शिवपुराणम्/संहिता २ (रुद्रसंहिता)/खण्डः ५ (युद्धखण्डः)/अध्यायः ५०

विकिस्रोतः तः
← अध्यायः ४९ शिवपुराणम्/संहिता २ (रुद्रसंहिता)/खण्डः ५ (युद्धखण्डः)
अध्यायः
वेदव्यासः
अध्यायः ५१ →

सनत्कुमार उवाच।।
शृणु व्यास यथा प्राप्ता मृत्युप्रशमनी परा ।।
विद्या काव्येन मुनिना शिवान्मृत्युञ्जयाभिधात् ।।१ ।।
पुरासौ भृगुदायादो गत्वा वाराणसीं पुरीम्।।
बहुकालं तपस्तेपे ध्यायन्विश्वेश्वरं प्रभुम्।।२।।
स्थापयामास तत्रैव लिंगं शंभोः परात्मनः ।।
कूपं चकार सद्रम्यं वेदव्यास तदग्रतः ।।३।।
पंचामृतैर्द्रोणमितैर्लक्षकृत्वः प्रयत्नतः ।।
स्नापयामास देवेशं सुगंधस्नपनैर्बहु।।४।।
सहस्रकृत्वो देवेशं चन्दनैर्यक्षकर्दमैः।।
समालिलिंप सुप्रीत्या सुगन्धोद्वर्त्तनान्यनु।।५।।
राजचंपकधत्तूरैः करवीरकुशेशयैः ।।
मालतीकर्णिकारैश्च कदंबैर्बकुलोत्पलैः ।।६।।
मल्लिकाशतपत्रीभिस्सिंधुवारैस्सकिंशुकः ।।
बन्धूकपुष्पैः पुन्नागैर्नागकेशरकेशरैः ।।७।।
नवमल्लीचिबिलिकैः कुंदैस्समुचुकुन्दकैः ।।
मन्दारैर्बिल्वपत्रैश्च द्रोणैर्मरुबकैर्वृकैः ।।
ग्रन्थिपर्णैर्दमनकैः सुरम्यैश्चूतपल्लवैः ।।८।।
तुलसीदेवगंधारीबृहत्पत्रीकुशांकुरैः ।।
नद्यावर्तैरगस्त्यैश्च सशालैर्देवदारुभिः ।। ९ ।।
कांचनारैः कुरबकैर्दूर्वांकुरकुरुंटकैः।।
प्रत्येकमेभिः कुसुमैः पल्लवैरपरैरपि ।। 2.5.50.१ ०।।
पत्रैः सहस्रपत्रैश्च रम्यैर्नानाविधैश्शुभैः ।।
सावधानेन सुप्रीत्या स समानर्च शंकरम् ।। ११ ।।
गीतनृत्योपहारैश्च संस्तुतः स्तुतिभिर्बहु ।।
नाम्नां सहस्रैरन्यैश्च स्तोत्रैस्तुष्टाव शंकरम् ।। १२।।
सहस्रं पञ्चशरदामित्थं शुक्रो महेश्वरम्।।
नानाप्रकारविधिना महेशं स समर्चयत् ।। १ ३।।
यदा देवं नानुलोके मनागपि वरोन्मुखम् ।।
तदान्यं नियमं घोरं जग्राहातीव दुस्सहम् ।।१४।।
प्रक्षाल्य चेतसोऽत्यंतं चांचल्याख्यं महामलम् ।।
भावनावार्भिरसकृदिंद्रियैस्सहितस्य च ।।१५।।
निर्मलीकृत्य तच्चेतो रत्नं दत्त्वा पिनाकिने ।।
प्रययौ कणधूमौघं सहस्रं शरदां कविः ।।१६।।
काव्यमित्थं तपो घोरं कुर्वन्तं दृढमानसम् ।।
प्रससाद स तं वीक्ष्य भार्गवाय महेश्वरः ।।१७।।
तस्माल्लिंगाद्विनिर्गत्य सहस्रार्काधिकद्युतिः ।।
उवाच तं विरूपाक्षस्साक्षाद्दाक्षायणीपतिः ।।१८।।
महेश्वर उवाच ।।
तपोनिधे महाभाग भृगुपुत्र महामुने ।।
तपसानेन ते नित्यं प्रसन्नोऽहं विशेषतः ।। १९ ।।
मनोभिलषितं सर्वं वरं वरय भार्गव ।।
प्रीत्या दास्येऽखिलान्कामान्नादेयं विद्यते तव ।। 2.5.50.२० ।।
सनत्कुमार उवाच ।।
निशम्येति वचश्शंभोर्महासुखकरं वरम् ।।
स बभूव कविस्तुष्टो निमग्नस्सुखवारिधौ ।। २१ ।।
उद्यदानंदसंदोह रोमांचाचितविग्रहः ।।
प्रणनाम मुदा शंभुमंभो जनयनो द्विजः ।।२२।।
तुष्टावाष्टतनुं तुष्टः प्रफुल्लनयनाचलः।।
मौलावंजलिमाधाय वदञ्जयजयेति च ।। २३।।
भार्गव उवाच ।।
त्वं भाभिराभिरभिभूय तमस्समस्तमस्तं नयस्यभिमतानि निशाचराणाम्।।
देदीप्यसे दिवमणे गगने हिताय लोकत्रयस्य जगदीश्वर तन्नमस्ते ।। २४ ।।
लोकेऽतिवेलमतिवेलमहामहोभिर्निर्भासि कौ च गगनेऽखिललोकनेत्रः ।।
विद्राविताखिलतमास्सुतमो हिमांशो पीयूष पूरपरिपूरितः तन्नमस्ते ।। २५ ।।
त्वं पावने पथि सदागतिरप्युपास्यः कस्त्वां विना भुवनजीवन जीवतीह ।।
स्तब्धप्रभंजनविवर्द्धि तसर्वजंतोः संतोषिता हि कुलसर्वगः वै नमस्ते ।।२६।।
विश्वेकपावक न तावकपावकैकशक्तेर्ऋते मृतवतामृतदिव्यकार्यम् ।।
प्राणिष्यदो जगदहो जगदंतरात्मंस्त्वं पावकः प्रतिपदं शमदो नमस्ते।।२७।।
पानीयरूप परमेश जगत्पवित्र चित्रविचित्रसुचरित्रकरोऽसि नूनम्।।
विश्वं पवित्रममलं किल विश्वनाथ पानीयगाहनत एतदतो नतोऽस्मि।।२८।।
आकाशरूपबहिरंतरुतावकाशदानाद्विकस्वरमिहेश्वर विश्वमेतत् ।।
त्वत्तस्सदा सदय संश्वसिति स्वभावात्संकोचमेति भक्तोऽस्मि नतस्ततस्त्वाम्।।२९।।
विश्वंभरात्मक बिभर्षि विभोत्र विश्वं को विश्वनाथ भवतोऽन्यतमस्तमोरिः ।।
स त्वं विनाशय तमो तम चाहिभूषस्तव्यात्परः परपरं प्रणतस्ततस्त्वाम् ।।2.5.50.३०।।
आत्मस्वरूप तव रूपपरंपराभिराभिस्ततं हर चराचररूपमेतत्।।
सर्वांतरात्मनिलयप्रतिरूपरूप नित्यं नतोऽस्मि परमात्मजनोऽष्टमूर्ते।।३१।।
इत्यष्टमूर्तिभिरिमाभिरबंधबंधो युक्तौ करोषि खलु विश्वजनीनमूर्त्ते।।
एतत्ततं सुविततं प्रणतप्रणीत सर्वार्थसार्थपरमार्थ ततो नतोऽस्मि ।।३२।।
सनत्कुमार उवाच ।।
अष्टमूर्त्यष्टकेनेत्थं परिष्टुत्येति भार्गवः ।।
भर्गं भूमिमिलन्मौलिः प्रणनाम पुनःपुनः ।। ३३ ।।
इति स्तुतो महादेवो भार्गवेणातितेजसा ।।
उत्थाय भूमेर्बाहुभ्यां धृत्वा तं प्रणतं द्विजम्।।३४।।
उवाच श्लक्ष्णया वाचा मेघनादगभीरया ।।
सुप्रीत्या दशनज्योत्स्ना प्रद्योतितदिंगतरः ।।३५।।
महादेव उवाच ।।
विप्रवर्य कवे तात मम भक्तोऽसि पावनः ।।
अनेनात्युग्रतपसा स्वजन्याचरितेन च ।। ३६ ।।
लिंगस्थापनपुण्येन लिंगस्याराधनेन च ।।
दत्तचित्तोपहारेण शुचिना निश्चलेन च ।। ३७ ।।
अविमुक्तमहाक्षेत्रपवित्राचरणेन च ।।
त्वां सुताभ्यां प्रपश्यामि तवादेयं न किंचन ।।३८।।
अनेनैव शरीरेण ममोदरदरीगतः ।।
मद्वरेन्द्रियमार्गेण पुत्रजन्मत्वमेष्यसि ।। ३९ ।।
यच्छाम्यहं वरं तेऽद्य दुष्प्राप्यं पार्षदैरपि ।।
हरेर्हिरण्यगर्भाच्च प्रायशोहं जुगोप यम् ।।।2.5.50.४० ।।
मृतसंजीवनी नाम विद्या या मम निर्मला ।।
तपोबलेन महता मयैव परिनिर्मिता ।।४ १ ।।
त्वां तां तु प्रापयाम्यद्य मंत्ररूपां महाशुचे।।
योग्यता तेऽस्ति विद्यायास्तस्याश्शुचि तपोनिधे ।। ४२ ।।
यंयमुद्दिश्य नियतमेतामावर्तयिष्यसि ।।
विद्यां विद्येश्वरश्रेष्ठं सत्यं प्राणि ष्यति धुवम् ।। ४३ ।।
अत्यर्कमत्यग्निं च ते तेजो व्योम्नि च तारकम् ।।
देदीप्यमानं भविता ग्रहाणां प्रवरो भव ।। ४४ ।।
अपि च त्वां करिष्यंति यात्रां नार्यो नरोऽपि वा ।।
तेषां त्वद्दृष्टिपातेन सर्वकार्यं प्रणश्यति ।। ४९ ।।
तवोदये भविष्यंति विवाहादीनि सुव्रत ।।
सर्वाणि धर्मकार्याणि फलवंति नृणामिह ।। ४६ ।।
सर्वाश्च तिथयो नन्दास्तव संयोगतश्शुभाः ।।
तव भक्ता भविष्यंति बहुशुक्रा बहु प्रजाः ।।४७।।
त्वयेदं स्थापितं लिंगं शुक्रेशमिति संज्ञितम् ।।
येऽर्चयिष्यंति भनुजास्तेषां सिद्धिर्भविष्यति ।।४८।।
आवर्षं प्रतिघस्रां ये नक्तव्रतपरायणाः ।।
त्वद्दिने शुक्रकूपे ये कृतसर्वोदकक्रियाः ।।४९।।
शुक्रेशमर्चयिष्यंति शृणु तेषां तु यत्फलम् ।।
अबंध्यशुक्रास्ते मर्त्याः पुत्रवंतोऽतिरेतसः ।। 2.5.50.५० ।।
पुंस्त्वसौभाग्यसंपन्ना भविष्यंति न संशयः ।।
उपेतविद्यास्ते सर्वे जनास्स्युः सुखभागिनः ।।५१।।
इति दत्त्वा वरान्देवस्तत्र लिंगे लयं ययौ ।।
भार्गवोऽपि निजं धाम प्राप संतुष्टमानसः ।। ५२।।
इति ते कथितं व्यास यथा प्राप्ता तपोबलात् ।।
मृत्युंजयाभिधा विद्या किमन्यच्छ्रोतुमिच्छसि ।। ५३ ।।
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखंडे मृतसंजीविनीविद्याप्राप्तिवर्णनं नाम पञ्चाशत्तमोऽध्यायः ।। ५० ।।