शिवपुराणम्/संहिता ३ (शतरुद्रसंहिता)/अध्यायः ०३

विकिस्रोतः तः
← अध्यायः ०२ शिवपुराणम्/संहिता ३ (शतरुद्रसंहिता)
अध्यायः ०३
वेदव्यासः
अध्यायः ०४ →

नन्दीश्वर उवाच
शृणु तात महाप्राज्ञ विधिकामप्रपूरकम् ।।
अर्द्धनारीनराख्यं हि शिवरूपमनुत्तमम् ।। १ ।।
यदा सृष्टाः प्रजा सर्वाः न व्यवर्द्धंत वेधसा ।।
तदा चिंताकुलोऽभूत्स तेन दुःखेन दुखितः ।। २ ।।
नभोवाणी तदाभूद्वै सृष्टिं मिथुनजां कुरु ।।
तच्छ्रुत्वा मैथुनीं सृष्टिं ब्रह्मा कर्तुममन्यत ।। ३ ।।
नारीणां कुलमीशानान्निर्गतं न पुरा यतः ।।
ततो मैथुनजां सृष्टिं कर्तुं शेके न पद्मभूः ।। ४ ।।
प्रभावेण विना शंभोर्न जायेरन्निमाः प्रजाः ।।
एवं संचिन्तयन्ब्रह्मा तपः कर्त्तुं प्रचक्रमे ।। ५ ।।
शिवया परया शक्त्या संयुक्तं परमेश्वरम् ।।
संचिंत्य हृदये प्रीत्या तेपे स परमं तपः।।६।।
तीव्रेण तपसा तस्य संयुक्तस्य स्वयंभुवः ।।
अचिरेणैव कालेन तुतोष स शिवो द्रुतम् ।।७।।
ततः पूर्णचिदीशस्य मूर्तिमाविश्य कामदाम्।।
अर्द्धनारीनरो भूत्वा ततो ब्रह्मान्तिकं हरः ।।८।।
तं दृष्ट्वा शंकरं देवं शक्त्या प्ररमयान्वितम् ।।
प्रणम्य दण्डवद्ब्रह्मा स तुष्टाव कृताञ्जलिः ।।९।।
अथ देवो महादेवो वाचा मेघगभीरया।।
संभवाय सुसंप्रीतो विश्वकर्त्ता महेश्वरः ।।3.3.१०।।
ईश्वर उवाच।।
वत्सवत्स महाभाग मम पुत्र पितामह ।।
ज्ञातवानस्मि सर्व तत्तत्त्वतस्ते मनोरथ।।११।।
प्रजानामेव वृद्ध्यर्थं तपस्तप्तं त्वयाधुना ।।
तपसा तेन तुष्टोऽस्मि ददामि च तवेप्सितम् ।।१२।।
इत्युक्त्वा परमोदारं स्वभावमधुरं वचः।।
पृथक्चकार वपुषो भागाद्देवीं शिवां शिवः ।।१३।।
तां दृष्ट्वा परमां शक्तिं पृथग्भूतां शिवागताम्।।
प्रणिपत्य विनीतात्मा प्रार्थयामास तां विधिः ।।१४।।
ब्रह्मोवाच ।।
देवदेवेन सृष्टोहमादौ त्वत्पतिना शिवे ।।
प्रजाः सर्वा नियुक्ताश्च शंभुना परमात्मना ।। १५ ।।
मनसा निर्मिताः सर्वे शिवे देवादयो मया ।।
न वृद्धिमुपगच्छंति सृज्यमानाः पुनःपुनः ।। १६ ।।
मिथुनप्रभवामेव कृत्वा सृष्टिमतः परम् ।।
संवर्द्धयितुमिच्छामि सर्वा एव मम प्रजाः ।। १७ ।।
न निर्गतं पुरा त्वत्तो नारीणां कुलमव्ययम् ।।
तेन नारीकुलं श्रेष्ठं मम शक्तिर्न विद्यते ।। १८ ।।
सर्वासामेव शक्तीनां त्वत्तः खलु समुद्भवः ।।
तस्मात्त्वं परमां शक्तिं प्रार्थयाम्यखिलेश्वरीम् ।। १९ ।।
शिवे नारीकुलं स्रष्टुं शक्तिं देहि नमोऽस्तु ते ।।
चराचरं जगद्विद्धि हेतोर्मातः शिवं प्रिये ।। 3.3.२० ।।
अन्यं त्वत्तः प्रार्थयामि वरं च वरदेश्वरि ।।
देहि मे तं कृपां कृत्वा जगन्मातर्नमोऽस्तु ते ।। २१ ।।
चराचरविवृद्ध्यर्थमीशेनैकेन सर्वगे ।।
दक्षस्य मम पुत्रस्य पुत्री भव भवाम्बिके ।। २२ ।।
एवं संयाचिता देवी ब्रह्मणा परमेश्वरी ।।
तथास्त्विति वचः प्रोच्य तच्छक्तिं विधये ददौ ।। २३ ।।
तस्माद्धि सा शिवा देवी शिवशक्तिर्जगन्मयी ।।
शक्तिमेकां भ्रुवोर्मध्यात्ससर्जात्मसमप्रभाम् ।। २४ ।।
तामाह प्रहसन्प्रेक्ष्य शक्तिं देववरो हरः ।।
कृपासिन्धुर्महेशानो लीलाकारी भवाम्बिकाम् ।। २५ ।।
शिव उवाच ।।
तपसाराधिता देवि ब्रह्मणा परमेष्ठिना ।।
प्रसन्ना भव सुप्रीत्या कुरु तस्याखिलेप्सितम् ।। २६ ।।
तामाज्ञां परमेशस्य शिरसा प्रतिगृह्य सा ।।
ब्रह्मणो वचनाद्देवी दक्षस्य दुहिताभवत् ।।२७।।
दत्त्वैवमतुलां शक्तिं ब्रह्मणो सा शिवा मुने ।।
विवेश देहं शंभोर्हि शंभुश्चान्तर्दधे प्रभुः ।। २८ ।।
तदाप्रभृति लोकेऽस्मिन्स्त्रिया भागः प्रकल्पितः ।।
आनन्दं प्राप स विधिः सृष्टिर्जाता च मैथुनी ।। २९ ।।
एतत्ते कथितं तात शिवरूपं महोत्तमम् ।।
अर्द्धनारीनरार्द्धं हि महामंगलदं सताम् ।।3.3.३०।।
एतदाख्यानमनघं यः पठ्च्छृणुयादपि ।।
स भुक्त्वा सकलान्भोगान्प्रयाति परमां गतिम् ।।३१।।
इति श्रीशिवमहापुराणे तृतीयायां रुद्रसंहितायां शिवस्यार्द्धनारीनरावतारवर्णनं नाम तृतीयोऽध्यायः ।। ३ ।।