासं पर्यमोचयत् ।।
स्मृत्वा शिवपदांभोजमुवाच निजकामिनीम् ।।4.32.३०।।
सुधर्मोवाच ।।
निर्मितं चेश्वरेणैव कथं चैवान्यथा भवेत् ।।
आशां त्यज प्रिये त्वं च परिचर्य्यां कुरु प्रभोः ।।३१।।
इत्युक्त्वा तु स्वयं विप्र आशां परिविहाय च ।।
धर्मकार्यरतस्सोऽभूच्छंकरध्यानतत्परः ।। ३२ ।।
सा सुदेहाग्रहं नैव मुमोचात्मजकाम्यया ।।
प्रत्युवाच पतिं प्रेम्णा सांजलिर्नतमस्तका ।। ३३ ।।
सुदेहोवाच ।।
मयि पुत्रो न चास्त्वन्या पत्नीं कुरु मदाज्ञया ।।
तस्यां नूनं सुतश्चैव भविष्यति न संशयः ।।३४।।
सूत उवाच ।।
तदैव प्रथितो वै स ब्रह्मणश्शैवसत्तमः ।।
उवाच स्वप्रियां तां च सुदेहां धर्म तत्परः ।।३५।।
सुधर्मोवाच ।।
त्वदीयं च मदीयं च सर्वं दुःखं गतं ध्रुवम् ।।
तस्मात्त्वं धर्मविघ्नं च प्रियो मा कुरु सांप्रतम् ।।३६।।
सूत उवाच ।।
इत्येवं वारिता सा च स्वामातुः पुत्रिकां तदा ।।
गृहमानीय भर्तारं वृणु त्वेनामिदं जगौ ।।३७।।
सुधर्मोवाच ।।
इदानीं वदसि त्वं च मत्प्रियेयं ततः पुनः ।।
पुत्रसूश्च यदा स्याद्वै तदा स्पर्द्धां करिष्यसि ।।३८।।
सूत उवाच।।
इत्युक्त्वा तेन पतिना सा सुदेहा च तत्प्रिया ।।
पुनः प्राह करौ बद्ध्वा सुधर्माणं पतिं द्विजाः ।। ३९ ।।
( नाहं स्पर्द्धां भगिन्या वै करिष्ये द्विजसत्तम ।।
उपयच्छस्व पुत्रार्थमिमामाज्ञापयामि च ।।)
इत्येवं प्रार्थितस्सोऽपि सुधर्मा प्रियया तया ।।
घुश्मां तां समुपायंस्त विवाहविधिना द्विजः।।4.32.४०।।
ततस्तां परिणीयाथ प्रार्थयामास तां द्विजः ।।
त्वदीयेयं कनिष्ठा हि सदा पोष्यानघे प्रिये ।।४१।।
उक्तैव स च धर्मात्मा सुधर्मा शैवसत्तमः ।।
यथायोग्यं चकाराशु धर्मसंग्रहमात्मनः ।।४२।।
सा चापि मातृपुत्रीं तां दासीवत्पर्यवर्त्तत ।।
परित्यज्य विरोधं हि पुपोषाहर्निशं प्रिया ।।४३।।
कनिष्ठा चैव या पत्नी स्वस्रनुज्ञामवाप्य च ।।
पार्थिवान्सा चकाराशु श्रियमेकोत्तरं शतम् ।।४४।।
विधानपूर्वकं घुष्मा सोपचारसमन्वितम् ।।
कृत्वा तान्प्राक्षिपत्तत्र तडागे निकटस्थिते ।। ४५ ।।
एवं नित्यं सा चकार शिवपूजां स्वकामदाम् ।।
विसृज्य पुनरावाह्य तत्सपर्य्याविधानतः ।। ४६ ।।
कुर्वन्त्या नित्यमेवं हि तस्याश्शंकरपूजनम् ।।
लक्षसंख्याभवत्पूर्णा सर्वकामफलप्रदा ।। ४७ ।।
कृपया शंकरस्यैव तस्याः पुत्रो व्यजायत ।।
सुन्दरस्सुभगश्चैव कल्याणगुणभाजम् ।। ४८ ।।
तं दृष्ट्वा परमप्रीतः स विप्रो धर्मवित्तमः ।।
अनासक्तस्सुखं भेजे ज्ञानधर्मपरायणः ।। ४९ ।।
सुदेहा तावदस्यास्तु स्पर्द्धामुग्रां चकार सा ।।
प्रथमं शीतलं तस्या हृदयं ह्यसिवत्पुनः ।। 4.32.५० ।।
ततः परं च यज्जातं कुत्सितं कर्म दुःखदम् ।।
सावधानेन मनसा श्रूयतां तन्मुनीश्वरा ।। ५१ ।।
इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसंहितायां घुश्मेश्वरमाहात्म्ये सुदेहासुधर्मचरितवर्णनं नाम द्वात्रिंशोऽध्यायः ।। ३२ ।।