शिवपुराणम्/संहिता ३ (शतरुद्रसंहिता)/अध्यायः ३२
← अध्यायः ३१ | शिवपुराणम्/संहिता ३ (शतरुद्रसंहिता) अध्यायः ३२ वेदव्यासः |
अध्यायः ३३ → |
शृणु तात प्रवक्ष्यामि शिवस्य परमात्मनः।।
सुरेश्वरावतारस्ते धौम्याग्रज हितावहम् ।।१।।
व्याघ्रपादसुतो धीमानुपमन्युस्सताम्प्रियः ।।
जन्मान्तरेण संसिद्धः प्राप्तो मुनिकुमारताम्।। २ ।।
उवास मातुलगृहे स मात्रा शिशुरे व हि ।।
उपमन्युर्व्याघ्रपादिस्स्याद्दरिद्रश्च दैवतः।। ३ ।।
कदाचित्क्षीरमत्यल्पम्पीतवान्मातुलाश्रमे।।
ययाचे मातरम्प्रीत्या बहुशो दुग्ध लालसः ।।४।।
तच्छ्रुत्वा पुत्रवचनं तन्माता च तपस्विनी।।
सांतः प्रविश्याथ तदा शुभोपायमरीरचत् ।। ५।।
उञ्छवृत्त्यर्जितान्बीजान्पिष्ट्वालोड्य जलेन तान् ।।
उपलाल्य सुतन्तस्मै सा ददौ कृत्रिमम्पयः ।।६।।
पीत्वा च कृत्रिमं दुग्धं मात्रा दत्तं स बालकः ।।
नैतत्क्षीरमिति प्राह मातरं चारुदत्पुनः।।७।।
श्रुत्वा सुतस्य रुदितं प्राह सा दुःखिता सुतम।।
संमार्ज्य नेत्रे पुत्रस्य कराभ्यां कमलाकृतिः ।।८।।
मातोवाच।।क्षीरमत्र कुतोऽस्माकं वने निवसतां सदा।।
प्रसादेन विना शम्भोः पयः प्राप्तिर्भवेन्नहि।।९।।
पूर्वजन्मनि यत्कृत्यं शिवमु द्दिश्य हे सुत।।
तदेव लभ्यते नूनन्नात्र कार्या विचारणा।।
इति मातृवचश्श्रुन्वा व्याघ्रपादिस्स बालकः।।3.32.१०।
प्रत्युवाच विशोकात्मा मातरं मातृवत्सलः ।।११।।
शोकेनालमिमं मातः शंभुर्यद्यस्ति शङ्करः।।
त्यज शोकं महाभागे सर्वं भद्रम्भविष्यति।।१२।।
शृणु मातर्वचो मेऽयमहादेवोऽस्ति चेत्क्वचित्।।
चिराद्वा ह्यचिराद्वापि क्षीरोदं साधयाम्यहम्।।१३।।
नन्दीश्वर उवाच।।
इत्युक्त्वा स शिशुः प्रीत्या शिवं मेऽस्त्वित्युदीर्य्य च ।।
विसृज्य तां सुप्रणम्य तपः कर्त्तुं प्रचक्रमे।१४।।
हिमवत्पर्वतगतः वायुभक्षस्समाहितः ।।
अष्टेष्टकाभिः प्रासादं कृत्वा लिंगं च मृन्मयम् ।।१५।।
तत्रावाह्य शिवं साम्बं भक्त्या पञ्चाक्षरेण ह ।।
पत्रपुष्पादिभिर्वन्यैस्समानर्च शिशुः स वै ।। १६ ।।
ध्यात्वा शिवं च तं साम्बं जपन्पञ्चाक्षरम्मनुम् ।।
समभ्यर्च्य चिरं कालं चचार परमन्तपः ।। १७ ।।
तपसा तस्य बालस्य ह्युपमन्योर्महात्मनः ।।
चराचरं च भुवनं प्रदीपितमभून्मुने ।।१८ ।।
एतस्मिन्नन्तरे शंभुर्विष्ण्वाद्यैः प्रार्थितः प्रभुः ।।
परीक्षितुं च तद्भक्तिं शक्ररूपोऽभवत्तदा।।१९।।
शिवा शचीस्वरूपाभूद्गणाः सर्वेऽभवन्सुराः।।
ऐरावतगजो नन्दी सर्वमेव च तन्मयम् ।।3.32.२०।।।
ततः साम्बः शिवः शक्रस्वरूपस्सगणो द्रुतम्।।
जगामानुग्रहं कर्तुमुपमन्योस्तदाश्रमम् ।।
परीक्षितुं च तद्भक्तिं शक्ररूपधरो हरः ।।
प्राह गंभीरया वाचा बालकन्तं मुनीश्वर ।। २२।।
सुरेश्वर उवाच।।
तुष्टोऽस्मि ते वरं ब्रूहि तपसानेन सुव्रत ।।
ददामि चेच्छितान्कामान्सर्वान्नात्रास्ति संशयः ।।२३।।
एवमुक्तः स वै तेन शक्ररूपेण शम्भुना ।।
वरयामि शिवे भक्तिमित्युवाच कृताञ्जलि ।। २४ ।।
तन्निशम्य हरिः प्राह मां न जानासि लेखपम् ।।
त्रैलोक्याधिपतिं शक्रं सर्वदेवनमस्कृतम् ।। २५।।
मद्भक्तो भव विप्रर्षे मामेवार्चय सर्वदा ।।
ददामि सर्वं भद्रन्ते त्यज रुद्रं च निर्गुणम्।।२६।।
रुद्रेण निर्गुणेनालं किन्ते कार्यं भविष्यति ।।
देवजातिबहिर्भूतो यः पिशाचत्वमागतः।।२७।।
नन्दीश्वर उवाच।।
तच्छ्रुत्वा स मुनेः पुत्रो जपन्पञ्चाक्षरम्मनुम् ।।
मन्यमानो धर्मविघ्नम्प्राह तं कर्तुमागतम् ।।२८।।
उपमन्युरुवाच ।।
त्वयैवं कथितं सर्वं भवनिन्दा रतेन वैः।।
प्रसंगाद्देवदेवस्य निर्गुणत्वं पिशाचता ।। २९ ।।
त्वं न जानासि वै रुद्रं सर्वदेवेश्वरेश्वरम् ।।
ब्रह्मविष्णुमहेशानां जनकम्प्रकृतेः परम्।।3.32.३०।।
सदसद्व्यक्तमव्यक्तं यमाहुर्ब्रह्मवादिनः ।।
नित्यमेकमनेकं च वरं तस्माद्वृणोम्यहम् ।।३१।।
हेतुवादविनिर्मुक्तं सांख्ययोगार्थदम्परम्।।
यमुशन्ति हि तत्त्वज्ञा वरन्तस्माद्वृणोम्यहम् ।। ३२ ।।
नास्ति शम्भोः परन्तत्त्वं सर्वकारणकारणात्।।
ब्रह्मविष्ण्वादि देवानां श्रेष्ठाद्गणपराद्विभोः ।। ३३ ।।
नाहं वृणे वरं त्वत्तो न विष्णोर्ब्रह्मणोऽपि वा ।।
नान्यस्मादमराद्वापि शङ्करो वरदोऽस्तु मे।३४।।
बहुनात्र किमुक्तेन वच्मि तत्त्वं मतं स्वकम् ।।
न प्रार्थये पशुपतेरन्यं देवादिकं स्फुटम् ।।३५।।।
मद्भावं शृणु गोत्रारे मयाद्यानुमितन्त्विदम् ।।
भवान्तरे कृतं पापं श्रुता निन्दा भवस्य चेत् ।। ३६ ।।
श्रुत्वा निन्दाम्भवस्याथ तत्क्षणादेव संत्यजेत् ।।
स्वदेहं तन्निहत्याशु शिवलोकं स गच्छति ।। ३७ ।।
आस्तां तावन्ममेच्छेयं क्षीरम्प्रति सुराधम ।।
निहत्य त्वां शिवास्त्रेण त्यजाम्येतत्कलेवरम्।। ३८ ।।
नन्दीश्वर उवाच ।।
एवमुक्त्वोपमन्युस्तं मर्तुं व्यवसितः स्वयम् ।।
क्षीरे वाच्छामपि त्यक्त्वा निहन्तुं शक्रमुद्यतः ।।३९।।
भस्मादाय तदाधारादघोस्त्राभिमन्त्रितम् ।।
विसृज्य शक्रमुद्दिश्य ननाद स मुनिस्तदा ।। 3.32.४० ।।
स्मृत्वा स्वेष्टपदद्वन्द्वं स्वदेहं दग्धुमुद्यतः ।।
आग्नेयीं धारणां बिभ्रदुपमन्युरवस्थितः ।। ४१ ।।
एवं व्यवसिते विप्रे भगवाञ्छक्ररूपवान् ।।
वारयामास सौम्येन धारणान्तस्य योगिनः ।। ४२ ।।
तद्विसृष्टमघोरास्त्रं नन्दीश्वरनियो गतः ।।
जगृहे मन्यतः क्षिप्तं नन्दी शंकरवल्लभम्।। ४३।।
स्वरूपमेव भगवानास्थाय परमेश्वरः ।।
दर्शयामास विप्राय बालेन्दु कृतशेखरम् ।। ४४ ।।
क्षीरार्णवसहस्र्ं च दध्यादेवरर्णवन्तथा ।।
भक्ष्यभोज्यार्णवन्तस्मै दर्शयामास स प्रभुः ।। ४५ ।।
एवं स ददृशे शम्भुदेव्या सार्द्धं वृषोपरि।।
गणेश्वरैस्त्रिशूलाद्यैर्दिव्यास्त्रैरपि संवृतः ।। ४६ ।।
दिवि दुन्दुभयो नेदु पुष्पवृष्टिः पपात ह ।।
विष्णुब्रह्मेन्द्रप्रमुखैर्देवैश्छन्ना दिशो दश ।। ४७ ।।
अथोपमन्युरानन्दसमुद्रोर्मिभिरावृतः ।।
पपात दण्डवद्भूमौ भक्तिनम्रेण चेतसा ।।४८।।
एतस्मिन्समये तत्र सस्मितो भगवान्भवः ।।
एह्येहीति समाहूय मूर्ध्न्याघ्राय ददौ वरान् ।। ४९ ।।
शिव उवाच ।।
वत्सोपमन्यो तुष्टोऽस्मि त्वदाचरणतो वरात् ।।
दृढभक्तोऽसि विप्रर्षे मया जिज्ञासितोऽधुना ।। 3.32.५० ।।
भक्ष्यभोगान्यथाकामं बान्धवैर्भुंक्ष्व सर्वदा ।।
सुखी भव सदा दुःखनिर्मुक्तो भक्तिमान्मम।। ९१ ।।
उपमन्यो महाभाग तवाम्बैषा हि पार्वती ।।
मया पुत्रीकृतो ह्यद्य कुमारत्वं सनातनम् ।। ५२ ।।
दुग्धदध्याज्यमधुनामर्णवाश्च सहस्रशः ।।
भक्ष्यभोज्यादिवस्तूनामर्णवाश्चाखिला स्तथा ।। ५३ ।।
तुभ्यं दत्ता मया प्रीत्या त्वं गृह्णीष्व महामुने ।।
अमरत्वन्तथा दक्ष गाणपत्यं च शाश्वतम् ।। ५४ ।।
पिताहन्ते महादेवो माता ते जगदम्बिका।।
वरान्वरय सुप्रीत्या मनोभिलषितान्परान्।।५५।।
अजरश्चामरश्चैव भव त्वं दुःखवर्जित।।
यशस्वी वरतेजस्वी दित्त्वज्ञानी महाप्रभुः ।।५६।।
अथ शम्भुः प्रसन्नात्मा स्मृत्वा तस्य तपो महत् ।।
पुनर्दश वरान्दिव्यान्मुनये हयूपमन्यवे ।।५७।।
व्रतं पाशुपतं ज्ञानं व्रतयोगं च तत्त्वतः ।।
ददौ तस्मै प्रवक्तृत्वं पाटवं च निजं पदम्ं।।५८।।
एवन्दत्त्वा महादेवः कराभ्यामुपगृह्य तम्।।
मूर्ध्न्याघ्राय सुतस्तेऽयमिति देव्यै न्यवेदयत्।।५९।।
देवी च शृण्वती प्रीत्या मूर्ध्निदेशे कराम्बुजम्।।
विन्यस्य प्रददौ तस्मै कुमारपदमक्षयम् ।।3.32.६०।।
क्षीराब्धिमपि साकारं क्षीरस्वादुकरोदधिः ।।
उपास्थाय ददौ तस्मै पिण्डीभूतमनश्वरम्।।६१।।
योगैश्वर्य्यं सदा तुष्टम्ब्रह्मविद्यामनश्वराम् ।।
समृद्धिं परमान्तस्मै ददौ सन्तुष्टमानसः।।६२।।
सोऽपि लब्ध्वा वरान्दिव्यान्कुमारत्वं च सर्वदा।।
तस्माच्छिवाच्च तस्याश्च शिवाया मुदितोऽभवत् ।। ६३ ।।
ततः प्रसन्नचेतस्कः सुप्रणम्य कृताञ्जलिः ।।
ययाचे स वरं प्रीत्या देवदेवान्महे श्वरात् ।। ६४ ।।
उपमन्युरुवाच ।।
प्रसीद देवदेवेश प्रसीद परमेश्वर ।।
स्वभक्तिन्देहि परमां दिव्यामव्यभिचारिणीम् ।। ६५ ।।
श्रद्धान्देहि महादेव स्वसंबन्धिषु मे सदा।।
स्वदास्यं परमं स्नेहं स्वसान्निध्यं च सर्वदा ।।६६ ।।
नन्दीश्वर उवाच ।।
एवमुक्त्वा प्रसन्नात्मा हर्षगद्गदया गिरा ।।
तुष्टाव स महादेवमुपमन्युर्द्विजोत्तमः ।। ६७।।
एवमुक्तश्शिवस्तेन सर्वेषां शृण्वताम्प्रभुः ।।
प्रत्युवाच प्रसन्नात्मोपमन्युं सकलेश्वरः ।। ६८ ।।
शिव उवाच ।।
वत्सोपमन्यो धन्यस्त्वं मम भक्तो विशेषतः ।।
सर्वन्दत्तम्मया ते हि यद्वृ क्त्तम्भवतानघ ।।६९।।
अजरश्चामरश्च त्वं सर्वदा दुःखवर्जित।।
सर्वपूज्यो निर्विकारी भक्तानाम्प्रवरो भव ।।3.32.७०।।
अक्षया बान्धवाश्चैव कुलं गोत्रं च ते सदा ।।
भविष्यति द्विजश्रेष्ठ मयि भक्तिश्च शाश्वती ।।७१।।
सान्निध्यं चाश्रये नित्यं करिष्यामि मुने तव ।।
तिष्ठ वत्स यथा कामं नोत्कण्ठां च करिष्यसि ।। ७२ ।।
नन्दीश्वर उवाच ।।
एवमुक्त्वा स भगवांस्तस्मै दत्त्वा वरान्वरान् ।।
सांबश्च सगणस्सद्यस्तत्रैवान्तर्दधे प्रभुः ।।७३ ।।
उपमन्युः प्रसन्नात्मा प्राप्य शम्भोर्वरान्वरान् ।।
जगाम जननीस्थानं मात्रे सर्वम वर्णयत् ।। ।। ७४ ।।
तच्छ्रुत्वा तस्य जननी महाहर्षमवाप सा ।।
सर्वपूज्वोऽभवत्सोऽपि सुखं प्रापाधिकं सदा ।। ७५ ।।
इत्थन्ते वर्णितस्तात शिवस्य परमात्मनः ।।
सुरेश्वरावतारो हि सर्वदा सुखदः सताम् ।।७६।।
इदमाख्यानमनघं सर्वकामफलप्रदम् ।।
स्वर्ग्यं यशस्यमायुष्यं भुक्तिमुक्तिप्रदं सताम् ।।७७।।
य एतच्छृणुयाद्भक्त्या श्रावयेद्वा समाहितः ।।
इह सर्वसुखं भुक्त्वा सोऽन्ते शिवगतिं लभेत् ।। ७८ ।। ।।
इति श्रीशिवमहापुराणे तृतीयायां शतरुद्रसंहितायां सुरेश्वराख्यशिवावतारचरितवर्णनं नाम द्वात्रिंशो ध्यायः ।।३२।। (८३)