शिवपुराणम्/संहिता ३ (शतरुद्रसंहिता)/अध्यायः १६
← अध्यायः १५ | शिवपुराणम्/संहिता ३ (शतरुद्रसंहिता) अध्यायः १६ वेदव्यासः |
अध्यायः १७ → |
नन्दीश्वर उवाच ।।
यक्षेश्वरावतारं च शृणु शंभोर्मुनीश्वर ।।
गर्विणं गर्वहन्तारं सताम्भक्तिविवर्द्धनम् ।। १ ।।
पुरा देवाश्च दैत्याश्च पीयूषार्थम्महाबलाः ।।
क्षीरोदधिं ममन्थुस्ते सुकृत स्वार्थ सन्धयः ।। २ ।।
मथ्यमानेऽमृते पूर्वं क्षीराब्धेस्सुरदानवैः ।।
अग्नेः समुत्थितं तस्माद्विषं कालानलप्रभम् ।। ३ ।।
तं दृष्ट्वा निखिला देवा दैत्याश्च भयविह्वलाः ।।
विद्रुत्य तरसा तात शंभोस्ते शरणं ययुः ।। ४ ।।
दृष्ट्वा तं शंकरं सर्वे सर्वदेवशिखामणिम् ।।
प्रणम्य तुष्टुवुर्भक्त्या साच्युता नतमस्तकाः ।। ५ ।।
ततः प्रसन्नो भगवाच्छङ्करो भक्तवत्सलः ।।
पपौ विषं महाघोरं सुरासुरगणार्दनम् ।। ६ ।।
पतिं तं विषमं कण्ठे निदधे विषमुल्बणम् ।।
रेजेतेनाति स विभुर्नीलकण्ठो बभूव ह ।। ७ ।।
ततः सुरा सुरगणा ममन्थुः पुनरेव तम् ।।
विषदाहविनिर्मुक्ताः शिवानुग्रहतोऽखिलाः ।। ८ ।।
तातो बहूनि रत्नानि निस्सृतानि ततो मुने ।।
अमृतं च पदार्थं हि सुरदानवयोर्मुने ।। ९ ।।
तत्पपुः केवलन्देवा नासुराः कृपया हरेः ।।
ततो बभूव सुमहद्रत्नं तेषां मिथोऽकदम् ।। 3.16.१० ।।
द्वन्द्वयुद्धम्बभूवाथ देवदानवयोर्मुने ।।
तत्र राहुभयाच्चन्द्रो विदुद्राव तदर्दितः ।। ११ ।।
जगाम सदनं शंभोः शरणम्भय विह्वलः ।।
सुप्रणम्य च तुष्टाव पाहिपाहीति संवदन् ।। १२ ।।
ततस्सतामभयदः शंकरो भक्तवत्सलः ।।
दध्रे शिरसि चन्द्रं स विभुश्शरणमागतम् ।। १३ ।।
अथागतस्तदा राहुस्तुष्टाव सुप्रणम्य तम् ।।
शंकरं सकलाधीशं वाग्भिरिष्टाभिरादरात् ।। १४ ।।
शंभुस्तन्मतमाज्ञाय तच्छिरांस्यच्युतेन ह ।।
पुरा छिन्नानि वै केतुसंज्ञानि निदधे गले ।। १५।।
ततो युद्धेऽसुराः सर्वे देवैश्चैव पराजिताः ।।
पीत्वाऽमृतं सुरास्सर्व्वे जयम्प्रापुर्महाबलाः ।। १६।।
विष्णुप्रभृतयः सर्व्वे बभूवुश्चातिगर्विताः ।।
बलानि चांकुरंतोन्तश्शिवमायाविमोहिताः ।। १७।।
ततस्स शंकरो देवः सर्वाधीशोथ गर्वहा ।।
यक्षो भूत्वा जगामाशु यत्र देवाः स्थिता मुने ।। १८।।
सर्वान्दृष्ट्वाच्युतमुखान्देवान्यक्षपतिस्स वै ।।
महागर्वाढ्यमनसा महेशाः प्राह गर्वहा ।। १९।।
यक्षेश्वर उवाच ।।
किमर्थं संस्थिता यूयमत्र सर्वे सुरा मिथः ।।
किमु काष्ठाखिलम्ब्रूत कारणं मेनुपृच्छते ।।3.16.२०।।
देवा ऊचुः ।।
अभूदत्र महान्देव रणः परमदारुणः ।।
असुरा नाशितास्सर्वेऽवशिष्टा विद्रुता गताः ।।२१।।
वयं सर्वे महावीरा दैत्यघ्ना बलवत्तराः ।।
अग्रेस्माकं कियन्तस्ते दैत्य क्षुद्रबलास्सदा ।। २२ ।।
नन्दीश्वर उवाच ।।
इति श्रुत्वा वचस्तेषां सुराणां गर्वगर्भितम् ।।
गर्वहासौ महादेवो यक्षरूपो वचोऽब्रवीत् ।। २३ ।।
यक्षेश्वर उवाच ।।
हे सुरा निखिला यूयं मद्वचश्शृणुतादरात् ।।
यथार्थं वच्मि नासत्यं सर्वगर्वापहारकम् ।। २४ ।।
गर्व्वमेनं न कुरुत कर्त्ता हर्त्ताऽपरः प्रभुः ।।
विस्मृताश्च महेशानं कथयध्वम्वृथाबलाः ।। २५ ।।
युष्माकञ्चेत्स हि मदो जानतां स्वबलम्महत् ।।
मत्स्थापितं तृणमिदं छिन्त स्वास्त्रैश्च तैस्सुराः ।। २६ ।।
नन्दीश्वर उवाच ।।
इत्युक्त्वैकतृणन्तेषां निचिक्षेप पुरस्ततः ।।
जह्रे सर्वमदं यक्षरूप ईशस्सतांगतिः ।।२७।।
अथ सर्वे सुरा विष्णुप्रमुखा वीरमानिनः ।।
कृत्वा स्वपौरुषन्तत्र स्वायुधानि विचिक्षिपुः ।।२८।।
तत्रासन् विफलान्याशु तान्यस्त्राणि दिवौकसाम् ।।
शिवप्रभावतस्तेषां मूढगर्वापहारिणः ।। २९ ।।
अथासीत्तु नभोवाणी देवविस्मयहारिणी ।।
यक्षोऽयं शंकरो देवाः सर्वगर्वापहारकः ।।3.16.३०।।
कर्ता हर्त्ता तथा भर्त्ताऽयमेव परमेश्वरः ।।
एतद्बलेन वलिनो जीवाः सर्वेऽन्यथा न हि ।। ३१ ।।
अस्य मायाप्रभावाद्वै मोहिताः स्वप्रभुं शिवम् ।।
मदतो बुबुधु नैवाद्यापि बोधतनुम्प्रभुम् ।। ३२ ।।
नन्दीश्वर उवाच ।।
इति श्रुत्वा नभोवाणीं बुबुधुस्ते गतस्मयाः ।।
यक्षेश्वरम्प्रणेमुश्च तुष्टुवुश्च तमीश्वरम् ।। ३३ ।।
देवा ऊचुः ।।
देवदेव महादेव सर्वगर्वापहारक।।
यक्षेश्वरमहालील माया तेत्यद्भुता प्रभो।।३४।।
मोहिता माययाद्यापि तव यक्षस्वरूपिणः ।।
सगर्वमभिभाषन्तस्त्वत्पुरो हि पृथङ्मयाः।।३५।।
इदानीं ज्ञानमायातन्तवैव कृपया प्रभो।।
कर्ता हर्ता च भर्ता च त्वमेवान्यो न शंकर ।।३६।।
त्वमेव सर्वशक्तीनां सर्वेषां हि प्रवर्तकः ।।
निवर्तकश्च सर्वेशः परमात्माव्ययोऽद्वयः ।। ३७ ।।
यक्षेश्वरस्वरूपेण सर्वेषां नो मदो हृतः ।।
इतो मन्यामहे तत्तेनुग्रहो हि कृपालुना ।। ३८ ।।
अथो स यक्षनाथोऽनुगृह्य वै सकलान् सुरान् ।।
विबोध्य विविधैर्वाक्यैस्तत्रैवान्तरधीयत ।। ३९ ।।
इत्थं स वर्णितः शम्भोरवतारः सुखावहः ।।
यक्षेश्वराख्यस्सुखदस्सतान्तुष्टोऽभयंकरः ।। 3.16.४० ।।
इदमाख्यानममलं सर्वगर्वापहारकम् ।।
सतां सुशान्तिदन्नित्यं भुक्तिमुक्तिप्रदं नृणाम् ।। ४१ ।।
य इदं शृणुयाद्भक्त्या श्रावयेद्वा सुधीः पुमान् ।।
सर्वकामानवाप्नोति ततश्च लभते गतिम् ।।४२।।
इति श्रीशिवमहापुराणे तृतीयायां शतरुद्रसंहितायां यक्षेश्वरावतारवर्णनं नाम षोडशोध्यायः ।। १६।।