शिवपुराणम्/संहिता ४ (कोटिरुद्रसंहिता)/अध्यायः १०

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ०९ शिवपुराणम्/संहिता ४ (कोटिरुद्रसंहिता)
अध्यायः १०
वेदव्यासः
अध्यायः ११ →

सूत उवाच ।।
श्रीमतीक्ष्वाकुवंशे हि राजा परमधार्मिकः ।।
आसीन्मित्रसहो नाम श्रेष्ठस्सर्वधनुष्मताम् ।। १ ।।
तस्य राज्ञः सुधर्मिष्ठा मदयन्ती प्रिया शुभा।।
दमयन्ती नलस्येव बभूव विदिता सती ।। २ ।।
स एकदा हि मृगयास्नेही मित्रसहो नृपः ।।
महद्बलेन संयुक्तो जगाम गहनं वनम् ।। ३ ।।
विहरंस्तत्र स नृपः कमठाह्वं निशाचरम् ।।
निजघान महादुष्टं साधुपीडाकरं खलम् ।। ४ ।।
अथ तस्यानुजः पापी जयेयं छद्मनैव तम्।।
मत्वा जगाम नृपतेरन्तिक च्छद्मकारकः ।।५।।
तं विनम्राकृतिं दृष्ट्वा भृत्यतां कर्तुमागतम्।।
चक्रे महानसाध्यक्षमज्ञानात्स महीपतिः।।६।।
अथ तस्मिन्वने राजा कियत्कालं विहृत्य सः ।।
निवृत्तो मृगयां हित्वा स्वपुरीमाययौ मुदा ।। ७ ।।
पितुः क्षयाहे सम्प्राप्ते निमंत्र्य स्वगुरुं नृपः ।।
वसिष्ठं गृहमानिन्ये भोजयामास भक्तितः ।।८।।
रक्षसा सूदरूपेण संमिश्रितनरामिषम् ।।
शाकामिषं पुरः क्षिप्तं दृष्ट्वा गुरुरथाब्रवीत् ।। ९ ।।
गुरुरुवाच ।।
धिक् त्वां नरामिषं राजंस्त्वयैतच्छद्मकारिणा ।।
खलेनोपहृतं मह्यं ततो रक्षो भविष्यसि ।। 4.10.१० ।।
रक्षःकृतं च विज्ञाय तदैवं स गुरुस्तदा ।।
पुनर्विमृश्य तं शापं चकार द्वादशाब्दिकम् ।। ११ ।।
स राजानुचितं शापं विज्ञाय क्रोधमूर्छितः ।।
जलांजलिं समादाय गुरुं शप्तुं समुद्यतः ।। १२ ।।
तदा च तत्प्रिया साध्वी मदयन्ती सुधर्मिणी ।।
पतित्वा पादयोस्तस्य शापं तं हि न्यवारयत् ।। १३ ।।
ततो निवृत्तशापस्तु तस्या वचनगौरवात् ।।
तत्याज पादयोरंभः पादौ कल्मषतां गतौ ।। १४ ।।
ततःप्रभृति राजाभूत्स लोकेस्मिन्मुनीश्वराः ।।
कल्मषांघ्रिरिति ख्यातः प्रभावात्तज्जलस्य हि ।। १५ ।।
राजा मित्रसहः शापाद्गुरो ऋषिवरस्य हि ।।
बभूव राक्षसो घोरो हिंसको वनगोचरः ।।१६।।
स बिभ्रद्राक्षसं रूपं कालान्तकयमोपमम् ।।
चखाद विविधाञ्जंतून्मानुषादीन्वनेचरः ।। १७ ।।
स कदाचिद्वने क्वापि रममाणौ किशोरकौ ।।
अपश्यदन्तकाकारो नवोढौ मुनिदम्पती ।। १८ ।।
राक्षसः स नराहारः किशोरं मुनिनन्दनम् ।।
जग्धुं जग्राह शापार्त्तो व्याघ्रो मृगशिशुं यथा ।। १९ ।।
कुक्षौ गृहीतं भर्तारं दृष्ट्वा भीता च तत्प्रिया।।
सा चक्रे प्रार्थनं तस्मै वदंती करुणं वचः ।। 4.10.२० ।।
प्रार्थ्यमानोऽपि बहुशः पुरुषादः स निर्घृणः।।
चखाद शिर उत्कृत्य विप्रसूनोर्दुराशयः।।२१।
अथ साध्वी च सा दीना विलप्य भृशदुःखिता।।
आहृत्य भर्तुरस्थीनि चितां चक्रे किलोल्बणाम् ।।२२।।
भर्तारमनुगच्छन्ती संविशंती हुताशनम्।।
राजानं राक्षसाकारं सा शशाप द्विजाङ्गना ।।२३।।
अद्यप्रभृति नारीषु यदा त्वं संगतो भवेः ।।
तदा मृतिस्तवेत्युक्त्वा विवेश ज्वलनं सती ।। २४ ।।
सोपि राजा गुरोश्शापमनुभूय कृतावधिम् ।।
पुनः स्वरूपमास्थाय स्वगृहं मुदितो ययौ ।। २५ ।।
ज्ञात्वा विप्रसतीशापं मदयन्ती रतिप्रियम् ।।
पतिं निवारयामास वैधव्यादतिबिभ्यती ।। २६ ।।
अनपत्यो विनिर्विण्णो राज्यभोगेषु पार्थिवः ।।
विसृज्य सकलां लक्ष्मीं वनमेव जगाम ह ।। २७ ।।
स्वपृष्ठतः समायान्तीं ब्रह्महत्यां सुदुःखदाम् ।।
ददर्श विकटाकारां तर्जयन्ती मुहुर्मुहुः ।। २८ ।।
तस्या निर्भद्रमन्विच्छन् राजा निर्विण्णमानसः ।।
चकार नानोपायान्स जपव्रतमखादिकान् ।। २९ ।।
नानोपायैर्यदा राज्ञस्तीर्थस्नानादिभिर्द्विजाः ।।
न निवृत्ता ब्रह्महत्या मिथिलां स ययौ तदा ।।4.10.३०।।
बाह्योद्यानगतस्तस्याश्चितया परयार्दितः।।
ददर्श मुनिमायान्तं गौतमं पार्थिवश्च सः।।३१।।
अभिसृत्य स राजेन्द्रो गौतमं विमलाशयम् ।।
तद्दर्शनाप्तकिंचित्कः प्रणनाम मुहुर्मुहुः।।।।
अथ तत्पृष्टकुशलो दीर्घमुष्णं च निश्वसन् ।।
तत्कृपादृष्टिसंप्राप्तसुख प्रोवाच तं नृपः ।। ३३ ।।
राजोवाच ।।
मुने मां बाधते ह्येषा ब्रह्महत्या दुरत्यया ।।
अलक्षिता परैस्तात तर्जयंती पदेपदे ।। ३४ ।।
यन्मया शापदग्धेन विप्रपुत्रश्च भक्षितः ।।
तत्पापस्य न शान्तिर्हि प्रायश्चित्तसहस्रकैः ।। ३५।।
नानोपायाः कृता मे हि तच्छान्त्यै भ्रमता मुने ।।
न निवृत्ता ब्रह्महत्या मम पापात्मनः किमु ।। ३६ ।।
अद्य मे जन्मसाफल्यं संप्राप्तमिव लक्षये ।।
यतस्त्वद्दर्शनादेव ममानन्दभरोऽभवत् ।। ३७ ।।
अद्य मे तवपादाब्ज शरणस्य कृतैनसः ।।
शांतिं कुरु महाभाग येनाहं सुखमाप्नुयाम् ।। ३८ ।।
सूत उवाच ।।
इति राज्ञा समादिष्टो गौतमः करुणार्द्रधीः ।।
समादिदेश घोराणामघानां साधु निष्कृतिम् ।।३९।।
गौतम उवाच ।।
साधु राजेन्द्र धन्योसि महाघेभ्यो भयन्त्यज।।
शिवे शास्तरि भक्तानां क्व भयं शरणैषिणाम्।।4.10.४०।।
शृणु राजन्महाभाग क्षेत्रमन्यत्प्रतिष्ठितम् ।।
महापातकसंहारि गोकर्णाख्यं शिवालयम् ।। ४१ ।।
तत्र स्थितिर्न पापानां महद्भ्यो महतामपि ।।
महाबलाभिधानेन शिवः संनिहितः स्वयम् ।।४२।।
सर्वेषां शिवलिंगानां सार्वभौमो महाबलः ।।
चतुर्युगे चतुर्वर्णस्सर्वपापापहारकः।।४३।।
पश्चिमाम्बुधितीरस्थं गोकर्णं तीर्थमुत्तमम् ।।
तत्रास्ति शिवलिंगं तन्महापातकनाशकम् ।।४४।।
तत्र गत्वा महापापाः स्नात्वा तीर्थेषु भूरिशः।।
महाबलं च संपूज्य प्रयाताश्शांकरम्पदम् ।। ४९ ।।
तथा त्वमपि राजेन्द्र गोकर्ण गिरिशालयम् ।।
गत्वा सम्पूज्य तल्लिंगं कृतकृत्यत्वमाप्नुयाः ।। ४६ ।।
तत्र सर्वेषु तीर्थेषु स्नात्वाभ्यर्च्य महाबलम् ।।
सर्वपापविनिर्मुक्तः शिवलोकन्त्वमाप्नुयाः ।। ४७ ।।
सूत उवाच ।।
इत्यादिष्टः स मुनिना गौतमेन महात्मना ।।
महाहृष्टमना राजा गोकर्णं प्रत्यपद्यत ।। ४८ ।।
तत्र तीर्थेषु सुस्नात्वा समभ्यर्च्य महाबलम् ।।
निर्धूताशेषपापौघोऽलभच्छंभोः परम्पदम्।।४९।।
य इमां शृणुयान्नित्यं महाबलकथां प्रियाम् ।।
त्रिसप्तकुलजैस्सार्द्धं शिवलोके व्रजत्यसौ ।। 4.10.५० ।।
इति वश्च समाख्यातं माहात्म्यं परमाद्भुतम् ।।
महाबलस्य गिरिशलिंगस्य निखिलाघहृत् ।।५१।।
इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसंहितायां महाबाह्वशिवलिंगमाहात्म्यवर्णनं नाम दशमोऽध्यायः ।। १० ।।