शिवपुराणम्/संहिता ४ (कोटिरुद्रसंहिता)/अध्यायः ०९

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ०८ शिवपुराणम्/संहिता ४ (कोटिरुद्रसंहिता)
अध्यायः ०९
वेदव्यासः
अध्यायः १० →

ऋषय ऊचुः ।।
सूतसूत महाभाग धन्यस्त्वं शैवसत्तमः ।।
चाण्डाली का समाख्याता तत्कथां कथय प्रभो।।१।।
सूत उवाच ।।
द्विजाः शृणुत सद्भक्त्या तां कथां परमाद्भुताम्।।
शिवप्रभावसंमिश्रां शृण्वतां भक्तिवर्द्धिनीम् ।। २ ।।
चांडाली सा पूर्वभरेऽभवद्ब्राह्मणकन्यका ।।
सौमिनी नाम चन्द्रास्या सर्वलक्षणसंयुता ।।३।।
अथ सा समये कन्या युवतिः सौमिनी द्विजाः ।।
पित्रा दत्ता च कस्मैचिद्विधिना द्विजसूनवे ।। ४ ।।
सा भर्तारमनुप्राप्य किंचित्कालं शुभव्रता ।।
रेमे तेन द्विजश्रेष्ठा नवयौवनशालिनी ।। ५ ।।
अथ तस्याः पतिर्विप्रस्तरुणस्सुरुजार्दितः ।।
सौमिन्याः कालयोगात्तु पञ्चत्वमगमद्द्विजाः ।।६।।
मृते भर्तरि सा नारी दुखितातिविषण्णधीः।।
किंचित्कालं शुभाचारा सुशीलोवास सद्मनि ।।७।।
ततस्सा मन्मथाविष्टहृदया विधवापि च।।
युवावस्थाविशेषेण बभूव व्यभिचारिणी ।।८।।
तज्ज्ञात्वा गोत्रिणस्तस्या दुष्कर्म कुलदूषणम् ।।
समेतास्तत्यजु दूरं नीत्वा तां सकचग्रहाम्।९।।
कश्चिच्छूद्रवरस्तां वै विचरन्तीं निजेच्छया।।
दृष्ट्वा वने स्त्रियं चक्रे निनाय स्वगृहं तत।।4.9.१०।।
अथ सा पिशिताहारा नित्यमापीतवारुणी ।।
अजीजनत्सुतान्तेन शूद्रेण सुरतप्रिया।।११।।
कदाचिद्भर्तरि क्वापि याते पीतसुराथ सा ।।
इयेष पिशिताहारं सौमिनी व्यभिचारिणी ।।१२ ।।
ततो मेषेषु बद्धेषु गोभिस्सह बहिर्व्रजे ।।
निशामुखे तमोऽन्धे हि खड्गमादाय सा ययौ ।। १३ ।।
अविमृश्य मदावेशान्मेषबुद्याऽऽमिष प्रिया ।।
एकं जघान गोवत्सं क्रोशंतमतिदुर्भगा ।। १४ ।।
हतं तं गृहमानीय ज्ञात्वा गोवत्समंगना ।।
भीता शिवशिवेत्याह केनचित्पुण्यकर्मणा ।।१५।।
सा मुहूर्तं शिवं ध्यात्वामिषभोजनलालसा ।।
छित्त्वा तमेव गोवत्सं चकाराहारमीप्सितम् ।। १६ ।।
एवं बहुतिथे काले गते सा सौमिनी द्विजाः ।।
कालस्य वशमापन्ना जगाम यमसंक्षयम् ।। १७ ।।
यमोऽपि धर्ममालोक्य तस्याः कर्म च पौर्विकम् ।।
निवर्त्य निरयावासाच्चक्रे चाण्डालजातिकाम् ।। १८।।
साथ भ्रष्टा यमपुराच्चाण्डालीगर्भमाश्रिता ।।
ततो बभूव जन्मान्धा प्रशांतांगारमेचका।।१९।।
जन्मान्धा साथ बाल्येऽपि विध्वस्तपितृमातृका ।।
ऊढा न केनचिद्दुष्टा महाकुष्ठरुजार्दिता ।। 4.9.२० ।।
ततः क्षुधार्दिता दीना यष्टिपाणिर्गतेक्षणा ।।
चाण्डालोच्छिष्टपिंडेन जठराग्निमतपर्यत् ।। २१ ।।
एवं कृच्छ्रेण महता नीत्वा स्वविपुलं वयः ।।
जरयाग्रस्तसवार्ङ्गी दुःखमाप दुरत्ययम् ।। २२ ।।
कदाचित्साथ चांडाली गोकर्णं तं महाजनान् ।।
आयास्यंत्यां शिवतिथौ गच्छतो बुबुधेऽन्वगान् ।।२३।।
अथासावपि चांडाली वसनासनतृष्णया ।।
महाजनान् याचयितुं संचचार शनैः शनैः ।।२४।।
गत्वा तत्राथ चांडाली प्रार्थयन्ती महाजनान्।।
यत्र तत्र चचारासौ दीनवाक्प्रसृताञ्जलिः ।।२५।।
एवमभ्यर्थयंत्यास्तु चांडाल्याः प्रसृताञ्जलौ ।।
एकः पुण्यतमः पान्थः प्राक्षिपद्बिल्वमंजरीम् ।।२६ ।।
तामंजलौ निपतिता सा विमृश्य पुनः पुनः ।।
अभक्ष्यमिति मत्वाथ दूरे प्राक्षिपदातुरा ।। २७ ।।
तस्याः कराद्विनिर्मुक्ता रात्रौ सा बिल्वमंजरी ।।
पपात कस्यचिद्दिष्ट्या शिवलिंगस्य मस्तके ।। २८ ।।
सैवं शिवचतुर्दश्यां रात्रौ पान्थजनान्मुहुः ।।
याचमानापि यत्किंचिन्न लेभे दैवयोगतः ।।२९।।
एवं शिवचतुर्दश्या व्रतं जातं च निर्मलम् ।।
अज्ञानतो जागरणं परमानन्ददायकम् ।।4.9.३०।।
ततः प्रभाते सा नारी शोकेन महता वृता ।।
शनैर्निववृते दीना स्वदेशायैव केवलम् ।। ३१ ।।
श्रांता चिरोपवासेन निपतंती पदेपदे ।।
अतीत्य तावतीं भूमिं निपपात विचेतना ।।३२।।
अथ सा शंभुकृपया जगाम परमं पदम् ।।
आरुह्य सुविमानं च नीतं शिवगणैर्द्रुतम् ।।३३।।
आदौ यदेषा शिवनाम नारी प्रमादतो वाप्यसती जगाद ।।
तेनेह भूयः सुकृतेन विप्रा महाबलस्थानमवाप दिव्यम् ।।३४।।
श्रीगोकर्णे शिवतिथावुपोष्य शिवमस्तके ।।
कृत्वा जागरणं सा हि चक्रे बिल्वार्चनं निशि ।। ३५ ।।
अकामतः कृतस्यास्य पुण्यस्यैव च तत्फलम् ।।
भुनक्त्यद्यापि सा चैव महाबलप्रसादतः ।। ३६ ।।
एवंविधं महालिंगं शंकरस्य महाबलम् ।।
सर्वपापहरं सद्यः परमानन्ददायकम् ।। ३७ ।।
एवं वः कथितं विप्रा माहात्म्यं परमं मया ।।
महाबलाभिधानस्य शिवलिंगवरस्य हि ।। ३८ ।।
अथान्यदपि वक्ष्यामि माहात्म्यं तस्य चाद्भुतम् ।।
श्रुतमात्रेण येनाशु शिवे भक्तिः प्रजायते ।। ३९ ।।
इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसंहितायां चाण्डालीसद्गतिवर्णनं नाम नवमोऽध्यायः ।।९।।