शिवपुराणम्/संहिता ३ (शतरुद्रसंहिता)/अध्यायः ३३

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ३२ शिवपुराणम्/संहिता ३ (शतरुद्रसंहिता)
अध्यायः ३३
वेदव्यासः
अध्यायः ३४ →

नन्दीश्वर उवाच।।
सनत्कुमार सुप्रीत्या शिवस्य परमात्मनः ।।
अवतारं शृणु विभोर्जटिलाह्वं सुपावनम्। ।।१।।
पुरा सती दक्षकन्या त्यक्त्वा देहं पितुर्मखे ।।
स्वपित्राऽनादृता जज्ञे मेनायां हिमभूधरात्।।२।।
सा गत्वा गहनेऽरण्ये तेपे सुवि मलं तपः ।।
शंकरम्पतिमिच्छन्ती सखीभ्यां संयुता शिवा।।
तत्तपःसुपरीक्षार्थं सप्तर्षीन्प्रैषयच्छिवः।।
तपःस्थानं तु पार्वत्या नानालीलाविशारदः ।।४।।
ते गत्वा तत्र मुनयः परीक्षां चक्रुरादरात् ।।
तस्याः सुयत्नतो नैव समर्था ह्यभवंश्च ते ।।५।।।
तत्रागत्य शिवं नत्वा वृत्तान्तं च निवेद्य तत्।।
तदाज्ञां समनुप्राप्य स्वर्लोकं जग्मुरादरात् ।।६।।
गतेषु मुनिषु स्वस्थानं शंकरः स्वयम्।।
परीक्षितुं शिवावृत्तमैच्छत्सूतिकरः प्रभुः।।७।।
सुप्रसन्नस्तपस्वीच्छाशमनादयमीश्वरः।।
ब्रह्मचर्य्यस्वरूपोऽभूत्तदाद्भुततरः प्रभुः।।८।
अतीव स्थविरो विप्रदेहधारी स्वतेजसा।।
प्रज्वलन्मनसा हृष्टो दण्डी छत्री महोज्जलः।९।।
धृत्वैवं जटिलं रूपं जगाम गिरिजावनम्।।
अतिप्रीतियुतः शम्भुश्शङ्करो भक्तवत्सलः।।3.33.१०।।
तत्रापश्यस्त्थितान्देवीं सखीभिः परिवारिताम्।।
वेदिकोपरि शुद्धान्तां शिवामिव विधोः कलाम् ।।११।।
शंभुर्निरीक्ष्य तान्देवीं ब्रह्मचारिस्वरूपवान्।।
उपकण्ठं ययौ प्रीत्या चोत्सुकी भक्तवत्सलः।।१२।।
आगतं सा तदा दृष्ट्वा ब्राह्मणं तेजसाद्भुतम्।।
अंगेषु लोमशं शान्तं दण्डचर्मसमन्वितम् ।।१३।।
ब्रह्मचर्य्यधरं वृद्धं जटिलं सकमण्डलुम्।।
अपूजयत्परप्रीत्या सर्वपूजोपहारकैः।।१४।।
ततस्ता पार्वतीदेवी पूजितं परया मुदा ।।
कुशलं पर्यपृच्छत्तं ब्रह्मचारिणमादरात् ।।१५।।
ब्रह्मचारिस्वरूपेण कस्त्वं हि कुत आगतः।।
इद्ं वनं भासयसि वद वेदविदां वर।। १६।।
नन्दीश्वर उवाच।।
इति पृष्टस्तु पार्वत्या ब्रह्मचारी स वै द्विजः ।।
प्रत्युवाच द्रुतम्प्रीत्या शिवाभावपरीक्षया ।। १७ ।।
ब्रह्मचार्य्युवाच ।।
अहमिच्छाभिगामी च ब्रह्मचारी द्विजोस्मि वै ।।
तपस्वी सुखदोऽन्येषामुपकारी न संशयः ।।१८।।
नन्दीश्वर उवाच ।।
इत्युक्त्वा ब्रह्मचारी स शंकरो भक्तवत्सलः ।। ।
तस्थिवानुपकण्ठं स गोपायन्रूपमात्मनः ।। १९ ।।
ब्रह्मचार्य्युवाच ।।
किम्ब्रवीमि महादेवि कथनीयन्न विद्यते ।।
महानर्थकरं वृत्तं दृश्यते विकृतं महत् ।।3.33.२०।।
नवे वयसि सद्भोगसाधने सुखकारणे ।।
महोपचारसद्भोगैर्वृथैव त्वं तपस्यसि।।२।।
का त्वं कस्यासि तनया किमर्थं विजने वने ।।
तपश्चरसि दुर्धर्षं मुनिभिः प्रयतात्मभिः ।। २२ ।।
नन्दीश्वर उवाच ।।
इति तद्वचनं श्रुत्वा प्रहस्य परमेश्वरी ।।
उवाच वचनं प्रीत्या ब्रह्मचारिणमुत्तमम्।।२३।।
पार्वत्युवाच ।।
शृणु विप्र ब्रह्मचारिन्मदवृत्तमखिलं मुने।।
जन्म मे भारते वर्षे साम्प्रतं हिमवद्गृहे ।। २४ ।।
पूर्वं दक्षगृहे जन्म सती शङ्करकामिनी ।।
योगेन त्यक्तदेहाहं तातेन पतिनिन्दिना ।। २५ ।।
अत्र जन्मनि संप्राप्य सुपुण्येन शिवो द्विज ।।
मां त्यक्त्वा भस्मसात्कृत्वा मन्मथं स जगाम ह।।२६।।
प्रयाते शङ्करे तापाद्व्रीडिताहं पितुर्गृहात् ।।
आगच्छमत्र तपसे गुरुवाक्येन संयता ।।२७।।
मनसा वचसा साक्षात्कर्मणा पतिभावतः ।।
सत्यम्ब्रवीमि नोऽसत्यं संवृतः शङ्करो मया ।। २८ ।।
जानामि दुर्लभं वस्तु कथम्प्राप्यं मया भवेत् ।।
तथापि मनसौत्सुक्यात्तप्यते मे तपोऽधुना।।२९।।
हित्वेन्द्रप्रमुखान्देवान्विष्णुम्ब्रह्माणमप्यहम्।।
पतिम्पिनाकपाणिं वै प्राप्तुमिच्छामि सत्यतः।।3.33.३०।।
नन्दीश्वर उवाच ।।
इत्येवं वचनं श्रुत्वा पार्वत्या हि सुनिश्चितम्।।
मुने स जटिलो रुद्रो विहसन्वाक्यमब्रवीत् ।।३१।।
जटिल उवाच ।।
हिमाचलसुते देवि का बुद्धिः स्वीकृता त्वया ।।
रुद्रार्थं विबुधान्हित्वा करोषि विपुलन्तपः ।।३२।।
जानाम्यहं च तं रुद्रं शृणु त्वम्प्रवदामि ते।।
वृषध्वजस्स रुद्रो हि विकृतात्मा जटाधरः।।३३।।
एकाकी च सदा नित्यं विरागी च विशेषतः ।।
तस्मात्त्वं तेन रुद्रेण मनो योक्तुं न चार्हसि ।।३४।।
सर्वं विरुद्धं रूपादि तव देवि हरस्य च।
मह्यं न रोचते ह्येतद्यदीच्छसि तथा कुरु ।।३५।।
नन्दीश्वर उवाच।।
इत्युक्त्वा च पुना रुद्रो ब्रह्मचारिस्वरूपवान्।।
निनिन्द बहुधात्मानं तदग्रे तां परीक्षितुम्।।३६।।
तच्छ्रुत्वा पार्वती देवी विप्रवाक्यं दुरासदम्।।
प्रत्युवाच महाक्रुद्धा शिवनिन्दापरं च तम्।।३७।।
एतावद्धि मया ज्ञातं कश्चिद्धन्यो भविष्यति ।।
परन्तु सकलं ज्ञातमवध्यो दृश्यतेऽधुना ।।३८।।
ब्रह्मचारिस्वरूपेण कश्चित्त्वं धूर्त आगतः ।।
शिवनिन्दा कृता मूढ त्वया मन्युरभून्मम ।।३९।।
शिवं त्वं च न जानासि शिवात्त्वं हि बहिर्मुखः ।।
त्वत्पूजा च कृता यन्मे तस्मात्तापयुताऽभवम् ।।3.33.४०।।
शिवनिन्दां करोतीह तत्त्वमज्ञाय यः पुमान्।।
आजन्मसंचितं पुण्यं तस्य भस्मीभवत्युत ।।४१।।
शिवविद्वेषिणं स्पृष्ट्वा प्रायश्चित्तं समाचरेत् ।।४२।।
रे रे दुष्ट त्वया प्रोक्तमहं जानामि शंकरम्।।
निश्चयेन न विज्ञातः शिव एव परः प्रभुः ।।४३।।
यथा तथा भवेद्रुद्रो मायया बहुरूपवान् ।।
ममाभीष्टप्रदोऽत्यन्तं निर्विकारः सताम्प्रियः ।। ४४ ।।
नन्दीश्वर उवाच ।।
इत्युक्त्वा तं शिवा देवी शिवतत्त्वं जगाद सा ।।
यत्र ब्रह्मतया रुद्रः कथ्यते निर्गुणोऽव्ययः ।।४५।।
तदाकर्ण्य वचो देव्या ब्रह्मचारी स वै द्विजः।।
पुनर्वचनमादातुं यावदेव प्रचक्रमे ।।४६।।
प्रोवाच गिरिजा तावत्स्वसखीं विजयान्द्रुतम् ।।
शिवासक्तमनोवृत्तिः शिवनिन्दापराङ्मुखी।।४७।। ।।
गिरिजोवाच।।
वारणीयः प्रयत्नेन सख्ययं हि द्विजाधमः ।।
पुनर्वक्तुमनाश्चायं शिवनिन्दां करिष्यति ।।४८।।
न केवलं भवेत्पापं निन्दाकर्तुः शिवस्य हि ।।
यो वै शृणोति तन्निन्दां पापभाक्स भवेदिह ।।४९।।
शिवनिन्दाकरो वध्यस्सर्वथा शिवकिंकरैः।।
ब्राह्मणश्चेत्स वै त्याज्यो गन्तव्यं तत्स्थलाद्द्रुतम्।।3.33.५०।।
अयन्दुष्टः पुनर्निंदां करिष्यति शिवस्य हि ।।
ब्राह्मणत्वादवध्यश्च त्याज्योऽदृश्यश्च सर्वथा ।। ५१ ।।
स्थलमेतद्द्रुतं हित्वा यास्यामोऽन्यत्र मा चिरम् ।।
यथा संभाषणं न स्यादनेनाविदुषा पुनः ।। ९२ ।।
।। नन्दीश्वर उवाच ।।
इत्युक्त्वा चोमया यावत्पदमुत्क्षिप्यते मुने ।।
असौ तावच्छिवः साक्षादाललम्बे पटं स्वयम्।।५३।।
कृत्वा स्वरूपं दिव्यं च शिवाध्यानं यथा तथा।।
दर्शयित्वा शिवायै तामुवाचावाङ्मुखी शिवः ।।५४।।
शिव उवाच।।
कुत्र त्वं यासि मां हित्वा न त्वन्त्याज्या मया शिवे।।
मया परीक्षितासि त्वं दृढभक्तासि मेऽनघे ।।५५।।
ब्रह्मचारिस्वरूपेण भावमिच्छुस्त्वदीयकम्।।
तवोपकण्ठमागत्य प्रावोचं विविधं वचः।।५६।।
प्रसन्नोस्मि दृढं भक्त्या शिवे तव विशेषतः।।
चित्तेप्सितं वरं ब्रूहि नादेयं विद्यते तव।।५७।।
अद्यप्रभृति ते दासस्तपोभिः प्रेमनिर्भरे।।
कृतोऽस्मि तव सौन्दर्य्यात्क्षण एको युगायते।।५८।।
त्यज्यतां च त्वया लज्जा मम पत्नी सनातनी ।।
एहि प्रिये त्वया साकं द्रुतं यामि स्वकं गिरिम्।।५९।।
इत्युक्तवति देवेशे शिवाति मुदमाप सा ।।
तपोदुःखन्तु यत्सर्वं तज्जहौ द्रुतमेव हि ।।3.33.६ ०।।
ततः प्रहृष्टा सा दृष्ट्वा दिव्यरूपं शिवस्य तत्।।
प्रत्युवाच प्रभुं प्रीत्या लज्जयाधो मुखी शिवा ।। ६१ ।।
शिवोवाच ।।
यदि प्रसन्नो देवेश करोषि च कृपां मयि ।।
पतिर्मे भव देवेश इत्युक्तश्शिवया शिवः । । ६२ ।।
गृहीत्वा विधिवत्पाणिं कैलासं स तया ययौ ।।
पतिं तं गिरिजा प्राप्य देवकार्यं चकार सा । ।६३। ।
इति प्रोक्तस्तु ते तात ब्रह्मचारि स्वरूपकः । ।
शिवावतारो हि मया शिवाभावपरीक्षकः । । ६४ । ।
इदमाख्यानमनघं परमं व्याहृतं मया । ।
य एतच्छृणुयात्प्रीत्या सुखी गतिमाप्नुयात् ।।६५।।
इति श्रीशिवमहापुराणे तृतीयायां शतरुद्रसंहितायां ब्रह्मचारिशिवावतारवर्णनं नाम त्रयस्त्रिंशोऽध्यायः । ।३३। । इति चतुरशीतिरवताराः ( ८४)